सत्यवेदः।

Holy Bible in Sanskrit
(Devanagari script)





॥ सत्यत्वं ज्ञा। सत्यत्वां मोक्षष्यसि ॥
You shall know the Truth; The Truth shall set you Free.
www.SanskritBible.in

How to use the e-book Sanskrit Bible

Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available in 22 different scripts of your choice. This edition is in Devanagari script and is based on the Sanskrit translation of the Holy Bible published by Calcutta Baptist Missionaries in 1851. Please visit SanskritBible.in to learn more about Sanskrit Bible and to download various free Christian literature.

NAVIGATION

Use the Main Index to navigate to a specific book. The first page of each book is a list of links to the chapters of that particular book. Click on the desired Chapter number (eg: 03) to go to that specific chapter.

To go back: Clicking on the Chapter name (eg: John 03) will take you back by one level (i.e. to the first page of that book with a list of links to its chapters). Further clicking on the Book name in this page (eg: John) will take you back to the Main Index.

If you are using an eBook reader, the hyperlinks to the books are provided as the ‘Table of Contents’.

COPY RIGHT /LEFT

Freely you have received; freely give. (Matthew 10:8)
Creative Commons License
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

Complied & Published by: SanskritBible.in

SanskritBible.in is a not-for-profit ministry that is primarily involved with the digital encoding and revision of Holy Bible in Sanskrit language. For feedbacks and clarifications, write to us at sanskritbible.in@gmail.com


॥ God Bless ॥

सूचिपत्रः

नूतननियमः
| मथिलिखितः सुसंवादः | मार्कलिखितः सुसंवादः | लूकलिखितः सुसंवादः | योहनलिखितः सुसंवादः | प्रेरितानां कर्म्मणामाख्यानं | रोमिणः पत्रं | १ करिन्थिनः पत्रं | २ करिन्थिनः पत्रं | गालातिनः पत्रं | इफिषिणः पत्रं | फिलिपिनः पत्रं | कलसिनः पत्रं | १ थिषलनीकिनः पत्रं | २ थिषलनीकिनः पत्रं | १ तीमथियं पत्रं | २ तीमथियं पत्रं | तीतं पत्रं | फिलोमोनं पत्रं | इब्रिणः पत्रं | याकूबः पत्रं | १ पितरस्य पत्रं | २ पितरस्य पत्रं | १ योहनः पत्रं | २ योहनः पत्रं | ३ योहनः पत्रं | यिहूदाः पत्रं | प्रकाशितं भविष्यद्वाक्यं |


मथिलिखितः सुसंवादः
01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28


मथिलिखितः सुसंवादः 01

1 इब्राहीमः सन्तानो दायूद् तस्य सन्तानो यीशुख्रीष्टस्तस्य पूर्व्वपुरुषवंशश्रेणी।
2 इब्राहीमः पुत्र इस्हाक् तस्य पुत्रो याकूब् तस्य पुत्रो यिहूदास्तस्य भ्रातरश्च।
3 तस्माद् यिहूदातस्तामरो गर्भे पेरस्सेरहौ जज्ञाते, तस्य पेरसः पुत्रो हिष्रोण् तस्य पुत्रो ऽराम्।
4 तस्य पुत्रो ऽम्मीनादब् तस्य पुत्रो नहशोन् तस्य पुत्रः सल्मोन्।
5 तस्माद् राहबो गर्भे बोयम् जज्ञे, तस्माद् रूतो गर्भे ओबेद् जज्ञे, तस्य पुत्रो यिशयः।
6 तस्य पुत्रो दायूद् राजः तस्माद् मृतोरियस्य जायायां सुलेमान् जज्ञे।
7 तस्य पुत्रो रिहबियाम्, तस्य पुत्रोऽबियः, तस्य पुत्र आसा:।
8 तस्य सुतो यिहोशाफट् तस्य सुतो यिहोराम तस्य सुत उषियः।
9 तस्य सुतो योथम् तस्य सुत आहम् तस्य सुतो हिष्कियः।
10 तस्य सुतो मिनशिः, तस्य सुत आमोन् तस्य सुतो योशियः।
11 बाबिल्नगरे प्रवसनात् पूर्व्वं स योशियो यिखनियं तस्य भ्रातृंश्च जनयामास।
12 ततो बाबिलि प्रवसनकाले यिखनियः शल्तीयेलं जनयामास, तस्य सुतः सिरुब्बाविल्।
13 तस्य सुतो ऽबोहुद् तस्य सुत इलीयाकीम् तस्य सुतोऽसोर्।
14 असोरः सुतः सादोक् तस्य सुत आखीम् तस्य सुत इलीहूद्।
15 तस्य सुत इलियासर् तस्य सुतो मत्तन्।
16 तस्य सुतो याकूब् तस्य सुतो यूषफ् तस्य जाया मरियम्; तस्य गर्भे यीशुरजनि, तमेव ख्रीष्टम् (अर्थाद् अभिषिक्तं) वदन्ति।
17 इत्थम् इब्राहीमो दायूदं यावत् साकल्येन चतुर्दशपुरुषाः; आ दायूदः कालाद् बाबिलि प्रवसनकालं यावत् चतुर्दशपुरुषा भवन्ति। बाबिलि प्रवासनकालात् ख्रीष्टस्य कालं यावत् चतुर्दशपुरुषा भवन्ति।
18 यीशुख्रीष्टस्य जन्म कथ्थते। मरियम् नामिका कन्या यूषफे वाग्दत्तासीत्, तदा तयोः सङ्गमात् प्राक् सा कन्या  पवित्रेणात्मना गर्भवती बभूव।
19 तत्र तस्याः पति र्यूषफ् सौजन्यात् तस्याः कलङ्गं प्रकाशयितुम् अनिच्छन् गोपनेने तां पारित्यक्तुं मनश्चक्रे।
20 स तथैव भावयति, तदानीं परमेश्वरस्य दूतः स्वप्ने तं दर्शनं दत्त्वा व्याजहार, हे दायूदः सन्तान यूषफ् त्वं निजां जायां मरियमम् आदातुं मा भैषीः।
21 यतस्तस्या गर्भः पवित्रादात्मनोऽभवत्, सा च पुत्रं प्रसविष्यते, तदा त्वं तस्य नाम यीशुम् (अर्थात् त्रातारं) करीष्यसे, यस्मात् स निजमनुजान् तेषां कलुषेभ्य उद्धरिष्यति।
22 इत्थं सति, पश्य गर्भवती कन्या तनयं प्रसविष्यते। इम्मानूयेल् तदीयञ्च नामधेयं भविष्यति॥ इम्मानूयेल् अस्माकं सङ्गीश्वरइत्यर्थः।
23 इति यद् वचनं पुर्व्वं भविष्यद्वक्त्रा ईश्वरः कथायामास, तत् तदानीं सिद्धमभवत्।
24 अनन्तरं यूषफ् निद्रातो जागरित उत्थाय परमेश्वरीयदूतस्य निदेशानुसारेण निजां जायां जग्राह,
25 किन्तु यावत् सा निजं प्रथमसुतं अ सुषुवे, तावत् तां नोपागच्छत्, ततः सुतस्य नाम यीशुं चक्रे।

मथिलिखितः सुसंवादः 02

1 अनन्तरं हेरोद् संज्ञके राज्ञि राज्यं शासति यिहूदीयदेशस्य बैत्लेहमि नगरे यीशौ जातवति च, कतिपया ज्योतिर्व्वुदः पूर्व्वस्या दिशो यिरूशालम्नगरं समेत्य कथयमासुः,
2 यो यिहूदीयानां राजा जातवान्, स कुत्रास्ते? वयं पूर्व्वस्यां दिशि तिष्ठन्तस्तदीयां तारकाम् अपश्याम तस्मात् तं प्रणन्तुम् अागमाम।
3 तदा हेरोद् राजा कथामेतां निशम्य यिरूशालम्नगरस्थितैः सर्व्वमानवैः सार्द्धम् उद्विज्य
4 सर्व्वान् प्रधानयाजकान् अध्यापकांश्च समाहूयानीय पप्रच्छ, ख्रीष्टः कुत्र जनिष्यते?
5 तदा ते कथयामासुः, यिहूदीयदेशस्य बैत्लेहमि नगरे, यतो भविष्यद्वादिना इत्थं लिखितमास्ते,
6 सर्व्वाभ्यो राजधानीभ्यो यिहूदीयस्य नीवृतः। हे यीहूदीयदेशस्ये बैत्लेहम् त्वं न चावरा। इस्रायेलीयलोकान् मे यतो यः पालयिष्यति। तादृगेको महाराजस्त्वन्मध्य उद्भविष्यती॥
7 तदानीं हेरोद् राजा तान् ज्योतिर्व्विदो गोपनम् आहूय सा तारका कदा दृष्टाभवत् , तद् विनिश्चयामास।
8 अपरं तान् बैत्लेहमं प्रहीत्य गदितवान्, यूयं यात, यत्नात् तं शिशुम् अन्विष्य तदुद्देशे प्राप्ते मह्यं वार्त्तां दास्यथ, ततो मयापि गत्वा स प्रणंस्यते।
9 तदानीं राज्ञ एतादृशीम् आज्ञां प्राप्य ते प्रतस्थिरे, ततः पूर्व्वर्स्यां दिशि स्थितैस्तै र्या तारका दृष्टा सा तारका तेषामग्रे गत्वा यत्र स्थाने शिशूरास्ते, तस्य स्थानस्योपरि स्थगिता तस्यौ।
10 तद् दृष्ट्वा ते महानन्दिता बभूवुः,
11 ततो गेहमध्य प्रविश्य तस्य मात्रा मरियमा साद्धं तं शिशुं निरीक्षय दण्डवद् भूत्वा प्रणेमुः, अपरं स्वेषां घनसम्पत्तिं मोचयित्वा सुवर्णं कुन्दुरुं गन्धरमञ्च तस्मै दर्शनीयं दत्तवन्तः।
12 पश्चाद् हेरोद् राजस्य समीपं पुनरपि गन्तुं स्वप्न ईश्वरेण निषिद्धाः सन्तो ऽन्येन पथा ते निजदेशं प्रति प्रतस्थिरे।
13 अनन्तरं तेषु गतवत्मु परमेश्वरस्य दूतो यूषफे स्वप्ने दर्शनं दत्वा जगाद, त्वम् उत्थाय शिशुं तन्मातरञ्च गृहीत्वा मिसर्देशं पलायस्व, अपरं यावदहं तुभ्यं वार्त्तां न कथयिष्यामि, तावत् तत्रैव निवस, यतो राजा हेरोद् शिशुं नाशयितुं मृगयिष्यते।
14 तदानीं यूषफ् उत्थाय रजन्यां शिशुं तन्मातरञ्च गृहीत्वा मिसर्देशं प्रति प्रतस्थे,
15 गत्वा च हेरोदो नृपते र्मरणपर्य्यन्तं तत्र देशे न्युवास, तेन मिसर्देशादहं पुत्रं स्वकीयं समुपाहूयम्। यदेतद्वचनम् ईश्वरेण भविष्यद्वादिना कथितं तत् सफलमभूत्।
16 अनन्तरं हेरोद् ज्योतिर्विद्भिरात्मानं प्रवञ्चितं विज्ञाय भृशं चुकोप; अपरं ज्योतिर्व्विद्भ्यस्तेन विनिश्चितं यद् दिनं तद्दिनाद् गणयित्वा द्वितीयवत्सरं प्रविष्टा यावन्तो बालका अस्मिन् बैत्लेहम्नगरे तत्सीममध्ये चासन्, लोकान् प्रहित्य तान् सर्व्वान् घातयामास।
17 अतः अनेकस्य विलापस्य निनाद: क्रन्दनस्य च। शोकेन कृतशब्दश्च रामायां संनिशम्यते। स्वबालगणहेतोर्वै राहेल् नारी तु रोदिनी। न मन्यते प्रबोधन्तु यतस्ते नैव मन्ति हि॥
18 यदेतद् वचनं यिरीमियनामकभविष्यद्वादिना कथितं तत् तदानीं सफलम् अभूत्।
19 तदनन्तरं हेरेदि राजनि मृते परमेश्वरस्य दूतो मिसर्देशे स्वप्ने दर्शनं दत्त्वा यूषफे कथितवान्
20 त्वम् उत्थाय शिशुं तन्मातरञ्च गृहीत्वा पुनरपीस्रायेलो देशं याही, ये जनाः शिशुं नाशयितुम् अमृगयन्त, ते मृतवन्तः।
21 तदानीं स उत्थाय शिशुं तन्मातरञ्च गृह्लन् इस्रायेल्देशम् आजगाम।
22 किन्तु यिहूदीयदेशे अर्खिलायनाम राजकुमारो निजपितु र्हेरोदः पदं प्राप्य राजत्वं करोतीति निशम्य तत् स्थानं यातुं शङ्कितवान्, पश्चात् स्वप्न ईश्वरात् प्रबोधं प्राप्य गालील्देशस्य प्रदेशैकं प्रस्थाय नासरन्नाम नगरं गत्वा तत्र न्युषितवान्,
23 तेन तं नासरतीयं कथयिष्यन्ति, यदेतद्वाक्यं भविष्यद्वादिभिरुक्त्तं तत् सफलमभवत्।

मथिलिखितः सुसंवादः 03

1 तदानों योह्न्नामा मज्जयिता यिहूदीयदेशस्य प्रान्तरम् उपस्थाय प्रचारयन् कथयामास,
2 मनांसि परावर्त्तयत, स्वर्गीयराजत्वं समीपमागतम्।
3 परमेशस्य पन्थानं परिष्कुरुत सर्व्वतः। तस्य राजपथांश्चैव समीकुरुत सर्व्वथा। इत्येतत् प्रान्तरे वाक्यं वदतः कस्यचिद् रवः॥
4 एतद्वचनं यिशयियभविष्यद्वादिना योहनमुद्दिश्य भाषितम्। योहनो वसनं महाङ्गरोमजं तस्य कटौ चर्म्मकटिबन्धनं; स च शूककीटान् मधु च भुक्तवान्।
5 तदानीं यिरूशालम्नगरनिवासिनः सर्व्वे यिहूदिदेशीया यर्द्दन्तटिन्या उभयतटस्थाश्च मानवा बहिरागत्य तस्य समीपे
6 स्वीयं स्वीयं दुरितम् अङ्गीकृत्य तस्यां यर्द्दनि तेन मज्जिता बभूवुः।
7 अपरं बहून् फिरूशिनः सिदूकिनश्च मनुजान् मंक्तुं स्वसमीपम् आगच्छ्तो विलोक्य स तान् अभिदधौ, रे रे भुजगवंशा आगामीनः कोपात् पलायितुं युष्मान् कश्चेतितवान्?
8 मनःपरावर्त्तनस्य समुचितं फलं फलत।
9 किन्त्वस्माकं तात इब्राहीम् अस्तीति स्वेषु मनःसु चीन्तयन्तो मा व्याहरत। यतो युष्मान् अहं वदामि, ईश्वर एतेभ्यः पाषाणेभ्य इब्राहीमः सन्तानान् उत्पादयितुं शक्नोति।
10 अपरं पादपानां मूले कुठार इदानीमपि लगन् आस्ते, तस्माद् यस्मिन् पादपे उत्तमं फलं न भवति, स कृत्तो मध्येऽग्निं निक्षेप्स्यते।
11 अपरम् अहं मनःपरावर्त्तनसूचकेन मज्जनेन युष्मान् मज्जयामीति सत्यं, किन्तु मम पश्चाद् य आगच्छति, स मत्तोपि महान्, अहं तदीयोपानहौ वोढुमपि नहि योग्योस्मि, स युष्मान् वह्निरूपे पवित्र आत्मनि संमज्जयिष्यति।
12 तस्य कारे सूर्प आस्ते, स स्वीयशस्यानि सम्यक् प्रस्फोट्य निजान् सकलगोधूमान् संगृह्य भाण्डागारे स्थापयिष्यति, किंन्तु सर्व्वाणि वुषाण्यनिर्व्वाणवह्निना दाहयिष्यति।
13 अनन्तरं यीशु र्योहना मज्जितो भवितुं गालील्प्रदेशाद् यर्द्दनि तस्य समीपम् आजगाम।
14 किन्तु योहन् तं निषिध्य बभाषे, त्वं किं मम समीपम् आगच्छसि? वरं त्वया मज्जनं मम प्रयोजनम् आस्ते।
15 तदानीं यीशुः प्रत्यवोचत्; ईदानीम् अनुमन्यस्व, यत इत्थं सर्व्वधर्म्मसाधनम् अस्माकं कर्त्तव्यं, ततः सोऽन्वमन्यत।
16 अनन्तरं यीशुरम्मसि मज्जितुः सन् तत्क्षणात् तोयमध्याद् उत्थाय जगाम, तदा जीमूतद्वारे मुक्ते जाते, स ईश्वरस्यात्मानं कपोतवद् अवरुह्य स्वोपर्य्यागच्छन्तं वीक्षाञ्चक्रे।
17 अपरम् एष मम प्रियः पुत्र एतस्मिन्नेव मम महासन्तोष एतादृशी व्योमजा वाग् बभूव।

मथिलिखितः सुसंवादः 04

1 ततः परं यीशुः प्रतारकेण परीक्षितो भवितुम् आत्मना प्रान्तरम् आकृष्टः
2 सन् चत्वारिंशदहोरात्रान् अनाहारस्तिष्ठन् क्षुधितो बभूव।
3 तदानीं परीक्षिता तत्समीपम् आगत्य व्याहृतवान्, यदि त्वमीश्वरात्मजो भवेस्तर्ह्याज्ञया पाषाणानेतान् पूपान् विधेहि।
4 ततः स प्रत्यब्रवीत्, इत्थं लिखितमास्ते, "मनुजः केवलपूपेन न जीविष्यति, किन्त्वीश्वरस्य वदनाद् यानि यानि वचांसि निःसरन्ति तैरेव जीविष्यति। "
5 तदा प्रतारकस्तं पुण्यनगरं नीत्वा मन्दिरस्य चूडोपरि निधाय गदितवान्,
6 त्वं यदिश्वरस्य तनयो भवेस्तर्हीतोऽधः पत, यत इत्थं लिखितमास्ते, आदेक्ष्यति निजान् दूतान् रक्षितुं त्वां परमेश्वरः। यथा सर्व्वेषु मार्गेषु त्वदीयचरणद्वये। न लगेत् प्रस्तराघातस्त्वां घरिष्यन्ति ते करैः॥
7 तदानीं यीशुस्तस्मै कथितवान् एतदपि लिखितमास्ते, "त्वं निजप्रभुं परमेश्वरं मा परीक्षस्व। "
8 अनन्तरं प्रतारकः पुनरपि तम् अत्युञ्चधराधरोपरि नीत्वा जगतः सकलराज्यानि तदैश्वर्य्याणि च दर्शयाश्चकार कथयाञ्चकार च,
9 यदि त्वं दण्डवद् भवन् मां प्रणमेस्तर्ह्यहम् एतानि तुभ्यं प्रदास्यामि।
10 तदानीं यीशुस्तमवोचत्, दूरीभव प्रतारक, लिखितमिदम् आस्ते, "त्वया निजः प्रभुः परमेश्वरः प्रणम्यः केवलः स सेव्यश्च। "
11 ततः प्रतारकेण स पर्य्यत्याजि, तदा स्वर्गीयदूतैरागत्य स सिषेवे।
12 तदनन्तरं योहन् कारायां बबन्धे, तद्वार्त्तां निशम्य यीशुना गालील् प्रास्थीयत।
13 ततः परं स नासरन्नगरं विहाय जलघेस्तटे सिबूलून्नप्ताली एतयोरुवभयोः प्रदेशयोः सीम्नोर्मध्यवर्त्ती य: कफर्नाहूम् तन्नगरम् इत्वा न्यवसत्।
14 तस्मात्, अन्यादेशीयगालीलि यर्द्दन्पारेऽब्धिरोधसि। नप्तालिसिबूलून्देशौ यत्र स्थाने स्थितौ पुरा।
15 तत्रत्या मनुजा ये ये पर्य्यभ्राम्यन् तमिस्रके। तैर्जनैर्बृहदालोकः परिदर्शिष्यते तदा। अवसन् ये जना देशे मृत्युच्छायास्वरूपके। तेषामुपरि लोकानामालोकः संप्रकाशितः॥
16 यदेतद्वचनं यिशयियभविष्यद्वादिना प्रोक्तं, तत् तदा सफलम् अभूत्।
17 अनन्तरं यीशुः सुसंवादं प्रचारयन् एतां कथां कथयितुम् आरेभे, मनांसि परावर्त्तयत, स्वर्गीयराजत्वं सविधमभवत्।
18 ततः परं यीशु र्गालीलो जलधेस्तटेन गच्छन् गच्छन् आन्द्रियस्तस्य भ्राता शिमोन् अर्थतो यं पितरं वदन्ति एतावुभौ जलघौ जालं क्षिपन्तौ ददर्श, यतस्तौ मीनधारिणावास्ताम्।
19 तदा स तावाहूय व्याजहार, युवां मम पश्चाद् आगच्छतं, युवामहं मनुजधारिणौ करिष्यामि।
20 तेनैव तौ जालं विहाय तस्य पश्चात् आगच्छताम्।
21 अनन्तरं तस्मात् स्थानात् व्रजन् व्रजन् सिवदियस्य सुतौ याकूब् योहन्नामानौ द्वौ सहजौ तातेन सार्द्धं नौकोपरि जालस्य जीर्णोद्धारं कुर्व्वन्तौ वीक्ष्य तावाहूतवान्।
22 तत्क्षणात् तौ नावं स्वतातञ्च विहाय तस्य पश्चाद्गामिनौ बभूवतुः।
23 अनन्तरं भजनभवने समुपदिशन् राज्यस्य सुसंवादं प्रचारयन् मनुजानां सर्व्वप्रकारान् रोगान् सर्व्वप्रकारपीडाश्च शमयन् यीशुः कृत्स्नं गालील्देशं भ्रमितुम् आरभत।
24 तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।
25 एतेन गालील्-दिकापनि-यिरूशालम्-यिहूदीयदेशेभ्यो यर्द्दनः पाराञ्च बहवो मनुजास्तस्य पश्चाद् आगच्छन्।

मथिलिखितः सुसंवादः 05

1 अनन्तरं स जननिवहं निरीक्ष्य भूधरोपरि व्रजित्वा समुपविवेश।
2 तदानीं शिष्येषु तस्य समीपमागतेषु तेन तेभ्य एषा कथा कथ्याञ्चक्रे।
3 अभिमानहीना जना धन्याः, यतस्ते स्वर्गीयराज्यम् अधिकरिष्यन्ति।
4 खिद्यमाना मनुजा धन्याः, यस्मात् ते सान्त्वनां प्राप्सन्ति।
5 नम्रा मानवाश्च धन्याः, यस्मात् ते मेदिनीम् अधिकरिष्यन्ति।
6 धर्म्माय बुभुक्षिताः तृषार्त्ताश्च मनुजा धन्याः, यस्मात् ते परितर्प्स्यन्ति।
7 कृपालवो मानवा धन्याः, यस्मात् ते कृपां प्राप्स्यन्ति।
8 निर्म्मलहृदया मनुजाश्च धन्याः, यस्मात् त ईश्चरं द्रक्ष्यन्ति।
9 मेलयितारो मानवा धन्याः, यस्मात् त ईश्चरस्य सन्तानत्वेन विख्यास्यन्ति।
10 धर्म्मकारणात् ताडिता मनुजा धन्या, यस्मात् स्वर्गीयराज्ये तेषामधिकरो विद्यते।
11 यदा मनुजा मम नामकृते युष्मान् निन्दन्ति ताडयन्ति मृषा नानादुर्व्वाक्यानि वदन्ति च, तदा युयं धन्याः।
12 तदा आनन्दत, तथा भृशं ह्लादध्वञ्च, यतः स्वर्गे भूयांसि फलानि लप्स्यध्वे; ते युष्माकं पुरातनान् भविष्यद्वादिनोऽपि तादृग् अताडयन्।
13 युयं मेदिन्यां लवणरूपाः, किन्तु यदि लवणस्य लवणत्वम् अपयाति, तर्हि तत् केन प्रकारेण स्वादुयुक्तं भविष्यति? तत् कस्यापि कार्य्यस्यायोग्यत्वात् केवलं बहिः प्रक्षेप्तुं नराणां पदतलेन दलयितुञ्च योग्यं भवति।
14 यूयं जगति दीप्तिरूपाः, भूधरोपरि स्थितं नगरं गुप्तं भवितुं नहि शक्ष्यति।
15 अपरं मनुजाः प्रदीपान् प्रज्वाल्य द्रोणाधो न स्थापयन्ति, किन्तु दीपाधारोपर्य्येव स्थापयन्ति, तेन ते दीपा गेहस्थितान् सकलान् प्रकाशयन्ति।
16 येन मानवा युष्माकं सत्कर्म्माणि विलोक्य युष्माकं स्वर्गस्थं पितरं धन्यं वदन्ति, तेषां समक्षं युष्माकं दीप्तिस्तादृक् प्रकाशताम्।
17 अहं व्यवस्थां भविष्यद्वाक्यञ्च लोप्तुम् आगतवान्, इत्थं मानुभवत, ते द्वे लोप्तुं नागतवान्, किन्तु सफले कर्त्तुम् आगतोस्मि।
18 अपरं युष्मान् अहं तथ्यं वदामि यावत् व्योममेदिन्यो र्ध्वंसो न भविष्यति, तावत् सर्व्वस्मिन् सफले न जाते व्यवस्थाया एका मात्रा बिन्दुरेकोपि वा न लोप्स्यते।
19 तस्मात् यो जन एतासाम् आज्ञानाम् अतिक्षुद्राम् एकाज्ञामपी लंघते मनुजांञ्च तथैव शिक्षयति, स स्वर्गीयराज्ये सर्व्वेभ्यः क्षुद्रत्वेन विख्यास्यते, किन्तु यो जनस्तां पालयति, तथैव शिक्षयति च, स स्वर्गीयराज्ये प्रधानत्वेन विख्यास्यते।
20 अपरं युष्मान् अहं वदामि, अध्यापकफिरूशिमानवानां धर्म्मानुष्ठानात् युष्माकं धर्म्मानुष्ठाने नोत्तमे जाते यूयम् ईश्वरीयराज्यं प्रवेष्टुं न शक्ष्यथ।
21 अपरञ्च त्वं नरं मा वधीः, यस्मात् यो नरं हन्ति, स विचारसभायां दण्डार्हो भविष्यति, पूर्व्वकालीनजनेभ्य इति कथितमासीत्, युष्माभिरश्रावि।
22 किन्त्वहं युष्मान् वदामि, यः कश्चित् कारणं विना निजभ्रात्रे कुप्यति, स विचारसभायां दण्डार्हो भविष्यति; यः कश्चिच्च स्वीयसहजं निर्ब्बोधं वदति, स महासभायां दण्डार्हो भविष्यति; पुनश्च त्वं मूढ इति वाक्यं यदि कश्चित् स्वीयभ्रातरं वक्ति, तर्हि नरकाग्नौ स दण्डार्हो भविष्यति।
23 अतो वेद्याः समीपं निजनैवेद्ये समानीतेऽपि निजभ्रातरं प्रति कस्माच्चित् कारणात् त्वं यदि दोषी विद्यसे, तदानीं तव तस्य स्मृति र्जायते च,
24 तर्हि तस्या वेद्याः समीपे निजनैवैद्यं निधाय तदैव गत्वा पूर्व्वं तेन सार्द्धं मिल, पश्चात् आगत्य निजनैवेद्यं निवेदय।
25 अन्यञ्च यावत् विवादिना सार्द्धं वर्त्मनि तिष्ठसि, तावत् तेन सार्द्धं मेलनं कुरु; नो चेत् विवादी विचारयितुः समीपे त्वां समर्पयति विचारयिता च रक्षिणः सन्निधौ समर्पयति तदा त्वं कारायां बध्येथाः।
26 तर्हि त्वामहं तथ्थं ब्रवीमि, शेषकपर्दकेऽपि न परिशोधिते तस्मात् स्थानात् कदापि बहिरागन्तुं न शक्ष्यसि।
27 अपरं त्वं मा व्यभिचर, यदेतद् वचनं पूर्व्वकालीनलोकेभ्यः कथितमासीत्, तद् यूयं श्रुतवन्तः;
28 किन्त्वहं युष्मान् वदामि, यदि कश्चित् कामतः काञ्चन योषितं पश्यति, तर्हि स मनसा तदैव व्यभिचरितवान्।
29 तस्मात् तव दक्षिणं नेत्रं यदि त्वां बाधते, तर्हि तन्नेत्रम् उत्पाट्य दूरे निक्षिप, यस्मात् तव सर्व्ववपुषो नरके निक्षेपात् तवैकाङ्गस्य नाशो वरं।
30 यद्वा तव दक्षिणः करो यदि त्वां बाधते, तर्हि तं करं छित्त्वा दूरे निक्षिप, यतः सर्व्ववपुषो नरके निक्षेपात् एकाङ्गस्य नाशो वरं।
31 उक्तमास्ते, यदि कश्चिन् निजजायां परित्यक्त्तुम् इच्छति, तर्हि स तस्यै त्यागपत्रं ददातु।
32 किन्त्वहं युष्मान् व्याहरामि, व्यभिचारदोषे न जाते यदि कश्चिन् निजजायां परित्यजति, तर्हि स तां व्यभिचारयति; यश्च तां त्यक्तां स्त्रियं विवहति, सोपि व्यभिचरति।
33 पुनश्च त्वं मृषा शपथम् न कुर्व्वन् ईश्चराय निजशपथं पालय, पूर्व्वकालीनलोकेभ्यो यैषा कथा कथिता, तामपि यूयं श्रुतवन्तः।
34 किन्त्वहं युष्मान् वदामि, कमपि शपथं मा कार्ष्ट, अर्थतः स्वर्गनाम्ना न, यतः स ईश्वरस्य सिंहासनं;
35 पृथिव्या नाम्नापि न, यतः सा तस्य पादपीठं; यिरूशालमो नाम्नापि न, यतः सा महाराजस्य पुरी;
36 निजशिरोनाम्नापि न, यस्मात् तस्यैकं कचमपि सितम् असितं वा कर्त्तुं त्वया न शक्यते।
37 अपरं यूयं संलापसमये केवलं भवतीति न भवतीति च वदत यत इतोऽधिकं यत् तत् पापात्मनो जायते।
38 अपरं लोचनस्य विनिमयेन लोचनं दन्तस्य विनिमयेन दन्तः पूर्व्वक्तमिदं वचनञ्च युष्माभिरश्रूयत।
39 किन्त्वहं युष्मान् वदामि यूयं हिंसकं नरं मा व्याघातयत। किन्तु केनचित् तव दक्षिणकपोले चपेटाघाते कृते तं प्रति वामं कपोलञ्च व्याघोटय।
40 अपरं केनचित् त्वया सार्ध्दं विवादं कृत्वा तव परिधेयवसने जिघृतिते तस्मायुत्तरीयवसनमपि देहि।
41 यदि कश्चित् त्वां क्रोशमेकं नयनार्थं अन्यायतो धरति, तदा तेन सार्ध्दं क्रोशद्वयं याहि।
42 यश्च मानवस्त्वां याचते, तस्मै देहि, यदि कश्चित् तुभ्यं धारयितुम् इच्छति, तर्हि तं प्रति परांमुखो मा भूः।
43 निजसमीपवसिनि प्रेम कुरु, किन्तु शत्रुं प्रति द्वेषं कुरु, यदेतत् पुरोक्तं वचनं एतदपि यूयं श्रुतवन्तः।
44 किन्त्वहं युष्मान् वदामि, यूयं रिपुव्वपि प्रेम कुरुत, ये च युष्मान् शपन्ते, तान, आशिषं वदत, ये च युष्मान् ऋृतीयन्ते, तेषां मङ्गलं कुरुत, ये च युष्मान् निन्दन्ति, ताडयन्ति च, तेषां कृते प्रार्थयध्वं।
45 तत्र यः सतामसताञ्चोपरि प्रभाकरम् उदाययति, तथा धार्म्मिकानामधार्म्मिकानाञ्चोपरि नीरं वर्षयति तादृशो यो युष्माकं स्वर्गस्थः पिता, यूयं तस्यैव सन्ताना भविष्यथ।
46 ये युष्मासु प्रेम कुर्व्वन्ति, यूयं यदि केवलं तेव्वेव प्रेम कुरुथ, तर्हि युष्माकं किं फलं भविष्यति? चण्डाला अपि तादृशं किं न कुर्व्वन्ति?
47 अपरं यूयं यदि केवलं स्वीयभ्रातृत्वेन नमत, तर्हि किं महत् कर्म्म कुरुथ? चण्डाला अपि तादृशं किं न कुर्व्वन्ति?
48 तस्मात् युष्माकं स्वर्गस्थः पिता यथा पूर्णो भवति, यूयमपि तादृशा भवत।

मथिलिखितः सुसंवादः 06

1 सावधाना भवत, मनुजान् दर्शयितुं तेषां गोचरे धर्म्मकर्म्म मा कुरुत, तथा कृते युष्माकं स्वर्गस्थपितुः सकाशात् किञ्चन फलं न प्राप्स्यथ।
2 त्वं यदा ददासि तदा कपटिनो जना यथा मनुजेभ्यः प्रशंसां प्राप्तुं भजनभवने राजमार्गे च तूरीं वादयन्ति, तथा मा कुरिु, अहं तुभ्यं यथार्थं कथयामि, ते स्वकायं फलम् अलभन्त।
3 किन्तु त्वं यदा ददासि, तदा निजदक्षिणकरो यत् करोति, तद् वामकरं मा ज्ञापय।
4 तेन तव दानं गुप्तं भविष्यति यस्तु तव पिता गुप्तदर्शी, स प्रकाश्य तुभ्यं फलं दास्यति।
5 अपरं यदा प्रार्थयसे, तदा कपटिनइव मा कुरु, यस्मात् ते भजनभवने राजमार्गस्य कोणे तिष्ठन्तो लोकान् दर्शयन्तः प्रार्थयितुं प्रीयन्ते; अहं युष्मान् तथ्यं वदामि, ते स्वकीयफलं प्राप्नुवन्।
6 तस्मात् प्रार्थनाकाले अन्तरागारं प्रविश्य द्वारं रुद्व्वा गुप्तं पश्यतस्तव पितुः समीपे प्रार्थयस्व; तेन तव यः पिता गुप्तदर्शी, स प्रकाश्य तुभ्यं फलं दास्यतिl
7 अपरं प्रार्थनाकाले देवपूजकाइव मुधा पुनरुक्तिं मा कुरु, यस्मात् ते बोधन्ते, बहुवारं कथायां कथितायां तेषां प्रार्थना ग्राहिष्यते।
8 यूयं तेषामिव मा कुरुत, यस्मात् युष्माकं यद् यत् प्रयोजनं याचनातः प्रागेव युष्माकं पिता तत् जानाति।
9 अतएव यूयम ईदृक् प्रार्थयध्वं, हे अस्माकं स्वर्गस्थपितः, तव नाम पूज्यं भवतु।
10 तव राजत्वं भवतु; तवेच्छा स्वर्गे यथा तथैव मेदिन्यामपि सफला भवतु।
11 अस्माकं प्रयोजनीयम् आहारम् अद्य देहि।
12 वयं यथा निजापराधिनः क्षमामहे, तथैवास्माकम् अपराधान् क्षमस्व।
13 अस्मान् परीक्षां मानय, किन्तु पापात्मनो रक्ष; राजत्वं गौरवं पराक्रमः एते सर्व्वे सर्व्वदा तव; तथास्तु।
14 यदि यूयम् अन्येषाम् अपराधान् क्षमध्वे तर्हि युष्माकं स्वर्गस्थपितापि युष्मान् क्षमिष्यते;
15 किन्तु यदि यूयम् अन्येषाम् अपराधान् न क्षमध्वे, तर्हि युष्माकं जनकोपि युष्माकम् अपराधान् न क्षमिष्यते।
16 अपरम् उपवासकाले कपटिनो जना मानुषान् उपवासं ज्ञापयितुं स्वेषां वदनानि म्लानानि कुर्व्वन्ति, यूयं तइव विषणवदना मा भवत; अहं युष्मान् तथ्यं वदामि ते स्वकीयफलम् अलभन्त।
17 यदा त्वम् उपवससि, तदा यथा लोकैस्त्वं उपवासीव न दृश्यसे, किन्तु तव योऽगोचरः पिता तेनैव दृश्यसे, तत्कृते निजशिरसि तैलं मर्द्दय वदनञ्च प्रक्षालय;
18 तेन तव यः पिता गुप्तदर्शी स प्रकाश्य तुभ्यं फलं दास्यति।
19 अपरं यत्र स्थाने कीटाः कलङ्काश्च क्षयं नयन्ति, चौराश्च सन्धिं कर्त्तयित्वा चोरयितुं शक्नुवन्ति, तादृश्यां मेदिन्यां स्वार्थं धनं मा संचिनुत।
20 किन्तु यत्र स्थाने कीटाः कलङ्काश्च क्षयं न नयन्ति, चौराश्च सन्धिं कर्त्तयित्वा चोरयितुं न शक्नुवन्ति, तादृशे स्वर्गे धनं सञ्चिनुत।
21 यस्मात् यत्र स्थाने युष्मांक धनं तत्रैव खाने युष्माकं मनांसि।
22 लोचनं देहस्य प्रदीपकं, तस्मात् यदि तव लोचनं प्रसन्नं भवति, तर्हि तव कृत्स्नं वपु र्दीप्तियुक्तं भविष्यति।
23 किन्तु लोचनेऽप्रसन्ने तव कृत्स्नं वपुः तमिस्रयुक्तं भविष्यति। अतएव या दीप्तिस्त्वयि विद्यते, सा यदि तमिस्रयुक्ता भवति, तर्हि तत् तमिस्रं कियन् महत्।
24 कोपि मनुजो द्वौ प्रभू सेवितुं न शक्नोति, यस्माद् एकं संमन्य तदन्यं न सम्मन्यते, यद्वा एकत्र मनो निधाय तदन्यम् अवमन्यते; तथा यूयमपीश्वरं लक्ष्मीञ्चेत्युभे सेवितुं न शक्नुथ।
25 अपरम् अहं युष्मभ्यं तथ्यं कथयामि, किं भक्षिष्यामः? किं पास्यामः? इति प्राणधारणाय मा चिन्तयत; किं परिधास्यामः? इति कायरक्षणाय न चिन्तयत; भक्ष्यात् प्राणा वसनाञ्च वपूंषि किं श्रेष्ठाणि न हि?
26 विहायसो विहङ्गमान् विलोकयत; तै र्नोप्यते न कृत्यते भाण्डागारे न सञ्चीयतेऽपि; तथापि युष्माकं स्वर्गस्थः पिता तेभ्य आहारं वितरति।
27 यूयं तेभ्यः किं श्रेष्ठा न भवथ? युष्माकं कश्चित् मनुजः चिन्तयन् निजायुषः क्षणमपि वर्द्धयितुं शक्नोति?
28 अपरं वसनाय कुतश्चिन्तयत? क्षेत्रोत्पन्नानि पुष्पाणि कथं वर्द्धन्ते तदालोचयत। तानि तन्तून् नोत्पादयन्ति किमपि कार्य्यं न कुर्व्वन्ति;
29 तथाप्यहं युष्मान् वदामि, सुलेमान् तादृग् ऐश्वर्य्यवानपि तत्पुष्पमिव विभूषितो नासीत्।
30 तस्मात् क्षद्य विद्यमानं श्चः चुल्ल्यां निक्षेप्स्यते तादृशं यत् क्षेत्रस्थितं कुसुमं तत् यदीश्चर इत्थं बिभूषयति, तर्हि हे स्तोकप्रत्ययिनो युष्मान् किं न परिधापयिष्यति?
31 तस्मात् अस्माभिः किमत्स्यते? किञ्च पायिष्यते? किं वा परिधायिष्यते, इति न चिन्तयत।
32 यस्मात् देवार्च्चका अपीति चेष्टन्ते; एतेषु द्रव्येषु प्रयोजनमस्तीति युष्माकं स्वर्गस्थः पिता जानाति।
33 अतएव प्रथमत ईश्वरीयराज्यं धर्म्मञ्च चेष्टध्वं, तत एतानि वस्तूनि युष्मभ्यं प्रदायिष्यन्ते।
34 श्वः कृते मा चिन्तयत, श्वएव स्वयं स्वमुद्दिश्य चिन्तयिष्यति; अद्यतनी या चिन्ता साद्यकृते प्रचुरतरा।

मथिलिखितः सुसंवादः 07

1 यथा यूयं दोषीकृता न भवथ, तत्कृतेऽन्यं दोषिणं मा कुरुत।
2 यतो यादृशेन दोषेण यूयं परान् दोषिणः कुरुथ, तादृशेन दोषेण यूयमपि दोषीकृता भविष्यथ, अन्यञ्च येन परिमाणेन युष्माभिः परिमीयते, तेनैव परिमाणेन युष्मत्कृते परिमायिष्यते।
3 अपरञ्च निजनयने या नासा विद्यते, ताम् अनालोच्य तव सहजस्य लोचने यत् तृणम् आस्ते, तदेव कुतो वीक्षसे?
4 तव निजलोचने नासायां विद्यमानायां, हे भ्रातः, तव नयनात् तृणं बहिष्यर्तुं अनुजानीहि, कथामेतां निजसहजाय कथं कथयितुं शक्नोषि?
5 हे कपटिन्, आदौ निजनयनात् नासां बहिष्कुरु ततो निजदृष्टौ सुप्रसन्नायां तव भ्रातृ र्लोचनात् तृणं बहिष्कर्तुं शक्ष्यसि।
6 अन्यञ्च सारमेयेभ्यः पवित्रवस्तूनि मा वितरत, वराहाणां समक्षञ्च मुक्ता मा निक्षिपत; निक्षेपणात् ते ताः सर्व्वाः पदै र्दलयिष्यन्ति, परावृत्य युष्मानपि विदारयिष्यन्ति।
7 याचध्वं ततो युष्मभ्यं दायिष्यते; मृगयध्वं तत उद्देशं लप्स्यध्वे; द्वारम् आहत, ततो युष्मत्कृते मुक्तं भविष्यति।
8 यस्माद् येन याच्यते, तेन लभ्यते; येन मृग्यते तेनोद्देशः प्राप्यते; येन च द्वारम् आहन्यते, तत्कृते द्वारं मोच्यते।
9 आत्मजेन पूपे प्रार्थिते तस्मै पाषाणं विश्राणयति,
10 मीने याचिते च तस्मै भुजगं वितरति, एतादृशः पिता युष्माकं मध्ये क आस्ते?
11 तस्माद् यूयम् अभद्राः सन्तोऽपि यदि निजबालकेभ्य उत्तमं द्रव्यं दातुं जानीथ, तर्हि युष्माकं स्वर्गस्थः पिता स्वीययाचकेभ्यः किमुत्तमानि वस्तूनि न दास्यति?
12 यूष्मान् प्रतीतरेषां यादृशो व्यवहारो युष्माकं प्रियः, यूयं तान् प्रति तादृशानेव व्यवहारान् विधत्त; यस्माद् व्यवस्थाभविष्यद्वादिनां वचनानाम् इति सारम्।
13 सङ्कीर्णद्वारेण प्रविशत; यतो नरकगमनाय यद् द्वारं तद् विस्तीर्णं यच्च वर्त्म तद् बृहत् तेन बहवः प्रविशन्ति।
14 अपरं स्वर्गगमनाय यद् द्वारं तत् कीदृक् संकीर्णं। यच्च वर्त्म तत् कीदृग् दुर्गमम्। तदुद्देष्टारः कियन्तोऽल्पाः।
15 अपरञ्च ये जना मेषवेशेन युष्माकं समीपम् आगच्छन्ति, किन्त्वन्तर्दुरन्ता वृका एतादृशेभ्यो भविष्यद्वादिभ्यः सावधाना भवत, यूयं फलेन तान् परिचेतुं शक्नुथ।
16 मनुजाः किं कण्टकिनो वृक्षाद् द्राक्षाफलानि शृगालकोलितश्च उडुम्बरफलानि शातयन्ति?
17 तद्वद् उत्तम एव पादप उत्तमफलानि जनयति, अधमपादपएवाधमफलानि जनयति।
18 किन्तूत्तमपादपः कदाप्यधमफलानि जनयितुं न शक्नोति, तथाधमोपि पादप उत्तमफलानि जनयितुं न शक्नोति।
19 अपरं ये ये पादपा अधमफलानि जनयन्ति, ते कृत्ता वह्नौ क्षिप्यन्ते।
20 अतएव यूयं फलेन तान् परिचेष्यथ।
21 ये जना मां प्रभुं वदन्ति, ते सर्व्वे स्वर्गराज्यं प्रवेक्ष्यन्ति तन्न, किन्तु यो मानवो मम स्वर्गस्थस्य पितुरिष्टं कर्म्म करोति स एव प्रवेक्ष्यति।
22 तद् दिने बहवो मां वदिष्यन्ति, हे प्रभो हे प्रभो, तव नाम्ना किमस्मामि र्भविष्यद्वाक्यं न व्याहृतं? तव नाम्ना भूताः किं न त्याजिताः? तव नाम्ना किं नानाद्भुतानि कर्म्माणि न कृतानि?
23 तदाहं वदिष्यामि, हे कुकर्म्मकारिणो युष्मान् अहं न वेद्मि, यूयं मत्समीपाद् दूरीभवत।
24 यः कश्चित् ममैताः कथाः श्रुत्वा पालयति, स पाषाणोपरि गृहनिर्म्मात्रा ज्ञानिना सह मयोपमीयते।
25 यतो वृष्टौ सत्याम् आप्लाव आगते वायौ वाते च तेषु तद्गेहं लग्नेषु पाषाणोपरि तस्य भित्तेस्तन्न पततिl
26 किन्तु यः कश्चित् ममैताः कथाः श्रुत्वा न पालयति स सैकते गेहनिर्म्मात्रा ऽज्ञानिना उपमीयते।
27 यतो जलवृष्टौ सत्याम् आप्लाव आगते पवने वाते च तै र्गृहे समाघाते तत् पतति तत्पतनं महद् भवति।
28 यीशुनैतेषु वाक्येषु समापितेषु मानवास्तदीयोपदेशम् आश्चर्य्यं मेनिरे।
29 यस्मात् स उपाध्याया इव तान् नोपदिदेश किन्तु समर्थपुरुषइव समुपदिदेश।

मथिलिखितः सुसंवादः 08

1 यदा स पर्व्वताद् अवारोहत् तदा बहवो मानवास्तत्पश्चाद् वव्रजुः।
2 एकः कुष्ठवान् आगत्य तं प्रणम्य बभाषे, हे प्रभो, यदि भवान् संमन्यते, तर्हि मां निरामयं कर्त्तुं शक्नोति।
3 ततो यीशुः करं प्रसार्य्य तस्याङ्गं स्पृशन् व्याजहार, सम्मन्येऽहं त्वं निरामयो भव; तेन स तत्क्षणात् कुष्ठेनामोचि।
4 ततो यीशुस्तं जगाद, अवधेहि कथामेतां कश्चिदपि मा ब्रूहि, किन्तु याजकस्य सन्निधिं गत्वा स्वात्मानं दर्शय मनुजेभ्यो निजनिरामयत्वं प्रमाणयितुं मूसानिरूपितं द्रव्यम् उत्सृज च।
5 तदनन्तरं यीशुना कफर्नाहूम्नामनि नगरे प्रविष्टे कश्चित् शतसेनापतिस्तत्समीपम् आगत्य विनीय बभाषे,
6 हे प्रभो, मदीय एको दासः पक्षाघातव्याधिना भृशं व्यथितः, सतु शयनीय आस्ते।
7 तदानीं यीशुस्तस्मै कथितवान्, अहं गत्वा तं निरामयं करिष्यामि।
8 ततः स शतसेनापतिः प्रत्यवदत्, हे प्रभो, भवान् यत् मम गेहमध्यं याति तद्योग्यभाजनं नाहमस्मि; वाङ्मात्रम् आदिशतु, तेनैव मम दासो निरामयो भविष्यति।
9 यतो मयि परनिध्नेऽपि मम निदेशवश्याः कति कति सेनाः सन्ति, तत एकस्मिन् याहीत्युक्ते स याति, तदन्यस्मिन् एहीत्युक्ते स आयाति, तथा मम निजदासे कर्म्मैतत् कुर्व्वित्युक्ते स तत् करोति।
10 तदानीं यीशुस्तस्यैतत् वचो निशम्य विस्मयापन्नोऽभूत्; निजपश्चाद्गामिनो मानवान् अवोच्च, युष्मान् तथ्यं वच्मि, इस्रायेलीयलोकानां मध्येऽपि नैतादृशो विश्वासो मया प्राप्तः।
11 अन्यच्चाहं युष्मान् वदामि, बहवः पूर्व्वस्याः पश्चिमायाश्च दिश आगत्य इब्राहीमा इस्हाका याकूबा च साकम् मिलित्वा समुपवेक्ष्यन्ति;
12 किन्तु यत्र स्थाने रोदनदन्तघर्षणे भवतस्तस्मिन् बहिर्भूततमिस्रे राज्यस्य सन्ताना निक्षेस्यन्ते।
13 ततः परं यीशुस्तं शतसेनापतिं जगाद, याहि, तव प्रतीत्यनुसारतो मङ्गलं भूयात्; तदा तस्मिन्नेव दण्डे तदीयदासो निरामयो बभूव।
14 अनन्तरं यीशुः पितरस्य गेहमुपस्थाय ज्वरेण पीडितां शयनीयस्थितां तस्य श्वश्रूं वीक्षाञ्चक्रे।
15 ततस्तेन तस्याः करस्य स्पृष्टतवात् ज्वरस्तां तत्याज, तदा सा समुत्थाय तान् सिषेवे।
16 अनन्तरं सन्ध्यायां सत्यां बहुशो भूतग्रस्तमनुजान् तस्य समीपम् आनिन्युः स च वाक्येन भूतान् त्याजयामास, सर्व्वप्रकारपीडितजनांश्च निरामयान् चकार;
17 तस्मात्, सर्व्वा दुर्ब्बलतास्माकं तेनैव परिधारिता। अस्माकं सकलं व्याधिं सएव संगृहीतवान्। यदेतद्वचनं यिशयियभविष्यद्वादिनोक्तमासीत्, तत्तदा सफलमभवत्।
18 अनन्तरं यीशुश्चतुर्दिक्षु जननिवहं विलोक्य तटिन्याः पारं यातुं शिष्यान् आदिदेश।
19 तदानीम् एक उपाध्याय आगत्य कथितवान्, हे गुरो, भवान् यत्र यास्यति तत्राहमपि भवतः पश्चाद् यास्यामि।
20 ततो यीशु र्जगाद, क्रोष्टुः स्थातुं स्थानं विद्यते, विहायसो विहङ्गमानां नीडानि च सन्ति; किन्तु मनुष्यपुत्रस्य शिरः स्थापयितुं स्थानं न विद्यते।
21 अनन्तरम् अपर एकः शिष्यस्तं बभाषे, हे प्रभो, प्रथमतो मम पितरं श्मशाने निधातुं गमनार्थं माम् अनुमन्यस्व।
22 ततो यीशुरुक्तवान् मृता मृतान् श्मशाने निदधतु, त्वं मम पश्चाद् आगच्छ।
23 अनन्तरं तस्मिन् नावमारूढे तस्य शिष्यास्तत्पश्चात् जग्मुः।
24 पश्चात् सागरस्य मध्यं तेषु गतेषु तादृशः प्रबलो झञ्भ्शनिल उदतिष्ठत्, येन महातरङ्ग उत्थाय तरणिं छादितवान्, किन्तु स निद्रित आसीत्।
25 तदा शिष्या आगत्य तस्य निद्राभङ्गं कृत्वा कथयामासुः, हे प्रभो, वयं म्रियामहे, भवान् अस्माकं प्राणान् रक्षतु।
26 तदा स तान् उक्तवान्, हे अल्पविश्वासिनो यूयं कुतो विभीथ? ततः स उत्थाय वातं सागरञ्च तर्जयामास, ततो निर्व्वातमभवत्।
27 अपरं मनुजा विस्मयं विलोक्य कथयामासुः, अहो वातसरित्पती अस्य किमाज्ञाग्राहिणौ? कीदृशोऽयं मानवः।
28 अनन्तरं स पारं गत्वा गिदेरीयदेशम् उपस्थितवान्; तदा द्वौ भूतग्रस्तमनुजौ श्मशानस्थानाद् बहि र्भूत्वा तं साक्षात् कृतवन्तौ, तावेतादृशौ प्रचण्डावास्तां यत् तेन स्थानेन कोपि यातुं नाशक्नोत्।
29 तावुचैः कथयामासतुः, हे ईश्वरस्य सूनो यीशो, त्वया साकम् आवयोः कः सम्बन्धः? निरूपितकालात् प्रागेव किमावाभ्यां यातनां दातुम् अत्रागतोसि?
30 तदानीं ताभ्यां किञ्चिद् दूरे वराहाणाम् एको महाव्रजोऽचरत्।
31 ततो भूतौ तौ तस्यान्तिके विनीय कथयामासतुः, यद्यावां त्याजयसि, तर्हि वराहाणां मध्येव्रजम् आवां प्रेरय।
32 तदा यीशुरवदत् यातं, अनन्तरं तौ यदा मनुजौ विहाय वराहान् आश्रितवन्तौ, तदा ते सर्व्वे वराहा उच्चस्थानात् महाजवेन धावन्तः सागरीयतोये मज्जन्तो मम्रुः।
33 ततो वराहरक्षकाः पलायमाना मध्येनगरं तौ भूतग्रस्तौ प्रति यद्यद् अघटत, ताः सर्व्ववार्त्ता अवदन्।
34 ततो नागरिकाः सर्व्वे मनुजा यीशुं साक्षात् कर्त्तुं बहिरायाताः तञ्च विलोक्य प्रार्थयाञ्चक्रिरे भवान् अस्माकं सीमातो यातु।

मथिलिखितः सुसंवादः 09

1 अनन्तरं यीशु र्नौकामारुह्य पुनः पारमागत्य निजग्रामम् आययौ।
2 ततः कतिपया जना एकं पक्षाघातिनं स्वट्टोपरि शाययित्वा तत्समीपम् आनयन्; ततो यीशुस्तेषां प्रतीतिं विज्ञाय तं पक्षाघातिनं जगाद, हे पुत्र, सुस्थिरो भव, तव कलुषस्य मर्षणं जातम्।
3 तां कथां निशम्य कियन्त उपाध्याया मनःसु चिन्तितवन्त एष मनुज ईश्वरं निन्दति।
4 ततः स तेषाम् एतादृशीं चिन्तां विज्ञाय कथितवान्, यूयं मनःसु कृत एतादृशीं कुचिन्तां कुरुथ?
5 तव पापमर्षणं जातं, यद्वा त्वमुत्थाय गच्छ, द्वयोरनयो र्वाक्ययोः किं वाक्यं वक्तुं सुगमं?
6 किन्तु मेदिन्यां कलुषं क्षमितुं मनुजसुतस्य सामर्थ्यमस्तीति यूयं यथा जानीथ, तदर्थं स तं पक्षाघातिनं गदितवान्, उत्तिष्ठ, निजशयनीयं आदाय गेहं गच्छ।
7 ततः स तत्क्षणाद् उत्थाय निजगेहं प्रस्थितवान्।
8 मानवा इत्थं विलोक्य विस्मयं मेनिरे, ईश्वरेण मानवाय सामर्थ्यम् ईदृशं दत्तं इति कारणात् तं धन्यं बभाषिरे च।
9 अनन्तरं यीशुस्तत्स्थानाद् गच्छन् गच्छन् करसंग्रहस्थाने समुपविष्टं मथिनामानम् एकं मनुजं विलोक्य तं बभाषे, मम पश्चाद् आगच्छ, ततः स उत्थाय तस्य पश्चाद् वव्राज।
10 ततः परं यीशौ गृहे भोक्तुम् उपविष्टे बहवः करसंग्राहिणः कलुषिणश्च मानवा आगत्य तेन साकं तस्य शिष्यैश्च साकम् उपविविशुः।
11 फिरूशिनस्तद् दृष्ट्वा तस्य शिष्यान् बभाषिरे, युष्माकं गुरुः किं निमित्तं करसंग्राहिभिः कलुषिभिश्च साकं भुंक्ते?
12 यीशुस्तत् श्रुत्वा तान् प्रत्यवदत्, निरामयलोकानां चिकित्सकेन प्रयोजनं नास्ति, किन्तु सामयलोकानां प्रयोजनमास्ते।
13 अतो यूयं यात्वा वचनस्यास्यार्थं शिक्षध्वम्, दयायां मे यथा प्रीति र्न तथा यज्ञकर्म्मणि। यतोऽहं धार्म्मिकान् आह्वातुं नागतोऽस्मि किन्तु मनः परिवर्त्तयितुं पापिन आह्वातुम् आगतोऽस्मि।
14 अनन्तरं योहनः शिष्यास्तस्य समीपम् आगत्य कथयामासुः, फिरूशिनो वयञ्च पुनः पुनरुपवसामः, किन्तु तव शिष्या नोपवसन्ति, कुतः?
15 तदा यीशुस्तान् अवोचत् यावत् सखीनां संङ्गे कन्याया वरस्तिष्ठति, तावत् किं ते विलापं कर्त्तुं शक्लुवन्ति? किन्तु यदा तेषां संङ्गाद् वरं नयन्ति, तादृशः समय आगमिष्यति, तदा ते उपवत्स्यन्ति।
16 पुरातनवसने कोपि नवीनवस्त्रं न योजयति, यस्मात् तेन योजितेन पुरातनवसनं छिनत्ति तच्छिद्रञ्च बहुकुत्सितं दृश्यते।
17 अन्यञ्च पुरातनकुत्वां कोपि नवानगोस्तनीरसं न निदधाति, यस्मात् तथा कृते कुतू र्विदीर्य्यते तेन गोस्तनीरसः पतति कुतूश्च नश्यति; तस्मात् नवीनायां कुत्वां नवीनो गोस्तनीरसः स्थाप्यते, तेन द्वयोरवनं भवति।
18 अपरं तेनैतत्कथाकथनकाले एकोऽधिपतिस्तं प्रणम्य बभाषे, मम दुहिता प्रायेणैतावत्काले मृता, तस्माद् भवानागत्य तस्या गात्रे हस्तमर्पयतु, तेन सा जीविष्यति।
19 तदानीं यीशुः शिष्यैः साकम् उत्थाय तस्य पश्चाद् वव्राज।
20 इत्यनन्तरे द्वादशवत्सरान् यावत् प्रदरामयेन शीर्णैका नारी तस्य पश्चाद् आगत्य तस्य वसनस्य ग्रन्थिं पस्पर्श;
21 यस्मात् मया केवलं तस्य वसनं स्पृष्ट्वा स्वास्थ्यं प्राप्स्यते, सा नारीति मनसि निश्चितवती।
22 ततो यीशुर्वदनं परावर्त्त्य तां जगाद, हे कन्ये, त्वं सुस्थिरा भव, तव विश्वासस्त्वां स्वस्थामकार्षीत्। एतद्वाक्ये गदितएव सा योषित् स्वस्थाभूत्।
23 अपरं यीशुस्तस्याध्यक्षस्य गेहं गत्वा वादकप्रभृतीन् बहून् लोकान् शब्दायमानान् विलोक्य तान् अवदत्,
24 पन्थानं त्यज, कन्येयं नाम्रियत निद्रितास्ते; कथामेतां श्रुत्वा ते तमुपजहसुः।
25 किन्तु सर्व्वेषु बहिष्कृतेषु सोऽभ्यन्तरं गत्वा कन्यायाः करं धृतवान्, तेन सोदतिष्ठत्;
26 ततस्तत्कर्म्मणो यशः कृत्स्नं तं देशं व्याप्तवत्।
27 ततः परं यीशुस्तस्मात् स्थानाद् यात्रां चकार; तदा हे दायूदः सन्तान, अस्मान् दयस्व, इति वदन्तौ द्वौ जनावन्धौ प्रोचैराहूयन्तौ तत्पश्चाद् वव्रजतुः।
28 ततो यीशौ गेहमध्यं प्रविष्टं तावपि तस्य समीपम् उपस्थितवन्तौ, तदानीं स तौ पृष्टवान् कर्म्मैतत् कर्त्तुं मम सामर्थ्यम् आस्ते, युवां किमिति प्रतीथः? तदा तौ प्रत्यूचतुः, सत्यं प्रभो।
29 तदानीं स तयो र्लोचनानि स्पृशन् बभाषे, युवयोः प्रतीत्यनुसाराद् युवयो र्मङ्गलं भूयात्। तेन तत्क्षणात् तयो र्नेत्राणि प्रसन्नान्यभवन्,
30 पश्चाद् यीशुस्तौ दृढमाज्ञाप्य जगाद, अवधत्तम् एतां कथां कोपि मनुजो म जानीयात्।
31 किन्तु तौ प्रस्थाय तस्मिन् कृत्स्ने देशे तस्य कीर्त्तिं प्रकाशयामासतुः।
32 अपरं तौ बहिर्यात एतस्मिन्नन्तरे मनुजा एकं भूतग्रस्तमूकं तस्य समीपम् आनीतवन्तः।
33 तेन भूते त्याजिते स मूकः कथां कथयितुं प्रारभत, तेन जना विस्मयं विज्ञाय कथयामासुः, इस्रायेलो वंशे कदापि नेदृगदृश्यत;
34 किन्तु फिरूशिनः कथयाञ्चक्रुः भूताधिपतिना स भूतान् त्याजयति।
35 ततः परं यीशुस्तेषां भजनभवन उपदिशन् राज्यस्य सुसंवादं प्रचारयन् लोकानां यस्य य आमयो या च पीडासीत्, तान् शमयन् शमयंश्च सर्व्वाणि नगराणि ग्रामांश्च बभ्राम।
36 अन्यञ्च मनुजान् व्याकुलान् अरक्षकमेषानिव च त्यक्तान् निरीक्ष्य तेषु कारुणिकः सन् शिष्यान् अवदत्,
37 शस्यानि प्रचुराणि सन्ति, किन्तु छेत्तारः स्तोकाः।
38 क्षेत्रं प्रत्यपरान् छेदकान् प्रहेतुं शस्यस्वामिनं प्रार्थयध्वम्।

मथिलिखितः सुसंवादः 10

1 अनन्तरं यीशु र्द्वादशशिष्यान् आहूयामेध्यभूतान् त्याजयितुं सर्व्वप्रकाररोगान् पीडाश्च शमयितुं तेभ्यः सामर्थ्यमदात्।
2 तेषां द्वादशप्रेष्याणां नामान्येतानि। प्रथमं शिमोन् यं पितरं वदन्ति, ततः परं तस्य सहज आन्द्रियः, सिवदियस्य पुत्रो याकूब्
3 तस्य सहजो योहन्; फिलिप् बर्थलमय् थोमाः करसंग्राही मथिः, आल्फेयपुत्रो याकूब्,
4 किनानीयः शिमोन्, य ईष्करियोतीययिहूदाः ख्रीष्टं परकरेऽर्पयत्।
5 एतान् द्वादशशिष्यान् यीशुः प्रेषयन् इत्याज्ञापयत्, यूयम् अन्यदेशीयानां पदवीं शेमिरोणीयानां किमपि नगरञ्च न प्रविश्ये
6 इस्रायेल्गोत्रस्य हारिता ये ये मेषास्तेषामेव समीपं यात।
7 गत्वा गत्वा स्वर्गस्य राजत्वं सविधमभवत्, एतां कथां प्रचारयत।
8 आमयग्रस्तान् स्वस्थान् कुरुत, कुष्ठिनः परिष्कुरुत, मृतलोकान् जीवयत, भूतान् त्याजयत, विना मूल्यं यूयम् अलभध्वं विनैव मूल्यं विश्राणयत।
9 किन्तु स्वेषां कटिबन्धेषु स्वर्णरूप्यताम्राणां किमपि न गृह्लीत।
10 अन्यच्च यात्रायै चेलसम्पुटं वा द्वितीयवसनं वा पादुके वा यष्टिः, एतान् मा गृह्लीत, यतः कार्य्यकृत् भर्त्तुं योग्यो भवति।
11 अपरं यूयं यत् पुरं यञ्च ग्रामं प्रविशथ, तत्र यो जनो योग्यपात्रं तमवगत्य यानकालं यावत् तत्र तिष्ठत।
12 यदा यूयं तद्गेहं प्रविशथ, तदा तमाशिषं वदत।
13 यदि स योग्यपात्रं भवति, तर्हि तत्कल्याणं तस्मै भविष्यति, नोचेत् साशीर्युष्मभ्यमेव भविष्यति।
14 किन्तु ये जना युष्माकमातिथ्यं न विदधति युष्माकं कथाञ्च न शृण्वन्ति तेषां गेहात् पुराद्वा प्रस्थानकाले स्वपदूलीः पातयत।
15 युष्मानहं तथ्यं वच्मि विचारदिने तत्पुरस्य दशातः सिदोममोरापुरयोर्दशा सह्यतरा भविष्यति।
16 पश्यत, वृकयूथमध्ये मेषः यथाविस्तथा युष्मान प्रहिणोमि, तस्माद् यूयम् अहिरिव सतर्काः कपोताइवाहिंसका भवत।
17 नृभ्यः सावधाना भवत; यतस्तै र्यूयं राजसंसदि समर्पिष्यध्वे तेषां भजनगेहे प्रहारिष्यध्वे।
18 यूयं मन्नामहेतोः शास्तृणां राज्ञाञ्च समक्षं तानन्यदेशिनश्चाधि साक्षित्वार्थमानेष्यध्वे।
19 किन्त्वित्थं समर्पिता यूयं कथं किमुत्तरं वक्ष्यथ तत्र मा चिन्तयत, यतस्तदा युष्माभि र्यद् वक्तव्यं तत् तद्दण्डे युष्मन्मनः सु समुपस्थास्यति।
20 यस्मात् तदा यो वक्ष्यति स न यूयं किन्तु युष्माकमन्तरस्थः पित्रात्मा।
21 सहजः सहजं तातः सुतञ्च मृतौ समर्पयिष्यति, अपत्यागि स्वस्वपित्रोे र्विपक्षीभूय तौ घातयिष्यन्ति।
22 मन्नमहेतोः सर्व्वे जना युष्मान् ऋृतीयिष्यन्ते, किन्तु यः शेषं यावद् धैर्य्यं घृत्वा स्थास्यति, स त्रायिष्यते।
23 तै र्यदा यूयमेकपुरे ताडिष्यध्वे, तदा यूयमन्यपुरं पलायध्वं युष्मानहं तथ्यं वच्मि यावन्मनुजसुतो नैति तावद् इस्रायेल्देशीयसर्व्वनगरभ्रमणं समापयितुं न शक्ष्यथ।
24 गुरोः शिष्यो न महान्, प्रभोर्दासो न महान्।
25 यदि शिष्यो निजगुरो र्दासश्च स्वप्रभोः समानो भवति तर्हि तद् यथेष्टं। चेत्तैर्गृहपतिर्भूतराज उच्यते, तर्हि परिवाराः किं तथा न वक्ष्यन्ते?
26 किन्तु तेभ्यो यूयं मा बिभीत, यतो यन्न प्रकाशिष्यते, तादृक् छादितं किमपि नास्ति, यच्च न व्यञ्चिष्यते, तादृग् गुप्तं किमपि नास्ति।
27 यदहं युष्मान् तमसि वच्मि तद् युष्माभिर्दीप्तौ कथ्यतां; कर्णाभ्यां यत् श्रूयते तद् गेहोपरि प्रचार्य्यतां।
28 ये कायं हन्तुं शक्नुवन्ति नात्मानं, तेभ्यो मा भैष्ट; यः कायात्मानौ निरये नाशयितुं, शक्नोति, ततो बिभीत।
29 द्वौ चटकौ किमेकताम्रमुद्रया न विक्रीयेते? तथापि युष्मत्तातानुमतिं विना तेषामेकोपि भुवि न पतति।
30 युष्मच्छिरसां सर्व्वकचा गणितांः सन्ति।
31 अतो मा बिभीत, यूयं बहुचटकेभ्यो बहुमूल्याः।
32 यो मनुजसाक्षान्मामङ्गीकुरुते तमहं स्वर्गस्थतातसाक्षादङ्गीकरिष्ये।
33 पृथ्व्यामहं शान्तिं दातुमागतइति मानुभवत, शान्तिं दातुं न किन्त्वसिं।
34 पितृमातृश्चश्रूभिः साकं सुतसुताबधू र्विरोधयितुञ्चागतेास्मि।
35 ततः स्वस्वपरिवारएव नृशत्रु र्भविता।
36 यः पितरि मातरि वा मत्तोधिकं प्रीयते, स न मदर्हः;
37 यश्च सुते सुतायां वा मत्तोधिकं प्रीयते, सेापि न मदर्हः।
38 यः स्वक्रुशं गृह्लन् मत्पश्चान्नैति, सेापि न मदर्हः।
39 यः स्वप्राणानवति, स तान् हारयिष्यते, यस्तु मत्कृते स्वप्राणान् हारयति, स तानवति।
40 यो युष्माकमातिथ्यं विदधाति, स ममातिथ्यं विदधाति, यश्च ममातिथ्यं विदधाति, स मत्प्रेरकस्यातिथ्यं विदधाति।
41 यो भविष्यद्वादीति ज्ञात्वा तस्यातिथ्यं विधत्ते, स भविष्यद्वादिनः फलं लप्स्यते, यश्च धार्म्मिक इति विदित्वा तस्यातिथ्यं विधत्ते स धार्म्मिकमानवस्य फलं प्राप्स्यति।
42 यश्च कश्चित् एतेषां क्षुद्रनराणाम् यं कञ्चनैकं शिष्य इति विदित्वा कंसैकं शीतलसलिलं तस्मै दत्ते, युष्मानहं तथ्यं वदामि, स केनापि प्रकारेण फलेन न वञ्चिष्यते।

मथिलिखितः सुसंवादः 11

1 इत्थं यीशुः स्वद्वादशशिष्याणामाज्ञापनं समाप्य पुरे पुर उपदेष्टुं सुसंवादं प्रचारयितुं तत्स्थानात् प्रतस्थे।
2 अनन्तरं योहन् कारायां तिष्ठन् ख्रिष्टस्य कर्म्मणां वार्त्तं प्राप्य यस्यागमनवार्त्तासीत् सएव किं त्वं? वा वयमन्यम् अपेक्षिष्यामहे?
3 एतत् प्रष्टुं निजौ द्वौ शिष्यौ प्राहिणोत्।
4 यीशुः प्रत्यवोचत्, अन्धा नेत्राणि लभन्ते, खञ्चा गच्छन्ति, कुष्ठिनः स्वस्था भवन्ति, बधिराः शृण्वन्ति, मृता जीवन्त उत्तिष्ठन्ति, दरिद्राणां समीपे सुसंवादः प्रचार्य्यत,
5 एतानि यद्यद् युवां शृणुथः पश्यथश्च गत्वा तद्वार्त्तां योहनं गदतं।
6 यस्याहं न विघ्नीभवामि, सएव धन्यः।
7 अनन्तरं तयोः प्रस्थितयो र्यीशु र्योहनम् उद्दिश्य जनान् जगाद, यूयं किं द्रष्टुं वहिर्मध्येप्रान्तरम् अगच्छत? किं वातेन कम्पितं नलं?
8 वा किं वीक्षितुं वहिर्गतवन्तः? किं परिहितसूक्ष्मवसनं मनुजमेकं? पश्यत, ये सूक्ष्मवसनानि परिदधति, ते राजधान्यां तिष्ठन्ति।
9 तर्हि यूयं किं द्रष्टुं बहिरगमत, किमेकं भविष्यद्वादिनं? तदेव सत्यं। युष्मानहं वदामि, स भविष्यद्वादिनोपि महान्;
10 यतः, पश्य स्वकीयदूतोयं त्वदग्रे प्रेष्यते मया। स गत्वा तव पन्थानं स्मयक् परिष्करिष्यति॥ एतद्वचनं यमधि लिखितमास्ते सोऽयं योहन्।
11 अपरं युष्मानहं तथ्यं ब्रवीमि, मज्जयितु र्योहनः श्रेष्ठः कोपि नारीतो नाजायत; तथापि स्वर्गराज्यमध्ये सर्व्वेभ्यो यः क्षुद्रः स योहनः श्रेष्ठः।
12 अपरञ्च आ योहनोऽद्य यावत् स्वर्गराज्यं बलादाक्रान्तं भवति आक्रमिनश्च जना बलेन तदधिकुर्व्वन्ति।
13 यतो योहनं यावत् सर्व्वभविष्यद्वादिभि र्व्यवस्थया च उपदेशः प्राकाश्यत।
14 यदि यूयमिदं वाक्यं ग्रहीतुं शक्नुथ, तर्हि श्रेयः, यस्यागमनस्य वचनमास्ते सोऽयम् एलियः।
15 यस्य श्रोतुं कर्णौ स्तः स शृणोतु।
16 एते विद्यमानजनाः कै र्मयोपमीयन्ते? ये बालका हट्ट उपविश्य स्वं स्वं बन्धुमाहूय वदन्ति,
17 वयं युष्माकं समीपे वंशीरवादयाम, किन्तु यूयं नानृत्यत; युष्माकं समीपे च वयमरोदिम, किन्तु यूयं न व्यलपत, तादृशै र्बालकैस्त उपमायिष्यन्ते।
18 यतो योहन् आगत्य न भुक्तवान् न पीतवांश्च, तेन लोका वदन्ति, स भूतग्रस्त इति।
19 मनुजसुत आगत्य भुक्तवान् पीतवांश्च, तेन लोका वदन्ति, पश्यत एष भोक्ता मद्यपाता चण्डालपापिनां बन्धश्च, किन्तु ज्ञानिनो ज्ञानव्यवहारं निर्दोषं जानन्ति।
20 स यत्र यत्र पुरे बह्वाश्चर्य्यं कर्म्म कृतवान्, तन्निवासिनां मनःपरावृत्त्यभावात् तानि नगराणि प्रति हन्तेत्युक्ता कथितवान्,
21 हा कोरासीन्, हा बैत्सैदे, युष्मन्मध्ये यद्यदाश्चर्य्यं कर्म्म कृतं यदि तत् सोरसीदोन्नगर अकारिष्यत, तर्हि पूर्व्वमेव तन्निवासिनः शाणवसने भस्मनि चोपविशन्तो मनांसि परावर्त्तिष्यन्त।
22 तस्मादहं युष्मान् वदामि, विचारदिने युष्माकं दशातः सोरसीदोनो र्दशा सह्यतरा भविष्यति।
23 अपरञ्च बत कफर्नाहूम्, त्वं स्वर्गं यावदुन्नतोसि, किन्तु नरके निक्षेप्स्यसे, यस्मात् त्वयि यान्याश्चर्य्याणि कर्म्मण्यकारिषत, यदि तानि सिदोम्नगर अकारिष्यन्त, तर्हि तदद्य यावदस्थास्यत्।
24 किन्त्वहं युष्मान् वदामि, विचारदिने तव दण्डतः सिदोमो दण्डो सह्यतरो भविष्यति।
25 एतस्मिन्नेव समये यीशुः पुनरुवाच, हे स्वर्गपृथिव्योरेकाधिपते पितस्त्वं ज्ञानवतो विदुषश्च लोकान् प्रत्येतानि न प्रकाश्य बालकान् प्रति प्रकाशितवान्, इति हेतोस्त्वां धन्यं वदामि।
26 हे पितः, इत्थं भवेत् यत इदं त्वदृष्टावुत्तमं।
27 पित्रा मयि सर्व्वाणि समर्पितानि, पितरं विना कोपि पुत्रं न जानाति, यान् प्रति पुत्रेण पिता प्रकाश्यते तान् विना पुत्राद् अन्यः कोपि पितरं न जानाति।
28 हे परिश्रान्ता भाराक्रान्ताश्च लोका यूयं मत्सन्निधिम् आगच्छत, अहं युष्मान् विश्रमयिष्यामि।
29 अहं क्षमणशीलो नम्रमनाश्च, तस्मात् मम युगं स्वेषामुपरि धारयत मत्तः शिक्षध्वञ्च, तेन यूयं स्वे स्वे मनसि विश्रामं लप्स्यध्बे।
30 यतो मम युगम् अनायासं मम भारश्च लघुः।

मथिलिखितः सुसंवादः 12

1 अनन्तरं यीशु र्विश्रामवारे श्स्यमध्येन गच्छति, तदा तच्छिष्या बुभुक्षिताः सन्तः श्स्यमञ्जरीश्छत्वा छित्वा खादितुमारभन्त।
2 तद् विलोक्य फिरूशिनो यीशुं जगदुः, पश्य विश्रामवारे यत् कर्म्माकर्त्तव्यं तदेव तव शिष्याः कुर्व्वन्ति।
3 स तान् प्रत्यावदत, दायूद् तत्सङ्गिनश्च बुभुक्षिताः सन्तो यत् कर्म्माकुर्व्वन् तत् किं युष्माभि र्नापाठि?
4 ये दर्शनीयाः पूपाः याजकान् विना तस्य तत्सङ्गिमनुजानाञ्चाभोजनीयास्त ईश्वरावासं प्रविष्टेन तेन भुक्ताः।
5 अन्यच्च विश्रामवारे मध्येमन्दिरं विश्रामवारीयं नियमं लङ्वन्तोपि याजका निर्दोषा भवन्ति, शास्त्रमध्ये किमिदमपि युष्माभि र्न पठितं?
6 युष्मानहं वदामि, अत्र स्थाने मन्दिरादपि गरीयान् एक आस्ते।
7 किन्तु दयायां मे यथा प्रीति र्न तथा यज्ञकर्म्मणि। एतद्वचनस्यार्थं यदि युयम् अज्ञासिष्ट तर्हि निर्दोषान् दोषिणो नाकार्ष्ट।
8 अन्यच्च मनुजसुतो विश्रामवारस्यापि पतिरास्ते।
9 अनन्तरं स तत्स्थानात् प्रस्थाय तेषां भजनभवनं प्रविष्टवान्, तदानीम् एकः शुष्ककरामयवान् उपस्थितवान्।
10 ततो यीशुम् अपवदितुं मानुषाः पप्रच्छुः, विश्रामवारे निरामयत्वं करणीयं न वा?
11 तेन स प्रत्युवाच, विश्रामवारे यदि कस्यचिद् अवि र्गर्त्ते पतति, तर्हि यस्तं घृत्वा न तोलयति, एतादृशो मनुजो युष्माकं मध्ये क आस्ते?
12 अवे र्मानवः किं नहि श्रेयान्? अतो विश्रामवारे हितकर्म्म कर्त्तव्यं।
13 अनन्तरं स तं मानवं गदितवान्, करं प्रसारय; तेन करे प्रसारिते सोन्यकरवत् स्वस्थोऽभवत्।
14 तदा फिरूशिनो बहिर्भूय कथं तं हनिष्याम इति कुमन्त्रणां तत्प्रातिकूल्येन चक्रुः।
15 ततो यीशुस्तद् विदित्वा स्थनान्तरं गतवान्; अन्येषु बहुनरेषु तत्पश्चाद् गतेषु तान् स निरामयान् कृत्वा इत्याज्ञापयत्,
16 यूयं मां न परिचाययत।
17 तस्मात् मम प्रीयो मनोनीतो मनसस्तुष्टिकारकः। मदीयः सेवको यस्तु विद्यते तं समीक्षतां। तस्योपरि स्वकीयात्मा मया संस्थापयिष्यते। तेनान्यदेशजातेषु व्यवस्था संप्रकाश्यते।
18 केनापि न विरोधं स विवादञ्च करिष्यति। न च राजपथे तेन वचनं श्रावयिष्यते।
19 व्यवस्था चलिता यावत् नहि तेन करिष्यते। तावत् नलो विदीर्णोऽपि भंक्ष्यते नहि तेन च। तथा सधूमवर्त्तिञ्च न स निर्व्वापयिष्यते।
20 प्रत्याशाञ्च करिष्यन्ति तन्नाम्नि भिन्नदेशजाः।
21 यान्येतानि वचनानि यिशयियभविष्यद्वादिना प्रोक्तान्यासन्, तानि सफलान्यभवन्।
22 अनन्तरं लोकै स्तत्समीपम् आनीतो भूतग्रस्तान्धमूकैकमनुजस्तेन स्वस्थीकृतः, ततः सोऽन्धो मूको द्रष्टुं वक्तुञ्चारब्धवान्।
23 अनेन सर्व्वे विस्मिताः कथयाञ्चक्रुः, एषः किं दायूदः सन्तानो नहि?
24 किन्तु फिरूशिनस्तत् श्रुत्वा गदितवन्तः, बाल्सिबूब्नाम्नो भूतराजस्य साहाय्यं विना नायं भूतान् त्याजयति।
25 तदानीं यीशुस्तेषाम् इति मानसं विज्ञाय तान् अवदत् किञ्चन राज्यं यदि स्वविपक्षाद् भिद्यते, तर्हि तत् उच्छिद्यते; यच्च किञ्चन नगरं वा गृहं स्वविपक्षाद् विभिद्यते, तत् स्थातुं न शक्नोति।
26 तद्वत् शयतानो यदि शयतानं बहिः कृत्वा स्वविपक्षात् पृथक् पृथक् भवति, तर्हि तस्य राज्यं केन प्रकारेण स्थास्यति?
27 अहञ्च यदि बाल्सिबूबा भूतान् त्याजयामि, तर्हि युष्माकं सन्तानाः केन भूतान् त्याजयन्ति? तस्माद् युष्माकम् एतद्विचारयितारस्त एव भविष्यन्ति।
28 किन्तवहं यदीश्वरात्मना भूतान् त्याजयामि, तर्हीश्वरस्य राज्यं युष्माकं सन्निधिमागतवत्।
29 अन्यञ्च कोपि बलवन्त जनं प्रथमतो न बद्व्वा केन प्रकारेण तस्य गृहं प्रविश्य तद्द्रव्यादि लोठयितुं शक्नोति? किन्तु तत् कृत्वा तदीयगृस्य द्रव्यादि लोठयितुं शक्नोति।
30 यः कश्चित् मम स्वपक्षीयो नहि स विपक्षीय आस्ते, यश्च मया साकं न संगृह्लाति, स विकिरति।
31 अतएव युष्मानहं वदामि, मनुजानां सर्व्वप्रकारपापानां निन्दायाश्च मर्षणं भवितुं शक्नोति, किन्तु पवित्रस्यात्मनो विरुद्धनिन्दाया मर्षणं भवितुं न शक्नोति।
32 यो मनुजसुतस्य विरुद्धां कथां कथयति, तस्यापराधस्य क्षमा भवितुं शक्नोति, किन्तु यः कश्चित् पवित्रस्यात्मनो विरुद्धां कथां कथयति नेहलोके न प्रेत्य तस्यापराधस्य क्षमा भवितुं शक्नोति।
33 पादपं यदि भद्रं वदथ, तर्हि तस्य फलमपि साधु वक्तव्यं, यदि च पादपं असाधुं वदथ, तर्हि तस्य फलमप्यसाधु वक्तव्यं; यतः स्वीयस्वीयफलेन पादपः परिचीयते।
34 रे भुजगवंशा यूयमसाधवः सन्तः कथं साधु वाक्यं वक्तुं शक्ष्यथ? यस्माद् अन्तःकरणस्य पूर्णभावानुसाराद् वदनाद् वचो निर्गच्छति।
35 तेन साधुर्मानवोऽन्तःकरणरूपात् साधुभाण्डागारात् साधु द्रव्यं निर्गमयति, असाधुर्मानुषस्त्वसाधुभाण्डागाराद् असाधुवस्तूनि निर्गमयति।
36 किन्त्वहं युष्मान् वदामि, मनुजा यावन्त्यालस्यवचांसि वदन्ति, विचारदिने तदुत्तरमवश्यं दातव्यं,
37 यतस्त्वं स्वीयवचोभि र्निरपराधः स्वीयवचोभिश्च सापराधो गणिष्यसे।
38 तदानीं कतिपया उपाध्यायाः फिरूशिनश्च जगदुः, हे गुरो वयं भवत्तः किञ्चन लक्ष्म दिदृक्षामः।
39 तदा स प्रत्युक्तवान्, दुष्टो व्यभिचारी च वंशो लक्ष्म मृगयते, किन्तु भविष्यद्वादिनो यूनसो लक्ष्म विहायान्यत् किमपि लक्ष्म ते न प्रदर्शयिष्यन्ते।
40 यतो यूनम् यथा त्र्यहोरात्रं बृहन्मीनस्य कुक्षावासीत्, तथा मनुजपुत्रोपि त्र्यहोरात्रं मेदिन्या मध्ये स्थास्यति।
41 अपरं नीनिवीया मानवा विचारदिन एतद्वंशीयानां प्रतिकूलम् उत्थाय तान् दोषिणः करिष्यन्ति, यस्मात्ते यूनस उपदेशात् मनांसि परावर्त्तयाञ्चक्रिरे, किन्त्वत्र यूनसोपि गुरुतर एक आस्ते।
42 पुनश्च दक्षिणदेशीया राज्ञी विचारदिन एतद्वंशीयानां प्रतिकूलमुत्थाय तान् दोषिणः करिष्यति यतः सा राज्ञी सुलेमनो विद्यायाः कथां श्रोतुं मेदिन्याः सीम्न आगच्छत्, किन्तु सुलेमनोपि गुरुतर एको जनोऽत्र आस्ते।
43 अपरं मनुजाद् बहिर्गतो ऽपवित्रभूतः शुष्कस्थानेन गत्वा विश्रामं गवेषयति, किन्तु तदलभमानः स वक्ति, यस्मा; निकेतनाद् आगमं, तदेव वेश्म पकावृत्य यामि।
44 पश्चात् स तत् स्थानम् उपस्थाय तत् शून्यं मार्ज्जितं शोभितञ्च विलोक्य व्रजन् स्वतोपि दुष्टतरान् अन्यसप्तभूतान् सङ्गिनः करोति।
45 ततस्ते तत् स्थानं प्रविश्य निवसन्ति, तेन तस्य मनुजस्य शेषदशा पूर्व्वदशातोतीवाशुभा भवति, एतेषां दुष्टवंश्यानामपि तथैव घटिष्यते।
46 मानवेभ्य एतासां कथनां कथनकाले तस्य माता सहजाश्च तेन साकं काञ्चित् कथां कथयितुं वाञ्छन्तो बहिरेव स्थितवन्तः।
47 ततः कश्चित् तस्मै कथितवान्, पश्य तव जननी सहजाश्च त्वया साकं काञ्चन कथां कथयितुं कामयमाना बहिस्तिष्ठन्ति।
48 किन्तु स तं प्रत्यवदत्, मम का जननी? के वा मम सहजाः?
49 पश्चात् शिष्यान् प्रति करं प्रसार्य्य कथितवान्, पश्य मम जननी मम सहजाश्चैते;
50 यः कश्चित् मम स्वर्गस्थस्य पितुरिष्टं कर्म्म कुरुते, सएव मम भ्राता भगिनी जननी च।

मथिलिखितः सुसंवादः 13

1 अपरञ्च तस्मिन् दिने यीशुः सद्मनो गत्वा सरित्पते रोधसि समुपविवेश।
2 तत्र तत्सन्निधौ बहुजनानां निवहोपस्थितेः स तरणिमारुह्य समुपाविशत्, तेन मानवा रोधसि स्थितवन्तः।
3 तदानीं स दृष्टान्तैस्तान् इत्थं बहुश उपदिष्टवान्। पश्यत, कश्चित् कृषीवलो बीजानि वप्तुं बहिर्जगाम,
4 तस्य वपनकाले कतिपयबीजेषु मार्गपार्श्वे पतितेषु विहगास्तानि भक्षितवन्तः।
5 अपरं कतिपयबीजेषु स्तोकमृद्युक्तपाषाणे पतितेषु मृदल्पत्वात् तत्क्षणात् तान्यङ्कुरितानि,
6 किन्तु रवावुदिते दग्धानि तेषां मूलाप्रविष्टत्वात् शुष्कतां गतानि च।
7 अपरं कतिपयबीजेषु कण्टकानां मध्ये पतितेषु कण्टकान्येधित्वा तानि जग्रसुः।
8 अपरञ्च कतिपयबीजानि उर्व्वरायां पतितानि; तेषां मध्ये कानिचित् शतगुणानि कानिचित् षष्टिगुणानि कानिचित् त्रिंशगुंणानि फलानि फलितवन्ति।
9 श्रोतुं यस्य श्रुती आसाते स शृणुयात्।
10 अनन्तरं शिष्यैरागत्य सोऽपृच्छ्यत, भवता तेभ्यः कुतो दृष्टान्तकथा कथ्यते?
11 ततः स प्रत्यवदत्, स्वर्गराज्यस्य निगूढां कथां वेदितुं युष्मभ्यं सामर्थ्यमदायि, किन्तु तेभ्यो नादायि।
12 यस्माद् यस्यान्तिके वर्द्धते, तस्मायेव दायिष्यते, तस्मात् तस्य बाहुल्यं भविष्यति, किन्तु यस्यान्तिके न वर्द्धते, तस्य यत् किञ्चनास्ते, तदपि तस्माद् आदायिष्यते।
13 ते पश्यन्तोपि न पश्यन्ति, शृण्वन्तोपि न शृण्वन्ति, बुध्यमाना अपि न बुध्यन्ते च, तस्मात् तेभ्यो दृष्टान्तकथा कथ्यते।
14 यथा कर्णैः श्रोष्यथ यूयं वै किन्तु यूयं न भोत्स्यथ। नेत्रैर्द्रक्ष्यथ यूयञ्च परिज्ञातुं न शक्ष्यथ। ते मानुषा यथा नैव परिपश्यन्ति लोचनैः। कर्णै र्यथा न शृण्वन्ति न बुध्यन्ते च मानसैः। व्यावर्त्तितेषु चित्तेषु काले कुत्रापि तैर्जनैः। मत्तस्ते मनुजाः स्वस्था यथा नैव भवन्ति च। तथा तेषां मनुष्याणां क्रियन्ते स्थूलबुद्धयः। बधिरीभूतकर्णाश्च जाताश्च मुद्रिता दृशः।
15 यदेतानि वचनानि यिशयियभविष्यद्वादिना प्रोक्तानि तेषु तानि फलन्ति।
16 किन्तु युष्माकं नयनानि धन्यानि, यस्मात् तानि वीक्षन्ते; धन्याश्च युष्माकं शब्दग्रहाः, यस्मात् तैराकर्ण्यते।
17 मया यूयं तथ्यं वचामि युष्माभि र्यद्यद् वीक्ष्यते, तद् बहवो भविष्यद्वादिनो धार्म्मिकाश्च मानवा दिदृक्षन्तोपि द्रष्टुं नालभन्त, पुनश्च यूयं यद्यत् शृणुथ, तत् ते शुश्रूषमाणा अपि श्रोतुं नालभन्त।
18 कृषीवलीयदृष्टान्तस्यार्थं शृणुत।
19 मार्गपार्श्वे बीजान्युप्तानि तस्यार्थ एषः, यदा कश्चित् राज्यस्य कथां निशम्य न बुध्यते, तदा पापात्मागत्य तदीयमनस उप्तां कथां हरन् नयति।
20 अपरं पाषाणस्थले बीजान्युप्तानि तस्यार्थ एषः; कश्चित् कथां श्रुत्वैव हर्षचित्तेन गृह्लाति,
21 किन्तु तस्य मनसि मूलाप्रविष्टत्वात् स किञ्चित्कालमात्रं स्थिरस्तिष्ठति; पश्चात तत्कथाकारणात् कोपि क्लेस्ताडना वा चेत् जायते, तर्हि स तत्क्षणाद् विघ्नमेति।
22 अपरं कण्टकानां मध्ये बीजान्युप्तानि तदर्थ एषः; केनचित् कथायां श्रुतायां सांसारिकचिन्ताभि र्भ्रान्तिभिश्च सा ग्रस्यते, तेन सा मा विफला भवति।
23 अपरम् उर्व्वरायां बीजान्युप्तानि तदर्थ एषः; ये तां कथां श्रुत्वा वुध्यन्ते, ते फलिताः सन्तः केचित् शतगुणानि केचित षष्टिगुणानि केचिच्च त्रिंशद्गुणानि फलानि जनयन्ति।
24 अनन्तरं सोपरामेकां दृष्टान्तकथामुपस्थाप्य तेभ्यः कथयामास; स्वर्गीयराज्यं तादृशेन केनचिद् गृहस्थेनोपमीयते, येन स्वीयक्षेत्रे प्रशस्तबीजान्यौप्यन्त।
25 किन्तु क्षणदायां सकललोकेषु सुप्तेषु तस्य रिपुरागत्य तेषां गोधूमबीजानां मध्ये वन्ययवमबीजान्युप्त्वा वव्राज।
26 ततो यदा बीजेभ्योऽङ्करा जायमानाः कणिशानि घृतवन्तः; तदा वन्ययवसान्यपि दृश्यमानान्यभवन्।
27 ततो गृहस्थस्य दासेया आगम्य तस्मै कथयाञ्चक्रुः, हे महेच्छ, भवता किं क्षेत्रे भद्रबीजानि नौप्यन्त? तथात्वे वन्ययवसानि कृत आयन्?
28 तदानीं तेन ते प्रतिगदिताः, केनचित् रिपुणा कर्म्मदमकारि। दासेयाः कथयामासुः, वयं गत्वा तान्युत्पाय्य क्षिपामो भवतः कीदृशीच्छा जायते?
29 तेनावादि, नहि, शङ्केऽहं वन्ययवसोत्पाटनकाले युष्माभिस्तैः साकं गोधूमा अप्युत्पाटिष्यन्ते।
30 अतः श्स्यकर्त्तनकालं यावद् उभयान्यपि सह वर्द्धन्तां, पश्चात् कर्त्तनकाले कर्त्तकान् वक्ष्यामि, यूयमादौ वन्ययवसानि संगृह्य दाहयितुं वीटिका बद्व्वा स्थापयत; किन्तु सर्व्वे गोधूमा युष्माभि र्भाण्डागारं नीत्वा स्थाप्यन्ताम्।
31 अनन्तरं सोपरामेकां दृष्टान्तकथामुत्थाप्य तेभ्यः कथितवान् कश्चिन्मनुजः सर्षपबीजमेकं नीत्वा स्वक्षेत्र उवाप।
32 सर्षपबीजं सर्व्वस्माद् बीजात् क्षुद्रमपि सदङ्कुरितं सर्व्वस्मात् शाकात् बृहद् भवति; स तादृशस्तरु र्भवति, यस्य शाखासु नभसः खगा आगत्य निवसन्ति; स्वर्गीयराज्यं तादृशस्य सर्षपैकस्य समम्।
33 पुनरपि स उपमाकथामेकां तेभ्यः कथयाञ्चकार; काचन योषित् यत् किण्वमादाय द्रोणत्रयमितगोधूमचूर्णानां मध्ये सर्व्वेषां मिश्रीभवनपर्य्यन्तं समाच्छाद्य निधत्तवती, तत्किण्वमिव स्वर्गराज्यं।
34 इत्थं यीशु र्मनुजनिवहानां सन्निधावुपमाकथाभिरेतान्याख्यानानि कथितवान् उपमां विना तेभ्यः किमपि कथां नाकथयत्।
35 एतेन दृष्टान्तीयेन वाक्येन व्यादाय वदनं निजं। अहं प्रकाशयिष्यामि गुप्तवाक्यं पुराभवं। यदेतद्वचनं भविष्यद्वादिना प्रोक्तमासीत्, तत् सिद्धमभवत्।
36 सर्व्वान् मनुजान् विसृज्य यीशौ गृहं प्रविष्टे तच्छिष्या आगत्य यीशवे कथितवन्तः, क्षेत्रस्य वन्ययवसीयदृष्टान्तकथाम् भवान अस्मान् स्पष्टीकृत्य वदतु।
37 ततः स प्रत्युवाच, येन भद्रबीजान्युप्यन्ते स मनुजपुत्रः,
38 क्षेत्रं जगत्, भद्रबीजानी राज्यस्य सन्तानाः,
39 वन्ययवसानि पापात्मनः सन्तानाः। येन रिपुणा तान्युप्तानि स शयतानः, कर्त्तनसमयश्च जगतः शेषः, कर्त्तकाः स्वर्गीयदूताः।
40 यथा वन्ययवसानि संगृह्य दाह्यन्ते, तथा जगतः शेषे भविष्यति;
41 अर्थात् मनुजसुतः स्वांयदूतान् प्रेषयिष्यति, तेन ते च तस्य राज्यात् सर्व्वान् विघ्नकारिणोऽधार्म्मिकलोकांश्च संगृह्य
42 यत्र रोदनं दन्तघर्षणञ्च भवति, तत्राग्निकुण्डे निक्षेप्स्यन्ति।
43 तदानीं धार्म्मिकलोकाः स्वेषां पितू राज्ये भास्करइव तेजस्विनो भविष्यन्ति। श्रोतुं यस्य श्रुती आसाते, म शृणुयात्।
44 अपरञ्च क्षेत्रमध्ये निधिं पश्यन् यो गोपयति, ततः परं सानन्दो गत्वा स्वीयसर्व्वस्वं विक्रीय त्तक्षेत्रं क्रीणाति, स इव स्वर्गराज्यं।
45 अन्यञ्च यो वणिक् उत्तमां मुक्तां गवेषयन्
46 महार्घां मुक्तां विलोक्य निजसर्व्वस्वं विक्रीय तां क्रीणाति, स इव स्वर्गराज्यं।
47 पुनश्च समुद्रो निक्षिप्तः सर्व्वप्रकारमीनसंग्राह्यानायइव स्वर्गराज्यं।
48 तस्मिन् आनाये पूर्णे जना यथा रोधस्युत्तोल्य समुपविश्य प्रशस्तमीनान् संग्रह्य भाजनेषु निदधते, कुत्सितान् निक्षिपन्ति;
49 तथैव जगतः शेषे भविष्यति, फलतः स्वर्गीयदूता आगत्य पुण्यवज्जनानां मध्यात् पापिनः पृथक् कृत्वा वह्निकुण्डे निक्षेप्स्यन्ति,
50 तत्र रोदनं दन्तै र्दन्तघर्षणञ्च भविष्यतः।
51 यीशुना ते पृष्टा युष्माभिः किमेतान्याख्यानान्यबुध्यन्त? तदा ते प्रत्यवदन्, सत्यं प्रभो।
52 तदानीं स कथितवान्, निजभाण्डागारात् नवीनपुरातनानि वस्तूनि निर्गमयति यो गृहस्थः स इव स्वर्गराज्यमधि शिक्षिताः स्वर्व उपदेष्टारः।
53 अनन्तरं यीशुरेताः सर्व्वा दृष्टान्तकथाः समाप्य तस्मात् स्थानात् प्रतस्थे। अपरं स्वदेशमागत्य जनान् भजनभवन उपदिष्टवान्;
54 ते विस्मयं गत्वा कथितवन्त एतस्यैतादृशं ज्ञानम् आश्चर्य्यं कर्म्म च कस्माद् अजायत?
55 किमयं सूत्रधारस्य पुत्रो नहि? एतस्य मातु र्नाम च किं मरियम् नहि? याकुब्-यूषफ्-शिमोन्-यिहूदाश्च किमेतस्य भ्रातरो नहि?
56 एतस्य भगिन्यश्च किमस्माकं मध्ये न सन्ति? तर्हि कस्मादयमेतानि लब्धवान्? इत्थं स तेषां विघ्नरूपो बभूव;
57 ततो यीशुना निगदितं स्वदेशीयजनानां मध्यं विना भविष्यद्वादी कुत्राप्यन्यत्र नासम्मान्यो भवती।
58 तेषामविश्वासहेतोः स तत्र स्थाने बह्वाश्चर्य्यकर्म्माणि न कृतवान्।

मथिलिखितः सुसंवादः 14

1 तदानीं राजा हेरोद् यीशो र्यशः श्रुत्वा निजदासेयान् जगाद्,
2 एष मज्जयिता योहन्, प्रमितेभयस्तस्योत्थानात् तेनेत्थमद्भुतं कर्म्म प्रकाश्यते।
3 पुरा हेरोद् निजभ्रातु: फिलिपो जायाया हेरोदीयाया अनुरोधाद् योहनं धारयित्वा बद्धा कारायां स्थापितवान्।
4 यतो योहन् उक्तवान्, एत्सयाः संग्रहो भवतो नोचितः।
5 तस्मात् नृपतिस्तं हन्तुमिच्छन्नपि लोकेभ्यो विभयाञ्चकार; यतः सर्व्वे योहनं भविष्यद्वादिनं मेनिरे।
6 किन्तु हेरोदो जन्माहीयमह उपस्थिते हेरोदीयाया दुहिता तेषां समक्षं नृतित्वा हेरोदमप्रीण्यत्।
7 तस्मात् भूपतिः शपथं कुर्व्वन् इति प्रत्यज्ञासीत्, त्वया यद् याच्यते, तदेवाहं दास्यामि।
8 सा कुमारी स्वीयमातुः शिक्षां लब्धा बभाषे, मज्जयितुर्योहन उत्तमाङ्गं भाजने समानीय मह्यं विश्राणय।
9 ततो राजा शुशोच, किन्तु भोजनायोपविशतां सङ्गिनां स्वकृतशपथस्य चानुरोधात् तत् प्रदातुम आदिदेश।
10 पश्चात् कारां प्रति नरं प्रहित्य योहन उत्तमाङ्गं छित्त्वा
11 तत् भाजन आनाय्य तस्यै कुमार्य्यै व्यश्राणयत्, ततः सा स्वजनन्याः समीपं तन्निनाय।
12 पश्चात् योहनः शिष्या आगत्य कायं नीत्वा श्मशाने स्थापयामासुस्ततो यीशोः सन्निधिं व्रजित्वा तद्वार्त्तां बभाषिरे।
13 अनन्तरं यीशुरिति निशभ्य नावा निर्जनस्थानम् एकाकी गतवान्, पश्चात् मानवास्तत् श्रुत्वा नानानगरेभ्य आगत्य पदैस्तत्पश्चाद् ईयुः।
14 तदानीं यीशु र्बहिरागत्य महान्तं जननिवहं निरीक्ष्य तेषु कारुणिकः मन् तेषां पीडितजनान् निरामयान् चकार।
15 ततः परं सन्ध्यायां शिष्यास्तदन्तिकमागत्य कथयाञ्चक्रुः, इदं निर्जनस्थानं वेलाप्यवसन्ना; तस्मात् मनुजान् स्वस्वग्रामं गन्तुं स्वार्थं भक्ष्याणि क्रेतुञ्च भवान् तान् विसृजतु।
16 किन्तु यीशुस्तानवादीत्, तेषां गमने प्रयोजनं नास्ति, यूयमेव तान् भोजयत।
17 तदा ते प्रत्यवदन्, अस्माकमत्र पूपपञ्चकं मीनद्वयञ्चास्ते।
18 तदानीं तेनोक्तं तानि मदन्तिकमानयत।
19 अनन्तरं स मनुजान् यवसोपर्य्युपवेष्टुम् आज्ञापयामास; अपर तत् पूपपञ्चकं मीनद्वयञ्च गृह्लन् स्वर्गं प्रति निरीक्ष्येश्वरीयगुणान् अनूद्य भंक्त्वा शिष्येभ्यो दत्तवान्, शिष्याश्च लोकेभ्यो ददुः।
20 ततः सर्व्वे भुक्त्वा परितृप्तवन्तः, ततस्तदवशिष्टभक्ष्यैः पूर्णान् द्वादशडलकान् गृहीतवन्तः।
21 ते भोक्तारः स्त्रीर्बालकांश्च विहाय प्रायेण पञ्च सहस्राणि पुमांस आसन्।
22 तदनन्तरं यीशु र्लोकानां विसर्जनकाले शिष्यान् तरणिमारोढुं स्वाग्रे पारं यातुञ्च गाढमादिष्टवान्।
23 ततो लोकेषु विसृष्टेषु स विविक्ते प्रार्थयितुं गिरिमेकं गत्वा सन्ध्यां यावत् तत्रैकाकी स्थितवान्।
24 किन्तु तदानीं सम्मुखवातत्वात् सरित्पते र्मध्ये तरङ्गैस्तरणिर्दोलायमानाभवत्।
25 तदा स यामिन्याश्चतुर्थप्रहरे पद्भ्यां व्रजन् तेषामन्तिकं गतवान्।
26 किन्तु शिष्यास्तं सागरोपरि व्रजन्तं विलोक्य समुद्विग्ना जगदुः, एष भूत इति शङ्कमाना उच्चैः शब्दायाञ्चक्रिरे च।
27 तदैव यीशुस्तानवदत्, सुस्थिरा भवत, मा भैष्ट, एषोऽहम्।
28 ततः पितर इत्युक्तवान्, हे प्रभो, यदि भवानेव, तर्हि मां भवत्समीपं यातुमाज्ञापयतु।
29 ततः तेनादिष्टः पितरस्तरणितोऽवरुह्य यीशेारन्तिकं प्राप्तुं तोयोपरि वव्राज।
30 किन्तु प्रचण्डं पवनं विलोक्य भयात् तोये मंक्तुम् आरेभे, तस्माद् उच्चैः शब्दायमानः कथितवान्, हे प्रभो, मामवतु।
31 यीशुस्तत्क्षणात् करं प्रसार्य्य तं धरन् उक्तवान्, ह स्तोकप्रत्ययिन् त्वं कुतः समशेथाः?
32 अनन्तरं तयोस्तरणिमारूढयोः पवनो निववृते।
33 तदानीं ये तरण्यामासन्, त आगत्य तं प्रणभ्य कथितवन्तः, यथार्थस्त्वमेवेश्वरसुतः।
34 अनन्तरं पारं प्राप्य ते गिनेषरन्नामकं नगरमुपतस्थुः,
35 तदा तत्रत्या जना यीशुं परिचीय तद्देश्स्य चतुर्दिशो वार्त्तां प्रहित्य यत्र यावन्तः पीडिता आसन्, तावतएव तदन्तिकमानयामासुः।
36 अपरं तदीयवसनस्य ग्रन्थिमात्रं स्प्रष्टुं विनीय यावन्तो जनास्तत् स्पर्शं चक्रिरे, ते सर्व्वएव निरामया बभूवुः।

मथिलिखितः सुसंवादः 15

1 अपरं यिरूशालम्नगरीयाः कतिपया अध्यापकाः फिरूशिनश्च यीशोः समीपमागत्य कथयामासुः,
2 तव शिष्याः किमर्थम् अप्रक्षालितकरै र्भक्षित्वा परम्परागतं प्राचीनानां व्यवहारं लङ्वन्ते?
3 ततो यीशुः प्रत्युवाच, यूयं परम्परागताचारेण कुत ईश्वराज्ञां लङ्वध्वे।
4 ईश्वर इत्याज्ञापयत्, त्वं निजपितरौ संमन्येथाः, येन च निजपितरौ निन्द्येते, स निश्चितं म्रियेत;
5 किन्तु यूयं वदथ, यः स्वजनकं स्वजननीं वा वाक्यमिदं वदति, युवां मत्तो यल्लभेथे, तत् न्यविद्यत,
6 स निजपितरौ पुन र्न संमंस्यते। इत्थं यूयं परम्परागतेन स्वेषामाचारेणेश्वरीयाज्ञां लुम्पथ।
7 रे कपटिनः सर्व्वे यिशयियो युष्मानधि भविष्यद्वचनान्येतानि सम्यग् उक्तवान्।
8 वदनै र्मनुजा एते समायान्ति मदन्तिकं। तथाधरै र्मदीयञ्च मानं कुर्व्वन्ति ते नराः।
9 किन्तु तेषां मनो मत्तो विदूरएव तिष्ठति। शिक्षयन्तो विधीन् न्राज्ञा भजन्ते मां मुधैव ते।
10 ततो यीशु र्लोकान् आहूय प्रोक्तवान्, यूयं श्रुत्वा बुध्यध्बं।
11 यन्मुखं प्रविशति, तत् मनुजम् अमेध्यं न करोति, किन्तु यदास्यात् निर्गच्छति, तदेव मानुषममेध्यी करोती।
12 तदानीं शिष्या आगत्य तस्मै कथयाञ्चक्रुः, एतां कथां श्रुत्वा फिरूशिनो व्यरज्यन्त, तत् किं भवता ज्ञायते?
13 स प्रत्यवदत्, मम स्वर्गस्थः पिता यं कञ्चिदङ्कुरं नारोपयत्, स उत्पाव्द्यते।
14 ते तिष्ठन्तु, ते अन्धमनुजानाम् अन्धमार्गदर्शका एव; यद्यन्धोऽन्धं पन्थानं दर्शयति, तर्ह्युभौ गर्त्ते पततः।
15 तदा पितरस्तं प्रत्यवदत्, दृष्टान्तमिममस्मान् बोधयतु।
16 यीशुना प्रोक्तं, यूयमद्य यावत् किमबोधाः स्थ?
17 कथामिमां किं न बुध्यध्बे ? यदास्यं प्रेविशति, तद् उदरे पतन् बहिर्निर्याति,
18 किन्त्वास्याद् यन्निर्याति, तद् अन्तःकरणात् निर्यातत्वात् मनुजममेध्यं करोति।
19 यतोऽन्तःकरणात् कुचिन्ता बधः पारदारिकता वेश्यागमनं चैर्य्यं मिथ्यासाक्ष्यम् ईश्वरनिन्दा चैतानि सर्व्वाणि निर्य्यान्ति।
20 एतानि मनुष्यमपवित्री कुर्व्वन्ति किन्त्वप्रक्षालितकरेण भोजनं मनुजममेध्यं न करोति।
21 अनन्तरं यीशुस्तस्मात् स्थानात् प्रस्थाय सोरसीदोन्नगरयोः सीमामुपतस्यौ।
22 तदा तत्सीमातः काचित् किनानीया योषिद् आगत्य तमुच्चैरुवाच, हे प्रभो दायूदः सन्तान, ममैका दुहितास्ते सा भूतग्रस्ता सती महाक्लेशं प्राप्नोति मम दयस्व।
23 किन्तु यीशुस्तां किमपि नोक्तवान्, ततः शिष्या आगत्य तं निवेदयामासुः, एषा योषिद् अस्माकं पश्चाद् उच्चैराहूयागच्छति, एनां विसृजतु।
24 तदा स प्रत्यवदत्, इस्रायेल्गोत्रस्य हारितमेषान् विना कस्याप्यन्यस्य समीपं नाहं प्रेषितोस्मि।
25 ततः सा नारीसमागत्य तं प्रणम्य जगाद, हे प्रभो मामुपकुरु।
26 स उक्तवान्, बालकानां भक्ष्यमादाय सारमेयेभ्यो दानं नोचितं।
27 तदा सा बभाषे, हे प्रभो, तत् सत्यं, तथापि प्रभो र्भञ्चाद् यदुच्छिष्टं पतति, तत् सारमेयाः खादन्ति।
28 ततो यीशुः प्रत्यवदत्, हे योषित्, तव विश्वासो महान् तस्मात् तव मनोभिलषितं सिद्य्यतु, तेन तस्याः कन्या तस्मिन्नेव दण्डे निरामयाभवत्।
29 अनन्तरं यीशस्तस्मात् स्थानात् प्रस्थाय गालील्सागरस्य सन्निधिमागत्य धराधरमारुह्य तत्रोपविवेश।
30 पश्चात् जननिवहो बहून् खञ्चान्धमूकशुष्ककरमानुषान् आदाय यीशोः समीपमागत्य तच्चरणान्तिके स्थापयामासुः, ततः सा तान् निरामयान् अकरोत्।
31 इत्थं मूका वाक्यं वदन्ति, शुष्ककराः स्वास्थ्यमायान्ति, पङ्गवो गच्छन्ति, अन्धा वीक्षन्ते, इति विलोक्य लोका विस्मयं मन्यमाना इस्रायेल ईश्वरं धन्यं बभाषिरे।
32 तदानीं यीशुः स्वशिष्यान् आहूय गदितवान्, एतज्जननिवहेषु मम दया जायते, एते दिनत्रयं मया साकं सन्ति, एषां भक्ष्यवस्तु च कञ्चिदपि नास्ति, तस्मादहमेतानकृताहारान् न विस्रक्ष्यामि, तथात्वे वर्त्ममध्ये क्लाम्येषुः।
33 तदा शिष्या ऊचुः, एतस्मिन् प्रान्तरमध्य एतावतो मर्त्यान् तर्पयितुं वयं कुत्र पूपान् प्राप्स्यामः?
34 यीशुरपृच्छत्, युष्माकं निकटे कति पूपा आसते? त ऊचुः, सप्तपूपा अल्पाः क्षुद्रमीनाश्च सन्ति।
35 तदानीं स लोकनिवहं भूमावुपवेष्टुम् आदिश्य
36 तान् सप्तपूपान् मीनांश्च गृह्लन् ईश्वरीयगुणान् अनूद्य भंक्त्वा शिष्येभ्यो ददौ, शिष्या लोकेभ्यो ददुः।
37 ततः सर्व्वे भुक्त्वा तृप्तवन्तः; तदवशिष्टभक्ष्येण सप्तडलकान् परिपूर्य्य संजगृहुः।
38 ते भोक्तारो योषितो बालकांश्च विहाय प्रायेण चतुःसहस्राणि पुरुषा आसन्।
39 ततः परं स जननिवहं विसृज्य तरिमारुह्य मग्दलाप्रदेशं गतवान्।

मथिलिखितः सुसंवादः 16

1 तदानीं फिरूशिनः सिदूकिनश्चागत्य तं परीक्षितुं नभमीयं किञ्चन लक्ष्म दर्शयितुं तस्मै निवेदयामासुः।
2 ततः स उक्तवान्, सन्ध्यायां नभसो रक्तत्वाद् यूयं वदथ, श्वो निर्म्मलं दिनं भविष्यति;
3 प्रातःकाले च नभसो रक्तत्वात् मलिनत्वाञ्च वदथ, झञ्भ्शद्य भविष्यति। हे कपटिनो यदि यूयम् अन्तरीक्षस्य लक्ष्म बोद्धुं शक्नुथ, तर्हि कालस्यैतस्य लक्ष्म कथं बोद्धुं न शक्नुथ?
4 एतत्कालस्य दुष्टो व्यभिचारी च वंशो लक्ष्म गवेषयति, किन्तु यूनसो भविष्यद्वादिनो लक्ष्म विनान्यत् किमपि लक्ष्म तान् न दर्शयिय्यते। तदानीं स तान् विहाय प्रतस्थे।
5 अनन्तरमन्यपारगमनकाले तस्य शिष्याः पूपमानेतुं विस्मृतवन्तः।
6 यीशुस्तानवादीत्, यूयं फिरूशिनां सिदूकिनाञ्च किण्वं प्रति सावधानाः सतर्काश्च भवत।
7 तेन ते परस्परं विविच्य कथयितुमारेभिरे, वयं पूपानानेतुं विस्मृतवन्त एतत्कारणाद् इति कथयति।
8 किन्तु यीशुस्तद्विज्ञाय तानवोचत्, हे स्तोकविश्वासिनो यूयं पूपानानयनमधि कुतः परस्परमेतद् विविंक्य?
9 युष्माभिः किमद्यापि न ज्ञायते? पञ्चभिः पूपैः पञ्चसहस्रपुरुषेषु भोजितेषु भक्ष्योच्छिष्टपूर्णान् कति डलकान् समगृह्लीतं;
10 तथा सप्तभिः पूपैश्चतुःसहस्रपुरुषेषु भेजितेषु कति डलकान् समगृह्लीत, तत् किं युष्माभिर्न स्मर्य्यते?
11 तस्मात् फिरूशिनां सिदूकिनाञ्च किण्वं प्रति सावधानास्तिष्ठत, कथामिमाम् अहं पूपानधि नाकथयं, एतद् यूयं कुतो न बुध्यध्वे?
12 तदानीं पूपकिण्वं प्रति सावधानास्तिष्ठतेति नोक्त्वा फिरूशिनां सिदूकिनाञ्च उपदेशं प्रति सावधानास्तिष्ठतेति कथितवान्, इति तैरबोधि।
13 अपरञ्च यीशुः कैसरिया-फिलिपिप्रदेशमागत्य शिष्यान् अपृच्छत्, योऽहं मनुजसुतः सोऽहं कः? लोकैरहं किमुच्ये?
14 तदानीं ते कथितवन्तः, केचिद् वदन्ति त्वं मज्जयिता योहन्, केचिद्वदन्ति, त्वम् एलियः, केचिच्च वदन्ति, त्वं यिरिमियो वा कश्चिद् भविष्यद्वादीति।
15 पश्चात् स तान् पप्रच्छ, यूयं मां कं वदथ? ततः शिमोन् पितर उवाच,
16 त्वममरेश्वरस्याभिषिक्तपुत्रः।
17 ततो यीशुः कथितवान्, हे यूनसः पुत्र शिमोन् त्वं धन्यः; यतः कोपि अनुजस्त्वय्येतज्ज्ञानं नोदपादयत्, किन्तु मम स्वर्गस्यः पितोदपादयत्।
18 अतोऽहं त्वां वदामि, त्वं पितरः (प्रस्तरः) अहञ्च तस्य प्रस्तरस्योपरि स्वमण्डलीं निर्म्मास्यामि, तेन निरयो बलात् तां पराजेतुं न शक्ष्यति।
19 अहं तुभ्यं स्वर्गीयराज्यस्य कुञ्जिकां दास्यामि, तेन यत् किञ्चन त्वं पृथिव्यां भंत्स्यसि तत्स्वर्गे भंत्स्यते, यच्च किञ्चन मह्यां मोक्ष्यसि तत् स्वर्गे मोक्ष्यते।
20 पश्चात् स शिष्यानादिशत्, अहमभिषिक्तो यीशुरिति कथां कस्मैचिदपि यूयं मा कथयत।
21 अन्यञ्च यिरूशालम्नगरं गत्वा प्राचीनलोकेभ्यः प्रधानयाजकेभ्य उपाध्यायेभ्यश्च बहुदुःखभोगस्तै र्हतत्वं तृतीयदिने पुनरुत्थानञ्च ममावश्यकम् एताः कथा यीशुस्तत्कालमारभ्य शिष्यान् ज्ञापयितुम् आरब्धवान्।
22 तदानीं पितरस्तस्य करं घृत्वा तर्जयित्वा कथयितुमारब्धवान्, हे प्रभो, तत् त्वत्तो दूरं यातु, त्वां प्रति कदापि न घटिष्यते।
23 किन्तु स वदनं परावर्त्य पितरं जगाद, हे विघ्नकारिन्, मत्सम्मुखाद् दूरीभव, त्वं मां बाधसे, ईश्वरीयकार्य्यात् मानुषीयकार्य्यं तुभ्यं रोचते।
24 अनन्तरं यीशुः स्वीयशिष्यान् उक्तवान् यः कश्चित् मम पश्चाद्गामी भवितुम् इच्छति, स स्वं दाम्यतु, तथा स्वक्रुशं गृह्लन् मत्पश्चादायातु।
25 यतो यः प्राणान् रक्षितुमिच्छति, स तान् हारयिष्यति, किन्तु यो मदर्थं निजप्राणान् हारयति, स तान् प्राप्स्यति।
26 मानुषो यदि सर्व्वं जगत् लभते निजप्रणान् हारयति, तर्हि तस्य को लाभः? मनुजो निजप्राणानां विनिमयेन वा किं दातुं शक्नोति?
27 मनुजसुतः स्वदूतैः साकं पितुः प्रभावेणागमिष्यति; तदा प्रतिमनुजं स्वस्वकर्म्मानुसारात् फलं दास्यति।
28 अहं युष्मान् तथ्यं वच्मि, सराज्यं मनुजसुतम् आगतं न पश्यन्तो मृत्युं न स्वादिष्यन्ति, एतादृशाः कतिपयजना अत्रापि दण्डायमानाः सन्ति।

मथिलिखितः सुसंवादः 17

1 अनन्तरं षड्दिनेभ्यः परं यीशुः पितरं याकूबं तत्सहजं योहनञ्च गृह्लन् उच्चाद्रे र्विविक्तस्थानम् आगत्य तेषां समक्षं रूपमन्यत् दधार।
2 तेन तदास्यं तेजस्वि, तदाभरणम् आलोकवत् पाण्डरमभवत्।
3 अन्यच्च तेन साकं संलपन्तौ मूसा एलियश्च तेभ्यो दर्शनं ददतुः।
4 तदानीं पितरो यीशुं जगाद, हे प्रभो स्थितिरत्रास्माकं शुभा, यदि भवतानुमन्यते, तर्हि भवदर्थमेकं मूसार्थमेकम् एलियार्थञ्चैकम् इति त्रीणि दूष्याणि निर्म्मम।
5 एतत्कथनकाल एक उज्जवलः पयोदस्तेषामुपरि छायां कृतवान्, वारिदाद् एषा नभसीया वाग् बभूव, ममायं प्रियः पुत्रः, अस्मिन् मम महासन्तोष एतस्य वाक्यं यूयं निशामयत।
6 किन्तु वाचमेतां शृण्वन्तएव शिष्या मृशं शङ्कमाना न्युब्जा न्यपतन्।
7 तदा यीशुरागत्य तेषां गात्राणि स्पृशन् उवाच, उत्तिष्ठत, मा भैष्ट।
8 तदानीं नेत्राण्युन्मील्य यीशुं विना कमपि न ददृशुः।
9 ततः परम् अद्रेरवरोहणकाले यीशुस्तान् इत्यादिदेश, मनुजसुतस्य मृतानां मध्यादुत्थानं यावन्न जायते, तावत् युष्माभिरेतद्दर्शनं कस्मैचिदपि न कथयितव्यं।
10 तदा शिष्यास्तं पप्रच्छुः, प्रथमम् एलिय आयास्यतीति कुत उपाध्यायैरुच्यते?
11 ततो यीशुः प्रत्यवादीत्, एलियः प्रागेत्य सर्व्वाणि साधयिष्यतीति सत्यं,
12 किन्त्वहं युष्मान् वच्मि, एलिय एत्य गतः, ते तमपरिचित्य तस्मिन् यथेच्छं व्यवजहुः; मनुजसुतेनापि तेषामन्तिके तादृग् दुःखं भोक्तव्यं।
13 तदानीं स मज्जयितारं योहनमधि कथामेतां व्याहृतवान्, इत्थं तच्छिष्या बुबुधिरे।
14 पश्चात् तेषु जननिवहस्यान्तिकमागतेषु कश्चित् मनुजस्तदन्तिकमेत्य जानूनी पातयित्वा कथितवान्,
15 हे प्रभो, मत्पुत्रं प्रति कृपां विदधातु, सोपस्मारामयेन भृशं व्यथितः सन् पुनः पुन र्वह्नौ मुहु र्जलमध्ये पतति।
16 तस्माद् भवतः शिष्याणां समीपे तमानयं किन्तु ते तं स्वास्थं कर्त्तुं न शक्ताः।
17 तदा यीशुः कथितवान् रे अविश्वासिनः, रे विपथगामिनः, पुनः कतिकालान् अहं युष्माकं सन्निधौ स्थास्यामि? कतिकालान् वा युष्मान् सहिष्ये? तमत्र ममान्तिकमानयत।
18 पश्चाद् यीशुना तर्जतएव स भूतस्तं विहाय गतवान्, तद्दण्डएव स बालको निरामयोऽभूत्।
19 ततः शिष्या गुप्तं यीशुमुपागत्य बभाषिरे, कुतो वयं तं भूतं त्याजयितुं न शक्ताः?
20 यीशुना ते प्रोक्ताः, युष्माकमप्रत्ययात्;
21 युष्मानहं तथ्यं वच्मि यदि युष्माकं सर्षपैकमात्रोपि विश्वासो जायते, तर्हि युष्माभिरस्मिन् शैले त्वमितः स्थानात् तत् स्थानं याहीति ब्रूते स तदैव चलिष्यति, युष्माकं किमप्यसाध्यञ्च कर्म्म न स्थास्याति। किन्तु प्रार्थनोपवासौ विनैतादृशो भूतो न त्याज्येत।
22 अपरं तेषां गालील्प्रदेशे भ्रमणकाले यीशुना ते गदिताः, मनुजसुतो जनानां करेषु समर्पयिष्यते तै र्हनिष्यते च,
23 किन्तु तृतीयेऽहि्न म उत्थापिष्यते, तेन ते भृशं दुःखिता बभूवः।
24 तदनन्तरं तेषु कफर्नाहूम्नगरमागतेषु करसंग्राहिणः पितरान्तिकमागत्य पप्रच्छुः, युष्माकं गुरुः किं मन्दिरार्थं करं न ददाति? ततः पितरः कथितवान् ददाति।
25 ततस्तस्मिन् गृहमध्यमागते तस्य कथाकथनात् पूर्व्वमेव यीशुरुवाच, हे शिमोन्, मेदिन्या राजानः स्वस्वापत्येभ्यः किं विदेशिभ्यः केभ्यः करं गृह्लन्ति? अत्र त्वं किं बुध्यसे? ततः पितर उक्तवान्, विदेशिभ्यः।
26 तदा यीशुरुक्तवान्, तर्हि सन्ताना मुक्ताः सन्ति।
27 तथापि यथास्माभिस्तेषामन्तरायो न जन्यते, तत्कृते जलधेस्तीरं गत्वा वडिशं क्षिप, तेनादौ यो मीन उत्थास्यति, तं घृत्वा तन्मुखे मोचिते तोलकैकं रूप्यं प्राप्स्यसि, तद् गृहीत्वा तव मम च कृते तेभ्यो देहि।

मथिलिखितः सुसंवादः 18

1 तदानीं शिष्या यीशोः समीपमागत्य पृष्टवन्तः स्वर्गराज्ये कः श्रेष्ठः?
2 ततो यीशुः क्षुद्रमेकं बालकं स्वसमीपमानीय तेषां मध्ये निधाय जगाद,
3 युष्मानहं सत्यं ब्रवीमि, यूयं मनोविनिमयेन क्षुद्रबालवत् न सन्तः स्वर्गराज्यं प्रवेष्टुं न शक्नुथ।
4 यः कश्चिद् एतस्य क्षुद्रबालकस्य सममात्मानं नम्रीकरोति, सएव स्वर्गराजये श्रेष्ठः।
5 यः कश्चिद् एतादृशं क्षुद्रबालकमेकं मम नाम्नि गृह्लाति, स मामेव गृह्लाति।
6 किन्तु यो जनो मयि कृतविश्वासानामेतेषां क्षुद्रप्राणिनाम् एकस्यापि विध्निं जनयति, कण्ठबद्धपेषणीकस्य तस्य सागरागाधजले मज्जनं श्रेयः।
7 विघ्नात् जगतः सन्तापो भविष्यति, विघ्नोऽवश्यं जनयिष्यते, किन्तु येन मनुजेन विघ्नो जनिष्यते तस्यैव सन्तापो भविष्यति।
8 तस्मात् तव करश्चरणो वा यदि त्वां बाधते, तर्हि तं छित्त्वा निक्षिप, द्विकरस्य द्विपदस्य वा तवानप्तवह्नौ निक्षेपात्, खञ्जस्य वा छिन्नहस्तस्य तव जीवने प्रवेशो वरं।
9 अपरं तव नेत्रं यदि त्वां बाधते, तर्हि तदप्युत्पाव्य निक्षिप, द्विनेत्रस्य नरकाग्नौ निक्षेपात् काणस्य तव जीवने प्रवेशो वरं।
10 तस्मादवधद्धं, एतेषां क्षुद्रप्राणिनाम् एकमपि मा तुच्छीकुरुत,
11 यतो युष्मानहं तथ्यं ब्रवीमि, स्वर्गे तेषां दूता मम स्वर्गस्थस्य पितुरास्यं नित्यं पश्यन्ति। एवं ये ये हारितास्तान् रक्षितुं मनुजपुत्र आगच्छत्।
12 यूयमत्र किं विविंग्घ्वे? कस्यचिद् यदि शतं मेषाः सन्ति, तेषामेको हार्य्यते च, तर्हि स एकोनशतं मेषान् विहाय पर्व्वतं गत्वा तं हारितमेकं किं न मृगयते?
13 यदि च कदाचित् तन्मेषोद्देशं लमते, तर्हि युष्मानहं सत्यं कथयामि, सोऽविपथगामिभ्य एकोनशतमेषेभ्योपि तदेकहेतोरधिकम् आह्लादते।
14 तद्वद् एतेषां क्षुद्रप्राएिनाम् एकोपि नश्यतीति युष्माकं स्वर्गस्थपितु र्नाभिमतम्।
15 यद्यपि तव भ्राता त्वयि किमप्यपराध्यति, तर्हि गत्वा युवयोर्द्वयोः स्थितयोस्तस्यापराधं तं ज्ञापय। तत्र स यदि तव वाक्यं शृणोति, तर्हि त्वं स्वभ्रातरं प्राप्तवान्,
16 किन्तु यदि न शृणोति, तर्हि द्वाभ्यां त्रिभि र्वा साक्षीभिः सर्व्वं वाक्यं यथा निश्चितं जायते, तदर्थम् एकं द्वौ वा साक्षिणौ गृहीत्वा याहि।
17 तेन स यदि तयो र्वाक्यं न मान्यते, तर्हि समाजं तज्ज्ञापय, किन्तु यदि समाजस्यापि वाक्यं न मान्यते,तर्हि स तव समीपे देवपूजकइव चण्डालइव च भविष्यति।
18 अहं युष्मान् सत्यं वदामि, युष्माभिः पृथिव्यां यद् बध्यते तत् स्वर्गे भंत्स्यते; मेदिन्यां यत् भोच्यते, स्वर्गेऽपि तत् मोक्ष्यते।
19 पुनरहं युष्मान् वदामि, मेदिन्यां युष्माकं यदि द्वावेकवाक्यीभूय किञ्चित् प्रार्थयेते, तर्हि मम स्वर्गस्थपित्रा तत् तयोः कृते सम्पन्नं भविष्यति।
20 यतो यत्र द्वौ त्रयो वा मम नान्नि मिलन्ति, तत्रैवाहं तेषां मध्येऽस्मि।
21 तदानीं पितरस्तत्समीपमागत्य कथितवान् हे प्रभो, मम भ्राता मम यद्यपराध्यति, तर्हि तं कतिकृत्वः क्षमिष्ये?
22 किं सप्तकृत्वः? यीशुस्तं जगाद, त्वां केवलं सप्तकृत्वो यावत् न वदामि, किन्तु सप्तत्या गुणितं सप्तकृत्वो यावत्।
23 अपरं निजदासैः सह जिगणयिषुः कश्चिद् राजेव स्वर्गराजयं।
24 आरब्धे तस्मिन् गणने सार्द्धसहस्रमुद्रापूरितानां दशसहस्रपुटकानाम् एकोऽघमर्णस्तत्समक्षमानायि।
25 तस्य परिशोधनाय द्रव्याभावात् परिशोधनार्थं स तदीयभार्य्यापुत्रादिसर्व्वस्वञ्च विक्रीयतामिति तत्प्रभुरादिदेश।
26 तेन स दासस्तस्य पादयोः पतन् प्रणम्य कथितवान् , हे प्रभो भवता घैर्य्ये कृते मया सर्व्वं परिशोधिष्यते।
27 तदानीं दासस्य प्रभुः सकरुणः सन् सकलर्णं क्षमित्वा तं तत्याज।
28 किन्तु तस्मिन् दासे बहि र्याते, तस्य शतं मुद्राचतुर्थांशान् यो धारयति, तं सहदासं दृष्द्वा तस्य कण्ठं निष्पीड्य गदितवान्, मम यत् प्राप्यं तत् परिशोधय।
29 तदा तस्य सहदासस्तत्पादयोः पतित्वा विनीय बभाषे, त्वया धैर्य्ये कृते मया सर्व्वं परिशोधिष्यते।
30 तथापि स तत् नाङगीकृत्य यावत् सर्व्वमृणं न परिशोधितवान् तावत् तं कारायां स्थापयामास।
31 तदा तस्य सहदासास्तस्यैतादृग् आचरणं विलोक्य प्रभोः समीपं गत्वा सर्व्वं वृत्तान्तं निवेदयामासुः।
32 तदा तस्य प्रभुस्तमाहूय जगाद, रे दुष्ट दास, त्वया मत्सन्निधौ प्रार्थिते मया तव सर्व्वमृणं त्यक्तं;
33 यथा चाहं त्वयि करुणां कृतवान्, तथैव त्वत्सहदासे करुणाकरणं किं तव नोचितं?
34 इति कथयित्वा तस्य प्रभुः क्रुद्ध्यन् निजप्राप्यं यावत् स न परिशोधितवान्, तावत् प्रहारकानां करेषु तं समर्पितवान्।
35 यदि यूयं स्वान्तःकरणैः स्वस्वसहजानाम् अपराधान् न क्षमध्वे, तर्हि मम स्वर्गस्यः पितापि युष्मान् प्रतीत्थं करिष्यति।

मथिलिखितः सुसंवादः 19

1 अनन्तरम् एतासु कथासु समाप्तासु यीशु र्गालीलप्रदेशात् प्रस्थाय यर्दन्तीरस्थं यिहूदाप्रदेशं प्राप्तः।
2 तदा तत्पश्चात् जननिवहे गते स तत्र तान् निरामयान् अकरोत्।
3 तदनन्तरं फिरूशिनस्तत्समीपमागत्य पारीक्षितुं तं पप्रच्छुः, कस्मादपि कारणात् नरेण स्वजाया परित्याज्या न वा?
4 स प्रत्युवाच, प्रथमम् ईश्वरो नरत्वेन नारीत्वेन च मनुजान् ससर्ज, तस्मात् कथितवान्,
5 मानुषः स्वपितरौ परित्यज्य स्वपत्न्याम् आसक्ष्यते, तौ द्वौ जनावेकाङ्गौ भविष्यतः, किमेतद् युष्माभि र्न पठितम्?
6 अतस्तौ पुन र्न द्वौ तयोरेकाङ्गत्वं जातं, ईश्वरेण यच्च समयुज्यत, मनुजो न तद् भिन्द्यात्।
7 तदानीं ते तं प्रत्यवदन्, तथात्वे त्याज्यपत्रं दत्त्वा स्वां स्वां जायां त्यक्तुं व्यवस्थां मूसाः कथं लिलेख?
8 ततः स कथितवान्, युष्माकं मनसां काठिन्याद् युष्मान् स्वां स्वां जायां त्यक्तुम् अन्वमन्यत किन्तु प्रथमाद् एषो विधिर्नासीत्।
9 अतो युष्मानहं वदामि, व्यभिचारं विना यो निजजायां त्यजेत् अन्याञ्च विवहेत्, स परदारान् गच्छति; यश्च त्यक्तां नारीं विवहति सोपि परदारेषु रमते।
10 तदा तस्य शिष्यास्तं बभाषिरे, यदि स्वजायया साकं पुंस एतादृक् सम्बन्धो जायते, तर्हि विवहनमेव न भद्रं।
11 ततः स उक्तवान्, येभ्यस्तत्सामर्थ्यं आदायि, तान् विनान्यः कोपि मनुज एतन्मतं ग्रहीतुं न शक्नोति।
12 कतिपया जननक्लीबः कतिपया नरकृतक्लीबः स्वर्गराज्याय कतिपयाः स्वकृतक्लीबाश्च सन्ति, ये ग्रहीतुं शक्नुवन्ति ते गृह्लन्तु।
13 अपरम् यथा स शिशूनां गात्रेषु हस्तं दत्वा प्रार्थयते, तदर्थं तत्समींपं शिशव आनीयन्त, तत आनयितृन् शिष्यास्तिरस्कृतवन्तः।
14 किन्तु यीशुरुवाच, शिशवो मदन्तिकम् आगच्छन्तु, तान् मा वारयत, एतादृशां शिशूनामेव स्वर्गराज्यं।
15 ततः स तेषां गात्रेषु हस्तं दत्वा तस्मात् स्थानात् प्रतस्थे।
16 अपरम् एक आगत्य तं पप्रच्छ, हे परमगुरो, अनन्तायुः प्राप्तुं मया किं किं सत्कर्म्म कर्त्तव्यं?
17 ततः स उवाच, मां परमं कुतो वदसि? विनेश्चरं न कोपि परमः, किन्तु यद्यनन्तायुः प्राप्तुं वाञ्छसि, तर्ह्याज्ञाः पालय।
18 तदा स पृष्टवान्, काः का आज्ञाः? ततो यीशुः कथितवान्, नरं मा हन्याः, परदारान् मा गच्छेः, मा चोरयेः, मृषासाक्ष्यं मा दद्याः,
19 निजपितरौ संमन्यस्व, स्वसमीपवासिनि स्ववत् प्रेम कुरु।
20 स युवा कथितवान्, आ बाल्याद् एताः पालयामि, इदानीं किं न्यूनमास्ते?
21 ततो यीशुरवदत्, यदि सिद्धो भवितुं वाञ्छसि, तर्हि गत्वा निजसर्व्वस्वं विक्रीय दरिद्रेभ्यो वितर, ततः स्वर्गे वित्तं लप्स्यसे; आगच्छ, मत्पश्चाद्वर्त्ती च भव।
22 एतां वाचं श्रुत्वा स युवा स्वीयबहुसम्पत्ते र्विषणः सन् चलितवान्।
23 तदा यीशुः स्वशिष्यान् अवदत्, धनिनां स्वर्गराज्यप्रवेशो महादुष्कर इति युष्मानहं तथ्यं वदामि।
24 पुनरपि युष्मानहं वदामि, धनिनां स्वर्गराज्यप्रवेशात् सूचीछिद्रेण महाङ्गगमनं सुकरं।
25 इति वाक्यं निशम्य शिष्या अतिचमत्कृत्य कथयामासुः; तर्हि कस्य परित्राणं भवितुं शक्नोति?
26 तदा स तान् दृष्द्वा कथयामास, तत् मानुषाणामशक्यं भवति, किन्त्वीश्वरस्य सर्व्वं शक्यम्।
27 तदा पितरस्तं गदितवान्, पश्य, वयं सर्व्वं परित्यज्य भवतः पश्चाद्वर्त्तिनो ऽभवाम; वयं किं प्राप्स्यामः?
28 ततो यीशुः कथितवान्, युष्मानहं तथ्यं वदामि, यूयं मम पश्चाद्वर्त्तिनो जाता इति कारणात् नवीनसृष्टिकाले यदा मनुजसुतः स्वीयैश्चर्य्यसिंहासन उपवेक्ष्यति, तदा यूयमपि द्वादशसिंहासनेषूपविश्य इस्रायेलीयद्वादशवंशानां विचारं करिष्यथ।
29 अन्यच्च यः कश्चित् मम नामकारणात् गृहं वा भ्रातरं वा भगिनीं वा पितरं वा मातरं वा जायां वा बालकं वा भूमिं परित्यजति, स तेषां शतगुणं लप्स्यते, अनन्तायुमोऽधिकारित्वञ्च प्राप्स्यति।
30 किन्तु अग्रीया अनेके जनाः पश्चात्, पश्चातीयाश्चानेके लोका अग्रे भविष्यन्ति।

मथिलिखितः सुसंवादः 20

1 स्वर्गराज्यम् एतादृशा केनचिद् गृहस्येन समं, योऽतिप्रभाते निजद्राक्षाक्षेत्रे कृषकान् नियोक्तुं गतवान्।
2 पश्चात् तैः साकं दिनैकभृतिं मुद्राचतुर्थांशं निरूप्य तान् द्राक्षाक्षेत्रं प्रेरयामास।
3 अनन्तरं प्रहरैकवेलायां गत्वा हट्टे कतिपयान् निष्कर्म्मकान् विलोक्य तानवदत्,
4 यूयमपि मम द्राक्षाक्षेत्रं यात, युष्मभ्यमहं योग्यभृतिं दास्यामि, ततस्ते वव्रजुः।
5 पुनश्च स द्वितीयतृतीययोः प्रहरयो र्बहि र्गत्वा तथैव कृतवान्।
6 ततो दण्डद्वयावशिष्टायां वेलायां बहि र्गत्वापरान् कतिपयजनान् निष्कर्म्मकान् विलोक्य पृष्टवान्, यूयं किमर्थम् अत्र सर्व्वं दिनं निष्कर्म्माणस्तिष्ठथ?
7 ते प्रत्यवदन्, अस्मान् न कोपि कर्ममणि नियुंक्ते। तदानीं स कथितवान्, यूयमपि मम द्राक्षाक्षेत्रं यात, तेन योग्यां भृतिं लप्स्यथ।
8 तदनन्तरं सन्ध्यायां सत्यां सएव द्राक्षाक्षेत्रपतिरध्यक्षं गदिवान्, कृषकान् आहूय शेषजनमारभ्य प्रथमं यावत् तेभ्यो भृतिं देहि।
9 तेन ये दण्डद्वयावस्थिते समायातास्तेषाम् एकैको जनो मुद्राचतुर्थांशं प्राप्नोत्।
10 तदानीं प्रथमनियुक्ता जना आगत्यानुमितवन्तो वयमधिकं प्रप्स्यामः, किन्तु तैरपि मुद्राचतुर्थांशोऽलाभि।
11 ततस्ते तं गृहीत्वा तेन क्षेत्रपतिना साकं वाग्युद्धं कुर्व्वन्तः कथयामासुः,
12 वयं कृत्स्नं दिनं तापक्लेशौ सोढवन्तः, किन्तु पश्चाताया से जना दण्डद्वयमात्रं परिश्रान्तवन्तस्तेऽस्माभिः समानांशाः कृताः।
13 ततः स तेषामेकं प्रत्युवाच, हे वत्स, मया त्वां प्रति कोप्यन्यायो न कृतः किं त्वया मत्समक्षं मुद्राचतुर्थांशो नाङ्गीकृतः?
14 तस्मात् तव यत् प्राप्यं तदादाय याहि, तुभ्यं यति, पश्चातीयनियुक्तलोकायापि तति दातुमिच्छामि।
15 स्वेच्छया निजद्रव्यव्यवहरणं किं मया न कर्त्तव्यं? मम दातृत्वात् त्वया किम् ईर्ष्यादृष्टिः क्रियते?
16 इत्थम् अग्रीयलोकाः पश्चतीया भविष्यन्ति, पश्चातीयजनाश्चग्रीया भविष्यन्ति, अहूता बहवः किन्त्वल्पे मनोभिलषिताः।
17 तदनन्तरं यीशु र्यिरूशालम्नगरं गच्छन् मार्गमध्ये शिष्यान् एकान्ते वभाषे,
18 पश्य वयं यिरूशालम्नगरं यामः, तत्र प्रधानयाजकाध्यापकानां करेषु मनुष्यपुत्रः समर्पिष्यते;
19 ते च तं हन्तुमाज्ञाप्य तिरस्कृत्य वेत्रेण प्रहर्त्तुं क्रुशे धातयितुञ्चान्यदेशीयानां करेषु समर्पयिष्यन्ति, किन्तु स तृतीयदिवसे श्मशानाद् उत्थापिष्यते।
20 तदानीं सिवदीयस्य नारी स्वपुत्रावादाय यीशोः समीपम् एत्य प्रणम्य कञ्चनानुग्रहं तं ययाचे।
21 तदा यीशुस्तां प्रोक्तवान्, त्वं किं याचसे? ततः सा बभाषे, भवतो राजत्वे ममानयोः सुतयोरेकं भवद्दक्षिणपार्श्वे द्वितीयं वामपार्श्व उपवेष्टुम् आज्ञापयतु।
22 यीशुः प्रत्युवाच, युवाभ्यां यद् याच्यते, तन्न बुध्यते, अहं येन कंसेन पास्यामि युवाभ्यां किं तेन पातुं शक्यते? अहञ्च येन मज्जेनेन मज्जिष्ये, युवाभ्यां किं तेन मज्जयितुं शक्यते? ते जगदुः शक्यते।
23 तदा स उक्तवान्, युवां मम कंसेनावश्यं पास्यथः, मम मज्जनेन च युवामपि मज्जिष्येथे, किन्तु येषां कृते मत्तातेन निरूपितम् इदं तान् विहायान्यं कमपि मद्दक्षिणपार्श्वे वामपार्श्वे च समुपवेशयितुं ममाधिकारो नास्ति।
24 एतां कथां श्रुत्वान्ये दशशिष्यास्तौ भ्रातरौ प्रति चुकुपुः।
25 किन्तु यीशुः स्वसमीपं तानाहूय जगाद, अन्यदेशीयलोकानां नरपतयस्तान् अधिकुर्व्वन्ति, ये तु महान्तस्ते तान् शासति, इति यूयं जानीथ।
26 किन्तु युष्माकं मध्ये न तथा भवेत्, युष्माकं यः कश्चित् महान् बुभूषति, स युष्मान् सेवेत;
27 यश्च युष्माकं मध्ये मुख्यो बुभूषति, स युष्माकं दासो भवेत्।
28 इत्थं मनुजपुत्रः सेव्यो भवितुं नहि, किन्तु सेवितुं बहूनां परित्राणमूल्यार्थं स्वप्राणान् दातुञ्चागतः।
29 अनन्तरं यिरीहोनगरात् तेषां बहिर्गमनसमये तस्य पश्चाद् बहवो लोका वव्रजुः।
30 अपरं वर्त्मपार्श्व उपविशन्तौ द्वावन्धौ तेन मार्गेण यीशो र्गमनं निशम्य प्रोच्चैः कथयामासतुः, हे प्रभो दायूदः सन्तान, आवयो र्दयां विधेहि।
31 ततो लोकाः सर्व्वे तुष्णीम्भवतमित्युक्त्वा तौ तर्जयामासुः; तथापि तौ पुनरुच्चैः कथयामासतुः हे प्रभो दायूदः सन्तान, आवां दयस्व।
32 तदानीं यीशुः स्थगितः सन् तावाहूय भाषितवान्, युवयोः कृते मया किं कर्त्तर्व्यं? युवां किं कामयेथे?
33 तदा तावुक्तवन्तौ, प्रभो नेत्राणि नौ प्रसन्नानि भवेयुः।
34 तदानीं यीशुस्तौ प्रति प्रमन्नः सन् तयो र्नेत्राणि पस्पर्श, तेनैव तौ सुवीक्षाञ्चक्राते तत्पश्चात् जग्मुतुश्च।

मथिलिखितः सुसंवादः 21

1 अनन्तरं तेषु यिरूशालम्नगरस्य समीपवेर्त्तिनो जैतुननामकधराधरस्य समीपस्थ्तिं बैत्फगिग्रामम् आगतेषु, यीशुः शिष्यद्वयं प्रेषयन् जगाद,
2 युवां सम्मुखस्थग्रामं गत्वा बद्धां यां सवत्सां गर्द्दभीं हठात् प्राप्स्यथः, तां मोचयित्वा मदन्तिकम् आनयतं।
3 तत्र यदि कश्चित् किञ्चिद् वक्ष्यति, तर्हि वदिष्यथः, एतस्यां प्रभोः प्रयोजनमास्ते, तेन स तत्क्षणात् प्रहेष्यति।
4 सीयोनः कन्यकां यूयं भाषध्वमिति भारतीं। पश्य ते नम्रशीलः सन् नृप आरुह्य गर्दभीं। अर्थादारुह्य तद्वत्समायास्यति त्वदन्तिकं।
5 भविष्यद्वादिनोक्तं वचनमिदं तदा सफलमभूत्।
6 अनन्तरं तौ श्ष्यिौ यीशो र्यथानिदेशं तं ग्रामं गत्वा
7 गर्दभीं तद्वत्सञ्च समानीतवन्तौ, पश्चात् तदुपरि स्वीयवसनानी पातयित्वा तमारोहयामासतुः।
8 ततो बहवो लोका निजवसनानि पथि प्रसारयितुमारेभिरे, कतिपया जनाश्च पादपपर्णादिकं छित्वा पथि विस्तारयामासुः।
9 अग्रगामिनः पश्चाद्गामिनश्च मनुजा उच्चैर्जय जय दायूदः सन्तानेति जगदुः परमेश्वरस्य नाम्ना य आयाति स धन्यः, सर्व्वोपरिस्थस्वर्गेपि जयति।
10 इत्थं तस्मिन् यिरूशालमं प्रविष्टे कोऽयमिति कथनात् कृत्स्नं नगरं चञ्चलमभवत्।
11 तत्र लोकोः कथयामासुः, एष गालील्प्रदेशीय-नासरतीय-भविष्यद्वादी यीशुः।
12 अनन्तरं यीशुरीश्वरस्य मन्दिरं प्रविश्य तन्मध्यात् क्रयविक्रयिणो वहिश्चकार; वणिजां मुद्रासनानी कपोतविक्रयिणाञ्चसनानी च न्युव्जयामास।
13 अपरं तानुवाच, एषा लिपिरास्ते, "मम गृहं प्रार्थनागृहमिति विख्यास्यति", किन्तु यूयं तद् दस्यूनां गह्वरं कृतवन्तः।
14 तदनन्तरम् अन्धखञ्चलोकास्तस्य समीपमागताः, स तान् निरामयान् कृतवान्।
15 यदा प्रधानयाजका अध्यापकाश्च तेन कृतान्येतानि चित्रकर्म्माणि ददृशुः, जय जय दायूदः सन्तान, मन्दिरे बालकानाम् एतादृशम् उच्चध्वनिं शुश्रुवुश्च, तदा महाक्रुद्धा बभूवः,
16 तं पप्रच्छुश्च, इमे यद् वदन्ति, तत् किं त्वं शृणोषि? ततो यीशुस्तान् अवोचत्, सत्यम्; स्तन्यपायिशिशूनाञ्च बालकानाञ्च वक्त्रतः। स्वकीयं महिमानं त्वं संप्रकाशयसि स्वयं। एतद्वाक्यं यूयं किं नापठत?
17 ततस्तान् विहाय स नगराद् बैथनियाग्रामं गत्वा तत्र रजनीं यापयामास।
18 अनन्तरं प्रभाते सति यीशुः पुनरपि नगरमागच्छन् क्षुधार्त्तो बभूव।
19 ततो मार्गपार्श्व उडुम्बरवृक्षमेकं विलोक्य तत्समीपं गत्वा पत्राणि विना किमपि न प्राप्य तं पादपं प्रोवाच, अद्यारभ्य कदापि त्वयि फलं न भवतु; तेन तत्क्षणात् स उडुम्बरमाहीरुहः शुष्कतां गतः।
20 तद् दृष्ट्वा शिष्या आश्चर्य्यं विज्ञाय कथयामासुः, आः, उडुम्वरपादपोऽतितूर्णं शुष्कोऽभवत्।
21 ततो यीशुस्तानुवाच, युष्मानहं सत्यं वदामि, यदि यूयमसन्दिग्धाः प्रतीथ, तर्हि यूयमपि केवलोडुम्वरपादपं प्रतीत्थं कर्त्तुं शक्ष्यथ, तन्न, त्वं चलित्वा सागरे पतेति वाक्यं युष्माभिरस्मिन शैले प्रोक्तेपि तदैव तद् घटिष्यते।
22 तथा विश्वस्य प्रार्थ्य युष्माभि र्यद् याचिष्यते, तदेव प्राप्स्यते।
23 अनन्तरं मन्दिरं प्रविश्योपदेशनसमये तत्समीपं प्रधानयाजकाः प्राचीनलोकाश्चागत्य पप्रच्छुः, त्वया केन सामर्थ्यनैतानि कर्म्माणि क्रियन्ते? केन वा तुभ्यमेतानि सामर्थ्यानि दत्तानि?
24 ततो यीशुः प्रत्यवदत्, अहमपि युष्मान् वाचमेकां पृच्छामि, यदि यूयं तदुत्तरं दातुं शक्ष्यथ, तदा केन सामर्थ्येन कर्म्माण्येतानि करोमि, तदहं युष्मान् वक्ष्यामि।
25 योहनो मज्जनं कस्याज्ञयाभवत्? किमीश्वरस्य मनुष्यस्य वा? ततस्ते परस्परं विविच्य कथयामासुः, यदीश्वरस्येति वदामस्तर्हि यूयं तं कुतो न प्रत्यैत? वाचमेतां वक्ष्यति।
26 मनुष्यस्येति वक्तुमपि लोकेभ्यो बिभीमः, यतः सर्व्वैरपि योहन् भविष्यद्वादीति ज्ञायते।
27 तस्मात् ते यीशुं प्रत्यवदन्, तद् वयं न विद्मः। तदा स तानुक्तवान्, तर्हि केन सामरथ्येन कर्म्माण्येतान्यहं करोमि, तदप्यहं युष्मान् न वक्ष्यामि।
28 कस्यचिज्जनस्य द्वौ सुतावास्तां स एकस्य सुतस्य समीपं गत्वा जगाद, हे सुत, त्वमद्य मम द्राक्षाक्षेत्रे कर्म्म कर्तुं व्रज।
29 ततः स उक्तवान्, न यास्यामि, किन्तु शेषेऽनुतप्य जगाम।
30 अनन्तरं सोन्यसुतस्य समीपं गत्वा तथैव कथ्तिवान्; ततः स प्रत्युवाच, महेच्छ यामि, किन्तु न गतः।
31 एतयोः पुत्रयो र्मध्ये पितुरभिमतं केन पालितं? युष्माभिः किं बुध्यते? ततस्ते प्रत्यूचुः, प्रथमेन पुुत्रेण। तदानीं यीशुस्तानुवाच, अहं युष्मान् तथ्यं वदामि, चण्डाला गणिकाश्च युष्माकमग्रत ईश्वरस्य राज्यं प्रविशन्ति।
32 यतो युष्माकं समीपं योहनि धर्म्मपथेनागते यूयं तं न प्रतीथ, किन्तु चण्डाला गणिकाश्च तं प्रत्यायन्, तद् विलोक्यापि यूयं प्रत्येतुं नाखिद्यध्वं।
33 अपरमेकं दृष्टान्तं शृणुत, कश्चिद् गृहस्थः क्षेत्रे द्राक्षालता रोपयित्वा तच्चतुर्दिक्षु वारणीं विधाय तन्मध्ये द्राक्षायन्त्रं स्थापितवान्, माञ्चञ्च निर्म्मितवान्, ततः कृषकेषु तत् क्षेत्रं समर्प्य स्वयं दूरदेशं जगाम।
34 तदनन्तरं फलसमय उपस्थिते स फलानि प्राप्तुं कृषीवलानां समीपं निजदासान् प्रेषयामास।
35 किन्तु कृषीवलास्तस्य तान् दासेयान् धृत्वा कञ्चन प्रहृतवन्तः, कञ्चन पाषाणैराहतवन्तः, कञ्चन च हतवन्तः।
36 पुनरपि स प्रभुः प्रथमतोऽधिकदासेयान् प्रेषयामास, किन्तु ते तान् प्रत्यपि तथैव चक्रुः।
37 अनन्तरं मम सुते गते तं समादरिष्यन्ते, इत्युक्त्वा शेषे स निजसुतं तेषां सन्निधिं प्रेषयामास।
38 किन्तु ते कृषीवलाः सुतं वीक्ष्य परस्परम् इति मन्त्रयितुम् आरेभिरे, अयमुत्तराधिकारी वयमेनं निहत्यास्याधिकारं स्ववशीकरिष्यामः।
39 पश्चात् ते तं धृत्वा द्राक्षाक्षेत्राद् बहिः पातयित्वाबधिषुः।
40 यदा स द्राक्षाक्षेत्रपतिरागमिष्यति, तदा तान् कृषीवलान् किं करिष्यति?
41 ततस्ते प्रत्यवदन्, तान् कलुषिणो दारुणयातनाभिराहनिष्यति, ये च समयानुक्रमात् फलानि दास्यन्ति, तादृशेषु कृषीवलेषु क्षेत्रं समर्पयिष्यति।
42 तदा यीशुना ते गदिताः, ग्रहणं न कृतं यस्य पाषाणस्य निचायकैः। प्रधानप्रस्तरः कोणे सएव संभविष्यति। एतत् परेशितुः कर्म्मास्मदृष्टावद्भुतं भवेत्। धर्म्मग्रन्थे लिखितमेतद्वचनं युष्माभिः किं नापाठि?
43 तस्मादहं युष्मान् वदामि, युष्मत्त ईश्वरीयराज्यमपनीय फलोत्पादयित्रन्यजातये दायिष्यते।
44 यो जन एतत्पाषाणोपरि पतिष्यति, तं स भंक्ष्यते, किन्त्वयं पाषाणो यस्योपरि पतिष्यति, तं स धूलिवत् चूर्णीकरिष्यति।
45 तदानीं प्राधनयाजकाः फिरूशिनश्च तस्येमां दृष्टान्तकथां श्रुत्वा सोऽस्मानुद्दिश्य कथितवान्, इति विज्ञाय तं धर्त्तुं चेष्टितवन्तः;
46 किन्तु लोकेभ्यो बिभ्युः, यतो लोकैः स भविष्यद्वादीत्यज्ञायि।

मथिलिखितः सुसंवादः 22

1 अनन्तरं यीशुः पुनरपि दृष्टान्तेन तान् अवादीत्,
2 स्वर्गीयराज्यम् एतादृशस्य नृपतेः समं, यो निज पुत्रं विवाहयन् सर्व्वान् निमन्त्रितान् आनेतुं दासेयान् प्रहितवान्,
3 किन्तु ते समागन्तुं नेष्टवन्तः।
4 ततो राजा पुनरपि दासानन्यान् इत्युक्त्वा प्रेषयामास, निमन्त्रितान् वदत, पश्यत, मम भेज्यमासादितमास्ते, निजव्टषादिपुष्टजन्तून् मारयित्वा सर्व्वं खाद्यद्रव्यमासादितवान्, यूयं विवाहमागच्छत।
5 तथपि ते तुच्छीकृत्य केचित् निजक्षेत्रं केचिद् वाणिज्यं प्रति स्वस्वमार्गेण चलितवन्तः।
6 अन्ये लोकास्तस्य दासेयान् धृत्वा दौरात्म्यं व्यवहृत्य तानवधिषुः।
7 अनन्तरं स नृपतिस्तां वार्त्तां श्रुत्वा क्रुध्यन् सैन्यानि प्रहित्य तान् घातकान् हत्वा तेषां नगरं दाहयामास।
8 ततः स निजदासेयान् बभाषे, विवाहीयं भोज्यमासादितमास्ते, किन्तु निमन्त्रिता जना अयोग्याः।
9 तस्माद् यूयं राजमार्गं गत्वा यावतो मनुजान् पश्यत, तावतएव विवाहीयभोज्याय निमन्त्रयत।
10 तदा ते दासेया राजमार्गं गत्वा भद्रान् अभद्रान् वा यावतो जनान् ददृशुः, तावतएव संगृह्यानयन्; ततोऽभ्यागतमनुजै र्विवाहगृहम् अपूर्य्यत।
11 तदानीं स राजा सर्व्वानभ्यागतान् द्रष्टुम् अभ्यन्तरमागतवान्; तदा तत्र विवाहीयवसनहीनमेकं जनं वीक्ष्य तं जगाद्,
12 हे मित्र,त्वं विवाहीयवसनं विना कथमत्र प्रविष्टवान्? तेन स निरुत्तरो बभूव।
13 तदा राजा निजानुचरान् अवदत्, एतस्य करचरणान् बद्धा यत्र रोदनं दन्तैर्दन्तघर्षणञ्च भवति, तत्र वहिर्भूततमिस्रे तं निक्षिपत।
14 इत्थं बहव आहूता अल्पे मनोभिमताः।
15 अनन्तरं फिरूशिनः प्रगत्य यथा संलापेन तम् उन्माथे पातयेयुस्तथा मन्त्रयित्वा
16 हेरोदीयमनुजैः साकं निजशिष्यगणेन तं प्रति कथयामासुः, हे गुरो, भवान् सत्यः सत्यमीश्वरीयमार्गमुपदिशति, कमपि मानुषं नानुरुध्यते, कमपि नापेक्षते च, तद् वयं जानीमः।
17 अतः कैसरभूपाय करोऽस्माकं दातव्यो न वा? अत्र भवता किं बुध्यते? तद् अस्मान् वदतु।
18 ततो यीशुस्तेषां खलतां विज्ञाय कथितवान्, रे कपटिनः युयं कुतो मां परिक्षध्वे?
19 तत्करदानस्य मुद्रां मां दर्शयत। तदानीं तैस्तस्य समीपं मुद्राचतुर्थभाग आनीते
20 स तान् पप्रच्छ, अत्र कस्येयं मूर्त्ति र्नाम चास्ते? ते जगदुः, कैसरभूपस्य।
21 ततः स उक्तवान, कैसरस्य यत् तत् कैसराय दत्त, ईश्वरस्य यत् तद् ईश्वराय दत्त।
22 इति वाक्यं निशम्य ते विस्मयं विज्ञाय तं विहाय चलितवन्तः।
23 तस्मिन्नहनि सिदूकिनोऽर्थात् श्मशानात् नोत्थास्यन्तीति वाक्यं ये वदन्ति, ते यीशेारन्तिकम् आगत्य पप्रच्छुः,
24 हे गुरो, कश्चिन्मनुजश्चेत् निःसन्तानः सन् प्राणान् त्यजति, तर्हि तस्य भ्राता तस्य जायां व्युह्य भ्रातुः सन्तानम् उत्पादयिष्यतीति मूसा आदिष्टवान्।
25 किन्त्वस्माकमत्र केऽपि जनाः सप्तसहोदरा आसन्, तेषां ज्येष्ठ एकां कन्यां व्यवहात्, अपरं प्राणत्यागकाले स्वयं निःसन्तानः सन् तां स्त्रियं स्वभ्रातरि समर्पितवान्,
26 ततो द्वितीयादिसप्तमान्ताश्च तथैव चक्रुः।
27 शेषे सापी नारी ममार।
28 मृतानाम् उत्थानसमये तेषां सप्तानां मध्ये सा नारी कस्य भार्य्या भविष्यति? यस्मात् सर्व्वएव तां व्यवहन्।
29 ततो यीशुः प्रत्यवादीत्, यूयं धर्म्मपुस्तकम् ईश्वरीयां शक्तिञ्च न विज्ञाय भ्रान्तिमन्तः।
30 उत्थानप्राप्ता लोका न विवहन्ति, न च वाचा दीयन्ते, किन्त्वीश्वरस्य स्वर्गस्थदूतानां सदृशा भवन्ति।
31 अपरं मृतानामुत्थानमधि युष्मान् प्रतीयमीश्वरोक्तिः,
32 "अहमिब्राहीम ईश्वर इस्हाक ईश्वरो याकूब ईश्वर" इति किं युष्माभि र्नापाठि? किन्त्वीश्वरो जीवताम् ईश्वर:, स मृतानामीश्वरो नहि।
33 इति श्रुत्वा सर्व्वे लोकास्तस्योपदेशाद् विस्मयं गताः।
34 अनन्तरं सिदूकिनाम् निरुत्तरत्ववार्तां निशम्य फिरूशिन एकत्र मिलितवन्तः,
35 तेषामेको व्यवस्थापको यीशुं परीक्षितुं पपच्छ,
36 हे गुरो व्यवस्थाशास्त्रमध्ये काज्ञा श्रेष्ठा?
37 ततो यीशुरुवाच, त्वं सर्व्वान्तःकरणैः सर्व्वप्राणैः सर्व्वचित्तैश्च साकं प्रभौ परमेश्वरे प्रीयस्व,
38 एषा प्रथममहाज्ञा। तस्याः सदृशी द्वितीयाज्ञैषा,
39 तव समीपवासिनि स्वात्मनीव प्रेम कुरु।
40 अनयो र्द्वयोराज्ञयोः कृत्स्नव्यवस्थाया भविष्यद्वक्तृग्रन्थस्य च भारस्तिष्ठति।
41 अनन्तरं फिरूशिनाम् एकत्र स्थितिकाले यीशुस्तान् पप्रच्छ,
42 ख्रीष्टमधि युष्माकं कीदृग्बोधो जायते? स कस्य सन्तानः? ततस्ते प्रत्यवदन्, दायूदः सन्तानः।
43 तदा स उक्तवान्, तर्हि दायूद् कथम् आत्माधिष्ठानेन तं प्रभुं वदति ?
44 यथा मम प्रभुमिदं वाक्यमवदत् परमेश्वरः। तवारीन् पादपीठं ते यावन्नहि करोम्यहं। तावत् कालं मदीये त्वं दक्षपार्श्व उपाविश। अतो यदि दायूद् तं प्रभुं वदति, र्तिह स कथं तस्य सन्तानो भवति?
45 तदानीं तेषां कोपि तद्वाक्यस्य किमप्युत्तरं दातुं नाशक्नोत्;
46 तद्दिनमारभ्य तं किमपि वाक्यं प्रष्टुं कस्यापि साहसो नाभवत्।

मथिलिखितः सुसंवादः 23

1 अनन्तरं यीशु र्जननिवहं शिष्यांश्चावदत्,
2 अध्यापकाः फिरूशिनश्च मूसासने उपविशन्ति,
3 अतस्ते युष्मान् यद्यत् मन्तुम् आज्ञापयन्ति, तत् मन्यध्वं पालयध्वञ्च, किन्तु तेषां कर्म्मानुरूपं कर्म्म न कुरुध्वं; यतस्तेषां वाक्यमात्रं सारं कार्य्ये किमपि नास्ति।
4 ते दुर्व्वहान् गुरुतरान् भारान् बद्व्वा मनुष्याणां स्कन्धेपरि समर्पयन्ति, किन्तु स्वयमङ्गुल्यैकयापि न चालयन्ति।
5 केवलं लोकदर्शनाय सर्व्वकर्म्माणि कुर्व्वन्ति; फलतः पट्टबन्धान् प्रसार्य्य धारयन्ति, स्ववस्त्रेषु च दीर्घग्रन्थीन् धारयन्ति;
6 भोजनभवन उच्चस्थानं, भजनभवने प्रधानमासनं,
7 हट्ठे नमस्कारं गुरुरिति सम्बोधनञ्चैतानि सर्व्वाणि वाञ्छन्ति।
8 किन्तु यूयं गुरव इति सम्बोधनीया मा भवत, यतो युष्माकम् एकः ख्रीष्टएव गुरु
9 र्यूयं सर्व्वे मिथो भ्रातरश्च। पुनः पृथिव्यां कमपि पितेति मा सम्बुध्यध्वं, यतो युष्माकमेकः स्वर्गस्थएव पिता।
10 यूयं नायकेति सम्भाषिता मा भवत, यतो युष्माकमेकः ख्रीष्टएव नायकः।
11 अपरं युष्माकं मध्ये यः पुमान् श्रेष्ठः स युष्मान् सेविष्यते।
12 यतो यः स्वमुन्नमति, स नतः करिष्यते; किन्तु यः कश्चित् स्वमवनतं करोति, स उन्नतः करिष्यते।
13 हन्त कपटिन उपाध्यायाः फिरूशिनश्च, यूयं मनुजानां समक्षं स्वर्गद्वारं रुन्ध, यूयं स्वयं तेन न प्रविशथ, प्रविविक्षूनपि वारयथ। वत कपटिन उपाध्यायाः फिरूशिनश्च यूयं छलाद् दीर्घं प्रार्थ्य विधवानां सर्व्वस्वं ग्रसथ, युष्माकं घोरतरदण्डो भविष्यति।
14 हन्त कपटिन उपाध्यायाः फिरूशिनश्च, यूयमेकं स्वधर्म्मावलम्बिनं कर्त्तुं सागरं भूमण्डलञ्च प्रदक्षिणीकुरुथ,
15 कञ्चन प्राप्य स्वतो द्विगुणनरकभाजनं तं कुरुथ।
16 वत अन्धपथदर्शकाः सर्व्वे, यूयं वदथ, मन्दिरस्य शपथकरणात् किमपि न देयं; किन्तु मन्दिरस्थसुवर्णस्य शपथकरणाद् देयं।
17 हे मूढा हे अन्धाः सुवर्णं तत्सुवर्णपावकमन्दिरम् एतयोरुभयो र्मध्ये किं श्रेयः?
18 अन्यच्च वदथ, यज्ञवेद्याः शपथकरणात् किमपि न देयं, किन्तु तदुपरिस्थितस्य नैवेद्यस्य शपथकरणाद् देयं।
19 हे मूढा हे अन्धाः, नैवेद्यं तन्नैवेद्यपावकवेदिरेतयोरुभयो र्मध्ये किं श्रेयः?
20 अतः केनचिद् यज्ञवेद्याः शपथे कृते तदुपरिस्थस्य सर्व्वस्य शपथः क्रियते।
21 केनचित् मन्दिरस्य शपथे कृते मन्दिरतन्निवासिनोः शपथः क्रियते।
22 केनचित् स्वर्गस्य शपथे कृते ईश्वरीयसिंहासनतदुपर्य्युपविष्टयोः शपथः क्रियते।
23 हन्त कपटिन उपाध्यायाः फिरूशिनश्च, यूयं पोदिनायाः सितच्छत्राया जीरकस्य च दशमांशान् दत्थ, किन्तु व्यवस्थाया गुरुतरान् न्यायदयाविश्वासान् परित्यजथ; इमे युष्माभिराचरणीया अमी च न लंघनीयाः।
24 हे अन्धपथदर्शका यूयं मशकान् अपसारयथ, किन्तु महाङ्गान् ग्रसथ।
25 हन्त कपटिन उपाध्यायाः फिरूशिनश्च, यूयं पानपात्राणां भोजनपात्राणाञ्च बहिः परिष्कुरुथ; किन्तु तदभ्यन्तरं दुरात्मतया कलुषेण च परिपूर्णमास्ते।
26 हे अन्धाः फिरूशिलोका आदौ पानपात्राणां भोजनपात्राणाञ्चाभ्यन्तरं परिष्कुरुत, तेन तेषां बहिरपि परिष्कारिष्यते।
27 हन्त कपटिन उपाध्यायाः फिरूशिनश्च, यूयं शुक्लीकृतश्मशानस्वरूपा भवथ, यथा श्मशानभवनस्य बहिश्चारु, किन्त्वभ्यन्तरं मृतलोकानां कीकशैः सर्व्वप्रकारमलेन च परिपूर्णम्;
28 तथैव यूयमपि लोकानां समक्षं बहिर्धार्म्मिकाः किन्त्वन्तःकरणेषु केवलकापट्याधर्म्माभ्यां परिपूर्णाः।
29 हा हा कपटिन उपाध्यायाः फिरूशिनश्च, यूयं भविष्यद्वादिनां श्मशानगेहं निर्म्माथ, साधूनां श्मशाननिकेतनं शोभयथ
30 वदथ च यदि वयं स्वेषां पूर्व्वपुरुषाणां काल अस्थास्याम, तर्हि भविष्यद्वादिनां शोणितपातने तेषां सहभागिनो नाभविष्याम।
31 अतो यूयं भविष्यद्वादिघातकानां सन्ताना इति स्वयमेव स्वेषां साक्ष्यं दत्थ।
32 अतो यूयं निजपूर्व्वपुरुषाणां परिमाणपात्रं परिपूरयत।
33 रे भुजगाः कृष्णभुजगवंशाः, यूयं कथं नरकदण्डाद् रक्षिष्यध्वे।
34 पश्यत, युष्माकमन्तिकम् अहं भविष्यद्वादिनो बुद्धिमत उपाध्यायांश्च प्रेषयिष्यामि, किन्तु तेषां कतिपया युष्माभि र्घानिष्यन्ते, क्रुशे च घानिष्यन्ते, केचिद् भजनभवने कषाभिराघानिष्यन्ते, नगरे नगरे ताडिष्यन्ते च;
35 तेन सत्पुरुषस्य हाबिलो रक्तपातमारभ्य बेरिखियः पुत्रं यं सिखरियं यूयं मन्दिरयज्ञवेद्यो र्मध्ये हतवन्तः, तदीयशोणितपातं यावद् अस्मिन् देशे यावतां साधुपुरुषाणां शोणितपातो ऽभवत् तत् सर्व्वेषामागसां दण्डा युष्मासु वर्त्तिष्यन्ते।
36 अहं युष्मान्त तथ्यं वदामि, विद्यमानेऽस्मिन् पुरुषे सर्व्वे वर्त्तिष्यन्ते।
37 हे यिरूशालम् हे यिरूशालम् नगरि त्वं भविष्यद्वादिनो हतवती, तव समीपं प्रेरितांश्च पाषाणैराहतवती, यथा कुक्कुटी शावकान् पक्षाधः संगृह्लाति, तथा तव सन्तानान् संग्रहीतुं अहं बहुवारम् ऐच्छं; किन्तु त्वं न सममन्यथाः।
38 पश्यत यष्माकं वासस्थानम् उच्छिन्नं त्यक्ष्यते।
39 अहं युष्मान् तथ्यं वदामि, यः परमेश्वरस्य नाम्नागच्छति, स धन्य इति वाणीं यावन्न वदिष्यथ, तावत् मां पुन र्न द्रक्ष्यथ।

मथिलिखितः सुसंवादः 24

1 अनन्तरं यीशु र्यदा मन्दिराद् बहि र्गच्छति, तदानीं शिष्यास्तं मन्दिरनिर्म्माणं दर्शयितुमागताः।
2 ततो यीशुस्तानुवाच, यूयं किमेतानि न पश्यथ? युष्मानहं सत्यं वदामि, एतन्निचयनस्य पाषाणैकमप्यन्यपाषाणेापरि न स्थास्यति सर्व्वाणि भूमिसात् कारिष्यन्ते।
3 अनन्तरं तस्मिन् जैतुनपर्व्वतोपरि समुपविष्टे शिष्यास्तस्य समीपमागत्य गुप्तं पप्रच्छुः, एता घटनाः कदा भविष्यन्ति? भवत आगमनस्य युगान्तस्य च किं लक्ष्म? तदस्मान् वदतु।
4 तदानीं यीशुस्तानवोचत्, अवधद्व्वं, कोपि युष्मान् न भ्रमयेत्।
5 बहवो मम नाम गृह्लन्त आगमिष्यन्ति, ख्रीष्टोऽहमेवेति वाचं वदन्तो बहून् भ्रमयिष्यन्ति।
6 यूयञ्च संग्रामस्य रणस्य चाडम्बरं श्रोष्यथ, अवधद्व्वं तेन चञ्चला मा भवत, एतान्यवश्यं घटिष्यन्ते, किन्तु तदा युगान्तो नहि।
7 अपरं देशस्य विपक्षो देशो राज्यस्य विपक्षो राज्यं भविष्यति, स्थाने स्थाने च दुर्भिक्षं महामारी भूकम्पश्च भविष्यन्ति,
8 एतानि दुःखोपक्रमाः।
9 तदानीं लोका दुःखं भोजयितुं युष्मान् परकरेषु समर्पयिष्यन्ति हनिष्यन्ति च, तथा मम नामकारणाद् यूयं सर्व्वदेशीयमनुजानां समीपे घृणार्हा भविष्यथ।
10 बहुषु विघ्नं प्राप्तवत्सु परस्परम् ऋृतीयां कृतवत्सु च एकोऽपरं परकरेषु समर्पयिष्यति।
11 तथा बहवो मृषाभविष्यद्वादिन उपस्थाय बहून् भ्रमयिष्यन्ति।
12 दुष्कर्म्मणां बाहुल्याञ्च बहूनां प्रेम शीतलं भविष्यति।
13 किन्तु यः कश्चित् शेषं यावद् धैर्य्यमाश्रयते, सएव परित्रायिष्यते।
14 अपरं सर्व्वदेशीयलोकान् प्रतिमाक्षी भवितुं राजस्य शुभसमाचारः सर्व्वजगति प्रचारिष्यते, एतादृशि सति युगान्त उपस्थास्यति।
15 अतो यत् सर्व्वनाशकृद्घृणार्हं वस्तु दानियेल्भविष्यद्वदिना प्रोक्तं तद् यदा पुण्यस्थाने स्थापितं द्रक्ष्यथ, (यः पठति, स बुध्यतां)
16 तदानीं ये यिहूदीयदेशे तिष्ठन्ति, ते पर्व्वतेषु पलायन्तां।
17 यः कश्चिद् गृहपृष्ठे तिष्ठति, स गृहात् किमपि वस्त्वानेतुम् अधेा नावरोहेत्।
18 यश्च क्षेत्रे तिष्ठति, सोपि वस्त्रमानेतुं परावृत्य न यायात्।
19 तदानीं गर्भिणीस्तन्यपाययित्रीणां दुर्गति र्भविष्यति।
20 अतो यष्माकं पलायनं शीतकाले विश्रामवारे वा यन्न भवेत्, तदर्थं प्रार्थयध्वम्।
21 आ जगदारम्भाद् एतत्कालपर्य्यनन्तं यादृशः कदापि नाभवत् न च भविष्यति तादृशो महाक्लेशस्तदानीम् उपस्थास्यति।
22 तस्य क्लेशस्य समयो यदि ह्स्वो न क्रियेत, तर्हि कस्यापि प्राणिनो रक्षणं भवितुं न शक्नुयात्, किन्तु मनोनीतमनुजानां कृते स कालो ह्स्वीकरिष्यते।
23 अपरञ्च पश्यत, ख्रीष्टोऽत्र विद्यते, वा तत्र विद्यते, तदानीं यदी कश्चिद् युष्मान इति वाक्यं वदति, तथापि तत् न प्रतीत्।
24 यतो भाक्तख्रीष्टा भाक्तभविष्यद्वादिनश्च उपस्थाय यानि महन्ति लक्ष्माणि चित्रकर्म्माणि च प्रकाशयिष्यन्ति, तै र्यदि सम्भवेत् तर्हि मनोनीतमानवा अपि भ्रामिष्यन्ते।
25 पश्यत, घटनातः पूर्व्वं युष्मान् वार्त्ताम् अवादिषम्।
26 अतः पश्यत, स प्रान्तरे विद्यत इति वाक्ये केनचित् कथितेपि बहि र्मा गच्छत, वा पश्यत, सोन्तःपुरे विद्यते, एतद्वाक्य उक्तेपि मा प्रतीत।
27 यतो यथा विद्युत् पूर्व्वदिशो निर्गत्य पश्चिमदिशं यावत् प्रकाशते, तथा मानुषपुत्रस्याप्यागमनं भविष्यति।
28 यत्र शवस्तिष्ठति, तत्रेव गृध्रा मिलन्ति।
29 अपरं तस्य क्लेशसमयस्याव्यवहितपरत्र सूर्य्यस्य तेजो लोप्स्यते, चन्द्रमा ज्योस्नां न करिष्यति, नभसो नक्षत्राणि पतिष्यन्ति, गगणीया ग्रहाश्च विचलिष्यन्ति।
30 तदानीम् आकाशमध्ये मनुजसुतस्य लक्ष्म दर्शिष्यते, ततो निजपराक्रमेण महातेजसा च मेघारूढं मनुजसुतं नभसागच्छन्तं विलोक्य पृथिव्याः सर्व्ववंशीया विलपिष्यन्ति।
31 तदानीं स महाशब्दायमानतूर्य्या वादकान् निजदूतान् प्रहेष्यति, ते व्योम्न एकसीमातोऽपरसीमां यावत् चतुर्दिशस्तस्य मनोनीतजनान् आनीय मेलयिष्यन्ति।
32 उडुम्बरपादपस्य दृष्टान्तं शिक्षध्वं; यदा तस्य नवीनाः शाखा जायन्ते, पल्लवादिश्च निर्गच्छति, तदा निदाघकालः सविधो भवतीति यूयं जानीथ;
33 तद्वद् एता घटना दृष्ट्वा स समयो द्वार उपास्थाद् इति जानीत।
34 युष्मानहं तथ्यं वदामि, इदानीन्तनजनानां गमनात् पूर्व्वमेव तानि सर्व्वाणि घटिष्यन्ते।
35 नभोमेदिन्यो र्लुप्तयोरपि मम वाक् कदापि न लोप्स्यते।
36 अपरं मम तातं विना मानुषः स्वर्गस्थो दूतो वा कोपि तद्दिनं तद्दण्डञ्च न ज्ञापयति।
37 अपरं नोहे विद्यमाने यादृशमभवत् तादृशं मनुजसुतस्यागमनकालेपि भविष्यति।
38 फलतो जलाप्लावनात् पूर्व्वं यद्दिनं यावत् नोहः पोतं नारोहत्, तावत्कालं यथा मनुष्या भोजने पाने विवहने विवाहने च प्रवृत्ता आसन्;
39 अपरम् आप्लावितोयमागत्य यावत् सकलमनुजान् प्लावयित्वा नानयत्, तावत् ते यथा न विदामासुः, तथा मनुजसुतागमनेपि भविष्यति।
40 तदा क्षेत्रस्थितयोर्द्वयोरेको धारिष्यते, अपरस्त्याजिष्यते।
41 तथा पेषण्या पिंषत्योरुभयो र्योषितोरेका धारिष्यतेऽपरा त्याजिष्यते।
42 युष्माकं प्रभुः कस्मिन् दण्ड आगमिष्यति, तद् युष्माभि र्नावगम्यते, तस्मात् जाग्रतः सन्तस्तिष्ठत।
43 कुत्र यामे स्तेन आगमिष्यतीति चेद् गृहस्थो ज्ञातुम् अशक्ष्यत्, तर्हि जागरित्वा तं सन्धिं कर्त्तितुम् अवारयिष्यत् तद् जानीत।
44 युष्माभिरवधीयतां, यतो युष्माभि र्यत्र न बुध्यते, तत्रैव दण्डे मनुजसुत आयास्यति।
45 प्रभु र्निजपरिवारान् यथाकालं भोजयितुं यं दासम् अध्यक्षीकृत्य स्थापयति, तादृशो विश्वास्यो धीमान् दासः कः?
46 प्रभुरागत्य यं दासं तथाचरन्तं वीक्षते, सएव धन्यः।
47 युष्मानहं सत्यं वदामि, स तं निजसर्व्वस्वस्याधिपं करिष्यति।
48 किन्तु प्रभुरागन्तुं विलम्बत इति मनसि चिन्तयित्वा यो दुष्टो दासो
49 ऽपरदासान् प्रहर्त्तुं मत्तानां सङ्गे भोक्तुं पातुञ्च प्रवर्त्तते,
50 स दासो यदा नापेक्षते, यञ्च दण्डं न जानाति, तत्कालएव तत्प्रभुरुपस्थास्यति।
51 तदा तं दण्डयित्वा यत्र स्थाने रोदनं दन्तघर्षणञ्चासाते, तत्र कपटिभिः साकं तद्दशां निरूपयिष्यति।

मथिलिखितः सुसंवादः 25

1 या दश कन्याः प्रदीपान् गृह्लत्यो वरं साक्षात् कर्त्तुं बहिरिताः, ताभिस्तदा स्वर्गीयराज्यस्य सादृश्यं भविष्यति।
2 तासां कन्यानां मध्ये पञ्च सुधियः पञ्च दुर्धिय आसन्।
3 या दुर्धियस्ताः प्रदीपान् सङ्गे गृहीत्वा तैलं न जगृहुः,
4 किन्तु सुधियः प्रदीपान् पात्रेण तैलञ्च जगृहुः।
5 अनन्तरं वरे विलम्बिते ताः सर्व्वा निद्राविष्टा निद्रां जग्मुः।
6 अनन्तरम् अर्द्धरात्रे पश्यत वर आगच्छति, तं साक्षात् कर्त्तुं बहिर्यातेति जनरवात्
7 ताः सर्व्वाः कन्या उत्थाय प्रदीपान् आसादयितुं आरभन्त।
8 ततो दुर्धियः सुधिय ऊचुः, किञ्चित् तैलं दत्त, प्रदीपा अस्माकं निर्व्वाणाः।
9 किन्तु सुधियः प्रत्यवदन्, दत्ते युष्मानस्मांश्च प्रति तैलं न्यूनीभवेत्, तस्माद् विक्रेतृणां समीपं गत्वा स्वार्थं तैलं क्रीणीत।
10 तदा तासु क्रेतुं गतासु वर आजगाम, ततो याः सज्जिता आसन्, तास्तेन साकं विवाहीयं वेश्म प्रविविशुः।
11 अनन्तरं द्वारे रुद्धे अपराः कन्या आगत्य जगदुः, हे प्रभो, हे प्रभो, अस्मान् प्रति द्वारं मोचय।
12 किन्तु स उक्तवान्, तथ्यं वदामि, युष्मानहं न वेद्मि।
13 अतो जाग्रतः सन्तस्तिष्ठत, मनुजसुतः कस्मिन् दिने कस्मिन् दण्डे वागमिष्यति, तद् युष्माभि र्न ज्ञायते।
14 अपरं स एतादृशः कस्यचित् पुंसस्तुल्यः, यो दूरदेशं प्रति यात्राकाले निजदासान् आहूय तेषां स्वस्वसामर्थ्यानुरूपम्
15 एकस्मिन् मुद्राणां पञ्च पोटलिकाः अन्यस्मिंश्च द्वे पोटलिके अपरस्मिंश्च पोटलिकैकाम् इत्थं प्रतिजनं समर्प्य स्वयं प्रवासं गतवान्।
16 अनन्तरं यो दासः पञ्च पोटलिकाः लब्धवान्, स गत्वा वाणिज्यं विधाय ता द्विगुणीचकार।
17 यश्च दासो द्वे पोटलिके अलभत, सोपि ता मुद्रा द्विगुणीचकार।
18 किन्तु यो दास एकां पोटलिकां लब्धवान्, स गत्वा भूमिं खनित्वा तन्मध्ये निजप्रभोस्ता मुद्रा गोपयाञ्चकार।
19 तदनन्तरं बहुतिथे काले गते तेषां दासानां प्रभुरागत्य तैर्दासैः समं गणयाञ्चकार।
20 तदानीं यः पञ्च पोटलिकाः प्राप्तवान् स ता द्विगुणीकृतमुद्रा आनीय जगाद; हे प्रभो, भवता मयि पञ्च पोटलिकाः समर्पिताः, पश्यतु, ता मया द्विगुणीकृताः।
21 तदानीं तस्य प्रभुस्तमुवाच, हे उत्तम विश्वास्य दास, त्वं धन्योसि, स्तोकेन विश्वास्यो जातः, तस्मात् त्वां बहुवित्ताधिपं करोमि, त्वं स्वप्रभोः सुखस्य भागी भव।
22 ततो येन द्वे पोटलिके लब्धे सोप्यागत्य जगाद, हे प्रभो, भवता मयि द्वे पोटलिके समर्पिते, पश्यतु ते मया द्विगुणीकृते।
23 तेन तस्य प्रभुस्तमवोचत्, हे उत्तम विश्वास्य दास, त्वं धन्योसि, स्तोकेन विश्वास्यो जातः, तस्मात् त्वां बहुद्रविणाधिपं करोमि, त्वं निजप्रभोः सुखस्य भागी भव।
24 अनन्तरं य एकां पोटलिकां लब्धवान्, स एत्य कथितवान्, हे प्रभो, त्वां कठिननरं ज्ञातवान्, त्वया यत्र नोप्तं, तत्रैव कृत्यते, यत्र च न कीर्णं, तत्रैव संगृह्यते।
25 अतोहं सशङ्कः सन् गत्वा तव मुद्रा भूमध्ये संगोप्य स्थापितवान्, पश्य, तव यत् तदेव गृहाण।
26 तदा तस्य प्रभुः प्रत्यवदत् रे दुष्टालस दास, यत्राहं न वपामि, तत्र छिनद्मि, यत्र च न किरामि, तत्रेव संगृह्लामीति चेदजानास्तर्हि
27 वणिक्षु मम वित्तार्पणं तवोचितमासीत्, येनाहमागत्य वृद्व्या साकं मूलमुद्राः प्राप्स्यम्।
28 अतोस्मात् तां पोटलिकाम् आदाय यस्य दश पोटलिकाः सन्ति तस्मिन्नर्पयत।
29 येन वर्द्व्यते तस्मिन्नैवार्पिष्यते, तस्यैव च बाहुल्यं भविष्यति, किन्तु येन न वर्द्व्यते, तस्यान्तिके यत् किञ्चन तिष्ठति, तदपि पुनर्नेष्यते।
30 अपरं यूयं तमकर्म्मण्यं दासं नीत्वा यत्र स्थाने क्रन्दनं दन्तघर्षणञ्च विद्येते, तस्मिन् बहिर्भूततमसि निक्षिपत।
31 यदा मनुजसुतः पवित्रदूतान् सङ्गिनः कृत्वा निजप्रभावेनागत्य निजतेजोमये सिंहासने निवेक्ष्यति,
32 तदा तत्सम्मुखे सर्व्वजातीया जना संमेलिष्यन्ति। ततो मेषपालको यथा छागेभ्योऽवीन् पृथक् करोति तथा सोप्येकस्मादन्यम् इत्थं तान् पृथक कृत्वावीन्
33 दक्षिणे छागांश्च वामे स्थापयिष्यति।
34 ततः परं राजा दक्षिणस्थितान् मानवान् वदिष्यति, आगच्छत मत्तातस्यानुग्रहभाजनानि, युष्मत्कृत आ जगदारम्भत् यद् राज्यम् आसादितं तदधिकुरुत।
35 यतो बुभुक्षिताय मह्यं भोज्यम् अदत्त, पिपासिताय पेयमदत्त, विदेशिनं मां स्वस्थानमनयत,
36 वस्त्रहीनं मां वसनं पर्य्यधापयत, पीडीतं मां द्रष्टुमागच्छत, कारास्थञ्च मां वीक्षितुम आगच्छत।
37 तदा धार्म्मिकाः प्रतिवदिष्यन्ति, हे प्रभो, कदा त्वां क्षुधितं वीक्ष्य वयमभोजयाम? वा पिपासितं वीक्ष्य अपाययाम?
38 कदा वा त्वां विदेशिनं विलोक्य स्वस्थानमनयाम? कदा वा त्वां नग्नं वीक्ष्य वसनं पर्य्यधापयाम?
39 कदा वा त्वां पीडितं कारास्थञ्च वीक्ष्य त्वदन्तिकमगच्छाम?
40 तदानीं राजा तान् प्रतिवदिष्यति, युष्मानहं सत्यं वदामि, ममैतेषां भ्रातृणां मध्ये कञ्चनैकं क्षुद्रतमं प्रति यद् अकुरुत, तन्मां प्रत्यकुरुत।
41 पश्चात् स वामस्थितान् जनान् वदिष्यति, रे शापग्रस्ताः सर्व्वे, शैताने तस्य दूतेभ्यश्च योऽनन्तवह्निरासादित आस्ते, यूयं मदन्तिकात् तमग्निं गच्छत।
42 यतो क्षुधिताय मह्यमाहारं नादत्त, पिपासिताय मह्यं पेयं नादत्त,
43 विदेशिनं मां स्वस्थानं नानयत, वसनहीनं मां वसनं न पर्य्यधापयत, पीडितं कारास्थञ्च मां वीक्षितुं नागच्छत।
44 तदा ते प्रतिवदिष्यन्ति, हे प्रभो, कदा त्वां क्षुधितं वा पिपासितं वा विदेशिनं वा नग्नं वा पीडितं वा कारास्थं वीक्ष्य त्वां नासेवामहि?
45 तदा स तान् वदिष्यति, तथ्यमहं युष्मान् ब्रवीमि, युष्माभिरेषां कञ्चन क्षोदिष्ठं प्रति यन्नाकारि, तन्मां प्रत्येव नाकारि।
46 पश्चादम्यनन्तशास्तिं किन्तु धार्म्मिका अनन्तायुषं भोक्तुं यास्यन्ति।

मथिलिखितः सुसंवादः 26

1 यीशुरेतान् प्रस्तावान् समाप्य शिष्यानूचे,
2 युष्माभि र्ज्ञातं दिनद्वयात् परं निस्तारमह उपस्थास्यति, तत्र मनुजसुतः क्रुशेन हन्तुं परकरेषु समर्पिष्यते।
3 ततः परं प्रधानयाजकाध्यापकप्राञ्चः कियफानाम्नो महायाजकस्याट्टालिकायां मिलित्वा
4 केनोपायेन यीशुं धृत्वा हन्तुं शक्नुयुरिति मन्त्रयाञ्चक्रुः।
5 किन्तु तैरुक्तं महकाले न धर्त्तव्यः, धृते प्रजानां कलहेन भवितुं शक्यते।
6 ततो बैथनियापुरे शिमोनाख्यस्य कुष्ठिनो वेश्मनि यीशौ तिष्ठति
7 काचन योषा श्वेतोपलभाजनेन महार्घ्यं सुगन्धि तैलमानीय भोजनायोपविशतस्तस्य शिरोभ्यषेचत्।
8 किन्तु तदालोक्य तच्छिष्यैः कुपितैरुक्तं, कुत इत्थमपव्ययते?
9 चेदिदं व्यक्रेष्यत, तर्हि भूरिमूल्यं प्राप्य दरिद्रेभ्यो व्यतारिष्यत।
10 यीशुना तदवगत्य ते समुदिताः, योषामेनां कुतो दुःखिनीं कुरुथ, सा मां प्रति साधु कर्म्माकार्षीत्।
11 युष्माकमं समीपे दरिद्राः सततमेवासते, किन्तु युष्माकमन्तिकेहं नासे सततं।
12 सा मम कायोपरि सुगन्धितैलं सिक्त्वा मम श्मशानदानकर्म्माकार्षीत्।
13 अतोहं युष्मान् तथ्यं वदामि सर्व्वस्मिन् जगति यत्र यत्रैष सुसमाचारः प्रचारिष्यते, तत्र तत्रैतस्या नार्य्याः स्मरणार्थम् कर्म्मेदं प्रचारिष्यते।
14 ततो द्वादशशिष्याणाम् ईष्करियोतीययिहूदानामक एकः शिष्यः प्रधानयाजकानामन्तिकं गत्वा कथितवान्,
15 यदि युष्माकं करेषु यीशुं समर्पयामि, तर्हि किं दास्यथ? तदानीं ते तस्मै त्रिंशन्मुद्रा दातुं स्थिरीकृतवन्तः।
16 स तदारभ्य तं परकरेषु समर्पयितुं सुयोगं चेष्टितवान्।
17 अनन्तरं किण्वशून्यपूपपर्व्वणः प्रथमेह्नि शिष्या यीशुम् उपगत्य पप्रच्छुः भवत्कृते कुत्र वयं निस्तारमहभोज्यम् आयोजयिष्यामः? भवतः केच्छा?
18 तदा स गदितवान्, मध्येनगरममुकपुंसः समीपं व्रजित्वा वदत, गुरु र्गदितवान्, मत्कालः सविधः, सह शिष्यैस्त्वदालये निस्तारमहभोज्यं भोक्ष्ये।
19 तदा शिष्या यीशोस्तादृशनिदेशानुरूपकर्म्म विधाय तत्र निस्तारमहभोज्यमासादयामासुः।
20 ततः सन्ध्यायां सत्यां द्वादशभिः शिष्यैः साकं स न्यविशत्।
21 अपरं भुञ्जान उक्तवान् युष्मान् तथ्यं वदामि, युष्माकमेको मां परकरेषु समर्पयिष्यति।
22 तदा तेऽतीव दुःखिता एकैकशो वक्तुमारेभिरे, हे प्रभो, स किमहं?
23 ततः स जगाद, मया साकं यो जनो भोजनपात्रे करं संक्षिपति, स एव मां परकरेषु समर्पयिष्यति।
24 मनुजसुतमधि यादृशं लिखितमास्ते, तदनुरूपा तद्गति र्भविष्यति; किन्तु येन पुंसा स परकरेषु समर्पयिष्यते, हा हा चेत् स नाजनिष्यत, तदा तस्य क्षेममभविष्यत्।
25 तदा यिहूदानामा यो जनस्तं परकरेषु समर्पयिष्यति, स उक्तवान्, हे गुरो, स किमहं? ततः स प्रत्युक्तवान्, त्वया सत्यं गदितम्।
26 अनन्तरं तेषामशनकाले यीशुः पूपमादायेश्वरीयगुणाननूद्य भंक्त्वा शिष्येभ्यः प्रदाय जगाद, मद्वपुःस्वरूपमिमं गृहीत्वा खादत।
27 पश्चात् स कंसं गृह्लन् ईश्वरीयगुणाननूद्य तेभ्यः प्रदाय कथितवान्, सर्व्वै र्युष्माभिरनेन पातव्यं,
28 यस्मादनेकेषां पापमर्षणाय पातितं यन्मन्नूत्ननियमरूपशोणितं तदेतत्।
29 अपरमहं नूत्नगोस्तनीरसं न पास्यामि, तावत् गोस्तनीफलरसं पुनः कदापि न पास्यामि।
30 पश्चात् ते गीतमेकं संगीय जैतुनाख्यगिरिं गतवन्तः।
31 तदानीं यीशुस्तानवोचत्, अस्यां रजन्यामहं युष्माकं सर्व्वेषां विघ्नरूपो भविष्यामि, यतो लिखितमास्ते, "मेषाणां रक्षको यस्तं प्रहरिष्याम्यहं ततः। मेषाणां निवहो नूनं प्रविकीर्णो भविष्यति"॥
32 किन्तु श्मशानात् समुत्थाय युष्माकमग्रेऽहं गालीलं गमिष्यामि।
33 पितरस्तं प्रोवाच, भवांश्चेत् सर्व्वेषां विघ्नरूपो भवति, तथापि मम न भविष्यति।
34 ततो यीशुना स उक्तः, तुभ्यमहं तथ्यं कथयामि, यामिन्यामस्यां चरणायुधस्य रवात् पूर्व्वं त्वं मां त्रि र्नाङ्गीकरिष्यसि।
35 ततः पितर उदितवान्, यद्यपि त्वया समं मर्त्तव्यं, तथापि कदापि त्वां न नाङ्गीकरिष्यामि; तथैव सर्व्वे शिष्याश्चोचुः।
36 अनन्तरं यीशुः शिष्यैः साकं गेत्शिमानीनामकं स्थानं प्रस्थाय तेभ्यः कथितवान्, अदः स्थानं गत्वा यावदहं प्रार्थयिष्ये तावद् यूयमत्रोपविशत।
37 पश्चात् स पितरं सिवदियसुतौ च सङ्गिनः कृत्वा गतवान्, शोकाकुलोऽतीव व्यथितश्च बभूव।
38 तानवादीच्च मृतियातनेव मत्प्राणानां यातना जायते, यूयमत्र मया सार्द्धं जागृत।
39 ततः स किञ्चिद्दूरं गत्वाधोमुखः पतन् प्रार्थयाञ्चक्रे, हे मत्पितर्यदि भवितुं शक्नोति, तर्हि कंसोऽयं मत्तो दूरं यातु; किन्तु मदिच्छावत् न भवतु, त्वदिच्छावद् भवतु।
40 ततः स शिष्यानुपेत्य तान् निद्रतो निरीक्ष्य पितराय कथयामास, यूयं मया साकं दण्डमेकमपि जागरितुं नाशन्कुत?
41 परीक्षायां न पतितुं जागृत प्रार्थयध्वञ्च; आत्मा समुद्यतोस्ति, किन्तु वपु र्दुर्ब्बलं।
42 स द्वितीयवारं प्रार्थयाञ्चक्रे, हे मत्तात, न पीते यदि कंसमिदं मत्तो दूरं यातुं न शक्नोति, तर्हि त्वदिच्छावद् भवतु।
43 स पुनरेत्य तान् निद्रतो ददर्श, यतस्तेषां नेत्राणि निद्रया पूर्णान्यासन्।
44 पश्चात् स तान् विहाय व्रजित्वा तृतीयवारं पूर्व्ववत् कथयन् प्रार्थितवान्।
45 ततः शिष्यानुपागत्य गदितवान्, साम्प्रतं शयानाः किं विश्राम्यथ? पश्यत, समय उपास्थात्, मनुजसुतः पापिनां करेषु समर्प्यते।
46 उत्तिष्ठत, वयं यामः, यो मां परकरेषु मसर्पयिष्यति, पश्यत, स समीपमायाति।
47 एतत्कथाकथनकाले द्वादशशिष्याणामेको यिहूदानामको मुख्ययाजकलोकप्राचीनैः प्रहितान् असिधारियष्टिधारिणो मनुजान् गृहीत्वा तत्समीपमुपतस्थौ।
48 असौ परकरेष्वर्पयिता पूर्व्वं तान् इत्थं सङ्केतयामास, यमहं चुम्बिष्ये, सोऽसौ मनुजः,सएव युष्माभि र्धार्य्यतां।
49 तदा स सपदि यीशुमुपागत्य हे गुरो, प्रणमामीत्युक्त्वा तं चुचुम्बे।
50 तदा यीशुस्तमुवाच, हे मित्रं किमर्थमागतोसि? तदा तैरागत्य यीशुराक्रम्य दघ्रे।
51 ततो यीशोः सङ्गिनामेकः करं प्रसार्य्य कोषादसिं बहिष्कृत्य महायाजकस्य दासमेकमाहत्य तस्य कर्णं चिच्छेद।
52 ततो यीशुस्तं जगाद, खड्गं स्वस्थानेे निधेहि यतो ये ये जना असिं धारयन्ति, तएवासिना विनश्यन्ति।
53 अपरं पिता यथा मदन्तिकं स्वर्गीयदूतानां द्वादशवाहिनीतोऽधिकं प्रहिणुयात् मया तमुद्दिश्येदानीमेव तथा प्रार्थयितुं न शक्यते, त्वया किमित्थं ज्ञायते?
54 तथा सतीत्थं घटिष्यते धर्म्मपुस्तकस्य यदिदं वाक्यं तत् कथं सिध्येत्?
55 तदानीं यीशु र्जननिवहं जगाद, यूयं खड्गयष्टीन् आदाय मां किं चौरं धर्त्तुमायाताः? अहं प्रत्यहं युष्माभिः साकमुपविश्य समुपादिशं, तदा मां नाधरत;
56 किन्तु भविष्यद्वादिनां वाक्यानां संसिद्धये सर्व्वमेतदभूत्। तदा सर्व्वे शिष्यास्तं विहाय पलायन्त।
57 अनन्तरं ते मनुजा यीशुं धृत्वा यत्राध्यापकप्राञ्चः परिषदं कुर्व्वन्त उपाविशन् तत्र कियफानाामकमहायाजकस्यान्तिकं निन्युः।
58 किन्तु शेषे किं भविष्यतीति वेत्तुं पितरो दूरे तत्पश्चाद् व्रजित्वा महायाजकस्याट्टालिकां प्रविश्य दासैः सहित उपाविशत्।
59 तदानीं प्रधानयाजकप्राचीनमन्त्रिणः सर्व्वे यीशुं हन्तुं मृषासाक्ष्यम् अलिप्सन्त,
60 किन्तु न लेभिरे। अनेकेषु मृषासाक्षिष्वागतेष्वपि तन्न प्रापुः।
61 शेषे द्वौ मृषासाक्षिणावागत्य जगदतुः, पुमानयमकथयत्, अहमीश्वरमन्दिरं भंक्त्वा दिनत्रयमध्ये तन्निर्म्मातुं शक्नोमि।
62 तदा महायाजक उत्थाय यीशुम् अवादीत्। त्वं किमपि न प्रतिवदसि? त्वामधि किमेते साक्ष्यं वदन्ति?
63 किन्तु यीशु र्मौनीभूय तस्यौ। ततो महायाजक उक्तवान्, त्वाम् अमरेश्वरनाम्ना शपयामि, त्वमीश्वरस्य पुत्रोऽभिषिक्तो भवसि नवेति वद।
64 यीशुः प्रत्यवदत्, त्वं सत्यमुक्तवान्; अहं युष्मान् तथ्यं वदामि, इतःपरं मनुजसुतं सर्व्वशक्तिमतो दक्षिणपार्श्वे स्थातुं गगणस्थं जलधरानारुह्यायान्तं वीक्षध्वे।
65 तदा महायाजको निजवसनं छित्त्वा जगाद, एष ईश्वरं निन्दितवान्, अस्माकमपरसाक्ष्येण किं प्रयोजनं? पश्यत, यूयमेवास्यास्याद् ईश्वरनिन्दां श्रुतवन्तः,
66 युष्माभिः किं विविच्यते? ते प्रत्यूचुः, वधार्होऽयं।
67 ततो लोकैस्तदास्ये निष्ठीवितं केचित् प्रतलमाहत्य केचिच्च चपेटमाहत्य बभाषिरे,
68 हे ख्रीष्ट त्वां कश्चपेटमाहतवान्? इति गणयित्वा वदास्मान्।
69 पितरो बहिरङ्गन उपविशति, तदानीमेका दासी तमुपागत्य बभाषे, त्वं गालीलीययीशोः सहचरएकः।
70 किन्तु स सर्व्वेषां समक्षम् अनङ्गीकृत्यावादीत्, त्वया यदुच्यते, तदर्थमहं न वेद्मि।
71 तदा तस्मिन् बहिर्द्वारं गते ऽन्या दासी तं निरीक्ष्य तत्रत्यजनानवदत्, अयमपि नासरतीययीशुना सार्द्धम् आसीत्।
72 ततः स शपथेन पुनरनङ्गीकृत्य कथितवान्, तं नरं न परिचिनोमि।
73 क्षणात् परं तिष्ठन्तो जना एत्य पितरम् अवदन्, त्वमवश्यं तेषामेक इति त्वदुच्चारणमेव द्योतयति।
74 किन्तु सोऽभिशप्य कथितवान्, तं जनं नाहं परिचिनोमि, तदा सपदि कुक्कुटो रुराव।
75 कुक्कुटरवात् प्राक् त्वं मां त्रिरपाह्नोष्यसे, यैषा वाग् यीशुनावादि तां पितरः संस्मृत्य बहिरित्वा खेदाद् भृशं चक्रन्द।

मथिलिखितः सुसंवादः 27

1 प्रभाते जाते प्रधानयाजकलोकप्राचीना यीशुं हन्तुं तत्प्रतिकूलं मन्त्रयित्वा
2 तं बद्व्वा नीत्वा पन्तीयपीलाताख्याधिपे समर्पयामासुः।
3 ततो यीशोः परकरेव्वर्पयिता यिहूदास्तत्प्राणादण्डाज्ञां विदित्वा सन्तप्तमनाः प्रधानयाजकलोकप्राचीनानां समक्षं तास्त्रींशन्मुद्राः प्रतिदायावादीत्,
4 एतन्निरागोनरप्राणपरकरार्पणात् कलुषं कृतवानहं। तदा त उदितवन्तः, तेनास्माकं किं? त्वया तद् बुध्यताम्।
5 ततो यिहूदा मन्दिरमध्ये ता मुद्रा निक्षिप्य प्रस्थितवान् इत्वा च स्वयमात्मानमुद्बबन्ध।
6 पश्चात् प्रधानयाजकास्ता मुद्रा आदाय कथितवन्तः, एता मुद्राः शोणितमूल्यं तस्माद् भाण्डागारे न निधातव्याः।
7 अनन्तरं ते मन्त्रयित्वा विदेशिनां श्मशानस्थानाय ताभिः कुलालस्य क्षेत्रमक्रीणन्।
8 अतोऽद्यापि तत्स्थानं रक्तक्षेत्रं वदन्ति।
9 इत्थं सति इस्रायेलीयसन्तानै र्यस्य मूल्यं निरुपितं, तस्य त्रिंशन्मुद्रामानं मूल्यं
10 मां प्रति परमेश्वरस्यादेशात् तेभ्य आदीयत, तेन च कुलालस्य क्षेत्रं क्रीतमिति यद्वचनं यिरिमियभविष्यद्वादिना प्रोक्तं तत् तदासिध्यत्।
11 अनन्तरं यीशौ तदधिपतेः सम्मुख उपतिष्ठति स तं पप्रच्छ, त्वं किं यिहूदीयानां राजा? तदा यीशुस्तमवदत्, त्वं सत्यमुक्तवान्।
12 किन्तु प्रधानयाजकप्राचीनैरभियुक्तेन तेन किमपि न प्रत्यवादि।
13 ततः पीलातेन स उदितः, इमे त्वत्प्रतिकूलतः कति कति साक्ष्यं ददति, तत् त्वं न शृणोषि?
14 तथापि स तेषामेकस्यापि वचस उत्तरं नोदितवान्; तेन सोऽधिपति र्महाचित्रं विदामास।
15 अन्यच्च तन्महकालेऽधिपतेरेतादृशी रातिरासीत्, प्रजा यं कञ्चन बन्धिनं याचन्ते, तमेव स मोचयतीति।
16 तदानीं बरब्बानामा कश्चित् ख्यातबन्ध्यासीत्।
17 ततः पीलातस्तत्र मिलितान् लोकान् अपृच्छत्, एष बरब्बा बन्धी ख्रीष्टविख्यातो यीशुश्चैतयोः कं मोचयिष्यामि? युष्माकं किमीप्सितं?
18 तैरीर्ष्यया स समर्पित इति स ज्ञातवान्।
19 अपरं विचारासनोपवेशनकाले पीलातस्य पत्नी भृत्यं प्रहित्य तस्मै कथयामास, तं धार्म्मिकमनुजं प्रति त्वया किमपि न कर्त्तव्यं; यस्मात् तत्कृतेऽद्याहं स्वप्ने प्रभूतकष्टमलभे।
20 अनन्तरं प्रधानयाजकप्राचीना बरब्बां याचित्वादातुं यीशुञ्च हन्तुं सकललोकान् प्रावर्त्तयन्।
21 ततोऽधिपतिस्तान् पृष्टवान्, एतयोः कमहं मोचयिष्यामि? युष्माकं केच्छा? ते प्रोचु र्बरब्बां।
22 तदा पीलातः पप्रच्छ, तर्हि यं ख्रीष्टं वदन्ति, तं यीशुं किं करिष्यामि? सर्व्वे कथयामासुः, स क्रुशेन विध्यतां।
23 ततोऽधिपतिरवादीत्, कुतः? किं तेनापराद्धं? किन्तु ते पुनरुचै र्जगदुः, स क्रुशेन विध्यतां।
24 तदा निजवाक्यमग्राह्यमभूत्, कलहश्चाप्यभूत्, पीलात इति विलोक्य लोकानां समक्षं तोयमादाय करौ प्रक्षाल्यावोचत्, एतस्य धार्म्मिकमनुष्यस्य शोणितपाते निर्दोषोऽहं, युष्माभिरेव तद् बुध्यतां।
25 तदा सर्व्वाः प्रजाः प्रत्यवोचन्, तस्य शोणितपातापराधोऽस्माकम् अस्मत्सन्तानानाञ्चोपरि भवतु।
26 ततः स तेषां समीपे बरब्बां मोचयामास यीशुन्तु कषाभिराहत्य क्रुशेन वेधितुं समर्पयामास।
27 अनन्तरम् अधिपतेः सेना अधिपते र्गृहं यीशुमानीय तस्य समीपे सेनासमूहं संजगृहुः।
28 ततस्ते तस्य वसनं मोचयित्वा कृष्णलोहितवर्णवसनं परिधापयामासुः
29 कण्टकानां मुकुटं निर्म्माय तच्छिरसि ददुः, तस्य दक्षिणकरे वेत्रमेकं दत्त्वा तस्य सम्मुखे जानूनि पातयित्वा, हे यिहूदीयानां राजन्, तुभ्यं नम इत्युक्त्वा तं तिरश्चक्रुः,
30 ततस्तस्य गात्रे निष्ठीवं दत्वा तेन वेत्रेण शिर आजघ्नुः।
31 इत्थं तं तिरस्कृत्य तद् वसनं मोचयित्वा पुनर्निजवसनं परिधापयाञ्चक्रुः, तं क्रुशेन वेधितुं नीतवन्तः।
32 पश्चात्ते बहिर्भूय कुरीणीयं शिमोन्नामकमेकं विलोक्य क्रुशं वोढुं तमाददिरे।
33 अनन्तरं गुल्गल्ताम् अर्थात् शिरस्कपालनामकस्थानमु पस्थाय ते यीशवे पित्तमिश्रिताम्लरसं पातुं ददुः,
34 किन्तु स तमास्वाद्य न पपौ।
35 तदानीं ते तं क्रुशेन संविध्य तस्य वसनानि गुटिकापातेन विभज्य जगृहुः, तस्मात्, विभजन्तेऽधरीयं मे ते मनुष्याः परस्परं। मदुत्तरीयवस्त्रार्थं गुटिकां पातयन्ति च॥ यदेतद्वचनं भविष्यद्वादिभिरुक्तमासीत्, तदा तद् असिध्यत्,
36 पश्चात् ते तत्रोपविश्य तद्रक्षणकर्व्वणि नियुक्तास्तस्थुः।
37 अपरम् एष यिहूदीयानां राजा यीशुरित्यपवादलिपिपत्रं तच्छिरस ऊर्द्व्वे योजयामासुः।
38 ततस्तस्य वामे दक्षिणे च द्वौ चैरौ तेन साकं क्रुशेन विविधुः।
39 तदा पान्था निजशिरो लाडयित्वा तं निन्दन्तो जगदुः,
40 हे ईश्वरमन्दिरभञ्जक दिनत्रये तन्निर्म्मातः स्वं रक्ष, चेत्त्वमीश्वरसुतस्तर्हि क्रुशादवरोह।
41 प्रधानयाजकाध्यापकप्राचीनाश्च तथा तिरस्कृत्य जगदुः,
42 सोऽन्यजनानावत्, किन्तु स्वमवितुं न शक्नोति। यदीस्रायेलो राजा भवेत्, तर्हीदानीमेव क्रुशादवरोहतु, तेन तं वयं प्रत्येष्यामः।
43 स ईश्वरे प्रत्याशामकरोत्, यदीश्वरस्तस्मिन् सन्तुष्टस्तर्हीदानीमेव तमवेत्, यतः स उक्तवान् अहमीश्वरसुतः।
44 यौ स्तेनौ साकं तेन क्रुशेन विद्धौ तौ तद्वदेव तं निनिन्दतुः।
45 तदा द्वितीययामात् तृतीययामं यावत् सर्व्वदेशे तमिरं बभूव,
46 तृतीययामे "एली एली लामा शिवक्तनी", अर्थात् मदीश्वर मदीश्वर कुतो मामत्याक्षीः? यीशुरुच्चैरिति जगाद।
47 तदा तत्र स्थिताः केचित् तत् श्रुत्वा बभाषिरे, अयम् एलियमाहूयति।
48 तेषां मध्याद् एकः शीघ्रं गत्वा स्पञ्जं गृहीत्वा तत्राम्लरसं दत्त्वा नलेन पातुं तस्मै ददौ।
49 इतरेऽकथयन् तिष्ठत, तं रक्षितुम् एलिय आयाति नवेति पश्यामः।
50 यीशुः पुनरुचैराहूय प्राणान् जहौ।
51 ततो मन्दिरस्य विच्छेदवसनम् ऊर्द्व्वादधो यावत् छिद्यमानं द्विधाभवत्,
52 भूमिश्चकम्पे भूधरोव्यदीर्य्यत च। श्मशाने मुक्ते भूरिपुण्यवतां सुप्तदेहा उदतिष्ठन्,
53 श्मशानाद् वहिर्भूय तदुत्थानात् परं पुण्यपुरं गत्वा बहुजनान् दर्शयामासुः।
54 यीशुरक्षणाय नियुक्तः शतसेनापतिस्तत्सङ्गिनश्च तादृशीं भूकम्पादिघटनां दृष्ट्वा भीता अवदन्, एष ईश्वरपुत्रो भवति।
55 या बहुयोषितो यीशुं सेवमाना गालीलस्तत्पश्चादागतास्तासां मध्ये
56 मग्दलीनी मरियम् याकूब्योश्यो र्माता या मरियम् सिबदियपुत्रयो र्माता च योषित एता दूरे तिष्ठन्त्यो ददृशुः।
57 सन्ध्यायां सत्यम् अरिमथियानगरस्य यूषफ्नामा धनी मनुजो यीशोः शिष्यत्वात्
58 पीलातस्य समीपं गत्वा यीशोः कायं ययाचे, तेन पीलातः कायं दातुम् आदिदेश।
59 यूषफ् तत्कायं नीत्वा शुचिवस्त्रेणाच्छाद्य
60 स्वार्थं शैले यत् श्मशानं चखान, तन्मध्ये तत्कायं निधाय तस्य द्वारि वृहत्पाषाणं ददौ।
61 किन्तु मग्दलीनी मरियम् अन्यमरियम् एते स्त्रियौ तत्र श्मशानसम्मुख उपविविशतुः।
62 तदनन्तरं निस्तारोत्सवस्यायोजनदिनात् परेऽहनि प्रधानयाजकाः फिरूशिनश्च मिलित्वा पीलातमुपागत्याकथयन्,
63 हे महेच्छ स प्रतारको जीवन अकथयत्, दिनत्रयात् परं श्मशानादुत्थास्यामि तद्वाक्यं स्मरामो वयं;
64 तस्मात् तृतीयदिनं यावत् तत् श्मशानं रक्षितुमादिशतु, नोचेत् तच्छिष्या यामिन्यामागत्य तं हृत्वा लोकान् वदिष्यन्ति, स श्मशानादुदतिष्ठत्, तथा सति प्रथमभ्रान्तेः शेषीयभ्रान्ति र्महती भविष्यति।
65 तदा पीलात अवादीत्, युष्माकं समीपे रक्षिगण आस्ते, यूयं गत्वा यथा साध्यं रक्षयत।
66 ततस्ते गत्वा तद्दूारपाषाणं मुद्राङ्कितं कृत्वा रक्षिगणं नियोज्य श्मशानं रक्षयामासुः।

मथिलिखितः सुसंवादः 28

1 ततः परं विश्रामवारस्य शेषे सप्ताहप्रथमदिनस्य प्रभोते जाते मग्दलीनी मरियम् अन्यमरियम् च श्मशानं द्रष्टुमागता।
2 तदा महान् भूकम्पोऽभवत्; परमेश्वरीयदूतः स्वर्गादवरुह्य श्मशानद्वारात् पाषाणमपसार्य्य तदुपर्य्युपविवेश।
3 तद्वदनं विद्युद्वत् तेजोमयं वसनं हिमशुभ्रञ्च।
4 तदानीं रक्षिणस्तद्भयात् कम्पिता मृतवद् बभूवः।
5 स दूतो योषितो जगाद, यूयं मा भैष्ट, क्रुशहतयीशुं मृगयध्वे तदहं वेद्मि।
6 सोऽत्र नास्ति, यथावदत् तथोत्थितवान्; एतत् प्रभोः शयनस्थानं पश्यत।
7 तूर्णं गत्वा तच्छिष्यान् इति वदत, स श्मशानाद् उदतिष्ठत्, युष्माकमग्रे गालीलं यास्यति यूयं तत्र तं वीक्षिष्यध्वे, पश्यताहं वार्त्तामिमां युष्मानवादिषं।
8 ततस्ता भयात् महानन्दाञ्च श्मशानात् तूर्णं बहिर्भूय तच्छिष्यान् वार्त्तां वक्तुं धावितवत्यः। किन्तु शिष्यान् वार्त्तां वक्तुं यान्ति, तदा यीशु र्दर्शनं दत्त्वा ता जगाद,
9 युष्माकं कल्याणं भूयात्, ततस्ता आगत्य तत्पादयोः पतित्वा प्रणेमुः।
10 यीशुस्ता अवादीत्, मा बिभीत, यूयं गत्वा मम भ्रातृन् गालीलं यातुं वदत, तत्र ते मां द्रक्ष्यन्ति।
11 स्त्रियो गच्छन्ति, तदा रक्षिणां केचित् पुरं गत्वा यद्यद् घटितं तत्सर्व्वं प्रधानयाजकान् ज्ञापितवन्तः।
12 ते प्राचीनैः समं संसदं कृत्वा मन्त्रयन्तो बहुमुद्राः सेनाभ्यो दत्त्वावदन्,
13 अस्मासु निद्रितेषु तच्छिष्या यामिन्यामागत्य तं हृत्वानयन्, इति यूयं प्रचारयत।
14 यद्येतदधिपतेः श्रोत्रगोचरीभवेत्, तर्हि तं बोधयित्वा युष्मानविष्यामः।
15 ततस्ते मुद्रा गृहीत्वा शिक्षानुरूपं कर्म्म चक्रुः, यिहूदीयानां मध्ये तस्याद्यापि किंवदन्ती विद्यते।
16 एकादश शिष्या यीशुनिरूपितागालीलस्याद्रिं गत्वा
17 तत्र तं संवीक्ष्य प्रणेमुः, किन्तु केचित् सन्दिग्धवन्तः।
18 यीशुस्तेषां समीपमागत्य व्याहृतवान्, स्वर्गमेदिन्योः सर्व्वाधिपतित्वभारो मय्यर्पित आस्ते।
19 अतो यूयं प्रयाय सर्व्वदेशीयान् शिष्यान् कृत्वा पितुः पुत्रस्य पवित्रस्यात्मनश्च नाम्ना तानवगाहयत; अहं युष्मान् यद्यदादिशं तदपि पालयितुं तानुपादिशत।
20 पश्यत, जगदन्तं यावत् सदाहं युष्माभिः साकं तिष्ठामि। इति।

॥ इति मथिलिखितः सुसंवादः समाप्तं ॥


मार्कलिखितः सुसंवादः
01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16


मार्कलिखितः सुसंवादः 01

1 ईश्वरपुत्रस्य यीशुख्रीष्टस्य सुसंवादारम्भः।
2 भविष्यद्वादिनां ग्रन्थेषु लिपिरित्थमास्ते, पश्य स्वकीयदूतन्तु तवाग्रे प्रेषयाम्यहम्। गत्वा त्वदीयपन्थानं स हि परिष्करिष्यति।
3 "परमेशस्य पन्थानं परिष्कुरुत सर्व्वतः। तस्य राजपथञ्चैव समानं कुरुताधुना। " इत्येतत् प्रान्तरे वाक्यं वदतः कस्यचिद्रवः॥
4 सएव योहन् प्रान्तरे मज्जितवान् तथा पापमार्जननिमित्तं मनोव्यावर्त्तकमज्जनस्य कथाञ्च प्रचारितवान्।
5 ततो यिहूदादेशयिरूशालम्नगरनिवासिनः सर्व्वे लोका बहि र्भूत्वा तस्य समीपमागत्य स्वानि स्वानि पापान्यङ्गीकृत्य यर्द्दननद्यां तेन मज्जिता बभूवुः।
6 अस्य योहनः परिधेयानि क्रमेलकलोमजानि, तस्य कटिबन्धनं चर्म्मजातम्, तस्य भक्ष्याणि च शूककीटा वन्यमधूनि चासन्।
7 स प्रचारयन् कथयाञ्चक्रे, अहं नम्रीभूय यस्य पादुकाबन्धनं मोचयितुमपि न योग्योस्मि, तादृशो मत्तो गुरुतर एकः पुरुषो मत्पश्चादागच्छति।
8 अहं युष्मान् जले मज्जितवान् किन्तु स पवित्र आत्मानि संमज्जयिष्यति।
9 अपरञ्च तस्मिन्नेव काले गालील्प्रदेशस्य नासरद्ग्रामाद् यीशुरागत्य योहना यर्द्दननद्यां मज्जितोऽभूत्।
10 स जलादुत्थितमात्रो मेघद्वारं मुक्तं कपोतवत् स्वस्योपरि अवरोहन्तमात्मानञ्च दृष्टवान्।
11 त्वं मम प्रियः पुत्रस्त्वय्येव मममहासन्तोष इयमाकाशीया वाणी बभूव।
12 तस्मिन् काले आत्मा तं प्रान्तरमध्यं निनाय।
13 अथ स चत्वारिंशद्दिनानि तस्मिन् स्थाने वन्यपशुभिः सह तिष्ठन् शैताना परीक्षितः; पश्चात् स्वर्गीयदूतास्तं सिषेविरे।
14 अनन्तरं योहनि बन्धनालये बद्धे सति यीशु र्गालील्प्रदेशमागत्य ईश्वरराज्यस्य सुसंवादं प्रचारयन् कथयामास,
15 कालः सम्पूर्ण ईश्वरराज्यञ्च समीपमागतं; अतोहेतो र्यूयं मनांसि व्यावर्त्तयध्वं सुसंवादे च विश्वासित।
16 तदनन्तरं स गालीलीयसमुद्रस्य तीरे गच्छन् शिमोन् तस्य भ्राता अन्द्रियनामा च इमौ द्वौ जनौ मत्स्यधारिणौ सागरमध्ये जालं प्रक्षिपन्तौ दृष्ट्वा ताववदत्,
17 युवां मम पश्चादागच्छतं, युवामहं मनुष्यधारिणौ करिष्यामि।
18 ततस्तौ तत्क्षणमेव जालानि परित्यज्य तस्य पश्चात् जग्मतुः।
19 ततः परं तत्स्थानात् किञ्चिद् दूरं गत्वा स सिवदीपुत्रयाकूब् तद्भ्रातृयोहन् च इमौ नौकायां जालानां जीर्णमुद्धारयन्तौ दृष्ट्वा तावाहूयत्।
20 ततस्तौ नौकायां वेतनभुग्भिः सहितं स्वपितरं विहाय तत्पश्चादीयतुः।
21 ततः परं कफर्नाहूम्नामकं नगरमुपस्थाय स विश्रामदिवसे भजनग्रहं प्रविश्य समुपदिदेश।
22 तस्योपदेशाल्लोका आश्चर्य्यं मेनिरे यतः सोध्यापकाइव नोपदिशन् प्रभाववानिव प्रोपदिदेश।
23 अपरञ्च तस्मिन् भजनगृहे अपवित्रभूतेन ग्रस्त एको मानुष आसीत्। स चीत्शब्दं कृत्वा कथयाञ्चके
24 भो नासरतीय यीशो त्वमस्मान् त्यज, त्वया सहास्माकं कः सम्बन्धः? त्वं किमस्मान् नाशयितुं समागतः? त्वमीश्वरस्य पवित्रलोक इत्यहं जानामि।
25 तदा यीशुस्तं तर्जयित्वा जगाद तूष्णीं भव इतो बहिर्भव च।
26 ततः सोऽपवित्रभूतस्तं सम्पीड्य अत्युचैश्चीत्कृत्य निर्जगाम।
27 तेनैव सर्व्वे चमत्कृत्य परस्परं कथयाञ्चक्रिरे, अहो किमिदं? कीदृशोऽयं नव्य उपदेशः? अनेन प्रभावेनापवित्रभूतेष्वाज्ञापितेषु ते तदाज्ञानुवर्त्तिनो भवन्ति।
28 तदा तस्य यशो गालीलश्चतुर्दिक्स्थसर्व्वदेशान् व्याप्नोत्।
29 अपरञ्च ते भजनगृहाद् बहि र्भूत्वा याकूब्योहन्भ्यां सह शिमोन आन्द्रियस्य च निवेशनं प्रविविशुः।
30 तदा पितरस्य श्वश्रूर्ज्वरपीडिता शय्यायामास्त इति ते तं झटिति विज्ञापयाञ्चक्रुः।
31 ततः स आगत्य तस्या हस्तं धृत्वा तामुदस्थापयत्; तदैव तां ज्वरोऽत्याक्षीत् ततः परं सा तान् सिषेवे।
32 अथास्तं गते रवौ सन्ध्याकाले सति लोकास्तत्समीपं सर्व्वान् रोगिणो भूतधृतांश्च समानिन्युः।
33 सर्व्वे नागरिका लोका द्वारि संमिलिताश्च।
34 ततः स नानाविधरोगिणो बहून् मनुजानरोगिणश्चकार तथा बहून् भूतान् त्याजयाञ्चकार तान् भूतान् किमपि वाक्यं वक्तुं निषिषेध च यतोहेतोस्ते तमजानन्।
35 अपरञ्च सोऽतिप्रत्यूषे वस्तुतस्तु रात्रिशेषे समुत्थाय बहिर्भूय निर्जनं स्थानं गत्वा तत्र प्रार्थयाञ्चक्रे।
36 अनन्तरं शिमोन् तत्सङ्गिनश्च तस्य पश्चाद् गतवन्तः।
37 तदुद्देशं प्राप्य तमवदन् सर्व्वे लोकास्त्वां मृगयन्ते।
38 तदा सोऽकथयत् आगच्छत वयं समीपस्थानि नगराणि यामः, यतोऽहं तत्र कथां प्रचारयितुं बहिरागमम्।
39 अथ स तेषां गालील्प्रदेशस्य सर्व्वेषु भजनगृहेषु कथाः प्रचारयाञ्चक्रे भूतानत्याजयञ्च।
40 अनन्तरमेकः कुष्ठी समागत्य तत्सम्मुखे जानुपातं विनयञ्च कृत्वा कथितवान् यदि भवान् इच्छति तर्हि मां परिष्कर्त्तुं शक्नोति।
41 ततः कृपालु र्यीशुः करौ प्रसार्य्य तं स्पष्ट्वा कथयामास
42 ममेच्छा विद्यते त्वं परिष्कृतो भव। एतत्कथायाः कथनमात्रात् स कुष्ठी रोगान्मुक्तः परिष्कृतोऽभवत्।
43 तदा स तं विसृजन् गाढमादिश्य जगाद
44 सावधानो भव कथामिमां कमपि मा वद; स्वात्मानं याजकं दर्शय, लोकेभ्यः स्वपरिष्कृतेः प्रमाणदानाय मूसानिर्णीतं यद्दानं तदुत्सृजस्व च।
45 किन्तु स गत्वा तत् कर्म्म इत्थं विस्तार्य्य प्रचारयितुं प्रारेभे तेनैव यीशुः पुनः सप्रकाशं नगरं प्रवेष्टुं नाशक्नोत् ततोहेतोर्बहिः काननस्थाने तस्यौ; तथापि चतुर्द्दिग्भ्यो लोकास्तस्य समीपमाययुः।

मार्कलिखितः सुसंवादः 02

1 तदनन्तरं यीशै कतिपयदिनानि विलम्ब्य पुनः कफर्नाहूम्नगरं प्रविष्टे स गृह आस्त इति किंवदन्त्या तत्क्षणं तत्समीपं बहवो लोका आगत्य समुपतस्थुः,
2 तस्माद् गृहमध्ये सर्व्वेषां कृते स्थानं नाभवद् द्वारस्य चतुर्दिक्ष्वपि नाभवत्, तत्काले स तान् प्रति कथां प्रचारयाञ्चक्रे।
3 ततः परं लोकाश्चतुर्भि र्मानवैरेकं पक्षाघातिनं वाहयित्वा तत्समीपम् आनिन्युः।
4 किन्तु जनानां बहुत्वात् तं यीशोः सम्मुखमानेतुं न शक्नुवन्तो यस्मिन् स्थाने स आस्ते तदुपरिगृहपृष्ठं खनित्वा छिद्रं कृत्वा तेन मार्गेण सशय्यं पक्षाघातिनम् अवरोहयामासुः।
5 ततो यीशुस्तेषां विश्वासं दृष्ट्वा तं पक्षाघातिनं बभाषे हे वत्स तव पापानां मार्जनं भवतु।
6 तदा कियन्तोऽध्यापकास्तत्रोपविशन्तो मनोभि र्वितर्कयाञ्चक्रुः, एष मनुष्य एतादृशीमीश्वरनिन्दां कथां कुतः कथयति?
7 ईश्वरं विना पापानि मार्ष्टुं कस्य सामर्थ्यम् आस्ते?
8 इत्थं ते वितर्कयन्ति यीशुस्तत्क्षणं मनसा तद् बुद्व्वा तानवदद् यूयमन्तःकरणैः कुत एतानि वितर्कयथ?
9 तदनन्तरं यीशुस्तत्स्थानात् पुनः समुद्रतटं ययौ; लोकनिवहे तत्समीपमागते स तान् समुपदिदेश।
10 किन्तु पृथिव्यां पापानि मार्ष्टुं मनुष्यपुत्रस्य सामर्थ्यमस्ति, एतद् युष्मान् ज्ञापयितुं (स तस्मै पक्षाघातिने कथयामास)
11 उत्तिष्ठ तव शय्यां गृहीत्वा स्वगृहं याहि, अहं त्वामिदम् आज्ञापयामि।
12 ततः स तत्क्षणम् उत्थाय शय्यां गृहीत्वा सर्व्वेषां साक्षात् जगाम; सर्व्वे विस्मिता एतादृशं कर्म्म वयम् कदापि नापश्याम, इमां कथां कथयित्वेश्वरं धन्यमब्रुवन्।
13 तदनन्तरं यीशुस्तत्स्थानात् पुनः समुद्रतटं ययौ; लोकनिवहे तत्समीपमागते स तान् समुपदिदेश।
14 अथ गच्छन् करसञ्चयगृह उपविष्टम् आल्फीयपुत्रं लेविं दृष्ट्वा तमाहूय कथितवान् मत्पश्चात् त्वामामच्छ ततः स उत्थाय तत्पश्चाद् ययौ।
15 अनन्तरं यीशौ तस्य गृहे भोक्तुम् उपविष्टे बहवः करमञ्चायिनः पापिनश्च तेन तच्छिष्यैश्च सहोपविविशुः, यतो बहवस्तत्पश्चादाजग्मुः।
16 तदा स करमञ्चायिभिः पापिभिश्च सह खादति, तद् दृष्ट्वाध्यापकाः फिरूशिनश्च तस्य शिष्यानूचुः करमञ्चायिभिः पापिभिश्च सहायं कुतो भुंक्ते पिवति च?
17 तद्वाक्यं श्रुत्वा यीशुः प्रत्युवाच,अरोगिलोकानां चिकित्सकेन प्रयोजनं नास्ति, किन्तु रोगिणामेव; अहं धार्म्मिकानाह्वातुं नागतः किन्तु मनो व्यावर्त्तयितुं पापिन एव।
18 ततः परं योहनः फिरूशिनाञ्चोपवासाचारिशिष्या यीशोः समीपम् आगत्य कथयामासुः, योहनः फिरूशिनाञ्च शिष्या उपवसन्ति किन्तु भवतः शिष्या नोपवसन्ति किं कारणमस्य?
19 तदा यीशुस्तान् बभाषे यावत् कालं सखिभिः सह कन्याया वरस्तिष्ठति तावत्कालं ते किमुपवस्तुं शक्नुवन्ति? यावत्कालं वरस्तैः सह तिष्ठति तावत्कालं त उपवस्तुं न शक्नुवन्ति।
20 यस्मिन् काले तेभ्यः सकाशाद् वरो नेष्यते स काल आगच्छति, तस्मिन् काले ते जना उपवत्स्यन्ति।
21 कोपि जनः पुरातनवस्त्रे नूतनवस्त्रं न सीव्यति, यतो नूतनवस्त्रेण सह सेवने कृते जीर्णं वस्त्रं छिद्यते तस्मात् पुन र्महत् छिद्रं जायते।
22 कोपि जनः पुरातनकुतूषु नूतनं द्राक्षारसं न स्थापयति, यतो नूतनद्राक्षारसस्य तेजसा ताः कुत्वो विदीर्य्यन्ते ततो द्राक्षारसश्च पतति कुत्वश्च नश्यन्ति, अतएव नूतनद्राक्षारसो नूतनकुतूषु स्थापनीयः।
23 तदनन्तरं यीशु र्यदा विश्रामवारे शस्यक्षेत्रेण गच्छति तदा तस्य शिष्या गच्छन्तः शस्यमञ्जरीश्छेत्तुं प्रवृत्ताः।
24 अतः फिरूशिनो यीशवे कथयामासुः पश्यतु विश्रामवासरे यत् कर्म्म न कर्त्तव्यं तद् इमे कुतः कुर्व्वन्ति?
25 तदा स तेभ्योऽकथयत् दायूद् तत्संङ्गिनश्च भक्ष्याभावात् क्षुधिताः सन्तो यत् कर्म्म कृतवन्तस्तत् किं युष्माभि र्न पठितम्?
26 अबियाथर्नामके महायाजकतां कुर्व्वति स कथमीश्वरस्यावासं प्रविश्य ये दर्शनीयपूपा याजकान् विनान्यस्य कस्यापि न भक्ष्यास्तानेव बुभुजे सङ्गिलोकेभ्योऽपि ददौ।
27 सोऽपरमपि जगाद, विश्रामवारो मनुष्यार्थमेव निरूपितोऽस्ति किन्तु मनुष्यो विश्रामवारार्थं नैव।
28 मनुष्यपुत्रो विश्रामवारस्यापि प्रभुरास्ते।

मार्कलिखितः सुसंवादः 03

1 अनन्तरं यीशुः पुन र्भजनगृहं प्रविष्टस्तस्मिन् स्थाने शुष्कहस्त एको मानव आसीत्।
2 स विश्रामवारे तमरोगिणं करिष्यति नवेत्यत्र बहवस्तम् अपवदितुं छिद्रमपेक्षितवन्तः।
3 तदा स तं शुष्कहस्तं मनुष्यं जगाद मध्यस्थाने त्वमुत्तिष्ठ।
4 ततः परं स तान् पप्रच्छ विश्रामवारे हितमहितं तथा हि प्राणरक्षा वा प्राणनाश एषां मध्ये किं करणीयं ? किन्तु ते निःशब्दास्तस्थुः।
5 तदा स तेषामन्तःकरणानां काठिन्याद्धेतो र्दुःखितः क्रोधात् चर्तुिदशो दृष्टवान् तं मानुषं गदितवान् तं हस्तं विस्तारय, ततस्तेन हस्ते विस्तृते तद्धस्तोऽन्यहस्तवद् अरोगो जातः।
6 अथ फिरूशिनः प्रस्थाय तं नाशयितुं हेरोदीयैः सह मन्त्रयितुमारेभिरे।
7 अतएव यीशुस्तत्स्थानं परित्यज्य शिष्यैः सह पुनः सागरसमीपं गतः;
8 ततो गालील्यिहूदा-यिरूशालम्-इदोम्-यर्दन्नदीपारस्थानेभ्यो लोकसमूहस्तस्य पश्चाद् गतः; तदन्यः सोरसीदनोः समीपवासिलोकसमूहश्च तस्य महाकर्म्मणां वार्त्तं श्रुत्वा तस्य सन्निधिमागतः।
9 तदा लोकसमूहश्चेत् तस्योपरि पतति इत्याशङ्क्य स नावमेकां निकटे स्थापयितुं शिष्यानादिष्टवान्।
10 यतोऽनेकमनुष्याणामारोग्यकरणाद् व्याधिग्रस्ताः सर्व्वे तं स्प्रष्टुं परस्परं बलेन यत्नवन्तः।
11 अपरञ्च अपवित्रभूतास्तं दृष्ट्वा तच्चरणयोः पतित्वा प्रोचैः प्रोचुः, त्वमीश्वरस्य पुत्रः।
12 किन्तु स तान् दृढम् आज्ञाप्य स्वं परिचायितुं निषिद्धवान्।
13 अनन्तरं स पर्व्वतमारुह्य यं यं प्रतिच्छा तं तमाहूतवान् ततस्ते तत्समीपमागताः।
14 तदा स द्वादशजनान् स्वेन सह स्थातुं सुसंवादप्रचाराय प्रेरिता भवितुं
15 सर्व्वप्रकारव्याधीनां शमनकरणाय प्रभावं प्राप्तुं भूतान् त्याजयितुञ्च नियुक्तवान्।
16 तेषां नामानीमानि, शिमोन् सिवदिपुत्रो
17 याकूब् तस्य भ्राता योहन् च आन्द्रियः फिलिपो बर्थलमयः,
18 मथी थोमा च आल्फीयपुत्रो याकूब् थद्दीयः किनानीयः शिमोन् यस्तं परहस्तेष्वर्पयिष्यति स ईष्करियोतीययिहूदाश्च।
19 स शिमोने पितर इत्युपनाम ददौ याकूब्योहन्भ्यां च बिनेरिगिश् अर्थतो मेघनादपुत्रावित्युपनाम ददौ।
20 अनन्तरं ते निवेशनं गताः, किन्तु तत्रापि पुनर्महान् जनसमागमो ऽभवत् तस्मात्ते भोक्तुमप्यवकाशं न प्राप्ताः।
21 ततस्तस्य सुहृल्लोका इमां वार्त्तां प्राप्य स हतज्ञानोभूद् इति कथां कथयित्वा तं धृत्वानेतुं गताः।
22 अपरञ्च यिरूशालम आगता ये येऽध्यापकास्ते जगदुरयं पुरुषो भूतपत्याबिष्टस्तेन भूतपतिना भूतान् त्याजयति।
23 ततस्तानाहूय यीशु र्दृष्टान्तैः कथां कथितवान् शैतान् कथं शैतानं त्याजयितुं शक्नोति?
24 किञ्चन राज्यं यदि स्वविरोधेन पृथग् भवति तर्हि तद् राज्यं स्थिरं स्थातुं न शक्नोति।
25 तथा कस्यापि परिवारो यदि परस्परं विरोधी भवति तर्हि सोपि परिवारः स्थिरं स्थातुं न शक्नोति।
26 तद्वत् शैतान् यदि स्वविपक्षतया उत्तिष्ठन् भिन्नो भवति तर्हि सोपि स्थिरं स्थातुं न शक्नोति किन्तूच्छिन्नो भवति।
27 अपरञ्च प्रबलं जनं प्रथमं न बद्धा कोपि तस्य गृहं प्रविश्य द्रव्याणि लुण्ठयितुं न शक्नोति, तं बद्व्वैव तस्य गृहस्य द्रव्याणि लुण्ठयितुं शक्नोति।
28 अतोहेतो र्युष्मभ्यमहं सत्यं कथयामि मनुष्याणां सन्ताना यानि यानि पापानीश्वरनिन्दाञ्च कुर्व्वन्ति तेषां तत्सर्व्वेषामपराधानां क्षमा भवितुं शक्नोति,
29 किन्तु यः कश्चित् पवित्रमात्मानं निन्दति तस्यापराधस्य क्षमा कदापि न भविष्यति सोनन्तदण्डस्यार्हो भविष्यति।
30 तस्यापवित्रभूतोऽस्ति तेषामेतत्कथाहेतोः स इत्थं कथितवान्।
31 अथ तस्य माता भ्रातृगणश्चागत्य बहिस्तिष्ठनतो लोकान् प्रेष्य तमाहूतवन्तः।
32 ततस्तत्सन्निधौ समुपविष्टा लोकास्तं बभाषिरे पश्य बहिस्तव माता भ्रातरश्च त्वाम् अन्विच्छन्ति।
33 तदा स तान् प्रत्युवाच मम माता का भ्रातरो वा के? ततः परं स स्वमीपोपविष्टान् शिष्यान् प्रति अवलोकनं कृत्वा कथयामास
34 पश्यतैते मम माता भ्रातरश्च।
35 यः कश्चिद् ईश्वरस्येष्टां क्रियां करोति स एव मम भ्राता भगिनी माता च।

मार्कलिखितः सुसंवादः 04

1 अनन्तरं स समुद्रतटे पुनरुपदेष्टुं प्रारेभे, ततस्तत्र बहुजनानां समागमात् स सागरोपरि नौकामारुह्य समुपविष्टः; सर्व्वे लोकाः समुद्रकूले तस्थुः।
2 तदा स दृष्टान्तकथाभि र्बहूपदिष्टवान् उपदिशंश्च कथितवान्,
3 अवधानं कुरुत, एको बीजवप्ता बीजानि वप्तुं गतः;
4 वपनकाले कियन्ति बीजानि मार्गपाश्वे पतितानि, तत आकाशीयपक्षिण एत्य तानि चखादुः।
5 कियन्ति बीजानि स्वल्पमृत्तिकावत्पाषाणभूमौ पतितानि तानि मृदोल्पत्वात् शीघ्रमङ्कुरितानि;
6 किन्तूदिते सूर्य्ये दग्धानि तथा मूलानो नाधोगतत्वात् शुष्काणि च।
7 कियन्ति बीजानि कण्टकिवनमध्ये पतितानि ततः कण्टकानि संवृद्व्य तानि जग्रसुस्तानि न च फलितानि।
8 तथा कियन्ति बीजान्युत्तमभूमौ पतितानि तानि संवृद्व्य फलान्युत्पादितानि कियन्ति बीजानि त्रिंशद्गुणानि कियन्ति षष्टिगुणानि कियन्ति शतगुणानि फलानि फलितवन्ति।
9 अथ स तानवदत् यस्य श्रोतुं कर्णौ स्तः स शृणोतु।
10 तदनन्तरं निर्जनसमये तत्सङ्गिनो द्वादशशिष्याश्च तं तद्दृष्टान्तवाक्यस्यार्थं पप्रच्छुः।
11 तदा स तानुदितवान् ईश्वरराज्यस्य निगूढवाक्यं बोद्धुं युष्माकमधिकारोऽस्ति;
12 किन्तु ये वहिर्भूताः "ते पश्यन्तः पश्यन्ति किन्तु न जानन्ति, शृण्वन्तः शृण्वन्ति किन्तु न बुध्यन्ते, चेत्तै र्मनःसु कदापि परिवर्त्तितेषु तेषां पापान्यमोचयिष्यन्त," अतोहेतोस्तान् प्रति दृष्टान्तैरेव तानि मया कथितानि।
13 अथ स कथितवान् यूयं किमेतद् दृष्टान्तवाक्यं न बुध्यध्वे? तर्हि कथं सर्व्वान् दृष्टान्तान भोत्स्यध्वे?
14 बीजवप्ता वाक्यरूपाणि बीजानि वपति;
15 तत्र ये ये लोका वाक्यं शृण्वन्ति, किन्तु श्रुतमात्रात् शैतान् शीघ्रमागत्य तेषां मनःसूप्तानि तानि वाक्यरूपाणि बीजान्यपनयति तएव उप्तबीजमार्गपार्श्वेस्वरूपाः।
16 ये जना वाक्यं श्रुत्वा सहसा परमानन्देन गृह्लन्ति, किन्तु हृदि स्थैर्य्याभावात् किञ्चित् कालमात्रं तिष्ठन्ति तत्पश्चात् तद्वाक्यहेतोः
17 कुत्रचित् क्लेशे उपद्रवे वा समुपस्थिते तदैव विघ्नं प्राप्नुवन्ति तएव उप्तबीजपाषाणभूमिस्वरूपाः।
18 ये जनाः कथां शृण्वन्ति किन्तु सांसारिकी चिन्ता धनभ्रान्ति र्विषयलोभश्च एते सर्व्वे उपस्थाय तां कथां ग्रसन्ति ततः मा विफला भवति
19 तएव उप्तबीजसकण्टकभूमिस्वरूपाः।
20 ये जना वाक्यं श्रुत्वा गृह्लन्ति तेषां कस्य वा त्रिंशद्गुणानि कस्य वा षष्टिगुणानि कस्य वा शतगुणानि फलानि भवन्ति तएव उप्तबीजोर्व्वरभूमिस्वरूपाः।
21 तदा सोऽपरमपि कथितवान् कोपि जनो दीपाधारं परित्यज्य द्रोणस्याधः खट्वाया अधे वा स्थापयितुं दीपमानयति किं?
22 अतोहेतो र्यन्न प्रकाशयिष्यते तादृग् लुक्कायितं किमपि वस्तु नास्ति; यद् व्यक्तं न भविष्यति तादृशं गुप्तं किमपि वस्तु नास्ति।
23 यस्य श्रोतुं कर्णौ स्तः स शृणोतु।
24 अपरमपि कथितवान् यूयं यद् यद् वाक्यं शृणुथ तत्र सावधाना भवत, यतो यूयं येन परिमाणेन परिमाथ तेनैव परिमाणेन युष्मदर्थमपि परिमास्यते; श्रोतारो यूयं युष्मभ्यमधिकं दास्यते।
25 यस्याश्रये वर्द्धते तस्मै अपरमपि दास्यते, किन्तु यस्याश्रये न वर्द्धते तस्य यत् किञ्चिदस्ति तदपि तस्मान् नेष्यते।
26 अनन्तरं स कथितवान् एको लोकः क्षेत्रे बीजान्युप्त्वा
27 जागरणनिद्राभ्यां दिवानिशं गमयति, परन्तु तद्वीजं तस्याज्ञातरूपेणाङ्कुरयति वर्द्धते च;
28 यतोहेतोः प्रथमतः पत्राणि ततः परं कणिशानि तत्पश्चात् कणिशपूर्णानि शस्यानि भूमिः स्वयमुत्पादयति;
29 किन्तु फलेषु पक्केषु शस्यच्छेदनकालं ज्ञात्वा स तत्क्षणं शस्यानि छिनत्ति, अनेन तुल्यमीश्वरराज्यं।
30 पुनः सोऽकथयद् ईश्वरराज्यं केन समं? केन वस्तुना सह वा तदुपमास्यामि?
31 तत् सर्षपैकेन तुल्यं यतो मृदि वपनकाले सर्षपबीजं सर्व्वपृथिवीस्थबीजात् क्षुद्रं
32 किन्तु वपनात् परम् अङ्कुरयित्वा सर्व्वशाकाद् बृहद् भवति, तस्य बृहत्यः शाखाश्च जायन्ते ततस्तच्छायां पक्षिण आश्रयन्ते।
33 इत्थं तेषां बोधानुरूपं सोऽनेकदृष्टान्तैस्तानुपदिष्टवान्,
34 दृष्टान्तं विना कामपि कथां तेभ्यो न कथितवान् पश्चान् निर्जने स शिष्यान् सर्व्वदृष्टान्तार्थं बोधितवान्।
35 तद्दिनस्य सन्ध्यायां स तेभ्योऽकथयद् आगच्छत वयं पारं याम।
36 तदा ते लोकान् विसृज्य तमविलम्बं गृहीत्वा नौकया प्रतस्थिरे; अपरा अपि नावस्तया सह स्थिताः।
37 ततः परं महाझञ्भ्शगमात् नौ र्दोलायमाना तरङ्गेण जलैः पूर्णाभवच्च।
38 तदा स नौकाचश्चाद्भागे उपधाने शिरो निधाय निद्रित आसीत् ततस्ते तं जागरयित्वा जगदुः, हे प्रभो, अस्माकं प्राणा यान्ति किमत्र भवतश्चिन्ता नास्ति?
39 तदा स उत्थाय वायुं तर्जितवान् समुद्रञ्चोक्तवान् शान्तः सुस्थिरश्च भव; ततो वायौ निवृत्तेऽब्धिर्निस्तरङ्गोभूत्।
40 तदा स तानुवाच यूयं कुत एतादृक्शङ्काकुला भवत? किं वो विश्वासो नास्ति?
41 तस्मात्तेऽतीवभीताः परस्परं वक्तुमारेभिरे, अहो वायुः सिन्धुश्चास्य निदेशग्राहिणौ कीदृगयं मनुजः।

मार्कलिखितः सुसंवादः 05

1 अथ तू सिन्धुपारं गत्वा गिदेरीयप्रदेश उपतस्थुः।
2 नौकातो निर्गतमात्राद् अपवित्रभूतग्रस्त एकः श्मशानादेत्य तं साक्षाच् चकार।
3 स श्मशानेऽवात्सीत् कोपि तं शृङ्खलेन बद्व्वा स्थापयितुं नाशक्नोत्।
4 जनैर्वारं निगडैः शृङ्खलैश्च स बद्धोपि शृङ्खलान्याकृष्य मोचितवान् निगडानि च भंक्त्वा खण्डं खण्डं कृतवान् कोपि तं वशीकर्त्तुं न शशक।
5 दिवानिशं सदा पर्व्वतं श्मशानञ्च भ्रमित्वा चीत्शब्दं कृतवान् ग्रावभिश्च स्वयं स्वं कृतवान्।
6 स यीशुं दूरात् पश्यन्नेव धावन् तं प्रणनाम उचैरुवंश्चोवाच,
7 हे सर्व्वोपरिस्थेश्वरपुत्र यीशो भवता सह मे कः सम्बन्धः? अहं त्वामीश्वरेण शापये मां मा यातय।
8 यतो यीशुस्तं कथितवान् रे अपवित्रभूत, अस्मान्नराद् बहिर्निर्गच्छ।
9 अथ स तं पृष्टवान् किन्ते नाम? तेन प्रत्युक्तं वयमनेके ऽस्मस्ततोऽस्मन्नाम बाहिनी।
10 ततोस्मान् देशान्न प्रेषयेति ते तं प्रार्थयन्त।
11 तदानीं पर्व्वतं निकषा बृहन् वराहव्रजश्चरन्नासीत्।
12 तस्माद् भूता विनयेन जगदुः, अमुं वराहव्रजम् आश्रयितुम् अस्मान् प्रहिणु।
13 यीशुनानुज्ञातास्तेऽपवित्रभूता बहिर्निर्याय वराहव्रजं प्राविशन् ततः सर्व्वे वराहा वस्तुतस्तु प्रायोद्विसहस्रसंङ्ख्यकाः कटकेन महाजवाद् धावन्तः सिन्धौ प्राणान् जहुः।
14 तस्माद् वराहपालकाः पलायमानाः पुरे ग्रामे च तद्वार्त्तं कथयाञ्चक्रुः। तदा लोका घटितं तत्कार्य्यं द्रष्टुं बहिर्जग्मुः
15 यीशोः सन्निधिं गत्वा तं भूतग्रस्तम् अर्थाद् बाहिनीभूतग्रस्तं नरं सवस्त्रं सचेतनं समुपविष्टञ्च दृृष्ट्वा बिभ्युः।
16 ततो दृष्टतत्कार्य्यलोकास्तस्य भूतग्रस्तनरस्य वराहव्रजस्यापि तां धटनां वर्णयामासुः।
17 ततस्ते स्वसीमातो बहिर्गन्तुं यीशुं विनेतुमारेभिरे।
18 अथ तस्य नौकारोहणकाले स भूतमुक्तो ना यीशुना सह स्थातुं प्रार्थयते;
19 किन्तु स तमननुमत्य कथितवान् त्वं निजात्मीयानां समीपं गृहञ्च गच्छ प्रभुस्त्वयि कृपां कृत्वा यानि कर्म्माणि कृतवान् तानि तान् ज्ञापय।
20 अतः स प्रस्थाय यीशुना कृतं तत्सर्व्वाश्चर्य्यं कर्म्म दिकापलिदेशे प्रचारयितुं प्रारब्धवान् ततः सर्व्वे लोका आश्चर्य्यं मेनिरे।
21 अनन्तरं यीशौ नावा पुनरन्यपार उत्तीर्णे सिन्धुतटे च तिष्ठति सति तत्समीपे बहुलोकानां समागमोऽभूत्।
22 अपरं यायीर् नाम्ना कश्चिद् भजनगृहस्याधिप आगत्य तं दृष्ट्वैव चरणयोः पतित्वा बहु निवेद्य कथितवान्;
23 मम कन्या मृतप्रायाभूद् अतो भवानेत्य तदारोग्याय तस्या गात्रे हस्तम् अर्पयतु तेनैव सा जीविष्यति।
24 तदा यीशुस्तेन सह चलितः किन्तु तत्पश्चाद् बहुलोकाश्चलित्वा ताद्गात्रे पतिताः।
25 अथ द्वादशवर्षाणि प्रदररोगेण
26 शीर्णा चिकित्सकानां नानाचिकित्साभिश्च दुःखं भुक्तवती च सर्व्वस्वं व्ययित्वापि नारोग्यं प्राप्ता च पुनरपि पीडितासीच्च
27 या स्त्री सा यीशो र्वार्त्तां प्राप्य मनसाकथयत् यद्यहं तस्य वस्त्रमात्र स्प्रष्टुं लभेयं तदा रोगहीना भविष्यामि।
28 अतोहेतोः सा लोकारण्यमध्ये तत्पश्चादागत्य तस्य वस्त्रं पस्पर्श।
29 तेनैव तत्क्षणं तस्या रक्तस्रोतः शुष्कं स्वयं तस्माद् रोगान्मुक्ता इत्यपि देहेऽनुभूता।
30 अथ स्वस्मात् शक्ति र्निर्गता यीशुरेतन्मनसा ज्ञात्वा लोकनिवहं प्रति मुखं व्यावृत्य पृष्टवान् केन मद्वस्त्रं स्पृष्टं?
31 ततस्तस्य शिष्या ऊचुः भवतो वपुषि लोकाः संघर्षन्ति तद् दृष्ट्वा केन मद्वस्त्रं स्पृष्टमिति कुतः कथयति?
32 किन्तु केन तत् कर्म्म कृतं तद् द्रष्टुं यीशुश्चतुर्दिशो दृष्टवान्।
33 ततः सा स्त्री भीता कम्पिता च सती स्वस्या रुक्प्रतिक्रिया जातेति ज्ञात्वागत्य तत्सम्मुखे पतित्वा सर्व्ववृत्तान्तं सत्यं तस्मै कथयामास।
34 तदानीं यीशुस्तां गदितवान्, हे कन्ये तव प्रतीतिस्त्वाम् अरोगामकरोत् त्वं क्षेमेण व्रज स्वरोगान्मुक्ता च तिष्ठ।
35 इतिवाक्यवदनकाले भजनगृहाधिपस्य निवेशनाल् लोका एत्याधिपं बभाषिरे तव कन्या मृता तस्माद् गुरुं पुनः कुतः क्लिश्नासि?
36 किन्तु यीशुस्तद् वाक्यं श्रुत्वैव भजनगृहाधिपं गदितवान् मा भैषीः केवलं विश्वासिहि।
37 अथ पितरो याकूब् तद्भ्राता योहन् च एतान् विना कमपि स्वपश्चाद् यातुं नान्वमन्यत।
38 तस्य भजनगृहाधिपस्य निवेशनसमीपम् आगत्य कलहं बहुरोदनं विलापञ्च कुर्व्वतो लोकान् ददर्श।
39 तस्मान् निवेशनं प्रविश्य प्रोक्तवान् यूयं कुत इत्थं कलहं रोदनञ्च कुरुथ? कन्या न मृता निद्राति।
40 तस्मात्ते तमुपजहसुः किन्तु यीशुः सर्व्वान बहिष्कृत्य कन्यायाः पितरौ स्वसङ्गिनश्च गृहीत्वा यत्र कन्यासीत् तत् स्थानं प्रविष्टवान्।
41 अथ स तस्याः कन्याया हस्तौ धृत्वा तां बभाषे टालीथा कूमी, अर्थतो हे कन्ये त्वमुत्तिष्ठ इत्याज्ञापयामि।
42 तुनैव तत्क्षणं सा द्वादशवर्षवयस्का कन्या पोत्थाय चलितुमारेभे, इतः सर्व्वे महाविस्मयं गताः।
43 तत एतस्यै किञ्चित् खाद्यं दत्तेति कथयित्वा एतत्कर्म्म कमपि न ज्ञापयतेति दृढमादिष्टवान्।

मार्कलिखितः सुसंवादः 06

1 अनन्तरं स तत्स्थानात् प्रस्थाय स्वप्रदेशमागतः शिष्याश्च तत्पश्चाद् गताः।
2 अथ विश्रामवारे सति स भजनगृहे उपदेष्टुमारब्धवान् ततोऽनेके लोकास्तत्कथां श्रुत्वा विस्मित्य जगदुः, अस्य मनुजस्य ईदृशी आश्चर्य्यक्रिया कस्माज् जाता? तथा स्वकराभ्याम् इत्थमद्भुतं कर्म्म कर्त्ताुम् एतस्मै कथं ज्ञानं दत्तम्?
3 किमयं मरियमः पुत्रस्तज्ञा नो? किमयं याकूब्-योसि-यिहुदा-शिमोनां भ्राता नो? अस्य भगिन्यः किमिहास्माभिः सह नो? इत्थं ते तदर्थे प्रत्यूहं गताः।
4 तदा यीशुस्तेभ्योऽकथयत् स्वदेशं स्वकुटुम्बान् स्वपरिजनांश्च विना कुत्रापि भविष्यद्वादी असत्कृतो न भवति।
5 अपरञ्च तेषामप्रत्ययात् स विस्मितः कियतां रोगिणां वपुःषु हस्तम् अर्पयित्वा केवलं तेषामारोग्यकरणाद् अन्यत् किमपि चित्रकार्य्यं कर्त्तां न शक्तः।
6 अथ स चतुर्दिक्स्थ ग्रामान् भ्रमित्वा उपदिष्टवान्
7 द्वादशशिष्यान् आहूय अमेध्यभूतान् वशीकर्त्तां शक्तिं दत्त्वा तेषां द्वौ द्वौ जनो प्रेषितवान्।
8 पुनरित्यादिशद् यूयम् एकैकां यष्टिं विना वस्त्रसंपुटः पूपः कटिबन्धे ताम्रखण्डञ्च एषां किमपि मा ग्रह्लीत,
9 मार्गयात्रायै पादेषूपानहौ दत्त्वा द्वे उत्तरीये मा परिधद्व्वं।
10 अपरमप्युक्तं तेन यूयं यस्यां पुर्य्यां यस्य निवेशनं प्रवेक्ष्यथ तां पुरीं यावन्न त्यक्ष्यथ तावत् तन्निवेशने स्थास्यथ।
11 तत्र यदि केपि युष्माकमातिथ्यं न विदधति युष्माकं कथाश्च न शृण्वन्ति तर्हि तत्स्थानात् प्रस्थानसमये तेषां विरुद्धं साक्ष्यं दातुं स्वपादानास्फाल्य रजः सम्पातयत; अहं युष्मान् यथार्थं वच्मि विचारदिने तन्नगरस्यावस्थातः सिदोमामोरयो र्नगरयोरवस्था सह्यतरा भविष्यति।
12 अथ ते गत्वा लोकानां मनःपरावर्त्तनीः कथा प्रचारितवन्तः।
13 एवमनेकान् भूतांश्च त्याजितवन्तस्तथा तैलेन मर्द्दयित्वा बहून् जनानरोगानकार्षुः।
14 इत्थं तस्य सुख्यातिश्चतुर्दिशो व्याप्ता तदा हेरोद् राजा तन्निशम्य कथितवान्, योहन् मज्जकः श्मशानाद् उत्थित अतोहेतोस्तेन सर्व्वा एता अद्भुतक्रियाः प्रकाशन्ते।
15 अन्येऽकथयन् अयम् एलियः, केपि कथितवन्त एष भविष्यद्वादी यद्वा भविष्यद्वादिनां सदृश एकोयम्।
16 किन्तु हेरोद् इत्याकर्ण्य भाषितवान् यस्याहं शिरश्छिन्नवान् स एव योहनयं स श्मशानादुदतिष्ठत्।
17 पूर्व्वं स्वभ्रातुः फिलिपस्य पत्न्या उद्वाहं कृतवन्तं हेरोदं योहनवादीत् स्वभातृवधू र्न विवाह्या।
18 अतः कारणात् हेरोद् लोकं प्रहित्य योहनं धृत्वा बन्धनालये बद्धवान्।
19 हेरोदिया तस्मै योहने प्रकुप्य तं हन्तुम् ऐच्छत् किन्तु न शक्ता,
20 यस्माद् हेरोद् तं धार्म्मिकं सत्पुरुषञ्च ज्ञात्वा सम्मन्य रक्षितवान्; तत्कथां श्रुत्वा तदनुसारेण बहूनि कर्म्माणि कृतवान् हृष्टमनास्तदुपदेशं श्रुतवांश्च।
21 किन्तु हेरोद् यदा स्वजन्मदिने प्रधानलोकेभ्यः सेनानीभ्यश्च गालील्प्रदेशीयश्रेष्ठलोकेभ्यश्च रात्रौ भोज्यमेकं कृतवान्
22 तस्मिन् शुभदिने हेरोदियायाः कन्या समेत्य तेषां समक्षं संनृत्य हेरोदस्तेन सहोपविष्टानाञ्च तोषमजीजनत् तता नृपः कन्यामाह स्म मत्तो यद् याचसे तदेव तुभ्यं दास्ये।
23 शपथं कृत्वाकथयत् चेद् राज्यार्द्धमपि याचसे तदपि तुभ्यं दास्ये।
24 ततः सा बहि र्गत्वा स्वमातरं पप्रच्छ किमहं याचिष्ये? तदा साकथयत् योहनो मज्जकस्य शिरः।
25 अथ तूर्णं भूपसमीपम् एत्य याचमानावदत् क्षणेस्मिन् योहनो मज्जकस्य शिरः पात्रे निधाय देहि, एतद् याचेऽहं।
26 तस्मात् भूपोऽतिदुःखितः, तथापि स्वशपथस्य सहभोजिनाञ्चानुरोधात् तदनङ्गीकर्त्तुं न शक्तः।
27 तत्क्षणं राजा घातकं प्रेष्य तस्य शिर आनेतुमादिष्टवान्।
28 ततः स कारागारं गत्वा तच्छिरश्छित्वा पात्रे निधायानीय तस्यै कन्यायै दत्तवान् कन्या च स्वमात्रे ददौ।
29 अननतरं योहनः शिष्यास्तद्वार्त्तां प्राप्यागत्य तस्य कुणपं श्मशानेऽस्थापयन्।
30 अथ प्रेषिता यीशोः सन्निधौ मिलिता यद् यच् चक्रुः शिक्षयामासुश्च तत्सर्व्ववार्त्तास्तस्मै कथितवन्तः।
31 स तानुवाच यूयं विजनस्थानं गत्वा विश्राम्यत यतस्तत्सन्निधौ बहुलोकानां समागमात् ते भोक्तुं नावकाशं प्राप्ताः।
32 ततस्ते नावा विजनस्थानं गुप्तं गग्मुः।
33 ततो लोकनिवहस्तेषां स्थानान्तरयानं ददर्श, अनेके तं परिचित्य नानापुरेभ्यः पदैर्व्रजित्वा जवेन तैषामग्रे यीशोः समीप उपतस्थुः।
34 तदा यीशु र्नावो बहिर्गत्य लोकारण्यानीं दृष्ट्वा तेषु करुणां कृतवान् यतस्तेऽरक्षकमेषा इवासन् तदा स तान नानाप्रसङ्गान् उपदिष्टवान्।
35 अथ दिवान्ते सति शिष्या एत्य यीशुमूचिरे, इदं विजनस्थानं दिनञ्चावसन्नं।
36 लोकानां किमपि खाद्यं नास्ति, अतश्चतुर्दिक्षु ग्रामान् गन्तुं भोज्यद्रव्याणि क्रेतुञ्च भवान् तान् विसृजतु।
37 तदा स तानुवाच यूयमेव तान् भोजयत; ततस्ते जगदु र्वयं गत्वा द्विशतसंख्यकै र्मुद्रापादैः पूपान् क्रीत्वा किं तान् भोजयिष्यामः?
38 तदा स तान् पृष्ठवान् युष्माकं सन्निधौ कति पूपा आसते? गत्वा पश्यत; ततस्ते दृष्ट्वा तमवदन् पञ्च पूपा द्वौ मत्स्यौ च सन्ति।
39 तदा स लोकान् शस्पोपरि पंक्तिभिरुपवेशयितुम् आदिष्टवान्,
40 ततस्ते शतं शतं जनाः पञ्चाशत् पञ्चाशज्जनाश्च पंक्तिभि र्भुवि समुपविविशुः।
41 अथ स तान् पञ्चपूपान् मत्स्यद्वयञ्च धृत्वा स्वर्गं पश्यन् ईश्वरगुणान् अन्वकीर्त्तयत् तान् पूपान् भंक्त्वा लोकेभ्यः परिवेषयितुं शिष्येभ्यो दत्तवान् द्वा मत्स्यौ च विभज्य सर्व्वेभ्यो दत्तवान्।
42 ततः सर्व्वे भुक्त्वातृप्यन्।
43 अनन्तरं शिष्या अवशिष्टैः पूपै र्मत्स्यैश्च पूर्णान् द्वदश डल्लकान् जगृहुः।
44 ते भोक्तारः प्रायः पञ्च सहस्राणि पुरुषा आसन्।
45 अथ स लोकान् विसृजन्नेव नावमारोढुं स्वस्मादग्रे पारे बैत्सैदापुरं यातुञ्च श्ष्यिान् वाढमादिष्टवान्।
46 तदा स सर्व्वान् विसृज्य प्रार्थयितुं पर्व्वतं गतः।
47 ततः सन्ध्यायां सत्यां नौः सिन्धुमध्य उपस्थिता किन्तु स एकाकी स्थले स्थितः।
48 अथ सम्मुखवातवहनात् शिष्या नावं वाहयित्वा परिश्रान्ता इति ज्ञात्वा स निशाचतुर्थयामे सिन्धूपरि पद्भ्यां व्रजन् तेषां समीपमेत्य तेषामग्रे यातुम् उद्यतः।
49 किन्तु शिष्याः सिन्धूपरि तं व्रजन्तं दृष्ट्वा भूतमनुमाय रुरुवुः,
50 यतः सर्व्वे तं दृष्ट्वा व्याकुलिताः। अतएव यीशुस्तत्क्षणं तैः सहालप्य कथितवान्, सुस्थिरा भूत, अयमहं मा भैष्ट।
51 अथ नौकामारुह्य तस्मिन् तेषां सन्निधिं गते वातो निवृत्तः; तस्मात्ते मनःसु विस्मिता आश्चर्य्यं मेनिरे।
52 यतस्ते मनसां काठिन्यात् तत् पूपीयम् आश्चर्य्यं कर्म्म न विविक्तवन्तः।
53 अथ ते पारं गत्वा गिनेषरत्प्रदेशमेत्य तट उपस्थिताः।
54 तेषु नौकातो बहिर्गतेषु तत्प्रदेशीया लोकास्तं परिचित्य
55 चतुर्दिक्षु धावन्तो यत्र यत्र रोगिणो नरा आसन् तान् सर्व्वान खट्वोपरि निधाय यत्र कुत्रचित् तद्वार्त्तां प्रापुः तत् स्थानम् आनेतुम् आरेभिरे।
56 तथा यत्र यत्र ग्रामे यत्र यत्र पुरे यत्र यत्र पल्ल्याञ्च तेन प्रवेशः कृतस्तद्वर्त्ममध्ये लोकाः पीडितान् स्थापयित्वा तस्य चेलग्रन्थिमात्रं स्प्रष्टुम् तेषामर्थे तदनुज्ञां प्रार्थयन्तः यावन्तो लोकाः पस्पृशुस्तावन्त एव गदान्मुक्ताः।

मार्कलिखितः सुसंवादः 07

1 अनन्तरं यिरूशालम आगताः फिरूशिनोऽध्यापकाश्च यीशोः समीपम् आगताः।
2 ते तस्य कियतः शिष्यान् अशुचिकरैरर्थाद अप्रक्षालितहस्तै र्भुञ्जतो दृष्ट्वा तानदूषयन्।
3 यतः फिरूशिनः सर्व्वयिहूदीयाश्च प्राचां परम्परागतवाक्यं सम्मन्य प्रतलेन हस्तान् अप्रक्षाल्य न भुञ्जते।
4 आपनादागत्य मज्जनं विना न खादन्ति; तथा पानपात्राणां जलपात्राणां पित्तलपात्राणाम् आसनानाञ्च जले मज्जनम् इत्यादयोन्येपि बहवस्तेषामाचाराः सन्ति।
5 ते फिरूशिनोऽध्यापकाश्च यीशुं पप्रच्छुः, तव शिष्याः प्राचां परम्परागतवाक्यानुसारेण नाचरन्तोऽप्रक्षालितकरैः कुतो भुजंते?
6 ततः स प्रत्युवाच कपटिनो युष्मान् उद्दिश्य यिशयियभविष्यद्वादी युक्तमवादीत्। यथा स्वकीयैरधरैरेते सम्मन्यनते सदैव मां। किन्तु मत्तो विप्रकर्षे सन्ति तेषां मनांसि च।
7 शिक्षयन्तो बिधीन् न्नाज्ञा भजन्ते मां मुधैव ते।
8 यूयं जलपात्रपानपात्रादीनि मज्जयन्तो मनुजपरम्परागतवाक्यं रक्षथ किन्तु ईश्वराज्ञां लंघध्वे; अपरा ईदृश्योनेकाः क्रिया अपि कुरुध्वे।
9 अन्यञ्चाकथयत् यूयं स्वपरम्परागतवाक्यस्य रक्षार्थं स्पष्टरूपेण ईश्वराज्ञां लोपयथ।
10 यतो मूसाद्वारा प्रोक्तमस्ति स्वपितरौ सम्मन्यध्वं यस्तु मातरं पितरं वा दुर्व्वाक्यं वक्ति स नितान्तं हन्यतां।
11 किन्तु मदीयेन येन द्रव्येण तवोपकारोभवत् तत् कर्ब्बाणमर्थाद् ईश्वराय निवेदितम् इदं वाक्यं यदि कोपि पितरं मातरं वा वक्ति
12 तर्हि यूयं मातुः पितु र्वोपकारं कर्त्तां तं वारयथ।
13 इत्थं स्वप्रचारितपरम्परागतवाक्येन यूयम् ईश्वराज्ञां मुधा विधद्व्वे, ईदृशान्यन्यान्यनेकानि कर्म्माणि कुरुध्वे।
14 अथ स लोकानाहूय बभाषे यूयं सर्व्वे मद्वाक्यं शृणुत बुध्यध्वञ्च।
15 बाह्यादन्तरं प्रविश्य नरममेध्यं कर्त्तां शक्नोति ईदृशं किमपि वस्तु नास्ति, वरम् अन्तराद् बहिर्गतं यद्वस्तु तन्मनुजम् अमेध्यं करोति।
16 यस्य श्रोतुं श्रोत्रे स्तः स शृणोतु।
17 ततः स लोकान् हित्वा गृहमध्यं प्रविष्टस्तदा शिष्यास्तदृष्टान्तवाक्यार्थं पप्रच्छुः।
18 तस्मात् स तान् जगाद यूयमपि किमेतादृगबोधाः? किमपि द्रव्यं बाह्यादन्तरं प्रविश्य नरममेध्यं कर्त्तां न शक्नोति कथामिमां किं न बुध्यध्वे?
19 तत् तदन्तर्न प्रविशति किन्तु कुक्षिमध्यं प्रविशति शेषे सर्व्वभुक्तवस्तुग्राहिणि बहिर्देशे निर्याति।
20 अपरमप्यवादीद् यन्नरान्निरेति तदेव नरममेध्यं करोति।
21 यतोऽन्तराद् अर्थान् मानवानां मनोभ्यः कुचिन्ता परस्त्रीवेश्यागमनं
22 नरवधश्चौर्य्यं लोभो दुष्टता प्रवञ्चना कामुकता कुदृष्टिरीश्वरनिन्दा गर्व्वस्तम इत्यादीनि निर्गच्छन्ति।
23 एतानि सर्व्वाणि दुरितान्यन्तरादेत्य नरममेध्यं कुर्व्वन्ति।
24 अथ स उत्थाय तत्स्थानात् सोरसीदोन्पुरप्रदेशं जगाम तत्र किमपि निवेशनं प्रविश्य सर्व्वैरज्ञातः स्थातुं मतिञ्चक्रे किन्तु गुप्तः स्थातुं न शशाक।
25 यतः सुरफैनिकीदेशीययूनानीवंशोद्भवस्त्रियाः कन्या भूतग्रस्तासीत्। सा स्त्री तद्वार्त्तां प्राप्य तत्समीपमागत्य तच्चरणयोः पतित्वा
26 स्वकन्यातो भूतं निराकर्त्तां तस्मिन् विनयं कृतवती।
27 किन्तु यीशुस्तामवदत् प्रथमं बालकास्तृप्यन्तु यतो बालकानां खाद्यं गृहीत्वा कुक्कुरेभ्यो निक्षेपोऽनुचितः।
28 तदा सा स्त्री तमवादीत् भोः प्रभो तत् सत्यं तथापि मञ्चाधःस्थाः कुक्कुरा बालानां करपतितानि खाद्यखण्डानि खादन्ति।
29 ततः सोऽकथयद् एतत्कथाहेतोः सकुशला याहि तव कन्यां त्यक्त्वा भूतो गतः।
30 अथ सा स्त्री गृहं गत्वा कन्यां भूतत्यक्तां शय्यास्थितां ददर्श।
31 पुनश्च स सोरसीदोन्पुरप्रदेशात् प्रस्थाय दिकापलिदेशस्य प्रान्तरभागेन गालील्जलधेः समीपं गतवान्।
32 तदा लोकैरेकं बधिरं कद्वदञ्च नरं तन्निकटमानीय तस्य गात्रे हस्तमर्पयितुं विनयः कृतः।
33 ततो यीशु र्लोकारण्यात् तं निर्जनमानीय तस्य कर्णयोङ्गुली र्ददौ निष्ठीवं दत्त्वा च तज्जिह्वां पस्पर्श।
34 अनन्तरं स्वर्गं निरीक्ष्य दीर्घं निश्वस्य तमवदत् इतफतः अर्थान् मुक्तो भूयात्।
35 ततस्तत्क्षणं तस्य कर्णौ मुक्तौ जिह्वायाश्च जाड्यापगमात् स सुस्पष्टवाक्यमकथयत्।
36 अथ स तान् वाढमित्यादिदेश यूयमिमां कथां कस्मैचिदपि मा कथयत, किन्तु स यति न्यषेधत् ते तति बाहुल्येन प्राचारयन्;
37 तेऽतिचमत्कृत्य परस्परं कथयामासुः स बधिराय श्रवणशक्तिं मूकाय च कथनशक्तिं दत्त्वा सर्व्वं कर्म्मोत्तमरूपेण चकार।

मार्कलिखितः सुसंवादः 08

1 तदा तत्समीपं बहवो लोका आयाता अतस्तेषां भोज्यद्रव्याभावाद् यीशुः शिष्यानाहूय जगाद,।
2 लोकनिवहे मम कृपा जायते ते दिनत्रयं मया सार्द्धं सन्ति तेषां भोज्यं किमपि नास्ति।
3 तेषां मध्येऽनेके दूराद् आगताः, अभुक्तेषु तेषु मया स्वगृहमभिप्रहितेषु ते पथि क्लमिष्यन्ति।
4 शिष्या अवादिषुः, एतावतो लोकान् तर्पयितुम् अत्र प्रन्तरे पूपान् प्राप्तुं केन शक्यते?
5 ततः स तान् पप्रच्छ युष्माकं कति पूपाः सन्ति? तेऽकथयन् सप्त।
6 ततः स ताल्लोकान् भुवि समुपवेष्टुम् आदिश्य तान् सप्त पूपान् धृत्वा ईश्वरगुणान् अनुकीर्त्तयामास, भंक्त्वा परिवेषयितुं शिष्यान् प्रति ददौ, ततस्ते लोकेभ्यः परिवेषयामासुः।
7 तथा तेषां समीपे ये क्षुद्रमत्स्या आसन् तानप्यादाय ईश्वरगुणान् संकीर्त्य परिवेषयितुम् आदिष्टवान्।
8 ततो लोका भुक्त्वा तृप्तिं गता अवशिष्टखाद्यैः पूर्णाः सप्तडल्लका गृहीताश्च।
9 एते भोक्तारः प्रायश्चतुः सहस्रपुरुषा आसन् ततः स तान् विससर्ज।
10 अथ स शिष्यः सह नावमारुह्य दल्मानूथासीमामागतः।
11 ततः परं फिरूशिन आगत्य तेन सह विवदमानास्तस्य परीक्षार्थम् आकाशीयचिह्नं द्रष्टुं याचितवन्तः।
12 तदा सोऽन्तर्दीर्घं निश्वस्याकथयत्, एते विद्यमाननराः कुतश्चिन्हं मृगयन्ते? युष्मानहं यथार्थं ब्रवीमि लोकानेतान् किमपि चिह्नं न दर्शयिष्यते।
13 अथ तान् हित्वा पुन र्नावम् आरुह्य पारमगात्।
14 एतर्हि शिष्यैः पूपेषु विस्मृतेषु नावि तेषां सन्निधौ पूप एकएव स्थितः।
15 तदानीं यीशुस्तान् आदिष्टवान् फिरूशिनां हेरोदश्च किण्वं प्रति सतर्काः सावधानाश्च भवत।
16 ततस्तेऽन्योन्यं विवेचनं कर्तुम् आरेभिरे, अस्माकं सन्निधौ पूपो नास्तीति हेतोरिदं कथयति।
17 तद् बुद्व्वा यीशुस्तेभ्योऽकथयत् युष्माकं स्थाने पूपाभावात् कुत इत्थं वितर्कयथ? यूयं किमद्यापि किमपि न जानीथ? बोद्धुञ्च न शक्नुथ? यावदद्य किं युष्माकं मनांसि कठिनानि सन्ति?
18 सत्सु नेत्रेषु किं न पश्यथ? सत्सु कर्णेषु किं न शृणुथ? न स्मरथ च?
19 यदाहं पञ्चपूपान् पञ्चसहस्राणां पुरुषाणां मध्ये भंक्त्वा दत्तवान् तदानीं यूयम् अवशिष्टपूपैः पूर्णान् कति डल्लकान् गृहीतवन्तः? तेऽकथयन् द्वादशडल्लकान्।
20 अपरञ्च यदा चतुःसहस्राणां पुरुषाणां मध्ये पूपान् भंक्त्वाददां तदा यूयम् अतिरिक्तपूपानां कति डल्लकान् गृहीतवन्तः? ते कथयामासुः सप्तडल्लकान्।
21 तदा स कथितवान् तर्हि यूयम् अधुनापि कुतो बोद्व्वुं न शक्नुथ?
22 अनन्तरं तस्मिन् बैत्सैदानगरे प्राप्ते लोका अन्धमेकं नरं तत्समीपमानीय तं स्प्रष्टुं तं प्रार्थयाञ्चक्रिरे।
23 तदा तस्यान्धस्य करौ गृहीत्वा नगराद् बहिर्देशं तं नीतवान्; तन्नेत्रे निष्ठीवं दत्त्वा तद्गात्रे हस्तावर्पयित्वा तं पप्रच्छ, किमपि पश्यसि?
24 स नेत्रे उन्मील्य जगाद, वृक्षवत् मनुजान् गच्छतो निरीक्षे।
25 ततो यीशुः पुनस्तस्य नयनयो र्हस्तावर्पयित्वा तस्य नेत्रे उन्मीलयामास; तस्मात् स स्वस्थो भूत्वा स्पष्टरूपं सर्व्वलोकान् ददर्श।
26 ततः परं त्वं ग्रामं मा गच्छ ग्रामस्थं कमपि च किमप्यनुक्त्वा निजगृहं याहीत्यादिश्य यीशुस्तं निजगृहं प्रहितवान्।
27 अनन्तरं शिष्यैः सहितो यीशुः कैसरीयाफिलिपिपुरं जगाम, पथि गच्छन् तानपृच्छत् कोऽहम् अत्र लोकाः किं वदन्ति?
28 ते प्रत्यूचुः त्वां योहनं मज्जकं वदन्ति किन्तु केपि केपि एलियं वदन्ति; अपरे केपि केपि भविष्यद्वादिनाम् एको जन इति वदन्ति।
29 अथ स तानपृच्छत् किन्तु कोहम्? इत्यत्र यूयं किं वदथ? तदा पितरः प्रत्यवदत् भवान् अभिषिक्तस्त्राता।
30 ततः स तान् गाढमादिशद् यूयं मम कथा कस्मैचिदपि मा कथयत।
31 मनुष्यपुत्रेणावश्यं बहवो यातना भोक्तव्याः प्राचीनलोकैः प्रधानयाजकैरध्यापकैश्च स निन्दितः सन् घातयिष्यते तृतीयदिने उत्थास्यति च, यीशुः शिष्यानुपदेष्टुमारभ्य कथामिमां स्पष्टमाचष्ट।
32 तस्मात् पितरस्तस्य हस्तौ धृत्वा तं तर्ज्जितवान्।
33 किन्तु स मुखं परावर्त्य शिष्यगणं निरीक्ष्य पितरं तर्जयित्वावादीद् दूरीभव विघ्नकारिन् ईश्वरीयकार्य्यादपि मनुष्यकार्य्यं तुभ्यं रोचततरां।
34 अथ स लोकान् शिष्यांश्चाहूय जगाद यः कश्चिन् मामनुगन्तुम् इच्छति स आत्मानं दाम्यतु, स्वक्रुशं गृहीत्वा मत्पश्चाद् आयातु।
35 यतो यः कश्चित् स्वप्राणं रक्षितुमिच्छति स तं हारयिष्यति, किन्तु यः कश्चिन् मदर्थं सुसंवादार्थञ्च प्राणं हारयति स तं रक्षिष्यति।
36 अपरञ्च मनुजः सर्व्वं जगत् प्राप्य यदि स्वप्राणं हारयति तर्हि तस्य को लाभः?
37 नरः स्वप्राणविनिमयेन किं दातुं शक्नोति?
38 एतेषां व्यभिचारिणां पापिनाञ्च लोकानां साक्षाद् यदि कोपि मां मत्कथाञ्च लज्जास्पदं जानाति तर्हि मनुजपुत्रो यदा धर्म्मदूतैः सह पितुः प्रभावेणागमिष्यति तदा सोपि तं लज्जास्पदं ज्ञास्यति।

मार्कलिखितः सुसंवादः 09

1 अथ स तानवादीत् युष्मभ्यमहं यथार्थं कथयामि, ईश्वरराज्यं पराक्रमेणोपस्थितं न दृष्ट्वा मृत्युं नास्वादिष्यन्ते, अत्र दण्डायमानानां मध्येपि तादृशा लोकाः सन्ति।
2 अथ षड्दिनेभ्यः परं यीशुः पितरं याकूबं योहनञ्च गृहीत्वा गिरेरुच्चस्य निर्जनस्थानं गत्वा तेषां प्रत्यक्षे मूर्त्यन्तरं दधार।
3 ततस्तस्य परिधेयम् ईदृशम् उज्ज्वलहिमपाणडरं जातं यद् जगति कोपि रजको न तादृक् पाणडरं कर्त्तां शक्नोति।
4 अपरञ्च एलियो मूसाश्च तेभ्यो दर्शनं दत्त्वा यीशुना सह कथनं कर्त्तुमारेभाते।
5 तदा पितरो यीशुमवादीत् हे गुरोऽस्माकमत्र स्थितिरुत्तमा, ततएव वयं त्वत्कृते एकां मूसाकृते एकाम् एलियकृते चैकां, एतास्तिस्रः कुटी र्निर्म्माम।
6 किन्तु स यदुक्तवान् तत् स्वयं न बुबुधे ततः सर्व्वे बिभयाञ्चक्रुः।
7 एतर्हि पयोदस्तान् छादयामास, ममयां प्रियः पुत्रः कथासु तस्य मनांसि निवेशयतेति नभोवाणी तन्मेद्यान्निर्ययौ।
8 अथ हठात्ते चतुर्दिशो दृष्ट्वा यीशुं विना स्वैः सहितं कमपि न ददृशुः।
9 ततः परं गिरेरवरोहणकाले स तान् गाढम् दूत्यादिदेश यावन्नरसूनोः श्मशानादुत्थानं न भवति, तावत् दर्शनस्यास्य वार्त्ता युष्माभिः कस्मैचिदपि न वक्तव्या।
10 तदा श्मशानादुत्थानस्य कोभिप्राय इति विचार्य्य ते तद्वाक्यं स्वेषु गोपायाञ्चक्रिरे।
11 अथ ते यीशुं पप्रच्छुः प्रथमत एलियेनागन्तव्यम् इति वाक्यं कुत उपाध्याया आहुः?
12 तदा स प्रत्युवाच , एलियः प्रथममेत्य सर्व्वकार्य्याणि साधयिष्यति; नरपुत्रे च लिपि र्यथास्ते तथैव सोपि बहुदुःखं प्राप्यावज्ञास्यते।
13 किन्त्वहं युष्मान् वदामि , एलियार्थे लिपि र्यथास्ते तथैव स एत्य ययौ, लोका: स्वेच्छानुरूपं तमभिव्यवहरन्ति स्म।
14 अनन्तरं स शिष्यसमीपमेत्य तेषां चतुःपार्श्वे तैः सह बहुजनान् विवदमानान् अध्यापकांश्च दृष्टवान्;
15 किन्तु सर्व्वलोकास्तं दृष्ट्वैव चमत्कृत्य तदासन्नं धावन्तस्तं प्रणेमुः।
16 तदा यीशुरध्यापकानप्राक्षीद् एतैः सह यूयं किं विवदध्वे?
17 ततो लोकानां कश्चिदेकः प्रत्यवादीत् हे गुरो मम सूनुं मूकं भूतधृतञ्च भवदासन्नम् आनयं।
18 यदासौ भूतस्तमाक्रमते तदैव पातसति तथा स फेणायते, दन्तैर्दन्तान् घर्षति क्षीणो भवति च; ततो हेतोस्तं भूतं त्याजयितुं भवच्छिष्यान् निवेदितवान् किन्तु ते न शेकुः।
19 तदा स तमवादीत्, रे अविश्वासिनः सन्ताना युष्माभिः सह कति कालानहं स्थास्यामि? अपरान् कति कालान् वा व आचारान् सहिष्ये? तं मदासन्नमानयत।
20 ततस्तत्सन्निधिं स आनीयत किन्तु तं दृष्ट्वैव भूतो बालकं धृतवान्; स च भूमौ पतित्वा फेणायमानो लुलोठ।
21 तदा स तत्पितरं पप्रच्छ, अस्येदृशी दशा कति दिनानि भूता? ततः सोवादीत् बाल्यकालात्।
22 भूतोयं तं नाशयितुं बहुवारान् वह्नौ जले च न्यक्षिपत् किन्तु यदि भवान किमपि कर्त्तां शक्नोति तर्हि दयां कृत्वास्मान् उपकरोतु।
23 तदा यीशुस्तमवदत् यदि प्रत्येतुं शक्नोषि तर्हि प्रत्ययिने जनाय सर्व्वं साध्यम्।
24 ततस्तत्क्षणं तद्बालकस्य पिता प्रोच्चै रूवन् साश्रुनेत्रः प्रोवाच, प्रभो प्रत्येमि ममाप्रत्ययं प्रतिकुरु।
25 अथ यीशु र्लोकसङ्घं धावित्वायान्तं दृष्ट्वा तमपूतभूतं तर्जयित्वा जगाद, रे बधिर मूक भूत त्वमेतस्माद् बहिर्भव पुनः कदापि माश्रयैनं त्वामहम् इत्यादिशामि।
26 तदा स भूतश्चीत्शब्दं कृत्वा तमापीड्य बहिर्जजाम, ततो बालको मृतकल्पो बभूव तस्मादयं मृतइत्यनेके कथयामासुः।
27 किन्तु करं धृत्वा यीशुनोत्थापितः स उत्तस्थौ।
28 अथ यीशौ गृहं प्रविष्टे शिष्या गुप्तं तं पप्रच्छुः, वयमेनं भूतं त्याजयितुं कुतो न शक्ताः?
29 स उवाच, प्रार्थनोपवासौ विना केनाप्यन्येन कर्म्मणा भूतमीदृशं त्याजयितुं न शक्यं।
30 अनन्तरं स तत्स्थानादित्वा गालील्मध्येन ययौ, किन्तु तत् कोपि जानीयादिति स नैच्छत्।
31 अपरञ्च स शिष्यानुपदिशन् बभाषे, नरपुत्रो नरहस्तेषु समर्पयिष्यते ते च तं हनिष्यन्ति तैस्तस्मिन् हते तृतीयदिने स उत्थास्यतीति।
32 किन्तु तत्कथां ते नाबुध्यन्त प्रष्टुञ्च बिभ्यः।
33 अथ यीशुः कफर्नाहूम्पुरमागत्य मध्येगृहञ्चेत्य तानपृच्छद् वर्त्ममध्ये यूयमन्योन्यं किं विवदध्वे स्म?
34 किन्तु ते निरुत्तरास्तस्थु र्यस्मात्तेषां को मुख्य इति वर्त्मानि तेऽन्योन्यं व्यवदन्त।
35 ततः स उपविश्य द्वादशशिष्यान् आहूय बभाषे यः कश्चित् मुख्यो भवितुमिच्छति स सर्व्वेभ्यो गौणः सर्व्वेषां सेवकश्च भवतु।
36 तदा स बालकमेकं गृहीत्वा मध्ये समुपावेशयत् ततस्तं क्रोडे कृत्वा तानवादात्
37 यः कश्चिदीदृशस्य कस्यापि बालस्यातिथ्यं करोति स ममातिथ्यं करोति; यः कश्चिन्ममातिथ्यं करोति स केवलम् ममातिथ्यं करोति तन्न मत्प्रेरकस्याप्यातिथ्यं करोति।
38 अथ योहन् तमब्रवीत् हे गुरो, अस्माकमननुगामिनम् एकं त्वान्नाम्ना भूतान् त्याजयन्तं वयं दृष्टवन्तः, अस्माकमपश्चाद्गामित्वाच्च तं न्यषेधाम।
39 किन्तु यीशुरवदत् तं मा निषेधत्, यतो यः कश्चिन् मन्नाम्ना चित्रं कर्म्म करोति स सहसा मां निन्दितुं न शक्नोति।
40 तथा यः कश्चिद् युष्माकं विपक्षतां न करोति स युष्माकमेव सपक्षः।
41 यः कश्चिद् युष्मान् ख्रीष्टशिष्यान् ज्ञात्वा मन्नाम्ना कंसैकेन पानीयं पातुं ददाति, युष्मानहं यथार्थं वच्मि, स फलेन वञ्चितो न भविष्यति।
42 किन्तु यदि कश्चिन् मयि विश्वासिनामेषां क्षुद्रप्राणिनाम् एकस्यापि विघ्नं जनयति, तर्हि तस्यैतत्कर्म्म करणात् कण्ठबद्धपेषणीकस्य तस्य सागरागाधजल मज्जनं भद्रं।
43 अतः स्वकरो यदि त्वां बाधते तर्हि तं छिन्धि;
44 यस्मात् यत्र कीटा न म्रियन्ते वह्निश्च न निर्व्वाति, तस्मिन् अनिर्व्वाणानलनरके करद्वयवस्तव गमनात् करहीनस्य स्वर्गप्रवेशस्तव क्षेमं।
45 यदि तव पादो विघ्नं जनयति तर्हि तं छिन्धि,
46 यतो यत्र कीटा न म्रियन्ते वह्निश्च न निर्व्वाति, तस्मिन् ऽनिर्व्वाणवह्नौ नरके द्विपादवतस्तव निक्षेपात् पादहीनस्य स्वर्गप्रवेशस्तव क्षेमं।
47 स्वनेत्रं यदि त्वां बाधते तर्हि तदप्युत्पाटय, यतो यत्र कीटा न म्रियन्ते वह्निश्च न निर्व्वाति,
48 तस्मिन ऽनिर्व्वाणवह्नौ नरके द्विनेत्रस्य तव निक्षेपाद् एकनेत्रवत ईश्वरराज्ये प्रवेशस्तव क्षेमं।
49 यथा सर्व्वो बलि र्लवणाक्तः क्रियते तथा सर्व्वो जनो वह्निरूपेण लवणाक्तः कारिष्यते।
50 लवणं भद्रं किन्तु यदि लवणे स्वादुता न तिष्ठति, तर्हि कथम् आस्वाद्युक्तं करिष्यथ? यूयं लवणयुक्ता भवत परस्परं प्रेम कुरुत।

मार्कलिखितः सुसंवादः 10

1 अनन्तरं स तत्स्थानात् प्रस्थाय यर्द्दननद्याः पारे यिहूदाप्रदेश उपस्थितवान्, तत्र तदन्तिके लोकानां समागमे जाते स निजरीत्यनुसारेण पुनस्तान् उपदिदेश।
2 तदा फिरूशिनस्तत्समीपम् एत्य तं परीक्षितुं पप्रच्छः स्वजाया मनुजानां त्यज्या न वेति?
3 ततः स प्रत्यवादीत्, अत्र कार्य्ये मूसा युष्मान् प्रति किमाज्ञापयत्?
4 त ऊचुः त्यागपत्रं लेखितुं स्वपत्नीं त्यक्तुञ्च मूसाऽनुमन्यते।
5 तदा यीशुः प्रत्युवाच, युष्माकं मनसां काठिन्याद्धेतो र्मूसा निदेशमिमम् अलिखत्।
6 किन्तु सृष्टेरादौ ईश्वरो नरान् पुंरूपेण स्त्रीरूपेण च ससर्ज।
7 "ततः कारणात् पुमान् पितरं मातरञ्च त्यक्त्वा स्वजायायाम् आसक्तो भविष्यति,
8 तौ द्वाव् एकाङ्गौ भविष्यतः। " तस्मात् तत्कालमारभ्य तौ न द्वाव् एकाङ्गौ।
9 अतः कारणाद् ईश्वरो यदयोजयत् कोपि नरस्तन्न वियेजयेत्।
10 अथ यीशु र्गृहं प्रविष्टस्तदा शिष्याः पुनस्तत्कथां तं पप्रच्छुः।
11 ततः सोवदत् कश्चिद् यदि स्वभार्य्यां त्यक्तवान्याम् उद्वहति तर्हि स स्वभार्य्यायाः प्रातिकूल्येन व्यभिचारी भवति।
12 काचिन्नारी यदि स्वपतिं हित्वान्यपुंसा विवाहिता भवति तर्हि सापि व्यभिचारिणी भवति।
13 अथ स यथा शिशून् स्पृशेत्, तदर्थं लोकैस्तदन्तिकं शिशव आनीयन्त, किन्तु शिष्यास्तानानीतवतस्तर्जयामासुः।
14 यीशुस्तद् दृष्ट्वा क्रुध्यन् जगाद, मन्निकटम् आगन्तुं शिशून् मा वारयत, यत एतादृशा ईश्वरराज्याधिकारिणः।
15 युष्मानहं यथार्थं वच्मि, यः कश्चित् शिशुवद् भूत्वा राज्यमीश्वरस्य न गृह्लीयात् स कदापि तद्राज्यं प्रवेष्टुं न शक्नोति।
16 अननतरं स शिशूनङ्के निधाय तेषां गात्रेषु हस्तौ दत्त्वाशिषं बभाषे।
17 अथ स वर्त्मना याति, एतर्हि जन एको धावन् आगत्य तत्सम्मुखे जानुनी पातयित्वा पृष्टवान्, भोः परमगुरो, अनन्तायुः प्राप्तये मया किं कर्त्तव्यं?
18 तदा यीशुरुवाच, मां परमं कुतो वदसि? विनेश्वरं कोपि परमो न भवति।
19 परस्त्रीं नाभिगच्छ; नरं मा घातय; स्तेयं मा कुरु; मृषासाक्ष्यं मा देहि; हिंसाञ्च मा कुरु; पितरौ सम्मन्यस्व; निदेशा एते त्वया ज्ञाताः।
20 ततस्तन प्रत्युक्तं, हे गुरो बाल्यकालादहं सर्व्वानेतान् आचरामि।
21 तदा यीशुस्तं विलोक्य स्नेहेन बभाषे, तवैकस्याभाव आस्ते; त्वं गत्वा सर्व्वस्वं विक्रीय दरिद्रेभ्यो विश्राणय, ततः स्वर्गे धनं प्राप्स्यसि; ततः परम् एत्य क्रुशं वहन् मदनुवर्त्ती भव।
22 किन्तु तस्य बहुसम्पद्विद्यमानत्वात् स इमां कथामाकर्ण्य विषणो दुःखितश्च सन् जगाम।
23 अथ यीशुश्चतुर्दिशो निरीक्ष्य शिष्यान् अवादीत्, धनिलोकानाम् ईश्वरराज्यप्रवेशः कीदृग् दुष्करः।
24 तस्य कथातः शिष्याश्चमच्चक्रुः, किन्तु स पुनरवदत्, हे बालका ये धने विश्वसन्ति तेषाम् ईश्वरराज्यप्रवेशः कीदृग् दुष्करः।
25 ईश्वरराज्ये धनिनां प्रवेशात् सूचिरन्ध्रेण महाङ्गस्य गमनागमनं सुकरं।
26 तदा शिष्या अतीव विस्मिताः परस्परं प्रोचुः, तर्हि कः परित्राणं प्राप्तुं शक्नोति?
27 ततो यीशुस्तान् विलोक्य बभाषे, तन् नरस्यासाध्यं किन्तु नेश्वरस्य, यतो हेतोरीश्वरस्य सर्व्वं साध्यम्।
28 तदा पितर उवाच, पश्य वयं सर्व्वं परित्यज्य भवतोनुगामिनो जाताः।
29 ततो यीशुः प्रत्यवदत्, युष्मानहं यथार्थं वदामि, मदर्थं सुसंवादार्थं वा यो जनः सदनं भ्रातरं भगिनीं पितरं मातरं जायां सन्तानान् भूमि वा त्यक्त्वा
30 गृहभ्रातृभगिनीपितृमातृपत्नीसन्तानभूमीनामिह शतगुणान् प्रेत्यानन्तायुश्च न प्राप्नोति तादृशः कोपि नास्ति।
31 किन्त्वग्रीया अनेके लोकाः शेषाः, शेषीया अनेके लोकाश्चाग्रा भविष्यन्ति।
32 अथ यिरूशालम्यानकाले यीशुस्तेषाम् अग्रगामी बभूव, तस्मात्ते चित्रं ज्ञात्वा पश्चाद्गामिनो भूत्वा बिभ्युः। तदा स पुन र्द्वादशशिष्यान् गृहीत्वा स्वीयं यद्यद् घटिष्यते तत्तत् तेभ्यः कथयितुं प्रारेभे;
33 पश्यत वयं यिरूशालम्पुरं यामः, तत्र मनुष्यपुत्रः प्रधानयाजकानाम् उपाध्यायानाञ्च करेषु समर्पयिष्यते; ते च वधदण्डाज्ञां दापयित्वा परदेशीयानां करेषु तं समर्पयिष्यन्ति।
34 ते तमुपहस्य कशया प्रहृत्य तद्वपुषि निष्ठीवं निक्षिप्य तं हनिष्यन्ति, ततः स तृतीयदिने प्रोत्थास्यति।
35 ततः सिवदेः पुत्रौ याकूब्योहनौ तदन्तिकम् एत्य प्रोचतुः, हे गुरो यद् आवाभ्यां याचिष्यते तदस्मदर्थं भवान् करोतु निवेदनमिदमावयोः।
36 ततः स कथितवान्, युवां किमिच्छथः? किं मया युष्मदर्थं करणीयं?
37 तदा तौ प्रोचतुः, आवयोरेकं दक्षिणपार्श्वे वामपार्श्वे चैकं तवैश्वर्य्यपदे समुपवेष्टुम् आज्ञापय।
38 किन्तु यीशुः प्रत्युवाच युवामज्ञात्वेदं प्रार्थयेथे, येन कंसेनाहं पास्यामि तेन युवाभ्यां किं पातुं शक्ष्यते? यस्मिन् मज्जनेनाहं मज्जिष्ये तन्मज्जने मज्जयितुं किं युवाभ्यां शक्ष्यते? तौ प्रत्यूचतुः शक्ष्यते।
39 तदा यीशुरवदत् येन कंसेनाहं पास्यामि तेनावश्यं युवामपि पास्यथः, येन मज्जनेन चाहं मज्जिय्ये तत्र युवामपि मज्जिष्येथे।
40 किन्तु येषामर्थम् इदं निरूपितं, तान् विहायान्यं कमपि मम दक्षिणपार्श्वे वामपार्श्वे वा समुपवेशयितुं ममाधिकारो नास्ति।
41 अथान्यदशशिष्या इमां कथां श्रुत्वा याकूब्योहन्भ्यां चुकुपुः।
42 किन्तु यीशुस्तान् समाहूय बभाषे, अन्यदेशीयानां राजत्वं ये कुर्व्वन्ति ते तेषामेव प्रभुत्वं कुर्व्वन्ति, तथा ये महालोकास्ते तेषाम् अधिपतित्वं कुर्व्वन्तीति यूयं जानीथ।
43 किन्तु युष्माकं मध्ये न तथा भविष्यति, युष्माकं मध्ये यः प्राधान्यं वाञ्छति स युष्माकं सेवको भविष्यति,
44 युष्माकं यो महान् भवितुमिच्छति स सर्व्वेषां किङ्करो भविष्यति।
45 यतो मनुष्यपुत्रः सेव्यो भवितुं नागतः सेवां कर्त्तां तथानेकेषां परित्राणस्य मूल्यरूपस्वप्राणं दातुञ्चागतः।
46 अथ ते यिरीहोनगरं प्राप्तास्तस्मात् शिष्यै र्लोकैश्च सह यीशो र्गमनकाले टीमयस्य पुत्रो बर्टीमयनामा अन्धस्तन्मार्गपार्श्वे भिक्षार्थम् उपविष्टः।
47 स नासरतीयस्य यीशोरागमनवार्त्तां प्राप्य प्रोचै र्वक्तुमारेभे, हे यीशो दायूदः सन्तान मां दयस्व।
48 ततोनेके लोका मौनीभवेति तं तर्जयामासुः, किन्तु स पुनरधिकमुच्चै र्जगाद, हे यीशो दायूदः सन्तान मां दयस्व।
49 तदा यीशुः स्थित्वा तमाह्वातुं समादिदेश, ततो लोकास्तमन्धमाहूय बभाषिरे, हे नर, स्थिरो भव, उत्तिष्ठ, स त्वामाह्वयति।
50 तदा स उत्तरीयवस्त्रं निक्षिप्य प्रोत्थाय यीशोः समीपं गतः।
51 ततो यीशुस्तमवदत् त्वया किं प्रार्थ्यते? तुभ्यमहं किं करिष्यामी? तदा सोन्धस्तमुवाच, हे गुरो मदीया दृष्टिर्भवेत्।
52 ततो यीशुस्तमुवाच याहि तव विश्वासस्त्वां स्वस्थमकार्षीत्, तस्मात् तत्क्षणं स दृष्टिं प्राप्य पथा यीशोः पश्चाद् ययौ।

मार्कलिखितः सुसंवादः 11

1 अनन्तरं तेषु यिरूशालमः समीपस्थयो र्बैत्फगीबैथनीयपुरयोरन्तिकस्थं जैतुननामाद्रिमागतेषु यीशुः प्रेषणकाले द्वौ शिष्याविदं वाक्यं जगाद,
2 युवाममुं सम्मुखस्थं ग्रामं यातं, तत्र प्रविश्य यो नरं नावहत् तं गर्द्दभशावकं द्रक्ष्यथस्तं मोचयित्वानयतं।
3 किन्तु युवां कर्म्मेदं कुतः कुरुथः? कथामिमां यदि कोपि पृच्छति तर्हि प्रभोरत्र प्रयोजनमस्तीति कथिते स शीघ्रं तमत्र प्रेषयिष्यति।
4 ततस्तौ गत्वा द्विमार्गमेलने कस्यचिद् द्वारस्य पार्श्वे तं गर्द्दभशावकं प्राप्य मोचयतः,
5 एतर्हि तत्रोपस्थितलोकानां कश्चिद् अपृच्छत्, गर्द्दभशिशुं कुतो मोचयथः?
6 तदा यीशोराज्ञानुसारेण तेभ्यः प्रत्युदिते तत्क्षणं तमादातुं तेऽनुजज्ञुः।
7 अथ तौ यीशोः सन्निधिं गर्द्दभशिशुम् आनीय तदुपरि स्ववस्त्राणि पातयामासतुः; ततः स तदुपरि समुपविष्टः।
8 तदानेके पथि स्ववासांसि पातयामासुः, परैश्च तरुशाखाश्छितवा मार्गे विकीर्णाः।
9 अपरञ्च पश्चाद्गामिनोऽग्रगामिनश्च सर्व्वे जना उचैःस्वरेण वक्तुमारेभिरे, जय जय यः परमेश्वरस्य नाम्नागच्छति स धन्य इति।
10 तथास्माकमं पूर्व्वपुरुषस्य दायूदो यद्राज्यं परमेश्वरनाम्नायाति तदपि धन्यं, सर्व्वस्मादुच्छ्राये स्वर्गे ईश्वरस्य जयो भवेत्।
11 इत्थं यीशु र्यिरूशालमि मन्दिरं प्रविश्य चतुर्दिक्स्थानि सर्व्वाणि वस्तूनि दृष्टवान्; अथ सायंकाल उपस्थिते द्वादशशिष्यसहितो बैथनियं जगाम।
12 अपरेहनि बैथनियाद् आगमनसमये क्षुधार्त्तो बभूव।
13 ततो दूरे सपत्रमुडुम्बरपादपं विलोक्य तत्र किञ्चित् फलं प्राप्तुं तस्य सन्निकृष्टं ययौ, तदानीं फलपातनस्य समयो नागच्छति। ततस्तत्रोपस्थितः पत्राणि विना किमप्यपरं न प्राप्य स कथितवान्,
14 अद्यारभ्य कोपि मानवस्त्वत्तः फलं न भुञ्जीत; इमां कथां तस्य शिष्याः शुश्रुवुः।
15 तदनन्तरं तेषु यिरूशालममायातेषु यीशु र्मन्दिरं गत्वा तत्रस्थानां बणिजां मुद्रासनानि पारावतविक्रेतृणाम् आसनानि च न्युब्जयाञ्चकार सर्व्वान् क्रेतृन् विक्रेतृंश्च बहिश्चकार।
16 अपरं मन्दिरमध्येन किमपि पात्रं वोढुं सर्व्वजनं निवारयामास।
17 लोकानुपदिशन् जगाद, मम गृहं सर्व्वजातीयानां प्रार्थनागृहम् इति नाम्ना प्रथितं भविष्यति एतत् किं शास्त्रे लिखितं नास्ति? किन्तु यूयं तदेव चोराणां गह्वरं कुरुथ।
18 इमां वाणीं श्रुत्वाध्यापकाः प्रधानयाजकाश्च तं यथा नाशयितुं शक्नुवन्ति तथोेपायं मृगयामासुः, किन्तु तस्योपदेशात् सर्व्वे लोका विस्मयं गता अतस्ते तस्माद् बिभ्युः।
19 अथ सायंसमय उपस्थिते यीशुर्नगराद् बहिर्वव्राज।
20 अनन्तरं प्रातःकाले ते तेन मार्गेण गच्छन्तस्तमुडुम्बरमहीरुहं समूलं शुष्कं ददृशुः।
21 ततः पितरः पूर्व्ववाक्यं स्मरन् यीशुं बभाषं, हे गुरो पश्यतु य उडुम्बरविटपी भवता शप्तः स शुष्को बभूव।
22 ततो यीशुः प्रत्यवादीत्, यूयमीश्वरे विश्वसित।
23 युष्मानहं यथार्थं वदामि कोपि यद्येतद्गिरिं वदति, त्वमुत्थाय गत्वा जलधौ पत, प्रोक्तमिदं वाक्यमवश्यं घटिष्यते, मनसा किमपि न सन्दिह्य चेदिदं विश्वसेत् तर्हि तस्य वाक्यानुसारेण तद् घटिष्यते।
24 अतो हेतोरहं युष्मान् वच्मि, प्रार्थनाकाले यद्यदाकांक्षिष्यध्वे तत्तदवश्यं प्राप्स्यथ, इत्थं विश्वसित, ततः प्राप्स्यथ।
25 अपरञ्च युष्मासु प्रार्थयितुं समुत्थितेषु यदि कोपि युष्माकम् अपराधी तिष्ठति, तर्हि तं क्षमध्वं, तथा कृते युष्माकं स्वर्गस्थः पितापि युष्माकमागांमि क्षमिष्यते।
26 किन्तु यदि न क्षमध्वे तर्हि वः स्वर्गस्थः पितापि युष्माकमागांसि न क्षमिष्यते।
27 अनन्तरं ते पुन र्यिरूशालमं प्रविविशुः, यीशु र्यदा मध्येमन्दिरम् इतस्ततो गच्छति, तदानीं प्रधानयाजका उपाध्यायाः प्राञ्चश्च तदन्तिकमेत्य कथामिमां पप्रच्छुः,
28 त्वं केनादेशेन कर्म्माण्येतानि करोषि? तथैतानि कर्म्माणि कर्त्तां केनादिष्टोसि?
29 ततो यीशुः प्रतिगदितवान् अहमपि युष्मान् एककथां पृच्छामि, यदि यूयं तस्या उत्तरं कुरुथ, तर्हि कयाज्ञयाहं कर्म्माण्येतानि करोमि तद् युष्मभ्यं कथयिष्यामि।
30 योहनो मज्जनम् ईश्वरात् जातं किं मानवात्? तन्मह्यं कथयत।
31 ते परस्परं विवेक्तुं प्रारेभिरे, तद् ईश्वराद् बभूवेति चेद् वदामस्तर्हि कुतस्तं न प्रत्यैत? कथमेतां कथयिष्यति।
32 मानवाद् अभवदिति चेद् वदामस्तर्हि लोकेभ्यो भयमस्ति यतो हेतोः सर्व्वे योहनं सत्यं भविष्यद्वादिनं मन्यन्ते।
33 अतएव ते यीशुं प्रत्यवादिषु र्वयं तद् वक्तुं न शक्नुमः। यीशुरुवाच, तर्हि येनादेशेन कर्म्माण्येतानि करोमि, अहमपि युष्मभ्यं तन्न कथयिष्यामि।

मार्कलिखितः सुसंवादः 12

1 अनन्तरं यीशु र्दृष्टान्तेन तेभ्यः कथयितुमारेभे, कश्चिदेको द्राक्षाक्षेत्रं विधाय तच्चतुर्दिक्षु वारणीं कृत्वा तन्मध्ये द्राक्षापेषणकुण्डम् अखनत्, तथा तस्य गडमपि निर्म्मितवान् ततस्तत्क्षेत्रं कृषीवलेषु समर्प्य दूरदेशं जगाम।
2 तदनन्तरं फलकाले कृषीवलेभ्यो द्राक्षाक्षेत्रफलानि प्राप्तुं तेषां सविधे भृत्यम् एकं प्राहिणोत्।
3 किन्तु कृषीवलास्तं धृत्वा प्रहृत्य रिक्तहस्तं विससृजुः।
4 ततः स पुनरन्यमेकं भृत्यं प्रषयामास, किन्तु ते कृषीवलाः पाषाणाघातैस्तस्य शिरो भङ्क्त्वा सापमानं तं व्यसर्जन्।
5 ततः परं सोपरं दासं प्राहिणोत् तदा ते तं जघ्नुः, एवम् अनेकेषां कस्यचित् प्रहारः कस्यचिद् वधश्च तैः कृतः।
6 ततः परं मया स्वपुत्रे प्रहिते ते तमवश्यं सम्मंस्यन्ते, इत्युक्त्वावशेषे तेषां सन्निधौ निजप्रियम् अद्वितीयं पुत्रं प्रेषयामास।
7 किन्तु कृषीवलाः परस्परं जगदुः, एष उत्तराधिकारी, आगच्छत वयमेनं हन्मस्तथा कृते ऽधिकारोयम् अस्माकं भविष्यति।
8 ततस्तं धृत्वा हत्वा द्राक्षाक्षेत्राद् बहिः प्राक्षिपन्।
9 अनेनासौ द्राक्षाक्षेत्रपतिः किं करिष्यति? स एत्य तान् कृषीवलान् संहत्य तत्क्षेत्रम् अन्येषु कृषीवलेषु समर्पयिष्यति।
10 अपरञ्च, "स्थपतयः करिष्यन्ति ग्रावाणं यन्तु तुच्छकं। प्राधानप्रस्तरः कोणे स एव संभविष्यति।
11 एतत् कर्म्म परेशस्यांद्भुतं नो दृष्टितो भवेत्॥ " इमां शास्त्रीयां लिपिं यूयं किं नापाठिष्ट?
12 तदानीं स तानुद्दिश्य तां दृष्टान्तकथां कथितवान्, त इत्थं बुद्व्वा तं धर्त्तामुद्यताः, किन्तु लोकेभ्यो बिभ्युः, तदनन्तरं ते तं विहाय वव्रजुः।
13 अपरञ्च ते तस्य वाक्यदोषं धर्त्तां कतिपयान् फिरूशिनो हेरोदीयांश्च लोकान् तदन्तिकं प्रेषयामासुः।
14 त आगत्य तमवदन्, हे गुरो भवान् तथ्यभाषी कस्याप्यनुरोधं न मन्यते, पक्षपातञ्च न करोति, यथार्थत ईश्वरीयं मार्गं दर्शयति वयमेतत् प्रजानीमः, कैसराय करो देयो न वां? वयं दास्यामो न वा?
15 किन्तु स तेषां कपटं ज्ञात्वा जगाद, कुतो मां परीक्षध्वे? एकं मुद्रापादं समानीय मां दर्शयत।
16 तदा तैरेकस्मिन् मुद्रापादे समानीते स तान् पप्रच्छ, अत्र लिखितं नाम मूर्त्ति र्वा कस्य? ते प्रत्यूचुः, कैसरस्य।
17 तदा यीशुरवदत् तर्हि कैसरस्य द्रव्याणि कैसराय दत्त, ईश्वरस्य द्रव्याणि तु ईश्वराय दत्त; ततस्ते विस्मयं मेनिरे।
18 अथ मृतानामुत्थानं ये न मन्यन्ते ते सिदूकिनो यीशोः समीपमागत्य तं पप्रच्छुः;
19 हे गुरो कश्चिज्जनो यदि निःसन्ततिः सन् भार्य्यायां सत्यां म्रियते तर्हि तस्य भ्राता तस्य भार्य्यां गृहीत्वा भ्रातु र्वंशोत्पत्तिं करिष्यति, व्यवस्थामिमां मूसा अस्मान् प्रति व्यलिखत्।
20 किन्तु केचित् सप्त भ्रातर आसन्, ततस्तेषां ज्येष्ठभ्राता विवह्य निःसन्ततिः सन् अम्रियत।
21 ततो द्वितीयो भ्राता तां स्त्रियमगृहणत् किन्तु सोपि निःसन्ततिः सन् अम्रियत; अथ तृतीयोपि भ्राता तादृशोभवत्।
22 इत्थं सप्तैव भ्रातरस्तां स्त्रियं गृहीत्वा निःसन्तानाः सन्तोऽम्रियन्त, सर्व्वशेषे सापि स्त्री म्रियते स्म।
23 अथ मृतानामुत्थानकाले यदा त उत्थास्यन्ति तदा तेषां कस्य भार्य्या सा भविष्यति? यतस्ते सप्तैव तां व्यवहन्।
24 ततो यीशुः प्रत्युवाच शास्त्रम् ईश्वरशक्तिञ्च यूयमज्ञात्वा किमभ्राम्यत न?
25 मृतलोकानामुत्थानं सति ते न विवहन्ति वाग्दत्ता अपि न भवन्ति, किन्तु स्वर्गीयदूतानां सदृशा भवन्ति।
26 पुनश्च "अहम् इब्राहीम ईश्वर इस्हाक ईश्वरो याकूबश्चेश्वरः" यामिमां कथां स्तम्बमध्ये तिष्ठन् ईश्वरो मूसामवादीत् मृतानामुत्थानार्थे सा कथा मूसालिखिते पुस्तके किं युष्माभि र्नापाठि?
27 ईश्वरो जीवतां प्रभुः किन्तु मृतानां प्रभु र्न भवति, तस्माद्धेतो र्यूयं महाभ्रमेण तिष्ठथ।
28 एतर्हि एकोध्यापक एत्य तेषामित्थं विचारं शुश्राव; यीशुस्तेषां वाक्यस्य सदुत्तरं दत्तवान् इति बुद्व्वा तं पृष्टवान् सर्व्वासाम् आज्ञानां का श्रेष्ठा? ततो यीशुः प्रत्युवाच,
29 "हे इस्रायेल्लोका अवधत्त, अस्माकं प्रभुः परमेश्वर एक एव,
30 यूयं सर्व्वन्तःकरणैः सर्व्वप्राणैः सर्व्वचित्तैः सर्व्वशक्तिभिश्च तस्मिन् प्रभौ परमेश्वरे प्रीयध्वं," इत्याज्ञा श्रेष्ठा।
31 तथा "स्वप्रतिवासिनि स्ववत् प्रेम कुरुध्वं," एषा या द्वितीयाज्ञा सा तादृशी; एताभ्यां द्वाभ्याम् आज्ञाभ्याम् अन्या काप्याज्ञा श्रेष्ठा नास्ति।
32 तदा सोध्यापकस्तमवदत्, हे गुरो सत्यं भवान् यथार्थं प्रोक्तवान् यत एकस्माद् ईश्वराद् अन्यो द्वितीय ईश्वरो नास्ति;
33 अपरं सर्व्वान्तःकरणैः सर्व्वप्राणैः सर्व्वचित्तैः सर्व्वशक्तिभिश्च ईश्वरे प्रेमकरणं तथा स्वमीपवासिनि स्ववत् प्रेमकरणञ्च सर्व्वेभ्यो होमबलिदानादिभ्यः श्रष्ठं भवति।
34 ततो यीशुः सुबुद्धेरिव तस्येदम् उत्तरं श्रुत्वा तं भाषितवान् त्वमीश्वरस्य राज्यान्न दूरोसि। इतः परं तेन सह कस्यापि वाक्यस्य विचारं कर्त्तां कस्यापि प्रगल्भता न जाता।
35 अनन्तरं मध्येमन्दिरम् उपदिशन् यीशुरिमं प्रश्नं चकार, अध्यापका अभिषिक्तं (तारकं) कुतो दायूदः सन्तानं वदन्ति?
36 स्वयं दायूद् पवित्रस्यात्मन आवेशेनेदं कथयामास। यथा। "मम प्रभुमिदं वाक्यवदत् परमेश्वरः। तव शत्रूनहं यावत् पादपीठं करोमि न। तावत् कालं मदीये त्वं दक्षपार्श्व् उपाविश। "
37 यदि दायूद् तं प्रभूं वदति तर्हि कथं स तस्य सन्तानो भवितुमर्हति? इतरे लोकास्तत्कथां श्रुत्वाननन्दुः।
38 तदानीं स तानुपदिश्य कथितवान् ये नरा दीर्घपरिधेयानि हट्टे विपनौ च
39 लोककृतनमस्कारान् भजनगृहे प्रधानासनानि भोजनकाले प्रधानस्थानानि च काङ्क्षन्ते;
40 विधवानां सर्व्वस्वं ग्रसित्वा छलाद् दीर्घकालं प्रार्थयन्ते तेभ्य उपाध्यायेभ्यः सावधाना भवत; तेऽधिकतरान् दण्डान् प्राप्स्यन्ति।
41 तदनन्तरं लोका भाण्डागारे मुद्रा यथा निक्षिपन्ति भाण्डागारस्य सम्मुखे समुपविश्य यीशुस्तदवलुलोक; तदानीं बहवो धनिनस्तस्य मध्ये बहूनि धनानि निरक्षिपन्।
42 पश्चाद् एका दरिद्रा विधवा समागत्य द्विपणमूल्यां मुद्रैकां तत्र निरक्षिपत्।
43 तदा यीशुः शिष्यान् आहूय कथितवान् युष्मानहं यथार्थं वदामि ये ये भाण्डागारेऽस्मिन धनानि निःक्षिपन्ति स्म तेभ्यः सर्व्वेभ्य इयं विधवा दरिद्राधिकम् निःक्षिपति स्म।
44 यतस्ते प्रभूतधनस्य किञ्चित् निरक्षिपन् किन्तु दीनेयं स्वदिनयापनयोग्यं किञ्चिदपि न स्थापयित्वा सर्व्वस्वं निरक्षिपत्।

मार्कलिखितः सुसंवादः 13

1 अनन्तरं मन्दिराद् बहिर्गमनकाले तस्य शिष्याणामेकस्तं व्याहृतवान् हे गुरो पश्यतु कीदृशाः पाषाणाः कीदृक् च निचयनं।
2 तदा यीशुस्तम् अवदत् त्वं किमेतद् बृहन्निचयनं पश्यसि? अस्यैकपाषाणोपि द्वितीयपाषाणोपरि न स्थास्यति सर्व्वे ऽधःक्षेप्स्यन्ते।
3 अथ यस्मिन् काले जैतुन्गिरौ मन्दिरस्य सम्मुखे स समुपविष्टस्तस्मिन् काले पितरो याकूब् योहन् आन्द्रियश्चैते तं रहसि पप्रच्छुः,
4 एता घटनाः कदा भविष्यन्ति? तथैतत्सर्व्वासां सिद्ध्युपक्रमस्य वा किं चिह्नं? तदस्मभ्यं कथयतु भवान्।
5 ततो याशुस्तान् वक्तुमारेभे, कोपि यथा युष्मान् न भ्रामयति तथात्र यूयं सावधाना भवत।
6 यतः ख्रीष्टोहमिति कथयित्वा मम नाम्नानेके समागत्य लोकानां भ्रमं जनयिष्यन्ति;
7 किन्तु यूयं रणस्य वार्त्तां रणाडम्बरञ्च श्रुत्वा मा व्याकुला भवत, घटना एता अवश्यम्माविन्यः; किन्त्वापाततो न युगान्तो भविष्यति।
8 देशस्य विपक्षतया देशो राज्यस्य विपक्षतया च राज्यमुत्थास्यति, तथा स्थाने स्थाने भूमिकम्पो दुर्भिक्षं महाक्लेशाश्च समुपस्थास्यन्ति, सर्व्व एते दुःखस्यारम्भाः।
9 किन्तु यूयम् आत्मार्थे सावधानास्तिष्ठत, यतो लोका राजसभायां युष्मान् समर्पयिष्यन्ति, तथा भजनगृहे प्रहरिष्यन्ति; यूयं मदर्थे देशाधिपान् भूपांश्च प्रति साक्ष्यदानाय तेषां सम्मुखे उपस्थापयिष्यध्वे।
10 शेषीभवनात् पूर्व्वं सर्व्वान् देशीयान् प्रति सुसंवादः प्रचारयिष्यते।
11 किन्तु यदा ते युष्मान् धृत्वा समर्पयिष्यन्ति तदा यूयं यद्यद् उत्तरं दास्यथ, तदग्र तस्य विवेचनं मा कुरुत तदर्थं किञ्चिदपि मा चिन्तयत च, तदानीं युष्माकं मनःसु यद्यद् वाक्यम् उपस्थापयिष्यते तदेव वदिष्यथ, यतो यूयं न तद्वक्तारः किन्तु पवित्र आत्मा तस्य वक्ता।
12 तदा भ्राता भ्रातरं पिता पुत्रं घातनार्थं परहस्तेषु समर्पयिष्यते, तथा पत्यानि मातापित्रो र्विपक्षतया तौ घातयिष्यन्ति।
13 मम नामहेतोः सर्व्वेषां सविधे यूयं जुगुप्सिता भविष्यथ, किन्तु यः कश्चित् शेषपर्य्यन्तं धैर्य्यम् आलम्बिष्यते सएव परित्रास्यते।
14 दानियेल्भविष्यद्वादिना प्रोक्तं सर्व्वनाशि जुगुप्सितञ्च वस्तु यदा त्वयोग्यस्थाने विद्यमानं द्रक्षथ (यो जनः पठति स बुध्यतां) तदा ये यिहूदीयदेशे तिष्ठन्ति ते महीध्रं प्रति पलायन्तां;
15 तथा यो नरो गृहोपरि तिष्ठति स गृहमध्यं नावरोहतु, तथा किमपि वस्तु ग्रहीतुं मध्येगृहं न प्रविशतु;
16 तथा च यो नरः क्षेत्रे तिष्ठति सोपि स्ववस्त्रं ग्रहीतुं परावृत्य न व्रजतु।
17 तदानीं गर्ब्भवतीनां स्तन्यदात्रीणाञ्च योषितां दुर्गति र्भविष्यति।
18 युष्माकं पलायनं शीतकाले यथा न भवति तदर्थं प्रार्थयध्वं।
19 यतस्तदा यादृशी दुर्घटना घटिष्यते तादृशी दुर्घटना ईश्वरसृष्टेः प्रथममारभ्याद्य यावत् कदापि न जाता न जनिष्यते च।
20 अपरञ्च परमेश्वरो यदि तस्य समयस्य संक्षेपं न करोति तर्हि कस्यापि प्राणभृतो रक्षा भवितुं न शक्ष्यति, किन्तु यान् जनान् मनोनीतान् अकरोत् तेषां स्वमनोनीतानां हेतोः स तदनेहसं संक्षेप्स्यति।
21 अन्यच्च पश्यत ख्रीष्टोत्र स्थाने वा तत्र स्थाने विद्यते, तस्मिन्काले यदि कश्चिद् युष्मान् एतादृशं वाक्यं व्याहरति, तर्हि तस्मिन् वाक्ये भैव विश्वसित।
22 यतोनेके मिथ्याख्रीष्टा मिथ्याभविष्यद्वादिनश्च समुपस्थाय बहूनि चिह्नान्यद्भुतानि कर्म्माणि च दर्शयिष्यन्ति; तथा यदि सम्भवति तर्हि मनोनीतलोकानामपि मिथ्यामतिं जनयिष्यन्ति।
23 पश्यत घटनातः पूर्व्वं सर्व्वकार्य्यस्य वार्त्तां युष्मभ्यमदाम्, यूयं सावधानास्तिष्ठत।
24 अपरञ्च तस्य क्लेशकालस्याव्यवहिते परकाले भास्करः सान्धकारो भविष्यति तथैव चन्द्रश्चन्द्रिकां न दास्यति।
25 नभःस्थानि नक्षत्राणि पतिष्यन्ति, व्योममण्डलस्था ग्रहाश्च विचलिष्यन्ति।
26 तदानीं महापराक्रमेण महैश्वर्य्येण च मेघमारुह्य समायान्तं मानवसुतं मानवाः समीक्षिष्यन्ते।
27 अन्यच्च स निजदूतान् प्रहित्य नभोभूम्योः सीमां यावद् जगतश्चतुर्दिग्भ्यः स्वमनोनीतलोकान् संग्रहीष्यति।
28 उडुम्बरतरो र्दृष्टान्तं शिक्षध्वं यदोडुम्बरस्य तरो र्नवीनाः शाखा जायन्ते पल्लवादीनि च र्निगच्छन्ति, तदा निदाघकालः सविधो भवतीति यूयं ज्ञातुं शक्नुथ।
29 तद्वद् एता घटना दृष्ट्वा स कालो द्वार्य्युपस्थित इति जानीत।
30 युष्मानहं यथार्थं वदामि, आधुनिकलोकानां गमनात् पूर्व्वं तानि सर्व्वाणि घटिष्यन्ते।
31 द्यावापृथिव्यो र्विचलितयोः सत्यो र्मदीया वाणी न विचलिष्यति।
32 अपरञ्च स्वर्गस्थदूतगणो वा पुत्रो वा तातादन्यः कोपि तं दिवसं तं दण्डं वा न ज्ञापयति।
33 अतः स समयः कदा भविष्यति, एतज्ज्ञानाभावाद् यूयं सावधानास्तिष्ठत, सतर्काश्च भूत्वा प्रार्थयध्वं;
34 यद्वत् कश्चित् पुमान् स्वनिवेशनाद् दूरदेशं प्रति यात्राकरणकाले दासेषु स्वकार्य्यस्य भारमर्पयित्वा सर्व्वान् स्वे स्वे कर्म्मणि नियोजयति; अपरं दौवारिकं जागरितुं समादिश्य याति, तद्वन् नरपुत्रः।
35 गृहपतिः सायंकाले निशीथे वा तृतीययामे वा प्रातःकाले वा कदागमिष्यति तद् यूयं न जानीथ;
36 स हठादागत्य यथा युष्मान् निद्रितान् न पश्यति, तदर्थं जागरितास्तिष्ठत।
37 युष्मानहं यद् वदामि तदेव सर्व्वान् वदामि, जागरितास्तिष्ठतेति।

मार्कलिखितः सुसंवादः 14

1 तदा निस्तारोत्सवकिण्वहीनपूपोत्सवयोरारम्भस्य दिनद्वये ऽवशिष्टे प्रधानयाजका अध्यापकाश्च केनापि छलेन यीशुं धर्त्तां हन्तुञ्च मृगयाञ्चक्रिरे;
2 किन्तु लोकानां कलहभयादूचिरे, नचोत्सवकाल उचितमेतदिति।
3 अनन्तरं बैथनियापुुरे शिमोनकुष्ठिनो गृहे योशौ भोत्कुमुपविष्टे सति काचिद् योषित् पाण्डरपाषाणस्य सम्पुटकेन महार्घ्योत्तमतैलम् आनीय सम्पुटकं भंक्त्वा तस्योत्तमाङ्गे तैलधारां पातयाञ्चक्रे।
4 तस्मात् केचित् स्वान्ते कुप्यन्तः कथितवंन्तः कुतोयं तैलापव्ययः?
5 यद्येतत् तैल व्यक्रेष्यत तर्हि मुद्रापादशतत्रयादप्यधिकं तस्य प्राप्तमूल्यं दरिद्रलोकेभ्यो दातुमशक्ष्यत, कथामेतां कथयित्वा तया योषिता साकं वाचायुह्यन्।
6 किन्तु यीशुरुवाच, कुत एतस्यै कृच्छ्रं ददासि? मह्यमियं कर्म्मोत्तमं कृतवती।
7 दरिद्राः सर्व्वदा युष्माभिः सह तिष्ठन्ति, तस्माद् यूयं यदेच्छथ तदैव तानुपकर्त्तां शक्नुथ, किन्त्वहं युभाभिः सह निरन्तरं न तिष्ठामि।
8 अस्या यथासाध्यं तथैवाकरोदियं, श्मशानयापनात् पूर्व्वं समेत्य मद्वपुषि तैलम् अमर्द्दयत्।
9 अहं युष्मभ्यं यथार्थं कथयामि, जगतां मध्ये यत्र यत्र सुसंवादोयं प्रचारयिष्यते तत्र तत्र योषित एतस्याः स्मरणार्थं तत्कृतकर्म्मैतत् प्रचारयिष्यते।
10 ततः परं द्वादशानां शिष्याणामेक ईष्करियोतीययिहूदाख्यो यीशुं परकरेषु समर्पयितुं प्रधानयाजकानां समीपमियाय।
11 ते तस्य वाक्यं समाकर्ण्य सन्तुष्टाः सन्तस्तस्मै मुद्रा दातुं प्रत्यजानत; तस्मात् स तं तेषां करेषु समर्पणायोपायं मृगयामास।
12 अनन्तरं किण्वशून्यपूपोत्सवस्य प्रथमेऽहनि निस्तारोत्मवार्थं मेषमारणासमये शिष्यास्तं पप्रच्छः कुत्र गत्वा वयं निस्तारोत्सवस्य भोज्यमासादयिष्यामः? किमिच्छति भवान्?
13 तदानीं स तेषां द्वयं प्रेरयन् बभाषे युवयोः पुरमध्यं गतयोः सतो र्यो जनः सजलकुम्भं वहन् युवां साक्षात् करिष्यति तस्यैव पश्चाद् यातं;
14 स यत् सदनं प्रवेक्ष्यति तद्भवनपतिं वदतं, गुरुराह यत्र सशिष्योहं निस्तारोत्सवीयं भोजनं करिष्यामि, सा भोजनशाला कुत्रास्ति?
15 ततः स परिष्कृतां सुसज्जितां बृहतीचञ्च यां शालां दर्शयिष्यति तस्यामस्मदर्थं भोज्यद्रव्याण्यासादयतं।
16 ततः शिष्यौ प्रस्थाय पुरं प्रविश्य स यथोक्तवान् तथैव प्राप्य निस्तारोत्सवस्य भोज्यद्रव्याणि समासादयेताम्।
17 अनन्तरं यीशुः सायंकाले द्वादशभिः शिष्यैः सार्द्धं जगाम;
18 सर्व्वेषु भोजनाय प्रोपविष्टेषु स तानुदितवान् युष्मानहं यथार्थं व्याहरामि, अत्र युष्माकमेको जनो यो मया सह भुंक्ते मां परकेरेषु समर्पयिष्यते।
19 तदानीं ते दुःखिताः सन्त एकैकशस्तं प्रष्टुमारब्धवन्तः स किमहं? पश्चाद् अन्य एकोभिदधे स किमहं?
20 ततः स प्रत्यवदद् एतेषां द्वादशानां यो जनो मया समं भोजनापात्रे पाणिं मज्जयिष्यति स एव।
21 मनुजतनयमधि यादृशं लिखितमास्ते तदनुरूपा गतिस्तस्य भविष्यति, किन्तु यो जनो मानवसुतं समर्पयिष्यते हन्त तस्य जन्माभावे सति भद्रमभविष्यत्।
22 अपरञ्च तेषां भोजनसमये यीशुः पूपं गृहीत्वेश्वरगुणान् अनुकीर्त्य भङ्क्त्वा तेभ्यो दत्त्वा बभाषे, एतद् गृहीत्वा भुञ्जीध्वम् एतन्मम विग्रहरूपं।
23 अनन्तरं स कंसं गृहीत्वेश्वरस्य गुणान् कीर्त्तयित्वा तेभ्यो ददौ, ततस्ते सर्व्वे पपुः।
24 अपरं स तानवादीद् बहूनां निमित्तं पातितं मम नवीननियमरूपं शोणितमेतत्।
25 युष्मानहं यथार्थं वदामि, ईश्वरस्य राज्ये यावत् सद्योजातं द्राक्षारसं न पास्यामि,तावदहं द्राक्षाफलरसं पुन र्न पास्यामि।
26 तदनन्तरं ते गीतमेकं संगीय बहि र्जैतुनं शिखरिणं ययुः
27 अथ यीशुस्तानुवाच निशायामस्यां मयि युष्माकं सर्व्वेषां प्रत्यूहो भविष्यति यतो लिखितमास्ते यथा, मेषाणां रक्षकञ्चाहं प्रहरिष्यामि वै ततः। मेषाणां निवहो नूनं प्रविकीर्णो भविष्यति।
28 कन्तु मदुत्थाने जाते युष्माकमग्रेऽहं गालीलं व्रजिष्यामि।
29 तदा पितरः प्रतिबभाषे, यद्यपि सर्व्वेषां प्रत्यूहो भवति तथापि मम नैव भविष्यति।
30 ततो यीशुरुक्तावान् अहं तुभ्यं तथ्यं कथयामि, क्षणादायामद्य कुक्कुटस्य द्वितीयवाररवणात् पूर्व्वं त्वं वारत्रयं मामपह्नोष्यसे।
31 किन्तु स गाढं व्याहरद् यद्यपि त्वया सार्द्धं मम प्राणो याति तथापि कथमपि त्वां नापह्नोष्ये; सर्व्वेऽपीतरे तथैव बभाषिरे।
32 अपरञ्च तेषु गेत्शिमानीनामकं स्थान गतेषु स शिष्यान् जगाद, यावदहं प्रार्थये तावदत्र स्थाने यूयं समुपविशत।
33 अथ स पितरं याकूबं योहनञ्च गृहीत्वा वव्राज; अत्यन्तं त्रासितो व्याकुलितश्च तेभ्यः कथयामास,
34 निधनकालवत् प्राणो मेऽतीव दःखमेति, यूयं जाग्रतोत्र स्थाने तिष्ठत।
35 ततः स किञ्चिद्दूरं गत्वा भूमावधोमुखः पतित्वा प्रार्थितवानेतत्, यदि भवितुं शक्यं तर्हि दुःखसमयोयं मत्तो दूरीभवतु।
36 अपरमुदितवान् हे पित र्हे पितः सर्व्वें त्वया साध्यं, ततो हेतोरिमं कंसं मत्तो दूरीकुरु, किन्तु तन् ममेच्छातो न तवेच्छातो भवतु।
37 ततः परं स एत्य तान् निद्रितान् निरीक्ष्य पितरं प्रोवाच, शिमोन् त्वं किं निद्रासि? घटिकामेकाम् अपि जागरितुं न शक्नोषि?
38 परीक्षायां यथा न पतथ तदर्थं सचेतनाः सन्तः प्रार्थयध्वं; मन उद्युक्तमिति सत्यं किन्तु वपुरशक्तिकं।
39 अथ स पुनर्व्रजित्वा पूर्व्ववत् प्रार्थयाञ्चक्रे।
40 परावृत्यागत्य पुनरपि तान् निद्रितान् ददर्श तदा तेषां लोचनानि निद्रया पूर्णानि, तस्मात्तस्मै का कथा कथयितव्या त एतद् बोद्धुं न शेकुः।
41 ततःपरं तृतीयवारं आगत्य तेभ्यो ऽकथयद् इदानीमपि शयित्वा विश्राम्यथ? यथेष्टं जातं, समयश्चोपस्थितः पश्यत मानवतनयः पापिलोकानां पाणिषु समर्प्यते।
42 उत्तिष्ठत, वयं व्रजामो यो जनो मां परपाणिषु समर्पयिष्यते पश्यत स समीपमायातः।
43 इमां कथां कथयति स, एतर्हिद्वादशानामेको यिहूदा नामा शिष्यः प्रधानयाजकानाम् उपाध्यायानां प्राचीनलोकानाञ्च सन्निधेः खङ्गलगुडधारिणो बहुलोकान् गृहीत्वा तस्य समीप उपस्थितवान्।
44 अपरञ्चासौ परपाणिषु समर्पयिता पूर्व्वमिति सङ्केतं कृतवान् यमहं चुम्बिष्यामि स एवासौ तमेव धृत्वा सावधानं नयत।
45 अतो हेतोः स आगत्यैव योशोः सविधं गत्वा हे गुरो हे गुरो, इत्युक्त्वा तं चुचुम्ब।
46 तदा ते तदुपरि पाणीनर्पयित्वा तं दध्नुः।
47 ततस्तस्य पार्श्वस्थानां लोकानामेकः खङ्गं निष्कोषयन् महायाजकस्य दासमेकं प्रहृत्य तस्य कर्णं चिच्छेद।
48 पश्चाद् यीशुस्तान् व्याजहार खङ्गान् लगुडांश्च गृहीत्वा मां किं चौरं धर्त्तां समायाताः?
49 मध्येमन्दिरं समुपदिशन् प्रत्यहं युष्माभिः सह स्थितवानतहं, तस्मिन् काले यूयं मां नादीधरत, किन्त्वनेन शास्त्रीयं वचनं सेधनीयं।
50 तदा सर्व्वे शिष्यास्तं परित्यज्य पलायाञ्चक्रिरे।
51 अथैको युवा मानवो नग्नकाये वस्त्रमेकं निधाय तस्य पश्चाद् व्रजन् युवलोकै र्धृतो
52 वस्त्रं विहाय नग्नः पलायाञ्चक्रे।
53 अपरञ्च यस्मिन् स्थाने प्रधानयाजका उपाध्यायाः प्राचीनलोकाश्च महायाजकेन सह सदसि स्थितास्तस्मिन् स्थाने महायाजकस्य समीपं यीशुं निन्युः।
54 पितरो दूरे तत्पश्चाद् इत्वा महायाजकस्याट्टालिकां प्रविश्य किङ्करैः सहोपविश्य वह्नितापं जग्राह।
55 तदानीं प्रधानयाजका मन्त्रिणश्च यीशुं घातयितुं तत्प्रातिकूल्येन साक्षिणो मृगयाञ्चक्रिरे, किन्तु न प्राप्ताः।
56 अनेकैस्तद्विरुद्धं मृषासाक्ष्ये दत्तेपि तेषां वाक्यानि न समगच्छन्त।
57 सर्व्वशेषे कियन्त उत्थाय तस्य प्रातिकूल्येन मृषासाक्ष्यं दत्त्वा कथयामासुः,
58 इदं करकृतमन्दिरं विनाश्य दिनत्रयमध्ये पुनरपरम् अकरकृतं मन्दिरं निर्म्मास्यामि, इति वाक्यम् अस्य मुखात् श्रुतमस्माभिरिति।
59 किन्तु तत्रापि तेषां साक्ष्यकथा न सङ्गाताः।
60 अथ महायाजको मध्येसभम् उत्थाय यीशुं व्याजहार, एते जनास्त्वयि यत् साक्ष्यमदुः त्वमेतस्य किमप्युत्तरं किं न दास्यसि?
61 किन्तु स किमप्युत्तरं न दत्वा मौनीभूय तस्यौ; ततो महायाजकः पुनरपि तं पृष्टावान् त्वं सच्चिदानन्दस्य तनयो ऽभिषिक्तस्त्रता?
62 तदा यीशुस्तं प्रोवाच भवाम्यहम् यूयञ्च सर्व्वशक्तिमतो दक्षीणपार्श्वे समुपविशन्तं मेघ मारुह्य समायान्तञ्च मनुष्यपुत्रं सन्द्रक्ष्यथ।
63 तदा महायाजकः स्वं वमनं छित्वा व्यावहरत्
64 किमस्माकं साक्षिभिः प्रयोजनम्? ईश्वरनिन्दावाक्यं युष्माभिरश्रावि किं विचारयथ? तदानीं सर्व्वे जगदुरयं निधनदण्डमर्हति।
65 ततः कश्चित् कश्चित् तद्वपुषि निष्ठीवं निचिक्षेप तथा तन्मुखमाच्छाद्य चपेटेन हत्वा गदितवान् गणयित्वा वद, अनुचराश्च चपेटैस्तमाजघ्नुः
66 ततः परं पितरेऽट्टालिकाधःकोष्ठे तिष्ठति महायाजकस्यैका दासी समेत्य
67 तं विह्नितापं गृह्लन्तं विलोक्य तं सुनिरीक्ष्य बभाषे त्वमपि नासरतीययीशोः सङ्गिनाम् एको जन आसीः।
68 किन्तु सोपह्नुत्य जगाद तमहं न वद्मि त्वं यत् कथयमि तदप्यहं न बुद्ध्ये। तदानीं पितरे चत्वरं गतवति कुेक्कुटो रुराव।
69 अथान्या दासी पितरं दृष्ट्वा समीपस्थान् जनान् जगाद अयं तेषामेको जनः।
70 ततः स द्वितीयवारम् अपह्नुतवान् पश्चात् तत्रस्था लोकाः पितरं प्रोचुस्त्वमवश्यं तेषामेको जनः यतस्त्वं गालीलीयो नर इति तवोच्चारणं प्रकाशयति।
71 तदा स शपथाभिशापौ कृत्वा प्रोवाच यूयं कथां कथयथ तं नरं न जानेऽहं।
72 तदानीं द्वितीयवारं कुक्कुटो ऽरावीत्। कुक्कुटस्य द्वितीयरवात् पूर्व्वं त्वं मां वारत्रयम् अपह्नोष्यसि, इति यद्वाक्यं यीशुना समुदितं तत् तदा संस्मृत्य पितरो रोदितुम् आरभत।

मार्कलिखितः सुसंवादः 15

1 अथ प्रभाते सति प्रधानयाजकाः प्राञ्च उपाध्यायाः सर्व्वे मन्त्रिणश्च सभां कृत्वा यीशुृं बन्धयित्व पीलाताख्यस्य देशाधिपतेः सविधं नीत्वा समर्पयामासुः।
2 तदा पीलातस्तं पृष्टवान् त्वं किं यिहूदीयलोकानां राजा? ततः स प्रत्युक्तवान् सत्यं वदसि।
3 अपरं प्रधानयाजकास्तस्य बहुषु वाक्येषु दोषमारोपयाञ्चक्रुः किन्तु स किमपि न प्रत्युवाच।
4 तदानीं पीलातस्तं पुनः पप्रच्छ त्वं किं नोत्तरयसि? पश्यैते त्वद्विरुद्धं कतिषु साध्येषु साक्षं ददति।
5 कन्तु यीशुस्तदापि नोत्तरं ददौ ततः पीलात आश्चर्य्यं जगाम।
6 अपरञ्च काराबद्धे कस्तिंश्चित् जने तन्महोत्सवकाले लोकै र्याचिते देशाधिपतिस्तं मोचयति।
7 ये च पूर्व्वमुपप्लवमकार्षुरुपप्लवे वधमपि कृतवन्तस्तेषां मध्ये तदानों बरब्बानामक एको बद्ध आसीत्।
8 अतो हेतोः पूर्व्वापरीयां रीतिकथां कथयित्वा लोका उच्चैरुवन्तः पीलातस्य समक्षं निवेदयामासुः।
9 तदा पीलातस्तानाचख्यौ तर्हि किं यिहूदीयानां राजानं मोचयिष्यामि? युष्माभिः किमिष्यते?
10 यतः प्रधानयाजका ईर्ष्यात एव यीशुं समार्पयन्निति स विवेद।
11 किन्तु यथा बरब्बां मोचयति तथा प्रार्थयितुं प्रधानयाजका लोकान् प्रवर्त्तयामासुः।
12 अथ पीलातः पुनः पृष्टवान् तर्हि यं यिहूदीयानां राजेति वदथ तस्य किं करिष्यामि युष्माभिः किमिष्यते?
13 तदा ते पुनरपि प्रोच्चैः प्रोचुस्तं क्रुशे वेधय।
14 तस्मात् पीलातः कथितवान् कुतः? स किं कुकर्म्म कृतवान्? किन्तु ते पुनश्च रुवन्तो व्याजह्रुस्तं क्रुशे वेधय।
15 तदा पीलातः सर्व्वाल्लोकान् तोषयितुमिच्छन् बरब्बां मोचयित्वा यीशुं कशाभिः प्रहृत्य क्रुशे वेद्धुं तं समर्पयाम्बभूव।
16 अनन्तरं सैन्यगणोऽट्टालिकाम् अर्थाद् अधिपते र्गृहं यीशुं नीत्वा सेनानिवहं समाहुयत्।
17 पश्चात् ते तं धूमलवर्णवस्त्रं परिधाप्य कण्टकमुकुटं रचयित्वा शिरसि समारोप्य
18 हे यिहूदीयानां राजन् नमस्कार इत्युक्त्वा तं नमस्कर्त्तामारेभिरे।
19 तस्योत्तमाङ्गे वेत्राघातं चक्रुस्तद्गात्रे निष्ठीवञ्च निचिक्षिपुः, तथा तस्य सम्मुखे जानुपातं प्रणोमुः
20 इत्थमुपहस्य धूम्रवर्णवस्त्रम् उत्तार्य्य तस्य वस्त्रं तं पर्य्यधापयन् क्रुशे वेद्धुं बहिर्निन्युश्च।
21 ततः परं सेकन्दरस्य रुफस्य च पिता शिमोन्नामा कुरीणीयलोक एकः कुतश्चिद् ग्रामादेत्य पथि याति तं ते यीशोः क्रुशं वोढुं बलाद् दध्नुः।
22 अथ गुल्गल्ता अर्थात् शिरःकपालनामकं स्थानं यीशुमानीय
23 ते गन्धरसमिश्रितं द्राक्षारसं पातुं तस्मै ददुः किन्तु स न जग्राह।
24 तस्मिन् क्रुशे विद्धे सति तेषामेकैकशः किं प्राप्स्यतीति निर्णयाय
25 तस्य परिधेयानां विभागार्थं गुटिकापातं चक्रुः।
26 अपरम् एष यिहूदीयानां राजेति लिखितं दोषपत्रं तस्य शिरऊर्द्व्वम् आरोपयाञ्चक्रुः।
27 तस्य वामदक्षिणयो र्द्वौ चौरौ क्रुशयो र्विविधाते।
28 तेनैव "अपराधिजनैः सार्द्धं स गणितो भविष्यति," इति शास्त्रोक्तं वचनं सिद्धमभूत।
29 अनन्तरं मार्गे ये ये लोका गमनागमने चक्रुस्ते सर्व्व एव शिरांस्यान्दोल्य निन्दन्तो जगदुः, रे मन्दिरनाशक रे दिनत्रयमध्ये तन्निर्म्मायक,
30 अधुनात्मानम् अवित्वा क्रुशादवरोह।
31 किञ्च प्रधानयाजका अध्यापकाश्च तद्वत् तिरस्कृत्य परस्परं चचक्षिरे एष परानावत् किन्तु स्वमवितुं न शक्नोति।
32 यदीस्रायेलो राजाभिषिक्तस्त्राता भवति तर्ह्यधुनैन क्रुशादवरोहतु वयं तद् दृष्ट्वा विश्वसिष्यामः; किञ्च यौ लोकौ तेन सार्द्धं क्रुशे ऽविध्येतां तावपि तं निर्भर्त्सयामासतुः।
33 अथ द्वितीययामात् तृतीययामं यावत् सर्व्वो देशः सान्धकारोभूत्।
34 ततस्तृतीयप्रहरे यीशुरुच्चैरवदत् एली एली लामा शिवक्तनी अर्थाद् "हे मदीश मदीश त्वं पर्य्यत्याक्षीः कुतो हि मां?"
35 तदा समीपस्थलोकानां केचित् तद्वाक्यं निशम्याचख्युः पश्यैष एलियम् आहूयति।
36 तत एको जनो धावित्वागत्य स्पञ्जे ऽम्लरसं पूरयित्वा तं नडाग्रे निधाय पातुं तस्मै दत्त्वावदत् तिष्ठ एलिय एनमवरोहयितुम् एति न वेति पश्यामि।
37 अथ यीशुरुच्चैः समाहूय प्राणान् जहौ।
38 तदा मन्दिरस्य जवनिकोर्द्व्वादधःर्य्यन्ता विदीर्णा द्विखण्डाभूत्।
39 किञ्च इत्थमुच्चैराहूय प्राणान् त्यजन्तं तं दृष्द्वा तद्रक्षणाय नियुक्तो यः सेनापतिरासीत् सोवदत् नरोयम् ईश्वरपुत्र इति सत्यम्।
40 तदानीं मग्दलीनी मरिसम् कनिष्ठयाकूबो योसेश्च मातान्यमरियम् शालोमी च याः स्त्रियो
41 गालील्प्रदेशे यीशुं सेवित्वा तदनुगामिन्यो जाता इमास्तदन्याश्च या अनेका नार्यो यीशुना सार्द्धं यिरूशालममायातास्ताश्च दूरात् तानि ददृशुः।
42 अथासादनदिनस्यार्थाद् विश्रामवारात् पूर्व्वदिनस्य सायंकाल आगत
43 ईश्वरराज्यापेक्ष्यरिमथीययूषफनामा मान्यमन्त्री समेत्य पीलातसविधं निर्भयो गत्वा यीशोर्देहं ययाचे।
44 किन्तु स इदानीं मृतः पीलात इत्यसम्भवं मत्वा शतसेनापतिमाहूय स कदा मृत इति पप्रच्छ।
45 शतसेमनापतिमुखात् तज्ज्ञात्वा यूषफे यीशोर्देहं ददौ।
46 पश्चात् स सूक्ष्मं वासः क्रीत्वा यीशोः कायमवरोह्य तेन वाससा वेष्टायित्वा गिरौ खातश्मशाने स्थापितवान् पाषाणं लोठयित्वा द्वारि निदधे।
47 किन्तु यत्र सोस्थाप्यत तत मग्दलीनी मरियम् योसिमातृमरियम् च ददृशतृः।

मार्कलिखितः सुसंवादः 16

1 अथ विश्रामवारे गते मग्दलीनी मरियम् याकूबमाता मरियम् शालोमी चेमास्तं मर्द्दयितुं सुगन्धिद्रव्याणि क्रीत्वा
2 सप्ताहप्रथमदिनेऽतिप्रत्यूषे सूर्य्योदयकाले श्मशानमुपगताः।
3 किन्तु श्मशानद्वारपाषाणोऽतिबृहन् तं कोऽपसारयिष्यतीति ताः परस्परं गदन्ति!
4 एतर्हि निरीक्ष्य पाषाणो द्वारो ऽपसारित इति ददृशुः।
5 पश्चात्ताः श्मशानं प्रविश्य शुक्लवर्णदीर्घपरिच्छदावृतमेकं युवानं श्मशानदक्षिणपार्श्व उपविष्टं दृष्ट्वा चमच्चक्रुः।
6 सोऽवदत्, माभैष्ट यूयं क्रुशे हतं नासरतीययीशुं गवेषयथ सोत्र नास्ति श्मशानादुदस्थात्; तै र्यत्र स स्थापितः स्थानं तदिदं पश्यत।
7 किन्तु तेन यथोक्तं तथा युष्माकमग्रे गालीलं यास्यते तत्र स युष्मान् साक्षात् करिष्यते यूयं गत्वा तस्य शिष्येभ्यः पितराय च वार्त्तामिमां कथयत।
8 ताः कम्पिता विस्तिताश्च तूर्णं श्मशानाद् बहिर्गत्वा पलायन्त भयात् कमपि किमपि नावदंश्च।
9 अपरं यीशुः सप्ताहप्रथमदिने प्रत्यूषे श्मशानादुत्थाय यस्याः सप्तभूतास्त्याजितास्तस्यै मग्दलीनीमरियमे प्रथमं दर्शनं ददौ।
10 ततः सा गत्वा शोकरोदनकृद्भ्योऽनुगतलोकेभ्यस्तां वार्त्तां कथयामास।
11 किन्तु यीशुः पुनर्जीवन् तस्यै दर्शनं दत्तवानिति श्रुत्वा ते न प्रत्ययन्।
12 पश्चात् तेषां द्वायो र्ग्रामयानकाले यीशुरन्यवेशं धृत्वा ताभ्यां दर्शन ददौ!
13 तावपि गत्वान्यशिष्येभ्यस्तां कथां कथयाञ्चक्रतुः किन्तु तयोः कथामपि ते न प्रत्ययन्।
14 शेषत एकादशशिष्येषु भोजनोपविष्टेषु यीशुस्तेभ्यो दर्शनं ददौ तथोत्थानात् परं तद्दर्शनप्राप्तलोकानां कथायामविश्वासकरणात् तेषामविश्वासमनःकाठिन्याभ्यां हेतुभ्यां स तांस्तर्जितवान्।
15 अथ तानाचख्यौ यूयं सर्व्वजगद् गत्वा सर्व्वजनान् प्रति सुसंवादं प्रचारयत।
16 तत्र यः कश्चिद् विश्वस्य मज्जितो भवेत् स परित्रास्यते किन्तु यो न विश्वसिष्यति स दण्डयिष्यते।
17 किञ्च ये प्रत्येष्यन्ति तैरीदृग् आश्चर्य्यं कर्म्म प्रकाशयिष्यते ते मन्नाम्ना भूतान् त्याजयिष्यन्ति भाषा अन्याश्च वदिष्यन्ति।
18 अपरं तैः सर्पेषु धृतेषु प्राणनाशकवस्तुनि पीते च तेषां कापि क्षति र्न भविष्यति; रोगिणां गात्रेषु करार्पिते तेऽरोगा भविष्यन्ति च।
19 अथ प्रभुस्तानित्यादिश्य स्वर्गं नीतः सन् परमेश्वरस्य दक्षिण उपविवेश।
20 ततस्ते प्रस्थाय सर्व्वत्र सुसंवादीयकथां प्रचारयितुमारेभिरे प्रभुस्तु तेषां सहायः सन् प्रकाशिताश्चर्य्यक्रियाभिस्तां कथां प्रमाणवतीं चकार। इति।

॥ इति मार्कलिखितः सुसंवादः समाप्तं ॥


लूकलिखितः सुसंवादः
01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24


लूकलिखितः सुसंवादः 01

1 प्रथमतो ये साक्षिणो वाक्यप्रचारकाश्चासन् तेऽस्माकं मध्ये यद्यत् सप्रमाणं वाक्यमर्पयन्ति स्म
2 तदनुसारतोऽन्येपि बहवस्तद्वृत्तान्तं रचयितुं प्रवृत्ताः।
3 अतएव हे महामहिमथियफिल् त्वं या याः कथा अशिक्ष्यथास्तासां दृढप्रमाणानि यथा प्राप्नोषि
4 तदर्थं प्रथममारभ्य तानि सर्व्वाणि ज्ञात्वाहमपि अनुक्रमात् सर्व्ववृत्तान्तान् तुभ्यं लेखितुं मतिमकार्षम्।
5 यिहूदादेशीयहेरोद्नामके राजत्वं कुर्व्वति अबीययाजकस्य पर्य्यायाधिकारी सिखरियनामक एको याजको हारोणवंशोद्भवा इलीशेवाख्या
6 तस्य जाया द्वाविमौ निर्दोषौ प्रभोः सर्व्वाज्ञा व्यवस्थाश्च संमन्य ईश्वरदृष्टौ धार्म्मिकावास्ताम्।
7 तयोः सन्तान एकोपि नासीत्, यत इलीशेवा बन्ध्या तौ द्वावेव वृद्धावभवताम्।
8 यदा स्वपर्य्यानुक्रमेण सिखरिय ईश्वास्य समक्षं याजकीयं कर्म्म करोति
9 तदा यज्ञस्य दिनपरिपाय्या परमेश्वरस्य मन्दिरे प्रवेशकाले धूपज्वालनं कर्म्म तस्य करणीयमासीत्।
10 तद्धूपज्वालनकाले लोकनिवहे प्रार्थनां कर्तुं बहिस्तिष्ठति
11 सति सिखरियो यस्यां वेद्यां धूपं ज्वालयति तद्दक्षिणपार्श्वे परमेश्वरस्य दूत एक उपस्थितो दर्शनं ददौ।
12 तं दृष्ट्वा सिखरिय उद्विविजे शशङ्के च।
13 तदा स दूतस्तं बभाषे हे सिखरिय मा भैस्तव प्रार्थना ग्राह्या जाता तव भार्य्या इलीशेवा पुत्रं प्रसोष्यते तस्य नाम योेहन् इति करिष्यसि।
14 किञ्च त्वं सानन्दः सहर्षश्च भविष्यसि तस्य जन्मनि बहव आनन्दिष्यन्ति च।
15 यतो हेतोः स परमेश्वरस्य गोचरे महान् भविष्यति तथा द्राक्षारसं सुरां वा किमपि न पास्यति, अपरं जन्मारभ्य पवित्रेणात्मना परिपूर्णः
16 सन् इस्रायेल्वंशीयान् अनेकान् प्रभोः परमेश्वरस्य मार्गमानेष्यति।
17 सन्तानान् प्रति पितृणां मनांसि धर्म्मज्ञानं प्रत्यनाज्ञाग्राहिणश्च परावर्त्तयितुं, प्रभोः परमेश्वरस्य सेवार्थम् एकां सज्जितजातिं विधातुञ्च स एलियरूपात्मशक्तिप्राप्तस्तस्याग्रे गमिष्यति।
18 तदा सिखरियो दूतमवादीत् कथमेतद् वेत्स्यामि? यतोहं वृद्धो मम भार्य्या च वृद्धा।
19 ततो दूतः प्रत्युवाच पश्येश्वरस्य साक्षाद्वर्त्ती जिब्रायेल्नामा दूतोहं त्वया सह कथां गदितुं तुभ्यमिमां शुभवार्त्तां दातुञ्च प्रेषितः।
20 किन्तु मदीयं वाक्यं काले फलिष्यति तत् त्वया न प्रतीतम् अतः कारणाद् यावदेव तानि न सेत्स्यन्ति तावत् त्वं वक्तुंमशक्तो मूको भव।
21 तदानीं ये ये लोकाः सिखरियमपैक्षन्त ते मध्येमन्दिरं तस्य बहुविलम्बाद् आश्चर्य्यं मेनिरे।
22 स बहिरागतो यदा किमपि वाक्यं वक्तुमशक्तः सङ्केतं कृत्वा निःशब्दस्तस्यौ तदा मध्येमन्दिरं कस्यचिद् दर्शनं तेन प्राप्तम् इति सर्व्वे बुबुधिरे।
23 अनन्तरं तस्य सेवनपर्य्याये सम्पूर्णे सति स निजगेहं जगाम।
24 कतिपयदिनेषु गतेषु तस्य भार्य्या इलीशेवा गर्ब्भवती बभूव
25 पश्चात् सा पञ्चमासान् संगोप्याकथयत् लोकानां समक्षं ममापमानं खण्डयितुं परमेश्वरो मयि दृष्टिं पातयित्वा कर्म्मेदृशं कृतवान्।
26 अपरञ्च तस्या गर्ब्भस्य षष्ठे मासे जाते गालील्प्रदेशीयनासरत्पुरे
27 दायूदो वंशीयाय यूषफ्नाम्ने पुरुषाय या मरियम्नामकुमारी वाग्दत्तासीत् तस्याः समीपं जिब्रायेल् दूत ईश्वरेण प्रहितः।
28 स गत्वा जगाद हे ईश्वरानुगृहीतकन्ये तव शुभं भूयात् प्रभुः परमेश्वरस्तव सहायोस्ति नारीणां मध्ये त्वमेव धन्या।
29 तदानीं सा तं दृष्ट्वा तस्य वाक्यत उद्विज्य कीदृशं भाषणमिदम् इति मनसा चिन्तयामास।
30 ततो दूतोऽवदत् हे मरियम् भयं माकार्षीः, त्वयि परमेश्वरस्यानुग्रहोस्ति।
31 पश्य त्वं गर्ब्भं धृत्वा पुत्रं प्रसोष्यसे तस्य नाम यीशुरिति करिष्यसि।
32 स महान् भविष्यति तथा सर्व्वेभ्यः श्रेष्ठस्य पुत्र इति ख्यास्यति; अपरं प्रभुः परमेश्वरस्तस्य पितुर्दायूदः सिंहासनं तस्मै दास्यति;
33 तथा स याकूबो वंशोपरि सर्व्वदा राजत्वं करिष्यति, तस्य राजत्वस्यान्तो न भविष्यति।
34 तदा मरियम् तं दूतं बभाषे नाहं पुरुषसङ्गं करोमि तर्हि कथमेतत् सम्भविष्यति?
35 ततो दूतोऽकथयत् पवित्र आत्मा त्वामाश्रायिष्यति तथा सर्व्वश्रेष्ठस्य शक्तिस्तवोपरि छायां करिष्यति ततो हेतोस्तव गर्ब्भाद् यः पवित्रबालको जनिष्यते स ईश्वरपुत्र इति ख्यातिं प्राप्स्यति।
36 अपरञ्च पश्य तव ज्ञातिरिलीशेवा यां सर्व्वे बन्ध्यामवदन् इदानीं सा वार्द्धक्ये सन्तानमेकं गर्ब्भेऽधारयत् तस्य षष्ठमासोभूत्।
37 किमपि कर्म्म नासाध्यम् ईश्वरस्य।
38 तदा मरियम् जगाद, पश्य प्रभेरहं दासी मह्यं तव वाक्यानुसारेण सर्व्वमेतद् घटताम्; अननतरं दूतस्तस्याः समीपात् प्रतस्थे।
39 अथ कतिपयदिनात् परं मरियम् तस्मात् पर्व्वतमयप्रदेशीययिहूदाया नगरमेकं शीघ्रं गत्वा
40 सिखरिययाजकस्य गृहं प्रविश्य तस्य जायाम् इलीशेवां सम्बोध्यावदत्।
41 ततो मरियमः सम्बोधनवाक्ये इलीशेवायाः कर्णयोः प्रविष्टमात्रे सति तस्या गर्ब्भस्थबालको ननर्त्त। तत इलीशेवा पवित्रेणात्मना परिपूर्णा सती
42 प्रोच्चैर्गदितुमारेभे, योषितां मध्ये त्वमेव धन्या, तव गर्ब्भस्थः शिशुश्च धन्यः।
43 त्वं प्रभोर्माता, मम निवेशने त्वया चरणावर्पितौ, ममाद्य सौभाग्यमेतत्।
44 पश्य तव वाक्ये मम कर्णयोः प्रविष्टमात्रे सति ममोदरस्थः शिशुरानन्दान् ननर्त्त।
45 या स्त्री व्यश्वसीत् सा धन्या, यतो हेतोस्तां प्रति परमेश्वरोक्तं वाक्यं सर्व्वं सिद्धं भविष्यति।
46 तदानीं मरियम् जगाद। धन्यवादं परेशस्य करोति मामकं मनः।
47 ममात्मा तारकेशे च समुल्लासं प्रगच्छति।
48 अकरोत् स प्रभु र्दुष्टिं स्वदास्या दुर्गतिं प्रति। पश्याद्यारभ्य मां धन्यां वक्ष्यन्ति पुरुषाः सदा।
49 यः सर्व्वशक्तिमान् यस्य नामापि च पवित्रकं। स एव सुमहत्कर्म्म कृतवान् मन्निमित्तकं।
50 ये बिभ्यति जनास्तस्मात् तेषां सन्तानपंक्तिषु। अनुकम्पा तदीया च सर्व्वदैव सुतिष्ठति।
51 स्वबाहुबलतस्तेन प्राकाश्यत पराक्रमः। मनःकुमन्त्रणासार्द्धं विकीर्य्यन्तेऽभिमानिनः।
52 सिंहासनगताल्लोकान् बलिनश्चावरोह्य सः। पदेषूच्चेषु लोकांस्तु क्षुद्रान् संस्थापयत्यपि।
53 क्षुधितान् मानवान् द्रव्यैरुत्तमैः परितर्प्य सः। सकलान् धनिनो लोकान् विसृजेद् रिक्तहस्तकान्।
54 इब्राहीमि च तद्वंशे या दयास्ति सदैव तां। स्मृत्वा पुरा पितृणां नो यथा साक्षात् प्रतिश्रुतं।
55 इस्रायेल्सेवकस्तेन तथोपक्रियते स्वयं॥
56 अनन्तरं मरियम् प्रायेण मासत्रयम् इलीशेवया सहोषित्वा व्याघुय्य निजनिवेशनं ययौ।
57 तदनन्तरम् इलीशेवायाः प्रसवकाल उपस्थिते सति सा पुत्रं प्रासोष्ट।
58 ततः परमेश्वरस्तस्यां महानुग्रहं कृतवान् एतत् श्रुत्वा समीपवासिनः कुटुम्बाश्चागत्य तया सह मुमुदिरे।
59 तथाष्टमे दिने ते बालकस्य त्वचं छेत्तुम् एत्य तस्य पितृनामानुरूपं तन्नाम सिखरिय इति कर्त्तुमीषुः।
60 किन्तु तस्य माताकथयत् तन्न, नामास्य योहन् इति कर्त्तव्यम्।
61 तदा ते व्याहरन् तव वंशमध्ये नामेदृशं कस्यापि नास्ति।
62 ततः परं तस्य पितरं सिखरियं प्रति सङ्केत्य पप्रच्छुः शिशोः किं नाम कारिष्यते?
63 ततः स फलकमेकं याचित्वा लिलेख तस्य नाम योहन् भविष्यति। तस्मात् सर्व्वे आश्चर्य्यं मेनिरे।
64 तत्क्षणं सिखरियस्य जिह्वाजाड्येऽपगते स मुखं व्यादाय स्पष्टवर्णमुच्चार्य्य ईश्वरस्य गुणानुवादं चकार।
65 तस्माच्चतुर्दिक्स्थाः समीपवासिलोका भीता एवमेताः सर्व्वाः कथा यिहूदायाः पर्व्वतमयप्रदेशस्य सर्व्वत्र प्रचारिताः।
66 तस्मात् श्रोतारो मनःसु स्थापयित्वा कथयाम्बभूवुः कीदृशोयं बालो भविष्यति? अथ परमेश्वरस्तस्य सहायोभूत्।
67 तदा योहनः पिता सिखरियः पवित्रेणात्मना परिपूर्णः सन् एतादृशं भविष्यद्वाक्यं कथयामास।
68 इस्रायेलः प्रभु र्यस्तु स धन्यः परमेश्वरः। अनुगृह्य निजाल्लोकान् स एव परिमोचयेत्।
69 विपक्षजनहस्तेभ्यो यथा मोच्यामहे वयं। यावज्जीवञ्च धर्म्मेण सारल्येन च निर्भयाः।
70 सेवामहै तमेवैकम् एतत्कारणमेव च। स्वकीयं सुपवित्रञ्च संस्मृत्य नियमं सदा।
71 कृपया पुरुषान् पूर्व्वान् निकषार्थात्तु नः पितुः। इब्राहीमः समीपे यं शपथं कृतवान् पुरा।
72 तमेव सफलं कर्त्तं तथा शत्रुगणस्य च। ऋृतीयाकारिणश्चैव करेभ्यो रक्षणाय नः।
73 सृष्टेः प्रथमतः स्वीयैः पवित्रै र्भाविवादिभिः।
74 यथोक्तवान् तथा स्वस्य दायूदः सेवकस्य तु।
75 वंशे त्रातारमेकं स समुत्पादितवान् स्वयम्।
76 अतो हे बालक त्वन्तु सर्व्वेभ्यः श्रेष्ठ एव यः। तस्यैव भाविवादीति प्रविख्यातो भविष्यसि। अस्माकं चरणान् क्षेमे मार्गे चालयितुं सदा। एवं ध्वान्तेऽर्थतो मृत्योश्छायायां ये तु मानवाः।
77 उपविष्टास्तु तानेव प्रकाशयितुमेव हि। कृत्वा महानुकम्पां हि यामेव परमेश्वरः।
78 ऊर्द्व्वात् सूर्य्यमुदाय्यैवास्मभ्यं प्रादात्तु दर्शनं। तयानुकम्पया स्वस्य लोकानां पापमोचने।
79 परित्राणस्य तेभ्यो हि ज्ञानविश्राणनाय च। प्रभो र्मार्गं परिष्कर्त्तुं तस्याग्रायी भविष्यसि॥
80 अथ बालकः शरीरेण बुद्ध्या च वर्द्धितुमारेभे; अपरञ्च स इस्रायेलो वंशीयलोकानां समीपे यावन्न प्रकटीभूतस्तास्तावत् प्रान्तरे न्यवसत्।

लूकलिखितः सुसंवादः 02

1 अपरञ्च तस्मिन् काले राज्यस्य सर्व्वेषां लोकानां नामानि लेखयितुम् अगस्तकैसर आज्ञापयामास।
2 तदनुसारेण कुरीणियनामनि सुरियादेशस्य शासके सति नामलेखनं प्रारेभे।
3 अतो हेतो र्नाम लेखितुं सर्व्वे जनाः स्वीयं स्वीयं नगरं जग्मुः।
4 तदानीं यूषफ् नाम लेखितुं वाग्दत्तया स्वभार्य्यया गर्ब्भवत्या मरियमा सह स्वयं दायूदः सजातिवंश इति कारणाद् गालील्प्रदेशस्य नासरत्नगराद्
5 यिहूदाप्रदेशस्य बैत्लेहमाख्यं दायूद्नगरं जगाम।
6 अन्यच्च तत्र स्थाने तयोस्तिष्ठतोः सतो र्मरियमः प्रसूतिकाल उपस्थिते
7 सा तं प्रथमसुतं प्रासोष्ट किन्तु तस्मिन् वासगृहे स्थानाभावाद् बालकं वस्त्रेण वेष्टयित्वा गोशालायां स्थापयामास।
8 अनन्तरं ये कियन्तो मेषपालकाः स्वमेषव्रजरक्षायै तत्प्रदेशे स्थित्वा रजन्यां प्रान्तरे प्रहरिणः कर्म्म कुर्व्वन्ति,
9 तेषां समीपं परमेश्वरस्य दूत आगत्योपतस्थौ; तदा चतुष्पार्श्वे परमेश्वरस्य तेजसः प्रकाशितत्वात् तेऽतिशशङ्किरे।
10 तदा स दूत उवाच मा भैष्ट पश्यताद्य दायूदः पुरे युष्मन्निमित्तं त्राता प्रभुः ख्रीष्टोऽजनिष्ट,
11 सर्व्वेषां लोकानां महानन्दजनकम् इमं मङ्गलवृत्तान्तं युष्मान् ज्ञापयामि।
12 यूयं (तत्स्थानं गत्वा) वस्त्रवेष्टितं तं बालकं गोशालायां शयनं द्रक्ष्यथ युष्मान् प्रतीदं चिह्नं भविष्यति।
13 दूत इमां कथां कथितवति तत्राकस्मात् स्वर्गीयाः पृतना आगत्य कथाम् इमां कथयित्वेश्वरस्य गुणानन्ववादिषुः, यथा,
14 सर्व्वोर्द्व्वस्थैरीश्वरस्य महिमा सम्प्रकाश्यतां। शान्तिर्भूयात् पृथिव्यास्तु सन्तोषश्च नरान् प्रति॥
15 ततः परं तेषां सन्निधे र्दूतगणे स्वर्गं गते मेषपालकाः परस्परम् अवेचन् आगच्छत प्रभुः परमेश्वरो यां घटनां ज्ञापितवान् तस्या याथर्यं ज्ञातुं वयमधुना बैत्लेहम्पुरं यामः।
16 पश्चात् ते तूर्णं व्रजित्वा मरियमं यूषफं गोशालायां शयनं बालकञ्च ददृशुः।
17 इत्थं दृष्ट्वा बालकस्यार्थे प्रोक्तां सर्व्वकथां ते प्राचारयाञ्चक्रुः।
18 ततो ये लोका मेषरक्षकाणां वदनेभ्यस्तां वार्त्तां शुश्रुवुस्ते महाश्चर्य्यं मेनिरे।
19 किन्तु मरियम् एतत्सर्व्वघटनानां तात्पर्य्यं विविच्य मनसि स्थापयामास।
20 तत्पश्चाद् दूतविज्ञप्तानुरूपं श्रुत्वा दृष्ट्वा च मेषपालका ईश्वरस्य गुणानुवादं धन्यवादञ्च कुर्व्वाणाः परावृत्य ययुः।
21 अथ बालकस्य त्वक्छेदनकालेऽष्टमदिवसे समुपस्थिते तस्य गर्ब्भस्थितेः पुर्व्वं स्वर्गीयदूतो यथाज्ञापयत् तदनुरूपं ते तन्नामधेयं यीशुरिति चक्रिरे।
22 ततः परं मूसालिखितव्यवस्थाया अनुसारेण मरियमः शुचित्वकाल उपस्थिते,
23 "प्रथमजः सर्व्वः पुरुषसन्तानः परमेश्वरे समर्प्यतां," इति परमेश्वरस्य व्यवस्थया
24 यीशुं परमेश्वरे समर्पयितुम् शास्त्रीयविध्युक्तं कपोतद्वयं पारावतशावकद्वयं वा बलिं दातुं ते तं गृहीत्वा यिरूशालमम् आययुः।
25 यिरूशालम्पुरनिवासी शिमियोन्नामा धार्म्मिक एक आसीत् स इस्रायेलः सान्त्वनामपेक्ष्य तस्थौ किञ्च पवित्र आत्मा तस्मिन्नाविर्भूतः।
26 अपरं प्रभुणा परमेश्वरेणाभिषिक्ते त्रातरि त्वया न दृष्टे त्वं न मरिष्यसीति वाक्यं पवित्रेण आत्मना तस्म प्राकथ्यत।
27 अपरञ्च यदा यीशोः पिता माता च तदर्थं व्यवस्थानुरूपं कर्म्म कर्त्तुं तं मन्दिरम् आनिन्यतुस्तदा
28 शिमियोन् आत्मन आकर्षणेन मन्दिरमागत्य तं क्रोडे निधाय ईश्वरस्य धन्यवादं कृत्वा कथयामास, यथा,
29 हे प्रभो तव दासोयं निजवाक्यानुसारतः। इदानीन्तु सकल्याणो भवता संविसृज्यताम्।
30 यतः सकलदेशस्य दीप्तये दीप्तिरूपकं।
31 इस्रायेलीयलोकस्य महागौरवरूपकं।
32 यं त्रायकं जनानान्तु सम्मुखे त्वमजीजनः। सएव विद्यतेऽस्माकं ध्रवं नयननगोचरे॥
33 तदानीं तेनोक्ता एताः सकलाः कथाः श्रुत्वा तस्य माता यूषफ् च विस्मयं मेनाते।
34 ततः परं शिमियोन् तेभ्य आशिषं दत्त्वा तन्मातरं मरियमम् उवाच, पश्य इस्रायेलो वंशमध्ये बहूनां पातनायोत्थापनाय च तथा विरोधपात्रं भवितुं, बहूनां गुप्तमनोगतानां प्रकटीकरणाय बालकोयं नियुक्तोस्ति।
35 तस्मात् तवापि प्राणाः शूलेन व्यत्स्यन्ते।
36 अपरञ्च आशेरस्य वंशीयफिनूयेलो दुहिता हन्नाख्या अतिजरती भविष्यद्वादिन्येका या विवाहात् परं सप्त वत्सरान् पत्या सह न्यवसत् ततो विधवा भूत्वा चतुरशीतिवर्षवयःपर्य्यनतं
37 मन्दिरे स्थित्वा प्रार्थनोपवासैर्दिवानिशम् ईश्वरम् असेवत सापि स्त्री तस्मिन् समये मन्दिरमागत्य
38 परमेश्वरस्य धन्यवादं चकार, यिरूशालम्पुरवासिनो यावन्तो लोका मुक्तिमपेक्ष्य स्थितास्तान् यीशोर्वृत्तान्तं ज्ञापयामास।
39 इत्थं परमेश्वरस्य व्यवस्थानुसारेण सर्व्वेषु कर्म्मसु कृतेषु तौ पुनश्च गालीलो नासरत्नामकं निजनगरं प्रतस्थाते।
40 तत्पश्चाद् बालकः शरीरेण वृद्धिमेत्य ज्ञानेन परिपूर्ण आत्मना शक्तिमांश्च भवितुमारेभे तथा तस्मिन् ईश्वरानुग्रहो बभूव।
41 तस्य पिता माता च प्रतिवर्षं निस्तारोत्सवसमये यिरूशालमम् अगच्छताम्।
42 अपरञ्च यीशौ द्वादशवर्षवयस्के सति तौ पर्व्वसमयस्य रीत्यनुसारेण यिरूशालमं गत्वा
43 पार्व्वणं सम्पाद्य पुनरपि व्याघुय्य यातः किन्तु यीशुर्बालको यिरूशालमि तिष्ठति। यूषफ् तन्माता च तद् अविदित्वा
44 स सङ्गिभिः सह विद्यत एतच्च बुद्व्वा दिनैकगम्यमार्गं जग्मतुः। किन्तु शेषे ज्ञातिबन्धूनां समीपे मृगयित्वा तदुद्देेशमप्राप्य
45 तौ पुनरपि यिरूशालमम् परावृत्यागत्य तं मृगयाञ्चक्रतुः।
46 अथ दिनत्रयात् परं पण्डितानां मध्ये तेषां कथाः शृण्वन् तत्त्वं पृच्छंश्च मन्दिरे समुपविष्टः स ताभ्यां दृष्टः।
47 तदा तस्य बुद्ध्या प्रत्युत्तरैश्च सर्व्वे श्रोतारो विस्मयमापद्यन्ते।
48 तादृशं दृष्ट्वा तस्य जनको जननी च चमच्चक्रतुः किञ्च तस्य माता तमवदत्, हे पुत्र, कथमावां प्रतीत्थं समाचरस्त्वम्? पश्य तव पिताहञ्च शोकाकुलौ सन्तौ त्वामन्विच्छावः स्म।
49 ततः सोवदत् कुतो माम् अन्वैच्छतं? पितुर्गृहे मया स्थातव्यम् एतत् किं युवाभ्यां न ज्ञायते?
50 किन्तु तौ तस्यैतद्वाक्यस्य तात्पर्य्यं बोद्धुं नाशक्नुतां।
51 ततः परं स ताभ्यां सह नासरतं गत्वा तयोर्वशीभूतस्तस्थौ किन्तु सर्व्वा एताः कथास्तस्य माता मनसि स्थापयामास।
52 अथ यीशो र्बुद्धिः शरीरञ्च तथा तस्मिन् ईश्वरस्य मानवानाञ्चानुग्रहो वर्द्धितुम् आरेभे।

लूकलिखितः सुसंवादः 03

1 अनन्तरं तिबिरियकैसरस्य राजत्वस्य पञ्चदशे वत्सरे सति यदा पन्तीयपीलातो यिहूदादेशाधिपति र्हेरोद् तु गालील्प्रदेशस्य राजा फिलिपनामा तस्य भ्राता तु यितूरियायास्त्राखोनीतियाप्रदेशस्य च राजासीत् लुषानीयनामा अविलीनीदेशस्य राजासीत्
2 हानन् कियफाश्चेमौ प्रधानयाजाकावास्तां तदानीं सिखरियस्य पुत्राय योहने मध्येप्रान्तरम् ईश्वरस्य वाक्ये प्रकाशिते सति
3 स यर्द्दन उभयतटप्रदेशान् समेत्य पापमोचनार्थं मनःपरावर्त्तनस्य चिह्नरूपं यन्मज्जनं तदीयाः कथाः सर्व्वत्र प्रचारयितुमारेभे।
4 यिशयियभविष्यद्वक्तृग्रन्थे यादृशी लिपिरास्ते यथा, परमेशस्य पन्थानं परिष्कुरुत सर्व्वतः। तस्य राजपथञ्चैव समानं कुरुताधुना।
5 कारिष्यन्ते समुच्छ्रायाः सकला निम्नभूमयः। कारिष्यन्ते नताः सर्व्वे पर्व्वताश्चोपपर्व्वताः। कारिष्यन्ते च या वक्रास्ताः सर्व्वाः सरला भुवः। कारिष्यन्ते समानास्ता या उच्चनीचभूमयः।
6 ईश्वरेण कृतं त्राणं द्रक्ष्यन्ति सर्व्वमानवाः। इत्येतत् प्रान्तरे वाक्यं वदतः कस्यचिद् रवः॥
7 ये ये लोका मज्जनार्थं बहिराययुस्तान् सोवदत् रे रे सर्पवंशा आगामिनः कोपात् पलायितुं युष्मान् कश्चेतयामास?
8 तस्माद् इब्राहीम् अस्माकं पिता कथामीदृशीं मनोभि र्न कथयित्वा यूयं मनःपरिवर्त्तनयोग्यं फलं फलत; युष्मानहं यथार्थं वदामि पाषाणेभ्य एतेभ्य ईश्वर इब्राहीमः सन्तानोत्पादने समर्थः।
9 अपरञ्च तरुमूलेऽधुनापि परशुः संलग्नोस्ति यस्तरुरुत्तमं फलं न फलति स छिद्यतेऽग्नौ निक्षिप्यते च।
10 तदानीं लोकास्तं पप्रच्छुस्तर्हि किं कर्त्तव्यमस्माभिः?
11 ततः सोवादीत् यस्य द्वे वसने विद्येते स वस्त्रहीनायैकं वितरतु किंञ्च यस्य खाद्यद्रव्यं विद्यते सोपि तथैव करोतु।
12 ततः परं करसञ्चायिनो मज्जनार्थम् आगत्य पप्रच्छुः हे गुरो किं कर्त्तव्यमस्माभिः?
13 ततः सोकथयत् निरूपितादधिकं न गृह्लित।
14 अनन्तरं सेनागण एत्य पप्रच्छ किमस्माभि र्वा कर्त्तव्यम्? ततः सोभिदधे कस्य कामपि हानिं मा कार्ष्ट तथा मृषापवादं मा कुरुत निजवेतनेन च सन्तुष्य तिष्ठत।
15 अपरञ्च लोका अपेक्षया स्थित्वा सर्व्वेपीति मनोभि र्वितर्कयाञ्चक्रुः, योहनयम् अभिषिक्तस्त्राता न वेति?
16 तदा योहन् सर्व्वान् व्याजहार, जलेऽहं युष्मान् मज्जयामि सत्यं किन्तु यस्य पादुकाबन्धनं मोचयितुमपि न योग्योस्मि तादृश एको मत्तो गुरुतरः पुमान् एति, स युष्मान् वह्निरूपे पवित्र आत्मनि मज्जयिष्यति।
17 अपरञ्च तस्य हस्ते शूर्प आस्ते स स्वशस्यानि शुद्धरूपं प्रस्फोट्य गोधूमान् सर्व्वान् भाण्डागारे संग्रहीष्यति किन्तु बूषाणि सर्व्वाण्यनिर्व्वाणवह्निना दाहयिष्यति।
18 योहन् उपदेशेनेत्थं नानाकथा लोकानां समक्षं प्रचारयामास।
19 अपरञ्च हेरोद् राजा फिलिप्नाम्नः सहोदरस्य भार्य्यां हेरोदियामधि तथान्यानि यानि यानि कुकर्म्माणि कृतवान् तदधि च
20 योहना तिरस्कृतो भूत्वा कारागारे तस्य बन्धनाद् अपरमपि कुकर्म्म चकार।
21 इतः पूर्व्वं यस्मिन् समये सर्व्वे योहना मज्जितास्तदानीं यीशुरप्यागत्य मज्जितः।
22 तदनन्तरं तेन प्रार्थिते मेघद्वारं मुक्तं तस्माच्च पवित्र आत्मा मूर्त्तिमान् भूत्वा कपोतवत् तदुपर्य्यवरुरोह; तदा त्वं मम प्रियः पुत्रस्त्वयि मम परमः सन्तोष इत्याकाशवाणी बभूव।
23 तदानीं यीशुः प्रायेण त्रिंशद्वर्षवयस्क आसीत्। लौकिकज्ञाने तु स यूषफः पुत्रः,
24 यूषफ् एलेः पुत्रः, एलिर्मत्ततः पुत्रः, मत्तत् लेवेः पुत्रः, लेवि र्मल्केः पुत्रः, मल्किर्यान्नस्य पुत्रः; यान्नो यूषफः पुत्रः।
25 यूषफ् मत्तथियस्य पुत्रः, मत्तथिय आमोसः पुत्रः, आमोस् नहूमः पुत्रः, नहूम् इष्लेः पुत्रः इष्लिर्नगेः पुत्रः।
26 नगिर्माटः पुत्रः, माट् मत्तथियस्य पुत्रः, मत्तथियः शिमियेः पुत्रः, शिमियिर्यूषफः पुत्रः, यूषफ् यिहूदाः पुत्रः।
27 यिहूदा योहानाः पुत्रः, योहाना रीषाः पुत्रः, रीषाः सिरुब्बाबिलः पुत्रः, सिरुब्बाबिल् शल्तीयेलः पुत्रः, शल्तीयेल् नेरेः पुत्रः।
28 नेरिर्मल्केः पुत्रः, मल्किः अद्यः पुत्रः, अद्दी कोषमः पुत्रः, कोषम् इल्मोददः पुत्रः, इल्मोदद् एरः पुत्रः।
29 एर् योशेः पुत्रः, योशिः इलीयेषरः पुत्रः, इलीयेषर् योरीमः पुत्रः, योरीम् मत्ततः पुत्रः, मत्तत लेवेः पुत्रः।
30 लेविः शिमियोनः पुत्रः, शिमियोन् यिहूदाः पुत्रः, यिहूदा यूषुफः पुत्रः, यूषुफ् योननः पुत्रः, यानन् इलीयाकीमः पुत्रः।
31 इलियाकीम्ः मिलेयाः पुत्रः, मिलेया मैननः पुत्रः, मैनन् मत्तत्तस्य पुत्रः, मत्तत्तो नाथनः पुत्रः, नाथन् दायूदः पुत्रः।
32 दायूद् यिशयः पुत्रः, यिशय ओबेदः पुत्र, ओबेद् बोयसः पुत्रः, बोयस् सल्मोनः पुत्रः, सल्मोन् नहशोनः पुत्रः।
33 नहशोन् अम्मीनादबः पुत्रः, अम्मीनादब् अरामः पुत्रः, अराम् हिष्रोणः पुत्रः, हिष्रोण् पेरसः पुत्रः, पेरस् यिहूदाः पुत्रः।
34 यिहूदा याकूबः पुत्रः, याकूब् इस्हाकः पुत्रः, इस्हाक् इब्राहीमः पुत्रः, इब्राहीम् तेरहः पुत्रः, तेरह् नाहोरः पुत्रः।
35 नाहोर् सिरुगः पुत्रः, सिरुग् रिय्वः पुत्रः, रियूः पेलगः पुत्रः, पेलग् एवरः पुत्रः, एवर् शेलहः पुत्रः।
36 शेलह् कैननः पुत्रः, कैनन् अर्फक्षदः पुत्रः, अर्फक्षद् शामः पुत्रः, शाम् नोहः पुत्रः, नोहो लेमकः पुत्रः।
37 लेमक् मिथूशेलहः पुत्रः, मिथूशेलह् हनोकः पुत्रः, हनोक् येरदः पुत्रः, येरद् महललेलः पुत्रः, महललेल् कैननः पुत्रः।
38 कैनन् इनोशः पुत्रः, इनोश् शेतः पुत्रः, शेत् आदमः पुत्र, आदम् ईश्वरस्य पुत्रः।

लूकलिखितः सुसंवादः 04

1 ततः परं यीशुः पवित्रेणात्मना पूर्णः सन् यर्द्दननद्याः परावृत्यात्मना प्रान्तरं नीतः सन् चत्वारिंशद्दिनानि यावत् शैताना परीक्षितोऽभूत्,
2 किञ्च तानि सर्व्वदिनानि भोजनं विना स्थितत्वात् काले पूर्णे स क्षुधितवान्।
3 ततः शैतानागत्य तमवदत् त्वं चेदीश्वरस्य पुत्रस्तर्हि प्रस्तरानेतान् आज्ञया पूपान् कुरु।
4 तदा यीशुरुवाच, लिपिरीदृशी विद्यते मनुजः केवलेन पूपेन न जीवति किन्त्वीश्वरस्य सर्व्वाभिराज्ञाभि र्जीवति।
5 तदा शैतान् तमुच्चं पर्व्वतं नीत्वा निमिषैकमध्ये जगतः सर्व्वराज्यानि दर्शितवान्।
6 पश्चात् तमवादीत् सर्व्वम् एतद् विभवं प्रतापञ्च तुभ्यं दास्यामि तन् मयि समर्पितमास्ते यं प्रति ममेच्छा जायते तस्मै दातुं शक्नोमि,
7 त्वं चेन्मां भजसे तर्हि सर्व्वमेतत् तवैव भविष्यति।
8 तदा यीशुस्तं प्रत्युक्तवान् दूरी भव शैतान् लिपिरास्ते, निजं प्रभुं परमेश्वरं भजस्व केवलं तमेव सेवस्व च।
9 अथ शैतान् तं यिरूशालमं नीत्वा मन्दिरस्य चूडाया उपरि समुपवेश्य जगाद त्वं चेदीश्वरस्य पुत्रस्तर्हि स्थानादितो लम्फित्वाधः
10 पत यतो लिपिरास्ते, आज्ञापयिष्यति स्वीयान् दूतान् स परमेश्वरः।
11 रक्षितुं सर्व्वमार्गे त्वां तेन त्वच्चरणे यथा। न लगेत् प्रस्तराघातस्त्वां धरिष्यन्ति ते तथा।
12 तदा यीशुना प्रत्युक्तम् इदमप्युक्तमस्ति त्वं स्वप्रभुं परेशं मा परीक्षस्व।
13 पश्चात् शैतान् सर्व्वपरीक्षां समाप्य क्षणात्तं त्यक्त्वा ययौ।
14 तदा यीशुरात्मप्रभावात् पुनर्गालील्प्रदेशं गतस्तदा तत्सुख्यातिश्चतुर्दिशं व्यानशे।
15 स तेषां भजनगृहेषु उपदिश्य सर्व्वैः प्रशंसितो बभूव।
16 अथ स स्वपालनस्थानं नासरत्पुरमेत्य विश्रामवारे स्वाचाराद् भजनगेहं प्रविश्य पठितुमुत्तस्थौ।
17 ततो यिशयियभविष्यद्वादिनः पुस्तके तस्य करदत्ते सति स तत् पुस्तकं विस्तार्य्य यत्र वक्ष्यमाणानि वचनानि सन्ति तत् स्थानं प्राप्य पपाठ।
18 आत्मा तु परमेशस्य मदीयोपरि विद्यते। दरिद्रेषु सुसंवादं वक्तुं मां सोभिषिक्तवान्। भग्नान्तः करणाल्लोकान् सुस्वस्थान् कर्त्तुमेव च। बन्दीकृतेषु लोकेषु मुक्ते र्घोषयितुं वचः। नेत्राणि दातुमन्धेभ्यस्त्रातुं बद्धजनानपि।
19 परेशानुग्रहे कालं प्रचारयितुमेव च। सर्व्वैतत्करणार्थाय मामेव प्रहिणोति सः॥
20 ततः पुस्तकं बद्व्वा परिचारकस्य हस्ते समर्प्य चासने समुपविष्टः, ततो भजनगृहे यावन्तो लोका आसन् ते सर्व्वेऽनन्यदृष्ट्या तं विलुलोकिरे।
21 अनन्तरम् अद्यैतानि सर्व्वाणि लिखितवचनानि युष्माकं मध्ये सिद्धानि स इमां कथां तेभ्यः कथयितुमारेभे।
22 ततः सर्व्वे तस्मिन् अन्वरज्यन्त, किञ्च तस्य मुखान्निर्गताभिरनुग्रहस्य कथाभिश्चमत्कृत्य कथयामासुः किमयं यूषफः पुत्रो न?
23 तदा सोऽवादीद् हे चिकित्सक स्वमेव स्वस्थं कुरु कफर्नाहूमि यद्यत् कृतवान् तदश्रौष्म ताः सर्वाः क्रिया अत्र स्वदेशे कुरु कथामेतां यूयमेवावश्यं मां वदिष्यथ।
24 पुनः सोवादीद् युष्मानहं यथार्थं वदामि, कोपि भविष्यद्वादी स्वदेशे सत्कारं न प्राप्नोति।
25 अपरञ्च यथार्थं वच्मि, एलियस्य जीवनकाले यदा सार्द्धत्रितयवर्षाणि यावत् जलदप्रतिबन्धात् सर्व्वस्मिन् देशे महादुर्भिक्षम् अजनिष्ट तदानीम् इस्रायेलो देशस्य मध्ये बह्व्यो विधवा आसन्,
26 किन्तु सीदोन्प्रदेशीयसारिफत्पुरनिवासिनीम् एकां विधवां विना कस्याश्चिदपि समीपे एलियः प्रेरितो नाभूत्।
27 अपरञ्च इलीशायभविष्यद्वादिविद्यमानताकाले इस्रायेल्देशे बहवः कुष्ठिन आसन् किन्तु सुरीयदेशीयं नामान्कुष्ठिनं विना कोप्यन्यः परिष्कृतो नाभूत्।
28 इमां कथां श्रुत्वा भजनगेहस्थिता लोकाः सक्रोधम् उत्थाय
29 नगरात्तं बहिष्कृत्य यस्य शिखरिण उपरि तेषां नगरं स्थापितमास्ते तस्मान्निक्षेप्तुं तस्य शिखरं तं निन्युः
30 किन्तु स तेषां मध्यादपसृत्य स्थानान्तरं जगाम।
31 ततः परं यीशुर्गालील्प्रदेशीयकफर्नाहूम्नगर उपस्थाय विश्रामवारे लोकानुपदेष्टुम् आरब्धवान्।
32 तदुपदेशात् सर्व्वे चमच्चक्रु र्यतस्तस्य कथा गुरुतरा आसन्।
33 तदानीं तद्भजनगेहस्थितोऽमेध्यभूतग्रस्त एको जन उच्चैः कथयामास,
34 हे नासरतीययीशोऽस्मान् त्यज, त्वया सहास्माकं कः सम्बन्धः? किमस्मान् विनाशयितुमायासि? त्वमीश्वरस्य पवित्रो जन एतदहं जानामि।
35 तदा यीशुस्तं तर्जयित्वावदत् मौनी भव इतो बहिर्भव; ततः सोमेध्यभूतस्तं मध्यस्थाने पातयित्वा किञ्चिदप्यहिंसित्वा तस्माद् बहिर्गतवान्।
36 ततः सर्व्वे लोकाश्चमत्कृत्य परस्परं वक्तुमारेभिरे कोयं चमत्कारः। एष प्रभावेण पराक्रमेण चामेध्यभूतान् आज्ञापयति तेनैव ते बहिर्गच्छन्ति।
37 अनन्तरं चतुर्दिक्स्थदेशान् तस्य सुख्यातिर्व्याप्नोत्।
38 तदनन्तरं स भजनगेहाद् बहिरागत्य शिमोनो निवेशनं प्रविवेश तदा तस्य श्वश्रूर्ज्वरेणात्यन्तं पीडितासीत् शिष्यास्तदर्थं तस्मिन् विनयं चक्रुः।
39 ततः स तस्याः समीपे स्थित्वा ज्वरं तर्जयामास तेनैव तां ज्वरोऽत्याक्षीत् ततः सा तत्क्षणम् उत्थाय तान् सिषेवे।
40 अथ सूर्य्यास्तकाले स्वेषां ये ये जना नानारोगैः पीडिता आसन् लोकास्तान् यीशोः समीपम् आनिन्युः, तदा स एकैकस्य गात्रे करमर्पयित्वा तानरोगान् चकार।
41 ततो भूता बहुभ्यो निर्गत्य चीत्शब्दं कृत्वा च बभाषिरे त्वमीश्वरस्य पुत्रोऽभिषिक्तत्राता; किन्तु सोभिषिक्तत्रातेति ते विविदुरेतस्मात् कारणात् तान् तर्जयित्वा तद्वक्तुं निषिषेध।
42 अपरञ्च प्रभाते सति स विजनस्थानं प्रतस्थे पश्चात् जनास्तमन्विच्छन्तस्तन्निकटं गत्वा स्थानान्तरगमनार्थं तमन्वरुन्धन्।
43 किन्तु स तान् जगाद, ईश्वरीयराज्यस्य सुसंवादं प्रचारयितुम् अन्यानि पुराण्यपि मया यातव्यानि यतस्तदर्थमेव प्रेरितोहं।
44 अथ गालीलो भजनगेहेषु स उपदिदेश।

लूकलिखितः सुसंवादः 05

1 अनन्तरं यीशुरेकदा गिनेषरथ्दस्य तीर उत्तिष्ठति, तदा लोका ईश्वरीयकथां श्रोतुं तदुपरि प्रपतिताः।
2 तदानीं स ह्दस्य तीरसमीपे नौद्वयं ददर्श किञ्च मत्स्योपजीविनो नावं विहाय जालं प्रक्षालयन्ति।
3 ततस्तयोर्द्वयो र्मध्ये शिमोनो नावमारुह्य तीरात् किञ्चिद्दूरं यातुं तस्मिन् विनयं कृत्वा नौकायामुपविश्य लोकान् प्रोपदिष्टवान्।
4 पश्चात् तं प्रस्तावं समाप्य स शिमोनं व्याजहार, गभीरं जलं गत्वा मत्स्यान् धर्त्तुं जालं निक्षिप।
5 ततः शिमोन बभाषे, हे गुरो यद्यपि वयं कृत्स्नां यामिनीं परिश्रम्य मत्स्यैकमपि न प्राप्तास्तथापि भवतो निदेशतो जालं क्षिपामः।
6 अथ जाले क्षिप्ते बहुमत्स्यपतनाद् आनायः प्रच्छिन्नः।
7 तस्माद् उपकर्त्तुम् अन्यनौस्थान् सङ्गिन आयातुम् इङ्गितेन समाह्वयन् ततस्त आगत्य मत्स्यै र्नौद्वयं प्रपूरयामासु र्यै र्नौद्वयं प्रमग्नम्।
8 तदा शिमोन्पितरस्तद् विलोक्य यीशोश्चरणयोः पतित्वा, हे प्रभोहं पापी नरो मम निकटाद् भवान् यातु, इति कथितवान्।
9 यतो जाले पतितानां मत्स्यानां यूथात् शिमोन् तत्सङ्गिनश्च चमत्कृतवन्तः; शिमोनः सहकारिणौ सिवदेः पुत्रौ याकूब् योहन् चेमौ तादृशौ बभूवतुः।
10 तदा यीशुः शिमोनं जगाद मा भैषीरद्यारभ्य त्वं मनुष्यधरो भविष्यसि।
11 अनन्तरं सर्व्वासु नौसु तीरम् आनीतासु ते सर्व्वान् परित्यज्य तस्य पश्चाद्गामिनो बभूवुः।
12 ततः परं यीशौ कस्मिंश्चित् पुरे तिष्ठति जन एकः सर्व्वाङ्गकुष्ठस्तं विलोक्य तस्य समीपे न्युब्जः पतित्वा सविनयं वक्तुमारेभे, हे प्रभो यदि भवानिच्छति तर्हि मां परिष्कर्त्तुं शक्नोति।
13 तदानीं स पाणिं प्रसार्य्य तदङ्गं स्पृशन् बभाषे त्वं परिष्क्रियस्वेति ममेच्छास्ति ततस्तत्क्षणं स कुष्ठात् मुक्तः।
14 पश्चात् स तमाज्ञापयामास कथामिमां कस्मैचिद् अकथयित्वा याजकस्य समीपञ्च गत्वा स्वं दर्शय, लोकेभ्यो निजपरिष्कृतत्वस्य प्रमाणदानाय मूसाज्ञानुसारेण द्रव्यमुत्मृजस्व च।
15 तथापि यीशोः सुख्याति र्बहु व्याप्तुमारेभे किञ्च तस्य कथां श्रोतुं स्वीयरोगेभ्यो मोक्तुञ्च लोका आजग्मुः।
16 अथ स प्रान्तरं गत्वा प्रार्थयाञ्चक्रे।
17 अपरञ्च एकदा यीशुरुपदिशति, एतर्हि गालील्यिहूदाप्रदेशयोः सर्व्वनगरेभ्यो यिरूशालमश्च कियन्तः फिरूशिलोका व्यवस्थापकाश्च समागत्य तदन्तिके समुपविविशुः, तस्मिन् काले लोकानामारोग्यकारणात् प्रभोः प्रभावः प्रचकाशे।
18 पश्चात् कियन्तो लोका एकं पक्षाघातिनं खट्वायां निधाय यीशोः समीपमानेतुं सम्मुखे स्थापयितुञ्च व्याप्रियन्त।
19 किन्तु बहुजननिवहसम्वाधात् न शक्नुवन्तो गृहोपरि गत्वा गृहपृष्ठं खनित्वा तं पक्षाघातिनं सखट्वं गृहमध्ये यीशोः सम्मुखे ऽवरोहयामासुः।
20 तदा यीशुस्तेषाम् ईदृशं विश्वासं विलोक्य तं पक्षाघातिनं व्याजहार, हे मानव तव पापमक्षम्यत।
21 तस्माद् अध्यापकाः फिरूशिनश्च चित्तैरित्थं प्रचिन्तितवन्तः, एष जन ईश्वरं निन्दति कोयं? केवलमीश्वरं विना पापं क्षन्तुं कः शक्नोति?
22 तदा यीशुस्तेषाम् इत्थं चिन्तनं विदित्वा तेभ्योकथयद् यूयं मनोभिः कुतो वितर्कयथ?
23 तव पापक्षमा जाता यद्वा त्वमुत्थाय व्रज एतयो र्मध्ये का कथा सुकथ्या?
24 किन्तु पृथिव्यां पापं क्षन्तुं मानवसुतस्य सामर्थ्यमस्तीति यथा यूयं ज्ञातुं शक्नुथ तदर्थं (स तं पक्षाघातिनं जगाद) उत्तिष्ठ स्वशय्यां गृहीत्वा गृहं याहीति त्वामादिशामि।
25 तस्मात् स तत्क्षणम् उत्थाय सर्व्वेषां साक्षात् निजशयनीयं गृहीत्वा ईश्वरं धन्यं वदन् निजनिवेशनं ययौ।
26 तस्मात् सर्व्वे विस्मय प्राप्ता मनःसु भीताश्च वयमद्यासम्भवकार्य्याण्यदर्शाम इत्युक्त्वा परमेश्वरं धन्यं प्रोदिताः।
27 ततः परं बहिर्गच्छन् करसञ्चयस्थाने लेविनामानं करसञ्चायकं दृष्ट्वा यीशुस्तमभिदधे मम पश्चादेहि।
28 तस्मात् स तत्क्षणात् सर्व्वं परित्यज्य तस्य पश्चादियाय।
29 अनन्तरं लेवि र्निजगृहे तदर्थं महाभोज्यं चकार, तदा तैः सहानेके करसञ्चायिनस्तदन्यलोकाश्च भोक्तुमुपविविशुः।
30 तस्मात् कारणात् चण्डालानां पापिलोकानाञ्च सङ्गे यूयं कुतो भंग्ध्वे पिवथ चेति कथां कथयित्वा फिरूशिनोऽध्यापकाश्च तस्य शिष्यैः सह वाग्युद्धं कर्त्तुमारेभिरे।
31 तस्माद् यीशुस्तान् प्रत्यवोचद् अरोगलोकानां चिकित्सकेन प्रयोजनं नास्ति किन्तु सरोगाणामेव।
32 अहं धार्म्मिकान् आह्वातुं नागतोस्मि किन्तु मनः परावर्त्तयितुं पापिन एव।
33 ततस्ते प्रोचुः, योहनः फिरूशिनाञ्च शिष्या वारंवारम् उपवसन्ति प्रार्थयन्ते च किन्तु तव शिष्याः कुतो भुञ्जते पिवन्ति च?
34 तदा स तानाचख्यौ वरे सङ्गे तिष्ठति वरस्य सखिगणं किमुपवासयितुं शक्नुथ?
35 किन्तु यदा तेषां निकटाद् वरो नेष्यते तदा ते समुपवत्स्यन्ति।
36 सोपरमपि दृष्टान्तं कथयाम्बभूव पुरातनवस्त्रे कोपि नुतनवस्त्रं न सीव्यति यतस्तेन सेवनेन जीर्णवस्त्रं छिद्यते, नूतनपुरातनवस्त्रयो र्मेलञ्च न भवति।
37 पुरातन्यां कुत्वां कोपि नुतनं द्राक्षारसं न निदधाति, यतो नवीनद्राक्षारसस्य तेजसा पुरातनी कुतू र्विदीर्य्यते ततो द्राक्षारसः पतति कुतूश्च नश्यति।
38 ततो हेतो र्नूतन्यां कुत्वां नवीनद्राक्षारसः निधातव्यस्तेनोभयस्य रक्षा भवति।
39 अपरञ्च पुरातनं द्राक्षारसं पीत्वा कोपि नूतनं न वाञ्छति, यतः स वक्ति नूतनात् पुरातनम् प्रशस्तम्।

लूकलिखितः सुसंवादः 06

1 अचरञ्च पर्व्वणो द्वितीयदिनात् परं प्रथमविश्रामवारे शस्यक्षेत्रेण यीशोर्गमनकाले तस्य शिष्याः कणिशं छित्त्वा करेषु मर्द्दयित्वा खादितुमारेभिरे।
2 तस्मात् कियन्तः फिरूशिनस्तानवदन् विश्रामवारे यत् कर्म्म न कर्त्तव्यं तत् कुतः कुरुथ?
3 यीशुः प्रत्युवाच दायूद् तस्य सङ्गिनश्च क्षुधार्त्ताः किं चक्रुः स कथम् ईश्वरस्य मन्दिरं प्रविश्य
4 ये दर्शनीयाः पूपा याजकान् विनान्यस्य कस्याप्यभोजनीयास्तानानीय स्वयं बुभजे सङ्गिभ्योपि ददौ तत् किं युष्माभिः कदापि नापाठि?
5 पश्चात् स तानवदत् मनुजसुतो विश्रामवारस्यापि प्रभु र्भवति।
6 अनन्तरम् अन्यविश्रामवारे स भजनगेहं प्रविश्य समुपदिशति। तदा तत्स्थाने शुष्कदक्षिणकर एकः पुमान् उपतस्थिवान्।
7 तस्माद् अध्यापकाः फिरूशिनश्च तस्मिन् दोषमारोपयितुं स विश्रामवारे तस्य स्वास्थ्यं करोति नवेति प्रतीक्षितुमारेभिरे।
8 तदा यीशुस्तेषां चिन्तां विदित्वा तं शुष्ककरं पुमांसं प्रोवाच, त्वमुत्थाय मध्यस्थाने तिष्ठ।
9 तस्मात् तस्मिन् उत्थितवति यीशुस्तान् व्याजहार, युष्मान् इमां कथां पृच्छामि, विश्रामवारे हितम् अहितं वा, प्राणरक्षणं प्राणनाशनं वा, एतेषां किं कर्म्मकरणीयम्?
10 पश्चात् चतुर्दिक्षु सर्व्वान् विलोक्य तं मानवं बभाषे, निजकरं प्रसारय; ततस्तेन तथा कृत इतरकरवत् तस्य हस्तः स्वस्थोभवत्।
11 तस्मात् ते प्रचण्डकोपान्विता यीशुं किं करिष्यन्तीति परस्परं प्रमन्त्रिताः।
12 ततः परं स पर्व्वतमारुह्येश्वरमुद्दिश्य प्रार्थयमानः कृत्स्नां रात्रिं यापितवान्।
13 अथ दिने सति स सर्व्वान् शिष्यान् आहूतवान् तेषां मध्ये
14 पितरनाम्ना ख्यातः शिमोन् तस्य भ्राता आन्द्रियश्च याकूब् योहन् च फिलिप् बर्थलमयश्च
15 मथिः थोमा आल्फीयस्य पुत्रो याकूब् ज्वलन्तनाम्ना ख्यातः शिमोन्
16 च याकूबो भ्राता यिहूदाश्च तं यः परकरेषु समर्पयिष्यति स ईष्करीयोतीययिहूदाश्चैतान् द्वादश जनान् मनोनीतान् कृत्वा स जग्राह तथा प्रेरित इति तेषां नाम चकार।
17 ततः परं स तैः सह पर्व्वतादवरुह्य उपत्यकायां तस्थौ ततस्तस्य शिष्यसङ्घो यिहूदादेशाद् यिरूशालमश्च सोरः सीदोनश्च जलधे रोधसो जननिहाश्च एत्य तस्य कथाश्रवणार्थं रोगमुक्त्यर्थञ्च तस्य समीपे तस्थुः।
18 अमेध्यभूतग्रस्ताश्च तन्निकटमागत्य स्वास्थ्यं प्रापुः।
19 सर्व्वेषां स्वास्थ्यकरणप्रभावस्य प्रकाशितत्वात् सर्व्वे लोका एत्य तं स्प्रष्टुं येतिरे।
20 पश्चात् स शिष्यान् प्रति दृष्टिं कुत्वा जगाद, हे दरिद्रा यूयं धन्या यत ईश्वरीये राज्ये वोऽधिकारोस्ति।
21 हे अधुना क्षुधितलोका यूयं धन्या यतो यूयं तर्प्स्यथ; हे इह रोदिनो जना यूयं धन्या यतो यूयं हसिष्यथ।
22 यदा लोका मनुष्यसूनो र्नामहेतो र्युष्मान् ऋृतीयिष्यन्ते पृथक् कृत्वा निन्दिष्यन्ति, अधमानिव युष्मान् स्वसमीपाद् दूरीकरिष्यन्ति च तदा यूयं धन्याः।
23 स्वर्गे युष्माकं यथेष्टं फलं भविष्यति, एतदर्थं तस्मिन् दिने प्रोल्लसत आनन्देन नृत्यत च, तेषां पूर्व्वपुरुषाश्च भविष्यद्वादिनः प्रति तथैव व्यवाहरन्।
24 किन्तु हा हा धनवन्तो यूयं सुखं प्राप्नुत। हन्त परितृप्ता यूयं क्षुधिता भविष्यथ;
25 इह हसन्तो यूयं वत युष्माभिः शोचितव्यं रोदितव्यञ्च।
26 सर्व्वैलाकै र्युष्माकं सुख्यातौ कृतायां युष्माकं दुर्गति र्भविष्यति युष्माकं पूर्व्वपुरुषा मृषाभविष्यद्वादिनः प्रति तद्वत् कृतवन्तः।
27 हे श्रोतारो युष्मभ्यमहं कथयामि, यूयं शत्रुषु प्रीयध्वं ये च युष्मान् द्विषन्ति तेषामपि हितं कुरुत।
28 ये च युष्मान् शपन्ति तेभ्य आशिषं दत्त ये च युष्मान् अवमन्यन्ते तेषां मङ्गलं प्रार्थयध्वं।
29 यदि कश्चित् तव कपोले चपेटाघातं करोति तर्हि तं प्रति कपोलम् अन्यं परावर्त्त्य सम्मुखीकुरु पुनश्च यदि कश्चित् तव गात्रीयवस्त्रं हरति तर्हि तं परिधेयवस्त्रम् अपि ग्रहीतुं मा वारय।
30 यस्त्वां याचते तस्मै देहि, यश्च तव सम्पत्तिं हरति तं मा याचस्व।
31 परेभ्यः स्वान् प्रति यथाचरणम् अपेक्षध्वे परान् प्रति यूयमपि तथाचरत।
32 ये जना युष्मासु प्रीयन्ते केवलं तेषु प्रीयमाणेषु युष्माकं किं फलं? पापिलोका अपि स्वेषु प्रीयमाणेषु प्रीयन्ते।
33 यदि हितकारिण एव हितं कुरुथ तर्हि युष्माकं किं फलं? पापिलोका अपि तथा कुर्व्वन्ति।
34 येभ्य ऋणपरिशोधस्य प्राप्तिप्रत्याशास्ते केवलं तेषु ऋणे समर्पिते युष्माकं किं फलं? पुनः प्राप्त्याशया पापीलोका अपि पापिजनेषु ऋणम् अर्पयन्ति।
35 अतो यूयं रिपुष्वपि प्रीयध्वं, परहितं कुरुत च; पुनः प्राप्त्याशां त्यक्त्वा ऋणमर्पयत, तथा कृते युष्माकं महाफलं भविष्यति, यूयञ्च सर्व्वप्रधानस्य सन्ताना इति ख्यातिं प्राप्स्यथ, यतो युष्माकं पिता कृतघ्नानां दुर्व्टत्तानाञ्च हितमाचरति।
36 अत एव स यथा दयालु र्यूयमपि तादृशा दयालवो भवत।
37 अपरञ्च परान् दोषिणो मा कुरुत तस्माद् यूयं दोषीकृता न भविष्यथ; अदण्ड्यान् मा दण्डयत तस्माद् यूयमपि दण्डं न प्राप्स्यथ; परेषां दोषान् क्षमध्वं तस्माद् युष्माकमपि दोषाः क्षमिष्यन्ते।
38 दानानिदत्त तस्माद् यूयं दानानि प्राप्स्यथ, वरञ्च लोकाः परिमाणपात्रं प्रदलय्य सञ्चाल्य प्रोञ्चाल्य परिपूर्य्य युष्माकं क्रोडेषु समर्पयिष्यन्ति; यूयं येन परिमाणेन परिमाथ तेनैव परिमाणेन युष्मत्कृते परिमास्यते।
39 अथ स तेभ्यो दृष्टान्तकथामकथयत्, अन्धो जनः किमन्धं पन्थानं दर्शयितुं शक्नोति? तस्माद् उभावपि किं गर्त्ते न पतिष्यतः?
40 गुरोः शिष्यो न श्रेष्ठः किन्तु शिष्ये सिद्धे सति स गुरुतुल्यो भवितुं शक्नोति।
41 अपरञ्च त्वं स्वचक्षुुषि नासाम् अदृष्ट्वा तव भ्रातुश्चक्षुषि यत्तृणमस्ति तदेव कुतः पश्यमि?
42 स्वचक्षुषि या नासा विद्यते ताम् अज्ञात्वा, भ्रातस्तव नेत्रात् तृणं बहिः करोमीति वाक्यं भ्रातरं कथं वक्तुं शक्नोषि? हे कपटिन् पूर्व्वं स्वनयनात् नासां बहिः कुरु ततो भ्रातुश्चक्षुषस्तृणं बहिः कर्त्तुं सुदृष्टिं प्राप्स्यसि।
43 अन्यञ्च उत्तमस्तरुः कदापि फलमनुत्तमं न फलति, अनुत्तमतरुश्च फलमुत्तमं न फलति कारणादतः फलैस्तरवो ज्ञायन्ते।
44 कण्टकिपादपात् कोपि उडुम्बरफलानि न पातयति तथा शृगालकोलिवृक्षादपि कोपि द्राक्षाफलं न पातयति।
45 तद्वत् साधुलोकोऽन्तःकरणरूपात् सुभाण्डागाराद् उत्तमानि द्रव्याणि बहिः करोति, दुष्टो लोकश्चान्तःकरणरूपात् कुभाण्डागारात् कुत्सितानि द्रव्याणि निर्गमयति यतोऽन्तःकरणानां पूर्णभावानुरूपाणि वचांसि मुखान्निर्गच्छन्ति।
46 अपरञ्च ममाज्ञानुरूपं नाचरित्वा कुतो मां प्रभो प्रभो इति वदथ?
47 यः कश्चिन् मम निकटम् आगत्य मम कथा निशम्य तदनुरूपं कर्म्म करोति स कस्य सदृशो भवति तदहं युष्मान् ज्ञाापयामि।
48 यो जनो गभीरं खनित्वा पाषाणस्थले भित्तिं निर्म्माय स्वगृहं रचयति तेन सह तस्योपमा भवति; यत आप्लाविजलमेत्य तस्य मूले वेगेन वहदपि तद्गेहं लाडयितुं न शक्नोति यतस्तस्य भित्तिः पाषाणोपरि तिष्ठति।
49 किन्तु यः कश्चिन् मम कथाः श्रुत्वा तदनुरूपं नाचरति स भित्तिं विना मृृदुपरि गृहनिर्म्मात्रा समानो भवति; यत आप्लाविजलमागत्य वेगेन यदा वहति तदा तद्गृहं पतति तस्य महत् पतनं जायते।

लूकलिखितः सुसंवादः 07

1 ततः परं स लोकानां कर्णगोचरे तान् सर्व्वान् उपदेशान् समाप्य यदा कफर्नाहूम्पुरं प्रविशति
2 तदा शतसेनापतेः प्रियदास एको मृतकल्पः पीडित आसीत्।
3 अतः सेनापति र्यीशो र्वार्त्तां निशम्य दासस्यारोग्यकरणाय तस्यागमनार्थं विनयकरणाय यिहूदीयान् कियतः प्राचः प्रेषयामास।
4 ते यीशोरन्तिकं गत्वा विनयातिशयं वक्तुमारेभिरे, स सेनापति र्भवतोनुग्रहं प्राप्तुम् अर्हति।
5 यतः सोस्मज्जातीयेषु लोकेषु प्रीयते तथास्मत्कृते भजनगेहं निर्म्मितवान्।
6 तस्माद् यीशुस्तैः सह गत्वा निवेशनस्य समीपं प्राप, तदा स शतसेनापति र्वक्ष्यमाणवाक्यं तं वक्तुं बन्धून् प्राहिणोत्। हे प्रभो स्वयं श्रमो न कर्त्तव्यो यद् भवता मद्गेहमध्ये पादार्पणं क्रियेत तदप्यहं नार्हामि,
7 किञ्चाहं भवत्समीपं यातुमपि नात्मानं योग्यं बुद्धवान्, ततो भवान् वाक्यमात्रं वदतु तेनैव मम दासः स्वस्थो भविष्यति।
8 यस्माद् अहं पराधीनोपि ममाधीना याः सेनाः सन्ति तासाम् एकजनं प्रति याहीति मया प्रोक्ते स याति; तदन्यं प्रति आयाहीति प्रोक्ते स आयाति; तथा निजदासं प्रति एतत् कुर्व्विति प्रोक्ते स तदेव करोति।
9 यीशुरिदं वाक्यं श्रुत्वा विस्मयं ययौ, मुखं परावर्त्य पश्चाद्वर्त्तिनो लोकान् बभाषे च, युष्मानहं वदामि इस्रायेलो वंशमध्येपि विश्वासमीदृशं न प्राप्नवं।
10 ततस्ते प्रेषिता गृहं गत्वा तं पीडितं दासं स्वस्थं ददृशुः।
11 परेऽहनि स नायीनाख्यं नगरं जगाम तस्यानेके शिष्या अन्ये च लोकास्तेन सार्द्धं ययुः।
12 तेषु तन्नगरस्य द्वारसन्निधिं प्राप्तेषु कियन्तो लोका एकं मृतमनुजं वहन्तो नगरस्य बहिर्यान्ति, स तन्मातुरेकपुत्रस्तन्माता च विधवा; तया सार्द्धं तन्नगरीया बहवो लोका आसन्।
13 प्रभुस्तां विलोक्य सानुकम्पः कथयामास, मा रोदीः। स समीपमित्वा खट्वां पस्पर्श तस्माद् वाहकाः स्थगितास्तम्युः;
14 तदा स उवाच हे युवमनुष्य त्वमुत्तिष्ठ, त्वामहम् आज्ञापयामि।
15 तस्मात् स मृतो जनस्तत्क्षणमुत्थाय कथां प्रकथितः; ततो यीशुस्तस्य मातरि तं समर्पयामास।
16 तस्मात् सर्व्वे लोकाः शशङ्किरे; एको महाभविष्यद्वादी मध्येऽस्माकम् समुदैत्, ईश्वरश्च स्वलोकानन्वगृह्लात् कथामिमां कथयित्वा ईश्वरं धन्यं जगदुः।
17 ततः परं समस्तं यिहूदादेशं तस्य चतुर्दिक्स्थदेशञ्च तस्यैतत्कीर्त्ति र्व्यानशे।
18 ततः परं योहनः शिष्येषु तं तद्वृत्तान्तं ज्ञापितवत्सु
19 स स्वशिष्याणां द्वौ जनावाहूय यीशुं प्रति वक्ष्यमाणं वाक्यं वक्तुं प्रेषयामास, यस्यागमनम् अपेक्ष्य तिष्ठामो वयं किं स एव जनस्त्वं? किं वयमन्यमपेक्ष्य स्थास्यामः?
20 पश्चात्तौ मानवौ गत्वा कथयामासतुः, यस्यागमनम् अपेक्ष्य तिष्ठामो वयं, किं सएव जनस्त्वं? किं वयमन्यमपेक्ष्य स्थास्यामः? कथामिमां तुभ्यं कथयितुं योहन् मज्जक आवां प्रेषितवान्।
21 तस्मिन् दण्डे यीशूरोगिणो महाव्याधिमतो दुष्टभूतग्रस्तांश्च बहून् स्वस्थान् कृत्वा, अनेकान्धेभ्यश्चक्षुंषि दत्त्वा प्रत्युवाच,
22 युवां व्रजतम् अन्धा नेत्राणि खञ्जाश्चरणानि च प्राप्नुवन्ति, कुष्ठिनः परिष्क्रियन्ते, बधिराः श्रवणानि मृताश्च जीवनानि प्राप्नुवन्ति, दरिद्राणां समीपेषु सुसंवादः प्रचार्य्यते, यं प्रति विघ्नस्वरूपोहं न भवामि स धन्यः,
23 एतानि यानि पश्यथः शृणुथश्च तानि योहनं ज्ञापयतम्।
24 तयो र्दूतयो र्गतयोः सतो र्योहनि स लोकान् वक्तुमुपचक्रमे, यूयं मध्येप्रान्तरं किं द्रष्टुं निरगमत? किं वायुना कम्पितं नडं?
25 यूयं किं द्रष्टुं निरगमत? किं सूक्ष्मवस्त्रपरिधायिनं कमपि नरं? किन्तु ये सूक्ष्ममृदुवस्त्राणि परिदधति सूत्तमानि द्रव्याणि भुञ्जते च ते राजधानीषु तिष्ठन्ति।
26 तर्हि यूयं किं द्रष्टुं निरगमत? किमेकं भविष्यद्वादिनं? तदेव सत्यं किन्तु स पुमान् भविष्यद्वादिनोपि श्रेष्ठ इत्यहं युष्मान् वदामि;
27 पश्य स्वकीयदूतन्तु तवाग्र प्रेषयाम्यहं। गत्वा त्वदीयमार्गन्तु स हि परिष्करिष्यति। यदर्थे लिपिरियम् आस्ते स एव योहन्।
28 अतो युष्मानहं वदामि स्त्रिया गर्ब्भजातानां भविष्यद्वादिनां मध्ये योहनो मज्जकात् श्रेष्ठः कोपि नास्ति, तत्रापि ईश्वरस्य राज्ये यः सर्व्वस्मात् क्षुद्रः स योहनोपि श्रेष्ठः।
29 अपरञ्च सर्व्वे लोकाः करमञ्चायिनश्च तस्य वाक्यानि श्रुत्वा योहना मज्जनेन मज्जिताः परमेश्वरं निर्दोषं मेनिरे।
30 किन्तु फिरूशिनो व्यवस्थापकाश्च तेन न मज्जिताः स्वान् प्रतीश्वरस्योपदेशं निष्फलम् अकुर्व्वन्।
31 अथ प्रभुः कथयामास, इदानीन्तनजनान् केनोपमामि? ते कस्य सदृशाः?
32 ये बालका विपण्याम् उपविश्य परस्परम् आहूय वाक्यमिदं वदन्ति, वयं युष्माकं निकटे वंशीरवादिष्म, किन्तु यूयं नानर्त्तिष्ट, वयं युष्माकं निकट अरोदिष्म, किन्तु युयं न व्यलपिष्ट, बालकैरेतादृशैस्तेषाम् उपमा भवति।
33 यतो योहन् मज्जक आगत्य पूपं नाखादत् द्राक्षारसञ्च नापिवत् तस्माद् यूयं वदथ, भूतग्रस्तोयम्।
34 ततः परं मानवसुत आगत्याखाददपिवञ्च तस्माद् यूयं वदथ, खादकः सुरापश्चाण्डालपापिनां बन्धुरेको जनो दृश्यताम्।
35 किन्तु ज्ञानिनो ज्ञानं निर्दोषं विदुः।
36 पश्चादेकः फिरूशी यीशुं भोजनाय न्यमन्त्रयत् ततः स तस्य गृहं गत्वा भोक्तुमुपविष्टः।
37 एतर्हि तत्फिरूशिनो गृहे यीशु र्भेक्तुम् उपावेक्षीत् तच्छ्रुत्वा तन्नगरवासिनी कापि दुष्टा नारी पाण्डरप्रस्तरस्य सम्पुटके सुगन्धितैलम् आनीय
38 तस्य पश्चात् पादयोः सन्निधौ तस्यौ रुदती च नेत्राम्बुभिस्तस्य चरणौ प्रक्षाल्य निजकचैरमार्क्षीत्, ततस्तस्य चरणौ चुम्बित्वा तेन सुगन्धितैलेन ममर्द।
39 तस्मात् स निमन्त्रयिता फिरूशी मनसा चिन्तयामास, यद्ययं भविष्यद्वादी भवेत् तर्हि एनं स्पृशति या स्त्री सा का कीदृशी चेति ज्ञातुं शक्नुयात् यतः सा दुष्टा।
40 तदा याशुस्तं जगाद, हे शिमोन् त्वां प्रति मम किञ्चिद् वक्तव्यमस्ति; तस्मात् स बभाषे, हे गुरो तद् वदतु।
41 एकोत्तमर्णस्य द्वावधमर्णावास्तां, तयोरेकः पञ्चशतानि मुद्रापादान् अपरश्च पञ्चाशत् मुद्रापादान् धारयामास।
42 तदनन्तरं तयोः शोध्याभावात् स उत्तमर्णस्तयो रृणे चक्षमे; तस्मात् तयोर्द्वयोः कस्तस्मिन् प्रेष्यते बहु? तद् ब्रूहि।
43 शिमोन् प्रत्युवाच, मया बुध्यते यस्याधिकम् ऋणं चक्षमे स इति; ततो यीशुस्तं व्याजहार, त्वं यथार्थं व्यचारयः।
44 अथ तां नारीं प्रति व्याघुठ्य शिमोनमवोचत्, स्त्रीमिमां पश्यसि? तव गृहे मय्यागते त्वं पादप्रक्षालनार्थं जलं नादाः किन्तु योषिदेषा नयनजलै र्मम पादौ प्रक्षाल्य केशैरमार्क्षीत्।
45 त्वं मां नाचुम्बीः किन्तु योषिदेषा स्वीयागमनादारभ्य मदीयपादौ चुम्बितुं न व्यरंस्त।
46 त्वञ्च मदीयोत्तमाङ्गे किञ्चिदपि तैलं नामर्दीः किन्तु योषिदेषा मम चरणौ सुगन्धितैलेनामर्द्दीत्।
47 अतस्त्वां व्याहरामि, एतस्या बहु पापमक्षम्यत ततो बहु प्रीयते किन्तु यस्याल्पपापं क्षम्यते सोल्पं प्रीयते।
48 ततः परं स तां बभाषे, त्वदीयं पापमक्षम्यत।
49 तदा तेन सार्द्धं ये भोक्तुम् उपविविशुस्ते परस्परं वक्तुमारेभिरे, अयं पापं क्षमते क एषः?
50 किन्तु स तां नारीं जगाद, तव विश्वासस्त्वां पर्य्यत्रास्त त्वं क्षेमेण व्रज।

लूकलिखितः सुसंवादः 08

1 अपरञ्च यीशु र्द्वादशभिः शिष्यैः सार्द्धं नानानगरेषु नानाग्रामेषु च गच्छन् इश्वरीयराजत्वस्य सुसंवादं प्रचारयितुं प्रारेभे।
2 तदा यस्याः सप्त भूता निरगच्छन् सा मग्दलीनीति विख्याता मरियम् हेरोद्राजस्य गृहाधिपतेः होषे र्भार्य्या योहना शूशाना
3 प्रभृतयो या बह्व्यः स्त्रियः दुष्टभूतेभ्यो रोगेभ्यश्च मुक्ताः सत्यो निजविभूती र्व्ययित्वा तमसेवन्त, ताः सर्व्वास्तेन सार्द्धम् आसन्।
4 अनन्तरं नानानगरेभ्यो बहवो लोका आगत्य तस्य समीपेऽमिलन्, तदा स तेभ्य एकां दृष्टान्तकथां कथयामास। एकः कृषीबलो बीजानि वप्तुं बहिर्जगाम,
5 ततो वपनकाले कतिपयानि बीजानि मार्गपार्श्वे पेतुः, ततस्तानि पदतलै र्दलितानि पक्षिभि र्भक्षितानि च।
6 कतिपयानि बीजानि पाषाणस्थले पतितानि यद्यपि तान्यङ्कुरितानि तथापि रसाभावात् शुशुषुः।
7 कतिपयानि बीजानि कण्टकिवनमध्ये पतितानि ततः कण्टकिवनानि संवृद्ध्य तानि जग्रसुः।
8 तदन्यानि कतिपयबीजानि च भूम्यामुत्तमायां पेतुस्ततस्तान्यङ्कुरयित्वा शतगुणानि फलानि फेलुः। स इमा कथां कथयित्वा प्रोच्चैः प्रोवाच, यस्य श्रोतुं श्रोत्रे स्तः स शृणोतु।
9 ततः परं शिष्यास्तं पप्रच्छुरस्य दृष्टान्तस्य किं तात्पर्य्यं?
10 ततः स व्याजहार, ईश्वरीयराज्यस्य गुह्यानि ज्ञातुं युष्मभ्यमधिकारो दीयते किन्त्वन्ये यथा दृष्ट्वापि न पश्यन्ति श्रुत्वापि म बुध्यन्ते च तदर्थं तेषां पुरस्तात् ताः सर्व्वाः कथा दृष्टान्तेन कथ्यन्ते।
11 दृष्टान्तस्यास्याभिप्रायः, ईश्वरीयकथा बीजस्वरूपा।
12 ये कथामात्रं शृण्वन्ति किन्तु पश्चाद् विश्वस्य यथा परित्राणं न प्राप्नुवन्ति तदाशयेन शैतानेत्य हृदयातृ तां कथाम् अपहरति त एव मार्गपार्श्वस्थभूमिस्वरूपाः।
13 ये कथं श्रुत्वा सानन्दं गृह्लन्ति किन्त्वबद्धमूलत्वात् स्वल्पकालमात्रं प्रतीत्य परीक्षाकाले भ्रश्यन्ति तएव पाषाणभूमिस्वरूपाः।
14 ये कथां श्रुत्वा यान्ति विषयचिन्तायां धनलोभेन एेहिकसुखे च मज्जन्त उपयुक्तफलानि न फलन्ति त एवोप्तबीजकण्टकिभूस्वरूपाः।
15 किन्तु ये श्रुत्वा सरलैः शुद्धैश्चान्तःकरणैः कथां गृह्लन्ति धैर्य्यम् अवलम्ब्य फलान्युत्पादयन्ति च त एवोत्तममृत्स्वरूपाः।
16 अपरञ्च प्रदीपं प्रज्वाल्य कोपि पात्रेण नाच्छादयति तथा खट्वाधोपि न स्थापयति, किन्तु दीपाधारोपर्य्येव स्थापयति, तस्मात् प्रवेशका दीप्तिं पश्यन्ति।
17 यन्न प्रकाशयिष्यते तादृग् अप्रकाशितं वस्तु किमपि नास्ति यच्च न सुव्यक्तं प्रचारयिष्यते तादृग् गृप्तं वस्तु किमपि नास्ति।
18 अतो यूयं केन प्रकारेण शृणुथ तत्र सावधाना भवत, यस्य समीपे बर्द्धते तस्मै पुनर्दास्यते किन्तु यस्याश्रये न बर्द्धते तस्य यद्यदस्ति तदपि तस्मात् नेष्यते।
19 अपरञ्च यीशो र्माता भ्रातरश्च तस्य समीपं जिगमिषवः
20 किन्तु जनतासम्बाधात् तत्सन्निधिं प्राप्तुं न शेकुः। तत्पश्चात् तव माता भ्रातरश्च त्वां साक्षात् चिकीर्षन्तो बहिस्तिष्ठनतीति वार्त्तायां तस्मै कथितायां
21 स प्रत्युवाच; ये जना ईश्वरस्य कथां श्रुत्वा तदनुरूपमाचरन्ति तएव मम माता भ्रातरश्च।
22 अनन्तरं एकदा यीशुः शिष्यैः सार्द्धं नावमारुह्य जगाद, आयात वयं ह्रदस्य पारं यामः, ततस्ते जग्मुः।
23 तेषु नौकां वाहयत्सु स निदद्रौ;
24 अथाकस्मात् प्रबलझञ्भ्शगमाद् ह्रदे नौकायां तरङ्गैराच्छन्नायां विपत् तान् जग्रास। तस्माद् यीशोरन्तिकं गत्वा हे गुरो हे गुरो प्राणा नो यान्तीति गदित्वा तं जागरयाम्बभूवुः। तदा स उत्थाय वायुं तरङ्गांश्च तर्जयामास तस्मादुभौ निवृत्य स्थिरौ बभूवतुः।
25 स तान् बभाषे युष्माकं विश्वासः क? तस्मात्ते भीता विस्मिताश्च परस्परं जगदुः, अहो कीदृगयं मनुजः पवनं पानीयञ्चादिशति तदुभयं तदादेशं वहति।
26 ततः परं गालील्प्रदेशस्य सम्मुखस्थगिदेरीयप्रदेशे नौकायां लगन्त्यां तटेऽवरोहमावाद्
27 बहुतिथकालं भूतग्रस्त एको मानुषः पुरादागत्य तं साक्षाच्चकार। स मनुषो वासो न परिदधत् गृहे च न वसन् केवलं श्मशानम् अध्युवास।
28 स यीशुं दृष्ट्वैव चीच्छब्दं चकार तस्य सम्मुखे पतित्वा प्रोच्चैर्जगाद च, हे सर्व्वप्रधानेश्वरस्य पुत्र, मया सह तव कः सम्बन्धः? त्वयि विनयं करोमि मां मा यातय।
29 यतः स तं मानुषं त्यक्त्वा यातुम् अमेध्यभूतम् आदिदेश; स भूतस्तं मानुषम् असकृद् दधार तस्माल्लोकाः शृङ्खलेन निगडेन च बबन्धुः; स तद् भंक्त्वा भूतवशत्वात् मध्येप्रान्तरं ययौ।
30 अनन्तरं यीशुस्तं पप्रच्छ तव किन्नाम? स उवाच, मम नाम बाहिनो यतो बहवो भूतास्तमाशिश्रियुः।
31 अथ भूता विनयेन जगदुः, गभीरं गर्त्तं गन्तुं माज्ञापयास्मान्।
32 तदा पर्व्वतोपरि वराहव्रजश्चरति तस्माद् भूता विनयेन प्रोचुः, अमुं वराहव्रजम् आश्रयितुम् अस्मान् अनुजानीहि; ततः सोनुजज्ञौ।
33 ततः परं भूतास्तं मानुषं विहाय वराहव्रजम् आशिश्रियुः वराहव्रजाश्च तत्क्षणात् कटकेन धावन्तो ह्रदे प्राणान् विजृहुः।
34 तद् दृष्ट्वा शूकररक्षकाः पलायमाना नगरं ग्रामञ्च गत्वा तत्सर्व्ववृत्तान्तं कथयामासुः।
35 ततः किं वृत्तम् एतद्दर्शनार्थं लोका निर्गत्य यीशोः समीपं ययुः, तं मानुषं त्यक्तभूतं परिहितवस्त्रं स्वस्थमानुषवद् यीशोश्चरणसन्निधौ सूपविशन्तं विलोक्य बिभ्युः।
36 ये लोकास्तस्य भूतग्रस्तस्य स्वास्थ्यकरणं ददृशुस्ते तेभ्यः सर्व्ववृत्तान्तं कथयामासुः।
37 तदनन्तरं तस्य गिदेरीयप्रदेशस्य चतुर्दिक्स्था बहवो जना अतित्रस्ता विनयेन तं जगदुः, भवान् अस्माकं निकटाद् व्रजतु तस्मात् स नावमारुह्य ततो व्याघुट्य जगाम।
38 तदानीं त्यक्तभूतमनुजस्तेन सह स्थातुं प्रार्थयाञ्चक्रे
39 किन्तु तदर्थम् ईश्वरः कीदृङ्महाकर्म्म कृतवान् इति निवेशनं गत्वा विज्ञापय, यीशुः कथामेतां कथयित्वा तं विससर्ज। ततः स व्रजित्वा यीशुस्तदर्थं यन्महाकर्म्म चकार तत् पुरस्य सर्व्वत्र प्रकाशयितुं प्रारेभे।
40 अथ यीशौ परावृत्यागते लोकास्तं आदरेण जगृहु र्यस्मात्ते सर्व्वे तमपेक्षाञ्चक्रिरे।
41 तदनन्तरं यायीर्नाम्नो भजनगेहस्यैकोधिप आगत्य यीशोश्चरणयोः पतित्वा स्वनिवेशनागमनार्थं तस्मिन् विनयं चकार,
42 यतस्तस्य द्वादशवर्षवयस्का कन्यैकासीत् सा मृतकल्पाभवत्। ततस्तस्य गमनकाले मार्गे लोकानां महान् समागमो बभूव।
43 द्वादशवर्षाणि प्रदररोगग्रस्ता नाना वैद्यैश्चिकित्सिता सर्व्वस्वं व्ययित्वापि स्वास्थ्यं न प्राप्ता या योषित् सा यीशोः पश्चादागत्य तस्य वस्त्रग्रन्थिं पस्पर्श।
44 तस्मात् तत्क्षणात् तस्या रक्तस्रावो रुद्धः।
45 तदानीं यीशुरवदत् केनाहं स्पृष्टः? ततोऽनेकैरनङ्गीकृते पितरस्तस्य सङ्गिनश्चावदन्, हे गुरो लोका निकटस्थाः सन्तस्तव देहे घर्षयन्ति, तथापि केनाहं स्पृष्टइति भवान् कुतः पृच्छति?
46 यीशुः कथयामास, केनाप्यहं स्पृष्टो, यतो मत्तः शक्ति र्निर्गतेति मया निश्चितमज्ञायि।
47 तदा सा नारी स्वयं न गुप्तेति विदित्वा कम्पमाना सती तस्य सम्मुखे पपात; येन निमित्तेन तं पस्पर्श स्पर्शमात्राच्च येन प्रकारेण स्वस्थाभवत् तत् सर्व्वं तस्य साक्षादाचख्यौ।
48 ततः स तां जगाद हे कन्ये सुस्थिरा भव, तव विश्वासस्त्वां स्वस्थाम् अकार्षीत् त्वं क्षेमेण याहि।
49 यीशोरेतद्वाक्यवदनकाले तस्याधिपते र्निवेशनात् कश्चिल्लोक आगत्य तं बभाषे, तव कन्या मृता गुरुं मा क्लिशान।
50 किन्तु यीशुस्तदाकर्ण्याधिपतिं व्याजहार, मा भैषीः केवलं विश्वसिहि तस्मात् सा जीविष्यति।
51 अथ तस्य निवेशने प्राप्ते स पितरं योहनं याकूबञ्च कन्याया मातरं पितरञ्च विना, अन्यं कञ्चन प्रवेष्टुं वारयामास।
52 अपरञ्च ये रुदन्ति विलपन्ति च तान् सर्व्वान् जनान् उवाच, यूयं मा रोदिष्ट कन्या न मृता निद्राति।
53 किन्तु सा निश्चितं मृतेति ज्ञात्वा ते तमुपजहसुः।
54 पश्चात् स सर्व्वान् बहिः कृत्वा कन्यायाः करौ धृत्वाजुहुवे, हे कन्ये त्वमुत्तिष्ठ,
55 तस्मात् तस्याः प्राणेषु पुनरागतेषु सा तत्क्षणाद् उत्तस्यौ। तदानीं तस्यै किञ्चिद् भक्ष्यं दातुम् आदिदेश।
56 ततस्तस्याः पितरौ विस्मयं गतौ किन्तु स तावादिदेश घटनाया एतस्याः कथां कस्मैचिदपि मा कथयतं।

लूकलिखितः सुसंवादः 09

1 ततः परं स द्वादशशिष्यानाहूय भूतान् त्याजयितुं रोगान् प्रतिकर्त्तुञ्च तेभ्यः शक्तिमाधिपत्यञ्च ददौ।
2 अपरञ्च ईश्वरीयराज्यस्य सुसंवादं प्रकाशयितुम् रोगिणामारोग्यं कर्त्तुञ्च प्रेरणकाले तान् जगाद।
3 यात्रार्थं यष्टि र्वस्त्रपुटकं भक्ष्यं मुद्रा द्वितीयवस्त्रम्, एषां किमपि मा गृह्लीत।
4 यूयञ्च यन्निवेशनं प्रविशथ नगरत्यागपर्य्यनतं तन्निवेशने तिष्ठत।
5 तत्र यदि कस्यचित् पुरस्य लोका युष्माकमातिथ्यं न कुर्व्वन्ति तर्हि तस्मान्नगराद् गमनकाले तेषां विरुद्धं साक्ष्यार्थं युष्माकं पदधूलीः सम्पातयत।
6 अथ ते प्रस्थाय सर्व्वत्र सुसंवादं प्रचारयितुं पीडितान् स्वस्थान् कर्त्तुञ्च ग्रामेषु भ्रमितुं प्रारेभिरे।
7 एतर्हि हेरोद् राजा यीशोः सर्व्वकर्म्मणां वार्त्तां श्रुत्वा भृशमुद्विविजे
8 यतः केचिदूचुर्योहन् श्मशानादुदतिष्ठत्। केचिदूचुः, एलियो दर्शनं दत्तवान्; एवमन्यलोका ऊचुः पूर्व्वीयः कश्चिद् भविष्यद्वादी समुत्थितः।
9 किन्तु हेरोदुवाच योहनः शिरोऽहमछिनदम् इदानीं यस्येदृक्कर्म्मणां वार्त्तां प्राप्नोमि स कः? अथ स तं द्रष्टुम् ऐच्छत्।
10 अनन्तरं प्रेरिताः प्रत्यागत्य यानि यानि कर्म्माणि चक्रुस्तानि यीशवे कथयामासुः ततः स तान् बैत्सैदानामकनगरस्य विजनं स्थानं नीत्वा गुप्तं जगाम।
11 पश्चाल् लोकास्तद् विदित्वा तस्य पश्चाद् ययुः; ततः स तान् नयन् ईश्वरीयराज्यस्य प्रसङ्गमुक्तवान्, येषां चिकित्सया प्रयोजनम् आसीत् तान् स्वस्थान् चकार च।
12 अपरञ्च दिवावसन्ने सति द्वादशशिष्या यीशोरन्तिकम् एत्य कथयामासुः, वयमत्र प्रान्तरस्थाने तिष्ठामः, ततो नगराणि ग्रामाणि गत्वा वासस्थानानि प्राप्य भक्ष्यद्रव्याणि क्रेतुं जननिवहं भवान् विसृजतु।
13 तदा स उवाच, यूयमेव तान् भेजयध्वं; ततस्ते प्रोचुरस्माकं निकटे केवलं पञ्च पूपा द्वौ मत्स्यौ च विद्यन्ते, अतएव स्थानान्तरम् इत्वा निमित्तमेतेषां भक्ष्यद्रव्येषु न क्रीतेषु न भवति।
14 तत्र प्रायेण पञ्चसहस्राणि पुरुषा आसन्।
15 तदा स शिष्यान् जगाद पञ्चाशत् पञ्चाशज्जनैः पंक्तीकृत्य तानुपवेशयत, तस्मात् ते तदनुसारेण सर्व्वलोकानुपवेशयापासुः।
16 ततः स तान् पञ्च पूपान् मीनद्वयञ्च गृहीत्वा स्वर्गं विलोक्येश्वरगुणान् कीर्त्तयाञ्चक्रे भङ्क्ता च लोकेभ्यः परिवेषणार्थं शिष्येषु समर्पयाम्बभूव।
17 ततः सर्व्वे भुक्त्वा तृप्तिं गता अवशिष्टानाञ्च द्वादश डल्लकान् संजगृहुः।
18 अथैकदा निर्जने शिष्यैः सह प्रार्थनाकाले तान् पप्रच्छ, लोका मां कं वदन्ति?
19 ततस्ते प्राचुः, त्वां योहन्मज्जकं वदन्ति; केचित् त्वाम् एलियं वदन्ति, पूर्व्वकालिकः कश्चिद् भविष्यद्वादी श्मशानाद् उदतिष्ठद् इत्यपि केचिद् वदन्ति।
20 तदा स उवाच, यूयं मां कं वदथ? ततः पितर उक्तवान् त्वम् ईश्वराभिषिक्तः पुरुषः।
21 तदा स तान् दृढमादिदेश, कथामेतां कस्मैचिदपि मा कथयत।
22 स पुनरुवाच, मनुष्यपुत्रेण वहुयातना भोक्तव्याः प्राचीनलोकैः प्रधानयाजकैरध्यापकैश्च सोवज्ञाय हन्तव्यः किन्तु तृतीयदिवसे श्मशानात् तेनोत्थातव्यम्।
23 अपरं स सर्व्वानुवाच, कश्चिद् यदि मम पश्चाद् गन्तुं वाञ्छति तर्हि स स्वं दाम्यतु, दिने दिने क्रुशं गृहीत्वा च मम पश्चादागच्छतु।
24 यतो यः कश्चित् स्वप्राणान् रिरक्षिषति स तान् हारयिष्यति, यः कश्चिन् मदर्थं प्राणान् हारयिष्यति स तान् रक्षिष्यति।
25 कश्चिद् यदि सर्व्वं जगत् प्राप्नोति किन्तु स्वप्राणान् हारयति स्वयं विनश्यति च तर्हि तस्य को लाभः?
26 पुन र्यः कश्चिन् मां मम वाक्यं वा लज्जास्पदं जानाति मनुष्यपुत्रो यदा स्वस्य पितुश्च पवित्राणां दूतानाञ्च तेजोभिः परिवेष्टित आगमिष्यति तदा सोपि तं लज्जास्पदं ज्ञास्यति।
27 किन्तु युष्मानहं यथार्थं वदामि, ईश्वरीयराजत्वं न दृष्टवा मृत्युं नास्वादिष्यन्ते, एतादृशाः कियन्तो लोका अत्र स्थनेऽपि दण्डायमानाः सन्ति।
28 एतदाख्यानकथनात् परं प्रायेणाष्टसु दिनेषु गतेषु स पितरं योहनं याकूबञ्च गृहीत्वा प्रार्थयितुं पर्व्वतमेकं समारुरोह।
29 अथ तस्य प्रार्थनकाले तस्य मुखाकृतिरन्यरूपा जाता, तदीयं वस्त्रमुज्ज्वलशुक्लं जातं।
30 अपरञ्च मूसा एलियश्चोभौ तेजस्विनौ दृष्टौ
31 तौ तेन यिरूशालम्पुरे यो मृत्युः साधिष्यते तदीयां कथां तेन सार्द्धं कथयितुम् आरेभाते।
32 तदा पितरादयः स्वस्य सङ्गिनो निद्रयाकृष्टा आसन् किन्तु जागरित्वा तस्य तेजस्तेन सार्द्धम् उत्तिष्ठन्तौ जनौ च ददृशुः।
33 अथ तयोरुभयो र्गमनकाले पितरो यीशुं बभाषे, हे गुरोऽस्माकं स्थानेऽस्मिन् स्थितिः शुभा, तत एका त्वदर्था, एका मूसार्था, एका एलियार्था, इति तिस्रः कुट्योस्माभि र्निर्म्मीयन्तां, इमां कथां स न विविच्य कथयामास।
34 अपरञ्च तद्वाक्यवदनकाले पयोद एक आगत्य तेषामुपरि छायां चकार, ततस्तन्मध्ये तयोः प्रवेशात् ते शशङ्किरे।
35 तदा तस्मात् पयोदाद् इयमाकाशीया वाणी निर्जगाम, ममायं प्रियः पुत्र एतस्य कथायां मनो निधत्त।
36 इति शब्दे जाते ते यीशुमेकाकिनं ददृशुः किन्तु ते तदानीं तस्य दर्शनस्य वाचमेकामपि नोक्त्वा मनःसु स्थापयामासुः।
37 परेऽहनि तेषु तस्माच्छैलाद् अवरूढेषु तं साक्षात् कर्त्तुं बहवो लोका आजग्मुः।
38 तेषां मध्याद् एको जन उच्चैरुवाच, हे गुरो अहं विनयं करोमि मम पुत्रं प्रति कृपादृष्टिं करोतु, मम स एवैकः पुत्रः।
39 भूतेन धृतः सन् सं प्रसभं चीच्छब्दं करोति तन्मुखात् फेणा निर्गच्छन्ति च, भूत इत्थं विदार्य्य क्लिष्ट्वा प्रायशस्तं न त्यजति।
40 तस्मात् तं भूतं त्याजयितुं तव शिष्यसमीपे न्यवेदयं किन्तु ते न शेकुः।
41 तदा यीशुरवादीत्, रे आविश्वासिन् विपथगामिन् वंश कतिकालान् युष्माभिः सह स्थास्याम्यहं युष्माकम् आचरणानि च सहिष्ये? तव पुत्रमिहानय।
42 ततस्तस्मिन्नागतमात्रे भूतस्तं भूमौ पातयित्वा विददार; तदा यीशुस्तममेध्यं भूतं तर्जयित्वा बालकं स्वस्थं कृत्वा तस्य पितरि समर्पयामास।
43 ईश्वरस्य महाशक्तिम् इमां विलोक्य सर्व्वे चमच्चक्रुः; इत्थं यीशोः सर्व्वाभिः क्रियाभिः सर्व्वैर्लोकैराश्चर्य्ये मन्यमाने सति स शिष्यान् बभाषे,
44 कथेयं युष्माकं कर्णेषु प्रविशतु, मनुष्यपुत्रो मनुष्याणां करेषु समर्पयिष्यते।
45 किन्तु ते तां कथां न बुबुधिरे, स्पष्टत्वाभावात् तस्या अभिप्रायस्तेषां बोधगम्यो न बभूव; तस्या आशयः क इत्यपि ते भयात् प्रष्टुं न शेकुः।
46 तदनन्तरं तेषां मध्ये कः श्रेष्ठः कथामेतां गृहीत्वा ते मिथो विवादं चक्रुः।
47 ततो यीशुस्तेषां मनोभिप्रायं विदित्वा बालकमेकं गृहीत्वा स्वस्य निकटे स्थापयित्वा तान् जगाद,
48 यो जनो मम नाम्नास्य बालास्यातिथ्यं विदधाति स ममातिथ्यं विदधाति, यश्च ममातिथ्यं विदधाति स मम प्रेरकस्यातिथ्यं विदधाति, युष्माकं मध्येयः स्वं सर्व्वस्मात् क्षुद्रं जानीते स एव श्रेष्ठो भविष्यति।
49 अपरञ्च योहन् व्याजहार हे प्रभेा तव नाम्ना भूतान् त्याजयन्तं मानुषम् एकं दृष्टवन्तो वयं, किन्त्वस्माकम् अपश्चाद् गामित्वात् तं न्यषेधाम्। तदानीं यीशुरुवाच,
50 तं मा निषेधत, यतो यो जनोस्माकं न विपक्षः स एवास्माकं सपक्षो भवति।
51 अनन्तरं तस्यारोहणसमय उपस्थिते स स्थिरचेता यिरूशालमं प्रति यात्रां कर्त्तुं निश्चित्याग्रे दूतान् प्रेषयामास।
52 तस्मात् ते गत्वा तस्य प्रयोजनीयद्रव्याणि संग्रहीतुं शोमिरोणीयानां ग्रामं प्रविविशुः।
53 किन्तु स यिरूशालमं नगरं याति ततो हेतो र्लोकास्तस्यातिथ्यं न चक्रुः।
54 अतएव याकूब्योहनौ तस्य शिष्यौ तद् दृष्ट्वा जगदतुः, हे प्रभो एलियो यथा चकार तथा वयमपि किं गगणाद् आगन्तुम् एतान् भस्मीकर्त्तुञ्च वह्निमाज्ञापयामः? भवान् किमिच्छति?
55 किन्तु स मुखं परावर्त्य तान् तर्जयित्वा गदितवान् युष्माकं मनोभावः कः, इति यूयं न जानीथ।
56 मनुजसुतो मनुजानां प्राणान् नाशयितुं नागच्छत्, किन्तु रक्षितुम् आगच्छत्। पश्चाद् इतरग्रामं ते ययुः।
57 तदनन्तरं पथि गमनकाले जन एकस्तं बभाषे, हे प्रभो भवान् यत्र याति भवता सहाहमपि तत्र यास्यामि।
58 तदानीं यीशुस्तमुवाच, गोमायूनां गर्त्ता आसते, विहायसीयविहगाानां नीडानि च सन्ति, किन्तु मानवतनयस्य शिरः स्थापयितुं स्थानं नास्ति।
59 ततः परं स इतरजनं जगाद, त्वं मम पश्चाद् एहि; ततः स उवाच, हे प्रभो पूर्व्वं पितरं श्मशाने स्थापयितुं मामादिशतु।
60 तदा यीशुरुवाच, मृता मृतान् श्मशाने स्थापयन्तु किन्तु त्वं गत्वेश्वरीयराज्यस्य कथां प्रचारय।
61 ततोन्यः कथयामास, हे प्रभो मयापि भवतः पश्चाद् गंस्यते, किन्तु पूर्व्वं मम निवेशनस्य परिजनानाम् अनुमतिं ग्रहीतुम् अहमादिश्यै भवता।
62 तदानीं यीशुस्तं प्रोक्तवान्, यो जनो लाङ्गले करमर्पयित्वा पश्चात् पश्यति स ईश्वरीयराज्यं नार्हति।

लूकलिखितः सुसंवादः 10

1 ततः परं प्रभुरपरान् सप्ततिशिष्यान् नियुज्य स्वयं यानि नगराणि यानि स्थानानि च गमिष्यति तानि नगराणि तानि स्थानानि च प्रति द्वौ द्वौ जनौ प्रहितवान्।
2 तेभ्यः कथयामास च शस्यानि बहूनीति सत्यं किन्तु छेदका अल्पे; तस्माद्धेतोः शस्यक्षेत्रे छेदकान् अपरानपि प्रेषयितुं क्षेत्रस्वामिनं प्रार्थयध्वं।
3 यूयं यात, पश्यत, वृकाणां मध्ये मेषशावकानिव युष्मान् प्रहिणोमि।
4 यूयं क्षुद्रं महद् वा वसनसम्पुटकं पादुकाश्च मा गृह्लीत, मार्गमध्ये कमपि मा नमत च।
5 अपरञ्च यूयं यद् यत् निवेशनं प्रविशथ तत्र निवेशनस्यास्य मङ्गलं भूयादिति वाक्यं प्रथमं वदत।
6 तस्मात् तस्मिन् निवेशने यदि मङ्गलपात्रं स्थास्यति तर्हि तन्मङ्गलं तस्य भविष्यति, नोचेत् युष्मान् प्रति परावर्त्तिष्यते।
7 अपरञ्च ते यत्किञ्चिद् दास्यन्ति तदेव भुक्त्वा पीत्वा तस्मिन्निवेशने स्थास्यथ; यतः कर्म्मकारी जनो भृतिम् अर्हति; गृहाद् गृहं मा यास्यथ।
8 अन्यच्च युष्मासु किमपि नगरं प्रविष्टेषु लोका यदि युष्माकम् आतिथ्यं करिष्यन्ति, तर्हि यत् खाद्यम् उपस्थास्यन्ति तदेव खादिष्यथ।
9 तन्नगरस्थान् रोगिणः स्वस्थान् करिष्यथ, ईश्वरीयं राज्यं युष्माकम् अन्तिकम् आगमत् कथामेताञ्च प्रचारयिष्यथ।
10 किन्तु किमपि पुरं युष्मासु प्रविष्टेषु लोका यदि युष्माकम् आतिथ्यं न करिष्यन्ति, तर्हि तस्य नगरस्य पन्थानं गत्वा कथामेतां वदिष्यथ,
11 युष्माकं नगरीया या धूल्योऽस्मासु समलगन् ता अपि युष्माकं प्रातिकूल्येन साक्ष्यार्थं सम्पातयामः; तथापीश्वरराज्यं युष्माकं समीपम् आगतम् इति निश्चितं जानीत।
12 अहं युष्मभ्यं यथार्थं कथयामि, विचारदिने तस्य नगरस्य दशातः सिदोमो दशा सह्या भविष्यति।
13 हा हा कोरासीन् नगर, हा हा बैत्सैदानगर युवयोर्मध्ये यादृशानि आश्चर्य्याणि कर्म्माण्यक्रियन्त, तानि कर्म्माणि यदि सोरसीदोनो र्नगरयोरकारिष्यन्त, तदा इतो बहुदिनपूर्व्वं तन्निवासिनः शणवस्त्राणि परिधाय गात्रेषु भस्म विलिप्य समुपविश्य समखेत्स्यन्त।
14 अतो विचारदिवसे युष्माकं दशातः सोरसीदोन्निवासिनां दशा सह्या भविष्यति।
15 हे कफर्नाहूम्, त्वं स्वर्गं यावद् उन्नता किन्तु नरकं यावत् न्यग्भविष्यसि।
16 यो जनो युष्माकं वाक्यं गृह्लाति स ममैव वाक्यं गृह्लाति; किञ्च यो जनो युष्माकम् अवज्ञां करोति स ममैवावज्ञां करोति; यो जनो ममावज्ञां करोति च स मत्प्रेरकस्यैवावज्ञां करोति।
17 अथ ते सप्ततिशिष्या आनन्देन प्रत्यागत्य कथयामासुः, हे प्रभो भवतो नाम्ना भूता अप्यस्माकं वशीभवन्ति।
18 तदानीं स तान् जगाद, विद्युतमिव स्वर्गात् पतन्तं शैतानम् अदर्शम्।
19 पश्यत सर्पान् वृश्चिकान् रिपोः सर्व्वपराक्रमांश्च पदतलै र्दलयितुं युष्मभ्यं शक्तिं ददामि तस्माद् युष्माकं कापि हानि र्न भविष्यति।
20 भूता युष्माकं वशीभवन्ति, एतन्निमित्तत् मा समुल्लसत, स्वर्गे युष्माकं नामानि लिखितानि सन्तीति निमित्तं समुल्लसत।
21 तद्घटिकायां यीशु र्मनसि जाताह्लादः कथयामास हे स्वर्गपृथिव्योरेकाधिपते पितस्त्वं ज्ञानवतां विदुषाञ्च लोकानां पुरस्तात् सर्व्वमेतद् अप्रकाश्य बालकानां पुरस्तात् प्राकाशय एतस्माद्धेतोस्त्वां धन्यं वदामि, हे पितरित्थं भवतु यद् एतदेव तव गोचर उत्तमम्।
22 पित्रा सर्व्वाणि मयि समर्पितानि पितरं विना कोपि पुत्रं न जानाति किञ्च पुत्रं विना यस्मै जनाय पुत्रस्तं प्रकाशितवान् तञ्च विना कोपि पितरं न जानाति।
23 तपः परं स शिष्यान् प्रति परावृत्य गुप्तं जगाद, यूयमेतानि सर्व्वाणि पश्यथ ततो युष्माकं चक्षूंषि धन्यानि।
24 युष्मानहं वदामि, यूयं यानि सर्व्वाणि पश्यथ तानि बहवो भविष्यद्वादिनो भूपतयश्च द्रष्टुमिच्छन्तोपि द्रष्टुं न प्राप्नुवन्, युष्माभि र्या याः कथाश्च श्रूयन्ते ताः श्रोतुमिच्छन्तोपि श्रोतुं नालभन्त।
25 अनन्तरम् एको व्यवस्थापक उत्थाय तं परीक्षितुं पप्रच्छ, हे उपदेशक अनन्तायुषः प्राप्तये मया किं करणीयं?
26 यीशुः प्रत्युवाच, अत्रार्थे व्यवस्थायां किं लिखितमस्ति? त्वं कीदृक् पठसि?
27 ततः सोवदत्, त्वं सर्व्वान्तःकरणैः सर्व्वप्राणैः सर्व्वशक्तिभिः सर्व्वचित्तैश्च प्रभौ परमेश्वरे प्रेम कुरु, समीपवासिनि स्ववत् प्रेम कुरु च।
28 तदा स कथयामास, त्वं यथार्थं प्रत्यवोचः, इत्थम् आचर तेनैव जीविष्यसि।
29 किन्तु स जनः स्वं निर्द्दोषं ज्ञापयितुं यीशुं पप्रच्छ, मम समीपवासी कः? ततो यीशुः प्रत्युवाच,
30 एको जनो यिरूशालम्पुराद् यिरीहोपुरं याति, एतर्हि दस्यूनां करेषु पतिते ते तस्य वस्त्रादिकं हृतवन्तः तमाहत्य मृतप्रायं कृत्वा त्यक्त्वा ययुः।
31 अकस्माद् एको याजकस्तेन मार्गेण गच्छन् तं दृष्ट्वा मार्गान्यपार्श्वेन जगाम।
32 इत्थम् एको लेवीयस्तत्स्थानं प्राप्य तस्यान्तिकं गत्वा तं विलोक्यान्येन पार्श्वेन जगाम।
33 किन्त्वेकः शोमिरोणीयो गच्छन् तत्स्थानं प्राप्य तं दृष्ट्वादयत।
34 तस्यान्तिकं गत्वा तस्य क्षतेषु तैलं द्राक्षारसञ्च प्रक्षिप्य क्षतानि बद्ध्वा निजवाहनोपरि तमुपवेश्य प्रवासीयगृहम् आनीय तं सिषेवे।
35 परस्मिन् दिवसे निजगमनकाले द्वौ मुद्रापादौ तद्गृहस्वामिने दत्त्वावदत् जनमेनं सेवस्व तत्र योऽधिको व्ययो भविष्यति तमहं पुनरागमनकाले परिशोत्स्यामि।
36 एषां त्रयाणां मध्ये तस्य दस्युहस्तपतितस्य जनस्य समीपवासी कः? त्वया किं बुध्यते?
37 ततः स व्यवस्थापकः कथयामास यस्तस्मिन् दयां चकार। तदा यीशुः कथयामास त्वमपि गत्वा तथाचर।
38 ततः परं ते गच्छन्त एकं ग्रामं प्रविविशुः; तदा मर्थानामा स्त्री स्वगृहे तस्यातिथ्यं चकार।
39 तस्मात् मरियम् नामधेया तस्या भगिनी यीशोः पदसमीप उवविश्य तस्योपदेशकथां श्रोतुमारेभे।
40 किन्तु मर्था नानापरिचर्य्यायां व्यग्रा बभूव तस्माद्धेतोस्तस्य समीपमागत्य बभाषे; हे प्रभो मम भगिनी केवलं ममोपरि सर्व्वकर्म्मणां भारम् अर्पितवती तत्र भवता किञ्चिदपि न मनो निधीयते किम्? मम साहाय्यं कर्त्तुं भवान् तामादिशतु।
41 ततो यीशुः प्रत्युवाच हे मर्थे हे मर्थे, त्वं नानाकार्य्येषु चिन्तितवती व्यग्रा चासि,
42 किन्तु प्रयोजनीयम् एकमात्रम् आस्ते। अपरञ्च यमुत्तमं भागं कोपि हर्त्तुं न शक्नोति सएव मरियमा वृतः।

लूकलिखितः सुसंवादः 11

1 अनन्तरं स कस्मिंश्चित् स्थाने प्रार्थयत तत्समाप्तौ सत्यां तस्यैकः शिष्यस्तं जगाद हे प्रभो योहन् यथा स्वशिष्यान् प्रार्थयितुम् उपदिष्टवान् तथा भवानप्यस्मान् उपदिशतु।
2 तस्मात् स कथयामास, प्रार्थनकाले यूयम् इत्थं कथयध्वं, हे अस्माकं स्वर्गस्थपितस्तव नाम पूज्यं भवतु; तव राजत्वं भवतु; स्वर्गे यथा तथा पृथिव्यामपि तवेच्छया सर्व्वं भवतु।
3 प्रत्यहम् अस्माकं प्रयोजनीयं भोज्यं देहि।
4 यथा वयं सर्व्वान् अपराधिनः क्षमामहे तथा त्वमपि पापान्यस्माकं क्षमस्व। अस्मान् परीक्षां मानय किन्तु पापात्मनो रक्ष।
5 पश्चात् सोपरमपि कथितवान् यदि युष्माकं कस्यचिद् बन्धुस्तिष्ठति निशीथे च तस्य समीपं स गत्वा वदति,
6 हे बन्धो पथिक एको बन्धु र्मम निवेशनम् आयातः किन्तु तस्यातिथ्यं कर्त्तुं ममान्तिके किमपि नास्ति, अतएव पूपत्रयं मह्यम् ऋणं देहि;
7 तदा स यदि गृहमध्यात् प्रतिवदति मां मा क्लिशान, इदानीं द्वारं रुद्धं शयने मया सह बालकाश्च तिष्ठन्ति तुभ्यं दातुम् उत्थातुं न शक्नोमि,
8 तर्हि युष्मानहं वदामि, स यदि मित्रतया तस्मै किमपि दातुं नोत्तिष्ठति तथापि वारं वारं प्रार्थनात उत्थापितः सन् यस्मिन् तस्य प्रयोजनं तदेव दास्यति।
9 अतः कारणात् कथयामि, याचध्वं ततो युष्मभ्यं दास्यते, मृगयध्वं तत उद्देशं प्राप्स्यथ, द्वारम् आहत ततो युष्मभ्यं द्वारं मोक्ष्यते।
10 यो याचते स प्राप्नोति, यो मृगयते स एवोद्देशं प्राप्नोति, यो द्वारम् आहन्ति तदर्थं द्वारं मोच्यते।
11 पुत्रेण पूपे याचिते तस्मै पाषाणं ददाति वा मत्स्ये याचिते तस्मै सर्पं ददाति
12 वा अण्डे याचिते तस्मै वृश्चिकं ददाति युष्माकं मध्ये क एतादृशः पितास्ते?
13 तस्मादेव यूयमभद्रा अपि यदि स्वस्वबालकेभ्य उत्तमानि द्रव्याणि दातुं जानीथ तर्ह्यस्माकं स्वर्गस्थः पिता निजयाचकेभ्यः किं पवित्रम् आत्मानं न दास्यति?
14 अनन्तरं यीशुना कस्माच्चिद् एकस्मिन् मूकभूते त्याजिते सति स भूतत्यक्तो मानुषो वाक्यं वक्तुम् आरेभे; ततो लोकाः सकला आश्चर्य्यं मेनिरे।
15 किन्तु तेषां केचिदूचु र्जनोयं बालसिबूबा अर्थाद् भूतराजेन भूतान् त्याजयति।
16 तं परीक्षितुं केचिद् आकाशीयम् एकं चिह्नं दर्शयितुं तं प्रार्थयाञ्चक्रिरे।
17 तदा स तेषां मनःकल्पनां ज्ञात्वा कथयामास, कस्यचिद् राज्यस्य लोका यदि परस्परं विरुन्धन्ति तर्हि तद् राज्यम् नश्यति; केचिद् गृहस्था यदि परस्परं विरुन्धन्ति तर्हि तेपि नश्यन्ति।
18 तथैव शैतानपि स्वलोकान् यदि विरुणद्धि तदा तस्य राज्यं कथं स्थास्यति? बालसिबूबाहं भूतान् त्याजयामि यूयमिति वदथ।
19 यद्यहं बालसिबूबा भूतान् त्याजयामि तर्हि युष्माकं सन्तानाः केन त्याजयन्ति? तस्मात् तएव कथाया एतस्या विचारयितारो भविष्यन्ति।
20 किन्तु यद्यहम् ईश्वरस्य पराक्रमेण भूतान् त्याजयामि तर्हि युष्माकं निकटम् ईश्वरस्य राज्यमवश्यम् उपतिष्ठति।
21 बलवान् पुमान् सुसज्जमानो यतिकालं निजाट्टालिकां रक्षति ततिकालं तस्य द्रव्यं निरुपद्रवं तिष्ठति।
22 किन्तु तस्माद् अधिकबलः कश्चिदागत्य यदि तं जयति तर्हि येषु शस्त्रास्त्रेषु तस्य विश्वास आसीत् तानि सर्व्वाणि हृत्वा तस्य द्रव्याणि गृह्लाति।
23 अतः कारणाद् यो मम सपक्षो न स विपक्षः, यो मया सह न संगृह्लाति स विकिरति।
24 अपरञ्च अमेध्यभूतो मानुषस्यान्तर्निर्गत्य शुष्कस्थाने भ्रान्त्वा विश्रामं मृगयते किन्तु न प्राप्य वदति मम यस्माद् गृहाद् आगतोहं पुनस्तद् गृहं परावृत्य यामि।
25 ततो गत्वा तद् गृहं मार्जितं शोभितञ्च दृष्ट्वा
26 तत्क्षणम् अपगत्य स्वस्मादपि दुर्म्मतीन् अपरान् सप्तभूतान् सहानयति ते च तद्गृहं पविश्य निवसन्ति। तस्मात् तस्य मनुष्यस्य प्रथमदशातः शेषदशा दुःखतरा भवति।
27 अस्याः कथायाः कथनकाले जनतामध्यस्था काचिन्नारी तमुच्चैःस्वरं प्रोवाच, या योषित् त्वां गर्ब्भेऽधारयत् स्तन्यमपाययच्च सैव धन्या।
28 किन्तु सोकथयत् ये परमेश्वरस्य कथां श्रुत्वा तदनुरूपम् आचरन्ति तएव धन्याः।
29 ततः परं तस्यान्तिके बहुलोकानां समागमे जाते स वक्तुमारेभे, आधुनिका दुष्टलोकाश्चिह्नं द्रष्टुमिच्छन्ति किन्तु यूनस्भविष्यद्वादिनश्चिह्नं विनान्यत् किञ्चिच्चिह्नं तान् न दर्शयिष्यते।
30 यूनस् तु यथा नीनिवीयलोकानां समीपे चिह्नरूपोभवत् तथा विद्यमानलोकानाम् एषां समीपे मनुष्यपुत्रोपि चिह्नरूपो भविष्यति।
31 विचारसमये इदानीन्तनलोकानां प्रातिकूल्येन दक्षिणदेशीया राज्ञी प्रोत्थाय तान् दोषिणः करिष्यति, यतः सा राज्ञी सुलेमान उपदेशकथां श्रोतुं पृथिव्याः सीमात आगच्छत् किन्तु पश्यत सुलेमानोपि गुरुतर एको जनोऽस्मिन् स्थाने विद्यते।
32 अपरञ्च विचारसमये नीनिवीयलोका अपि वर्त्तमानकालिकानां लोकानां वैपरीत्येन प्रोत्थाय तान् दोषिणः करिष्यन्ति, यतो हेतोस्ते यूनसो वाक्यात् चित्तानि परिवर्त्तयामासुः किन्तु पश्यत यूनसोतिगुरुतर एको जनोऽस्मिन् स्थाने विद्यते।
33 प्रदीपं प्रज्वाल्य द्रोणस्याधः कुत्रापि गुप्तस्थाने वा कोपि न स्थापयति किन्तु गृहप्रवेशिभ्यो दीप्तिं दातं दीपाधारोपर्य्येव स्थापयति।
34 देहस्य प्रदीपश्चक्षुस्तस्मादेव चक्षु र्यदि प्रसन्नं भवति तर्हि तव सर्व्वशरीरं दीप्तिमद् भविष्यति किन्तु चक्षु र्यदि मलीमसं तिष्ठति तर्हि सर्व्वशरीरं सान्धकारं स्थास्यति।
35 अस्मात् कारणात् तवान्तःस्थं ज्योति र्यथान्धकारमयं न भवति तदर्थे सावधानो भव।
36 यतः शरीरस्य कुत्राप्यंशे सान्धकारे न जाते सर्व्वं यदि दीप्तिमत् तिष्ठति तर्हि तुभ्यं दीप्तिदायिप्रोज्ज्वलन् प्रदीप इव तव सवर्वशरीरं दीप्तिमद् भविष्यति।
37 एतत्कथायाः कथनकाले फिरुश्येको भेजनाय तं निमन्त्रयामास, ततः स गत्वा भोक्तुम् उपविवेश।
38 किन्तु भोजनात् पूर्व्वं नामाङ्क्षीत् एतद् दृष्ट्वा स फिरुश्याश्चर्य्यं मेने।
39 तदा प्रभुस्तं प्रोवाच यूयं फिरूशिलोकाः पानपात्राणां भोजनपात्राणाञ्च बहिः परिष्कुरुथ किन्तु युष्माकमन्त र्दौरात्म्यै र्दुष्क्रियाभिश्च परिपूर्णं तिष्ठति।
40 हे सर्व्वे निर्बोधा यो बहिः ससर्ज स एव किमन्त र्न ससर्ज?
41 तत एव युष्माभिरन्तःकरणं (ईश्वराय) निवेद्यतां तस्मिन् कृते युष्माकं सर्व्वाणि शुचितां यास्यन्ति।
42 किन्तु हन्त फिरूशिगणा यूयं न्यायम् ईश्वरे प्रेम च परित्यज्य पोदिनाया अरुदादीनां सर्व्वेषां शाकानाञ्च दशमांशान् दत्थ किन्तु प्रथमं पालयित्वा शेषस्यालङ्घनं युष्माकम् उचितमासीत्।
43 हा हा फिरूशिनो यूयं भजनगेहे प्रोच्चासने आपणेषु च नमस्कारेषु प्रीयध्वे।
44 वत कपटिनोऽध्यापकाः फिरूशिनश्च लोकायत् श्मशानम् अनुपलभ्य तदुपरि गच्छन्ति यूयम् तादृगप्रकाशितश्मशानवाद् भवथ।
45 तदानीं व्यवस्थापकानाम् एका यीशुमवदत्, हे उपदेशक वाक्येनेदृशेनास्मास्वपि दोषम् आरोपयसि।
46 ततः स उवाच, हा हा व्यवस्थापका यूयम् मानुषाणाम् उपरि दुःसह्यान् भारान् न्यस्यथ किन्तु स्वयम् एकाङ्गुुल्यापि तान् भारान् न स्पृशथ।
47 हन्त युष्माकं पूर्व्वपुरुषा यान् भविष्यद्वादिनोऽवधिषुस्तेषां श्मशानानि यूयं निर्म्माथ।
48 तेनैव यूयं स्वपूर्व्वपुरुषाणां कर्म्माणि संमन्यध्वे तदेव सप्रमाणं कुरुथ च, यतस्ते तानवधिषुः यूयं तेषां श्मशानानि निर्म्माथ।
49 अतएव ईश्वरस्य शास्त्रे प्रोक्तमस्ति तेषामन्तिके भविष्यद्वादिनः प्रेरितांश्च प्रेषयिष्यामि ततस्ते तेषां कांश्चन हनिष्यन्ति कांश्चन ताडश्ष्यिन्ति।
50 एतस्मात् कारणात् हाबिलः शोणितपातमारभ्य मन्दिरयज्ञवेद्यो र्मध्ये हतस्य सिखरियस्य रक्तपातपर्य्यन्तं
51 जगतः सृष्टिमारभ्य पृथिव्यां भविष्यद्वादिनां यतिरक्तपाता जातास्ततीनाम् अपराधदण्डा एषां वर्त्तमानलोकानां भविष्यन्ति, युष्मानहं निश्चितं वदामि सर्व्वे दण्डा वंशस्यास्य भविष्यन्ति।
52 हा हा व्यवस्थपका यूयं ज्ञानस्य कुञ्चिकां हृत्वा स्वयं न प्रविष्टा ये प्रवेष्टुञ्च प्रयासिनस्तानपि प्रवेष्टुं वारितवन्तः।
53 इत्थं कथाकथनाद् अध्यापकाः फिरूशिनश्च सतर्काः
54 सन्तस्तमपवदितुं तस्य कथाया दोषं धर्त्तमिच्छन्तो नानाख्यानकथनाय तं प्रवर्त्तयितुं कोपयितुञ्च प्रारेभिरे।

लूकलिखितः सुसंवादः 12

1 तदानीं लोकाः सहस्रं सहस्रम् आगत्य समुपस्थितास्तत एकैको ऽन्येषामुपरि पतितुम् उपचक्रमे; तदा यीशुः शिष्यान् बभाषे, यूयं फिरूशिनां किण्वरूपकापट्ये विशेषेण सावधानास्तिष्ठत।
2 यतो यन्न प्रकाशयिष्यते तदाच्छन्नं वस्तु किमपि नास्ति; तथा यन्न ज्ञास्यते तद् गुप्तं वस्तु किमपि नास्ति।
3 अन्धकारे तिष्ठनतो याः कथा अकथयत ताः सर्व्वाः कथा दीप्तौ श्रोष्यन्ते निर्जने कर्णे च यदकथयत गृहपृष्ठात् तत् प्रचारयिष्यते।
4 हे बन्धवो युष्मानहं वदामि, ये शरीरस्य नाशं विना किमप्यपरं कर्त्तुं न शक्रुवन्ति तेभ्यो मा भैष्ट।
5 तर्हि कस्माद् भेतव्यम् इत्यहं वदामि, यः शरीरं नाशयित्वा नरकं निक्षेप्तुं शक्नोति तस्मादेव भयं कुरुत, पुनरपि वदामि तस्मादेव भयं कुरुत।
6 पञ्च चटकपक्षिणः किं द्वाभ्यां ताम्रखण्डाभ्यां न विक्रीयन्ते? तथापीश्वरस्तेषाम् एकमपि न विस्मरति।
7 युष्माकं शिरःकेशा अपि गणिताः सन्ति तस्मात् मा विभीत बहुचटकपक्षिभ्योपि यूयं बहुमूल्याः।
8 अपरं युष्मभ्यं कथयामि यः कश्चिन् मानुषाणां साक्षान् मां स्वीकरोति मनुष्यपुत्र ईश्वरदूतानां साक्षात् तं स्वीकरिष्यति।
9 किन्तु यः कश्चिन्मानुषाणां साक्षान्माम् अस्वीकरोति तम् ईश्वरस्य दूतानां साक्षाद् अहम् अस्वीकरिष्यामि।
10 अन्यच्च यः कश्चिन् मनुजसुतस्य निन्दाभावेन काञ्चित् कथां कथयति तस्य तत्पापस्य मोचनं भविष्यति किन्तु यदि कश्चित् पवित्रम् आत्मानं निन्दति तर्हि तस्य तत्पापस्य मोचनं न भविष्यति।
11 यदा लोका युष्मान् भजनगेहं विचारकर्तृराज्यकर्तृणां सम्मुखञ्च नेष्यन्ति तदा केन प्रकारेण किमुत्तरं वदिष्यथ किं कथयिष्यथ चेत्यत्र मा चिन्तयत;
12 यतो युष्माभिर्यद् यद् वक्तव्यं तत् तस्मिन् समयएव पवित्र आत्मा युष्मान् शिक्षयिष्यति।
13 ततः परं जनतामध्यस्थः कश्चिज्जनस्तं जगाद हे गुरो मया सह पैतृकं धनं विभक्तुं मम भ्रातरमाज्ञापयतु भवान्।
14 किन्तु स तमवदत् हे मनुष्य युवयो र्विचारं विभागञ्च कर्त्तुं मां को नियुक्तवान्?
15 अनन्तरं स लोकानवदत् लोभे सावधानाः सतर्काश्च तिष्ठत, यतो बहुसम्पत्तिप्राप्त्या मनुष्यस्यायु र्न भवति।
16 पश्चाद् दृष्टान्तकथामुत्थाप्य कथयामास, एकस्य धनिनो भूमौ बहूनि शस्यानि जातानि।
17 ततः स मनसा चिन्तयित्वा कथयाम्बभूव ममैतानि समुत्पन्नानि द्रव्याणि स्थापयितुं स्थानं नास्ति किं करिष्यामि?
18 ततोवदद् इत्थं करिष्यामि, मम सर्व्वभाण्डागाराणि भङ्क्त्वा बृहद्भाण्डागाराणि निर्म्माय तन्मध्ये सर्व्वफलानि द्रव्याणि च स्थापयिष्यामि।
19 अपरं निजमनो वदिष्यामि, हे मनो बहुवत्सरार्थं नानाद्रव्याणि सञ्चितानि सन्ति विश्रामं कुरु भुक्त्वा पीत्वा कौतुकञ्च कुरु। किन्त्वीश्वरस्तम् अवदत्,
20 रे निर्बोध अद्य रात्रौ तव प्राणास्त्वत्तो नेष्यन्ते तत एतानि यानि द्रव्याणि त्वयासादितानि तानि कस्य भविष्यन्ति?
21 अतएव यः कश्चिद् ईश्वरस्य समीपे धनसञ्चयमकृत्वा केवलं स्वनिकटे सञ्चयं करोति सोपि तादृशः।
22 अथ स शिष्येभ्यः कथयामास, युष्मानहं वदामि, किं खादिष्यामः? किं परिधास्यामः? इत्युक्त्वा जीवनस्य शरीरस्य चार्थं चिन्तां मा कार्ष्ट।
23 भक्ष्याज्जीवनं भूषणाच्छरीरञ्च श्रेष्ठं भवति।
24 काकपक्षिणां कार्य्यं विचारयत, ते न वपन्ति शस्यानि च न छिन्दन्ति, तेषां भाण्डागाराणि न सन्ति कोषाश्च न सन्ति, तथापीश्वरस्तेभ्यो भक्ष्याणि ददाति, यूयं पक्षिभ्यः श्रेष्ठतरा न किं?
25 अपरञ्च भावयित्वा निजायुषः क्षणमात्रं वर्द्धयितुं शक्नोति, एतादृशो लाको युष्माकं मध्ये कोस्ति?
26 अतएव क्षुद्रं कार्य्यं साधयितुम् असमर्था यूयम् अन्यस्मिन् कार्य्ये कुतो भावयथ?
27 अन्यच्च काम्पिलपुष्पं कथं वर्द्धते तदापि विचारयत, तत् कञ्चन श्रमं न करोति तन्तूंश्च न जनयति किन्तु युष्मभ्यं यथार्थं कथयामि सुलेमान् बह्वैश्वर्य्यान्वितोपि पुष्पस्यास्य सदृशो विभूषितो नासीत्।
28 अद्य क्षेत्रे वर्त्तमानं श्वश्चूल्ल्यां क्षेप्स्यमानं यत् तृणं, तस्मै यदीश्वर इत्थं भूषयति तर्हि हे अल्पप्रत्ययिनो युष्मान किं न परिधापयिष्यति?
29 अतएव किं खादिष्यामः? किं परिधास्यामः? एतदर्थं मा चेष्टध्वं मा संदिग्ध्वञ्च।
30 जगतो देवार्च्चका एतानि सर्व्वाणि चेष्टनते; एषु वस्तुषु युष्माकं प्रयोजनमास्ते इति युष्माकं पिता जानाति।
31 अतएवेश्वरस्य राज्यार्थं सचेष्टा भवत तथा कृते सर्व्वाण्येतानि द्रव्याणि युष्मभ्यं प्रदायिष्यन्ते।
32 हे क्षुद्रमेषव्रज यूयं मा भैष्ट युष्मभ्यं राज्यं दातुं युष्माकं पितुः सम्मतिरस्ति।
33 अतएव युष्माकं या या सम्पत्तिरस्ति तां तां विक्रीय वितरत, यत् स्थानं चौरा नागच्छन्ति, कीटाश्च न क्षाययन्ति तादृशे स्वर्गे निजार्थम् अजरे सम्पुटके ऽक्षयं धनं सञ्चिनुत च;
34 यतो यत्र युष्माकं धनं वर्त्तते तत्रेव युष्माकं मनः।
35 अपरञ्च यूयं प्रदीपं ज्वालयित्वा बद्धकटयस्तिष्ठत;
36 प्रभु र्विवाहादागत्य यदैव द्वारमाहन्ति तदैव द्वारं मोचयितुं यथा भृत्या अपेक्ष्य तिष्ठन्ति तथा यूयमपि तिष्ठत।
37 यतः प्रभुरागत्य यान् दासान् सचेतनान् तिष्ठतो द्रक्ष्यति तएव धन्याः; अहं युष्मान् यथार्थं वदामि प्रभुस्तान् भोजनार्थम् उपवेश्य स्वयं बद्धकटिः समीपमेत्य परिवेषयिष्यति।
38 यदि द्वितीये तृतीये वा प्रहरे समागत्य तथैव पश्यति, तर्हि तएव दासा धन्याः।
39 अपरञ्च कस्मिन् क्षणे चौरा आगमिष्यन्ति इति यदि गृहपति र्ज्ञातुं शक्नोति तदावश्यं जाग्रन् निजगृहे सन्धिं कर्त्तयितुं वारयति यूयमेतद् वित्त।
40 अतएव यूयमपि सज्जमानास्तिष्ठत यतो यस्मिन् क्षणे तं नाप्रेक्षध्वे तस्मिन्नेव क्षणे मनुष्यपुत्र आगमिष्यति।
41 तदा पितरः पप्रच्छ, हे प्रभो भवान् किमस्मान् उद्दिश्य किं सर्व्वान् उद्दिश्य दृष्टान्तकथामिमां वदति?
42 ततः प्रभुः प्रोवाच, प्रभुः समुचितकाले निजपरिवारार्थं भोज्यपरिवेषणाय यं तत्पदे नियोक्ष्यति तादृशो विश्वास्यो बोद्धा कर्म्माधीशः कोस्ति?
43 प्रभुरागत्य यम् एतादृशे कर्म्मणि प्रवृत्तं द्रक्ष्यति सएव दासो धन्यः।
44 अहं युष्मान् यथार्थं वदामि स तं निजसर्व्वस्वस्याधिपतिं करिष्यति।
45 किन्तु प्रभुर्विलम्बेनागमिष्यति, इति विचिन्त्य स दासो यदि तदन्यदासीदासान् प्रहर्त्तुम् भोक्तुं पातुं मदितुञ्च प्रारभते,
46 तर्हि यदा प्रभुं नापेक्षिष्यते यस्मिन् क्षणे सोऽचेतनश्च स्थास्यति तस्मिन्नेव क्षणे तस्य प्रभुरागत्य तं पदभ्रष्टं कृत्वा विश्वासहीनैः सह तस्य अंशं निरूपयिष्यति।
47 यो दासः प्रभेाराज्ञां ज्ञात्वापि सज्जितो न तिष्ठति तदाज्ञानुसारेण च कार्य्यं न करोति सोनेकान् प्रहारान् प्राप्स्यति;
48 किन्तु यो जनोऽज्ञात्वा प्रहारार्हं कर्म्म करोति सोल्पप्रहारान् प्राप्स्यति। यतो यस्मै बाहुल्येन दत्तं तस्मादेव बाहुल्येन ग्रहीष्यते, मानुषा यस्य निकटे बहु समर्पयन्ति तस्माद् बहु याचन्ते।
49 अहं पृथिव्याम् अनैक्यरूपं वह्नि निक्षेप्तुम् आगतोस्मि, स चेद् इदानीमेव प्रज्वलति तत्र मम का चिन्ता?
50 किन्तु येन मज्जनेनाहं मग्नो भविष्यामि यावत्कालं तस्य सिद्धि र्न भविष्यति तावदहं कतिकष्टं प्राप्स्यामि।
51 मेलनं कर्त्तुं जगद् आगतोस्मि यूयं किमित्थं बोधध्वे? युष्मान् वदामि न तथा, किन्त्वहं मेलनाभावं कर्त्तुंम् आगतोस्मि।
52 यस्मादेतत्कालमारभ्य एकत्रस्थपरिजनानां मध्ये पञ्चजनाः पृथग् भूत्वा त्रयो जना द्वयोर्जनयोः प्रतिकूला द्वौ जनौ च त्रयाणां जनानां प्रतिकूलौ भविष्यन्ति।
53 पिता पुत्रस्य विपक्षः पुत्रश्च पितु र्विपक्षो भविष्यति माता कन्याया विपक्षा कन्या च मातु र्विपक्षा भविष्यति, तथा श्वश्रूर्बध्वा विपक्षा बधूश्च श्वश्र्वा विपक्षा भविष्यति।
54 स लोकेभ्योपरमपि कथयामास, पश्चिमदिशि मेघोद्गमं दृष्ट्वा यूयं हठाद् वदथ वृष्टि र्भविष्यति ततस्तथैव जायते।
55 अपरं दक्षिणतो वायौ वाति सति वदथ निदाघो भविष्यति ततः सोपि जायते।
56 रे रे कपटिन आकाशस्य भूम्याश्च लक्षणं बोद्धुं शक्नुथ,
57 किन्तु कालस्यास्य लक्षणं कुतो बोद्धुं न शक्नुथ? यूयञ्च स्वयं कुतो न न्याष्यं विचारयथ?
58 अपरञ्च विवादिना सार्द्धं विचारयितुः समीपं गच्छन् पथि तस्मादुद्धारं प्राप्तुं यतस्व नोचेत् स त्वां धृत्वा विचारयितुः समीपं नयति। विचारयिता यदि त्वां प्रहर्त्तुः समीपं समर्पयति प्रहर्त्ता त्वां कारायां बध्नाति
59 तर्हि त्वामहं वदामि त्वया निःशेषं कपर्दकेषु न परिशोधितेषु त्वं ततो मुक्तिं प्राप्तुं न शक्ष्यसि।

लूकलिखितः सुसंवादः 13

1 अपरञ्च पीलातो येषां गालीलीयानां रक्तानि बलीनां रक्तैः सहामिश्रयत् तेषां गालीलीयानां वृत्तान्तं कतिपयजना उपस्थाप्य यीशवे कथयामासुः।
2 ततः स प्रत्युवाच तेषां लोकानाम् एतादृशी दुर्गति र्घटिता तत्कारणाद् यूयं किमन्येभ्यो गालीलीयेभ्योप्यधिकपापिनस्तान् बोधध्वे?
3 युष्मानहं वदामि तथा न किन्तु मनःसु न परावर्त्तितेषु यूयमपि तथा नंक्ष्यथ।
4 अपरञ्च शीलोहनाम्न उच्चगृहस्य पतनाद् येऽष्टादशजना मृतास्ते यिरूशालमि निवासिसर्व्वलोकेभ्योऽधिकापराधिनः किं यूयमित्यं बोधध्वे?
5 युष्मानहं वदामि तथा न किन्तु मनःसु न परिवर्त्तितेषु यूयमपि तथा नंक्ष्यथ।
6 अनन्तरं स इमां दृष्टान्तकथामकथयद् एको जनो द्राक्षाक्षेत्रमध्य एकमुडुम्बरवृक्षं रोपितवान्। पश्चात् स आगत्य तस्मिन् फलानि गवेषयामास,
7 किन्तु फलाप्राप्तेः कारणाद् उद्यानकारं भृत्यं जगाद, पश्य वत्सरत्रयं यावदागत्य एतस्मिन्नुडुम्बरतरौ क्षलान्यन्विच्छामि, किन्तु नैकमपि प्रप्नोमि तरुरयं कुतो वृथा स्थानं व्याप्य तिष्ठति? एनं छिन्धि।
8 ततो भृत्यः प्रत्युवाच, हे प्रभो पुनर्वर्षमेकं स्थातुम् आदिश; एतस्य मूलस्य चतुर्दिक्षु खनित्वाहम् आलवालं स्थापयामि।
9 ततः फलितुं शक्नोति यदि न फलति तर्हि पश्चात् छेत्स्यसि।
10 अथ विश्रामवारे भजनगेहे यीशुरुपदिशति
11 तस्मित् समये भूतग्रस्तत्वात् कुब्जीभूयाष्टादशवर्षाणि यावत् केनाप्युपायेन ऋजु र्भवितुं न शक्नोति या दुर्ब्बला स्त्री,
12 तां तत्रोपस्थितां विलोक्य यीशुस्तामाहूय कथितवान् हे नारि तव दौर्ब्बल्यात् त्वं मुक्ता भव।
13 ततः परं तस्या गात्रे हस्तार्पणमात्रात् सा ऋजुर्भूत्वेश्वरस्य धन्यवादं कर्त्तुमारेभे।
14 किन्तु विश्रामवारे यीशुना तस्याः स्वास्थ्यकरणाद् भजनगेहस्याधिपतिः प्रकुप्य लोकान् उवाच, षट्सु दिनेषु लोकैः कर्म्म कर्त्तव्यं तस्माद्धेतोः स्वास्थ्यार्थं तेषु दिनेषु आगच्छत, विश्रामवारे मागच्छत।
15 तदा पभुः प्रत्युवाच रे कपटिनो युष्माकम् एकैको जनो विश्रामवारे स्वीयं स्वीयं वृषभं गर्दभं वा बन्धनान्मोचयित्वा जलं पाययितुं किं न नयति?
16 तर्ह्याष्टादशवत्सरान् यावत् शैताना बद्धा इब्राहीमः सन्ततिरियं नारी किं विश्रामवारे न मोचयितव्या?
17 एषु वाक्येषु कथितेषु तस्य विपक्षाः सलज्जा जाताः किन्तु तेन कृतसर्व्वमहाकर्म्मकारणात् लोकनिवहः सानन्दोऽभवत्।
18 अनन्तरं सोवदद् ईश्वरस्य राज्यं कस्य सदृशं? केन तदुपमास्यामि?
19 यत् सर्षपबीजं गृहीत्वा कश्चिज्जन उद्यान उप्तवान् तद् बीजमङ्कुरितं सत् महावृक्षोऽजायत, ततस्तस्य शाखासु विहायसीयविहगा आगत्य न्यूषुः, तद्राज्यं तादृशेन सर्षपबीजेन तुल्यं।
20 पुनः कथयामास, ईश्वरस्य राज्यं कस्य सदृशं वदिष्यामि? यत् किण्वं काचित् स्त्री गृहीत्वा द्रोणत्रयपरिमितगोधूमचूर्णेषु स्थापयामास,
21 ततः क्रमेण तत् सर्व्वगोधूमचूर्णं व्याप्नोति, तस्य किण्वस्य तुल्यम् ईश्वरस्य राज्यं।
22 ततः स यिरूशालम्नगरं प्रति यात्रां कृत्वा नगरे नगरे ग्रामे ग्रामे समुपदिशन् जगाम।
23 तदा कश्चिज्जनस्तं पप्रच्छ, हे प्रभो किं केवलम् अल्पे लोकाः परित्रास्यन्ते?
24 ततः स लोकान् उवाच, संकीर्णद्वारेण प्रवेष्टुं यतघ्वं, यतोहं युष्मान् वदामि, बहवः प्रवेष्टुं चेष्टिष्यन्ते किन्तु न शक्ष्यन्ति।
25 गृहपतिनोत्थाय द्वारे रुद्धे सति यदि यूयं बहिः स्थित्वा द्वारमाहत्य वदथ, हे प्रभो हे प्रभो अस्मत्कारणाद् द्वारं मोचयतु, ततः स इति प्रतिवक्ष्यति, यूयं कुत्रत्या लोका इत्यहं न जानामि।
26 तदा यूयं वदिष्यथ, तव साक्षाद् वयं भेाजनं पानञ्च कृतवन्तः, त्वञ्चास्माकं नगरस्य पथि समुपदिष्टवान्।
27 किन्तु स वक्ष्यति, युष्मानहं वदामि, यूयं कुत्रत्या लोका इत्यहं न जानामि; हे दुराचारिणो यूयं मत्तो दूरीभवत।
28 तदा इब्राहीमं इस्हाकं याकूबञ्च सर्व्वभविष्यद्वादिनश्च ईश्वरस्य राज्यं प्राप्तान् स्वांश्च बहिष्कृतान् दृष्ट्वा यूयं रोदनं दन्तैर्दन्तघर्षणञ्च करिष्यथ।
29 अपरञ्च पूर्व्वपश्चिमदक्षिणोत्तरदिग्भ्यो लोका आगत्य ईश्वरस्य राज्ये निवत्स्यन्ति।
30 पश्यतेत्थं शेषीया लोका अग्रा भविष्यन्ति, अग्रीया लोकाश्च शेषा भविष्यन्ति।
31 अपरञ्च तस्मिन् दिने कियन्तः फिरूशिन आगत्य यीशुं प्रोचुः, बहिर्गच्छ, स्थानादस्मात् प्रस्थानं कुरु, हेरोद् त्वां जिघांसति।
32 ततः स प्रत्यवोचत् पश्यताद्य श्वश्च भूतान् विहाप्य रोगिणोऽरोगिणः कृत्वा तृतीयेह्नि सेत्स्यामि, कथामेतां यूयमित्वा तं भूरिमायं वदत।
33 तत्राप्यद्य श्वः परश्वश्च मया गमनागमने कर्त्तव्ये, यतो हेतो र्यिरूशालमो बहिः कुत्रापि कोपि भविष्यद्वादी न घानिष्यते।
34 हे यिरूशालम् हे यिरूशालम् त्वं भविष्यद्वादिनो हंसि तवान्तिके प्रेरितान् प्रस्तरैर्मारयसि च, यथा कुक्कुटी निजपक्षाधः स्वशावकान् संगृह्लाति, तथाहमपि तव शिशून् संग्रहीतुं कतिवारान् ऐच्छं किन्तु त्वं नैच्छः।
35 पश्यत युष्माकं वासस्थानानि प्रोच्छिद्यमानानि परित्यक्तानि च भविष्यन्ति; युष्मानहं यथार्थं वदामि, यः प्रभो र्नाम्नागच्छति स धन्य इति वाचं यावत्कालं न वदिष्यथ, तावत्कालं यूयं मां न द्रक्ष्यथ।

लूकलिखितः सुसंवादः 14

1 अनन्तरं विश्रामवारे यीशौ प्रधानस्य फिरूशिनो गृहे भोक्तुं गतवति ते तं वीक्षितुम् आरेभिरे।
2 तदा जलोदरी तस्य सम्मुखे स्थितः।
3 ततः स व्यवस्थापकान् फिरूशिनश्च पप्रच्छ, विश्रामवारे स्वास्थ्यं कर्त्तव्यं न वा? ततस्ते किमपि न प्रत्यूचुः।
4 तदा स तं रोगिणं स्वस्थं कृत्वा विससर्ज;
5 तानुवाच च युष्माकं कस्यचिद् गर्द्दभो वृषभो वा चेद् गर्त्ते पतति तर्हि विश्रामवारे तत्क्षणं स किं तं नोत्थापयिष्यति?
6 ततस्ते कथाया एतस्याः किमपि प्रतिवक्तुं न शेकुः।
7 अपरञ्च प्रधानस्थानमनोनीतत्वकरणं विलोक्य स निमन्त्रितान् एतदुपदेशकथां जगाद,
8 त्वं विवाहादिभोज्येषु निमन्त्रितः सन् प्रधानस्थाने मोपावेक्षीः। त्वत्तो गौरवान्वितनिमन्त्रितजन आयाते
9 निमन्त्रयितागत्य मनुष्यायैतस्मै स्थानं देहीति वाक्यं चेद् वक्ष्यति तर्हि त्वं सङ्कुचितो भूत्वा स्थान इतरस्मिन् उपवेष्टुम् उद्यंस्यसि।
10 अस्मात् कारणादेव त्वं निमन्त्रितो गत्वाऽप्रधानस्थान उपविश, ततो निमन्त्रयितागत्य वदिष्यति, हे बन्धो प्रोच्चस्थानं गत्वोपविश, तथा सति भोजनोपविष्टानां सकलानां साक्षात् त्वं मान्यो भविष्यसि।
11 यः कश्चित् स्वमुन्नमयति स नमयिष्यते, किन्तु यः कश्चित् स्वं नमयति स उन्नमयिष्यते।
12 तदा स निमन्त्रयितारं जनमपि जगाद, मध्याह्ने रात्रौ वा भोज्ये कृते निजबन्धुगणो वा भ्रातृृगणो वा ज्ञातिगणो वा धनिगणो वा समीपवासिगणो वा एतान् न निमन्त्रय, तथा कृते चेत् ते त्वां निमन्त्रयिष्यन्ति, तर्हि परिशोधो भविष्यति।
13 किन्तु यदा भेज्यं करोषि तदा दरिद्रशुष्ककरखञ्जान्धान् निमन्त्रय,
14 तत आशिषं लप्स्यसे, तेषु परिशोधं कर्त्तुमशक्नुवत्सु श्मशानाद्धार्म्मिकानामुत्थानकाले त्वं फलां लप्स्यसे।
15 अनन्तरं तां कथां निशम्य भोजनोपविष्टः कश्चित् कथयामास, यो जन ईश्वरस्य राज्ये भोक्तुं लप्स्यते सएव धन्यः।
16 ततः स उवाच, कश्चित् जनो रात्रौ भेाज्यं कृत्वा बहून् निमन्त्रयामास।
17 ततो भोजनसमये निमन्त्रितलोकान् आह्वातुं दासद्वारा कथयामास, खद्यद्रव्याणि सर्व्वाणि समासादितानि सन्ति, यूयमागच्छत।
18 किन्तु ते सर्व्व एकैकं छलं कृत्वा क्षमां प्रार्थयाञ्चक्रिरे। प्रथमो जनः कथयामास, क्षेत्रमेकं क्रीतवानहं तदेव द्रष्टुं मया गन्तव्यम्, अतएव मां क्षन्तुं तं निवेदय।
19 अन्यो जनः कथयामास, दशवृषानहं क्रीतवान् तान् परीक्षितुं यामि तस्मादेव मां क्षन्तुं तं निवेदय।
20 अपरः कथयामास, व्यूढवानहं तस्मात् कारणाद् यातुं न शक्नोमि।
21 पश्चात् स दासो गत्वा निजप्रभोः साक्षात् सर्व्ववृत्तान्तं निवेदयामास, ततोसौ गृहपतिः कुपित्वा स्वदासं व्याजहार, त्वं सत्वरं नगरस्य सन्निवेशान् मार्गांश्च गत्वा दरिद्रशुष्ककरखञ्जान्धान् अत्रानय।
22 ततो दासोऽवदत्, हे प्रभो भवत आज्ञानुसारेणाक्रियत तथापि स्थानमस्ति।
23 तदा प्रभुः पुन र्दासायाकथयत्, राजपथान् वृक्षमूलानि च यात्वा मदीयगृहपूरणार्थं लोकानागन्तुं प्रवर्त्तय।
24 अहं युष्मभ्यं कथयामि, पूर्व्वनिमन्त्रितानमेकोपि ममास्य रात्रिभोज्यस्यास्वादं न प्राप्स्यति।
25 अनन्तरं बहुषु लोकेषु यीशोः पश्चाद् व्रजितेषु सत्सु स व्याघुट्य तेभ्यः कथयामास,
26 यः कश्चिन् मम समीपम् आगत्य स्वस्य माता पिता पत्नी सन्ताना भ्रातरो भगिम्यो निजप्राणाश्च, एतेभ्यः सर्व्वेभ्यो मय्यधिकं प्रेम न करोति, स मम शिष्यो भवितुं न शक्ष्यति।
27 यः कश्चित् स्वीयं क्रुशं वहन् मम पश्चान्न गच्छति, सोपि मम शिष्यो भवितुं न शक्ष्यति।
28 दुर्गनिर्म्माणे कतिव्ययो भविष्यति, तथा तस्य समाप्तिकरणार्थं सम्पत्तिरस्ति न वा, प्रथममुपविश्य एतन्न गणयति, युष्माकं मध्य एतादृशः कोस्ति?
29 नोचेद् भित्तिं कृत्वा शेषे यदि समापयितुं न शक्ष्यति,
30 तर्हि मानुषोयं निचेतुम् आरभत समापयितुं नाशक्नोत्, इति व्याहृत्य सर्व्वे तमुपहसिष्यन्ति।
31 अपरञ्च भिन्नभूपतिना सह युद्धं कर्त्तुम् उद्यम्य दशसहस्राणि सैन्यानि गृहीत्वा विंशतिसहस्रेः सैन्यैः सहितस्य समीपवासिनः सम्मुखं यातुं शक्ष्यामि न वेति प्रथमं उपविश्य न विचारयति एतादृशो भूमिपतिः कः?
32 यदि न शक्नोति तर्हि रिपावतिदूरे तिष्ठति सति निजदूतं प्रेष्य सन्धिं कर्त्तुं प्रार्थयेत।
33 तद्वद् युष्माकं मध्ये यः कश्चिन् मदर्थं सर्व्वस्वं हातुं न शक्नोति स मम शिष्यो भवितुं न शक्ष्यति।
34 लवणम् उत्तमम् इति सत्यं, किन्तु यदि लवणस्य लवणत्वम् अपगच्छति तर्हि तत् कथं स्वादुयुक्तं भविष्यति?
35 तद भूम्यर्थम् आलवालराश्यर्थमपि भद्रं न भवति; लोकास्तद् बहिः क्षिपन्ति। यस्य श्रोतुं श्रोत्रे स्तः स शृणोतु।

लूकलिखितः सुसंवादः 15

1 तदा करसञ्चायिनः पापिनश्च लोका उपदेश्कथां श्रोतुं यीशोः समीपम् आगच्छन्।
2 ततः फिरूशिन उपाध्यायाश्च विवदमानाः कथयामासुः एष मानुषः पापिभिः सह प्रणयं कृत्वा तैः सार्द्धं भुंक्ते।
3 तदा स तेभ्य इमां दृष्टान्तकथां कथितवान्,
4 कस्यचित् शतमेषेषु तिष्ठत्मु तेषामेकं स यदि हारयति तर्हि मध्येप्रान्तरम् एकोनशतमेषान् विहाय हारितमेषस्य उद्देशप्राप्तिपर्य्यनतं न गवेषयति, एतादृशो लोको युष्माकं मध्ये क आस्ते?
5 तस्योद्देशं प्राप्य हृष्टमनास्तं स्कन्धे निधाय स्वस्थानम् आनीय बन्धुबान्धवसमीपवासिन आहूय वक्ति,
6 हारितं मेषं प्राप्तोहम् अतो हेतो र्मया सार्द्धम् आनन्दत।
7 तद्वदहं युष्मान् वदामि, येषां मनःपरावर्त्तनस्य प्रयोजनं नास्ति, तादृशैकोनशतधार्म्मिककारणाद् य आनन्दस्तस्माद् एकस्य मनःपरिवर्त्तिनः पापिनः कारणात् स्वर्गे ऽधिकानन्दो जायते।
8 अपरञ्च दशानां रूप्यखण्डानाम् एकखण्डे हारिते प्रदीपं प्रज्वाल्य गृहं सम्मार्ज्य तस्य प्राप्तिं यावद् यत्नेन न गवेषयति, एतादृशी योषित् कास्ते?
9 प्राप्ते सति बन्धुबान्धवसमीपवासिनीराहूय कथयति, हारितं रूप्यखण्डं प्राप्ताहं तस्मादेव मया सार्द्धम् आनन्दत।
10 तद्वदहं युष्मान् व्याहरामि, एकेन पापिना मनसि परिवर्त्तिते, ईश्वरस्य दूतानां मध्येप्यानन्दो जायते।
11 अपरञ्च स कथयामास, कस्यचिद् द्वौ पुत्रावास्तां,
12 तयोः कनिष्ठः पुत्रः पित्रे कथयामास, हे पितस्तव सम्पत्त्या यमंशं प्राप्स्याम्यहं विभज्य तं देहि, ततः पिता निजां सम्पत्तिं विभज्य ताभ्यां ददौ।
13 कतिपयात् कालात् परं स कनिष्ठपुत्रः समस्तं धनं संगृह्य दूरदेशं गत्वा दुष्टाचरणेन सर्व्वां सम्पत्तिं नाशयामास।
14 तस्य सर्व्वधने व्ययं गते तद्देशे महादुर्भिक्षं बभूव, ततस्तस्य दैन्यदशा भवितुम् आरेभे।
15 ततः परं स गत्वा तद्देशीयं गृहस्थमेकम् आश्रयत; ततः सतं शूकरव्रजं चारयितुं प्रान्तरं प्रेषयामास।
16 केनापि तस्मै भक्ष्यादानात् स शूकरफलवल्कलेन पिचिण्डपूरणां ववाञ्छ।
17 शेषे स मनसि चेतनां प्राप्य कथयामास, हा मम पितुः समीपे कति कति वेतनभुजो दासा यथेष्टं ततोधिकञ्च भक्ष्यं प्राप्नुवन्ति किन्त्वहं क्षुधा मुमूर्षुः।
18 अहमुत्थाय पितुः समीपं गत्वा कथामेतां वदिष्यामि, हे पितर् ईश्वरस्य तव च विरुद्धं पापमकरवम्
19 तव पुत्रइति विख्यातो भवितुं न योग्योस्मि च, मां तव वैतनिकं दासं कृत्वा स्थापय।
20 पश्चात् स उत्थाय पितुः समीपं जगाम; ततस्तस्य पितातिदूरे तं निरीक्ष्य दयाञ्चक्रे, धावित्वा तस्य कण्ठं गृहीत्वा तं चुचुम्ब च।
21 तदा पुत्र उवाच, हे पितर् ईश्वरस्य तव च विरुद्धं पापमकरवं, तव पुत्रइति विख्यातो भवितुं न योग्योस्मि च।
22 किन्तु तस्य पिता निजदासान् आदिदेश, सर्व्वोत्तमवस्त्राण्यानीय परिधापयतैनं हस्ते चाङ्गुरीयकम् अर्पयत पादयोश्चोपानहौ समर्पयत;
23 पुष्टं गोवत्सम् आनीय मारयत च तं भुक्त्वा वयम् आनन्दाम।
24 यतो मम पुत्रोयम् अम्रियत पुनरजीवीद् हारितश्च लब्धोभूत् ततस्त आनन्दितुम् आरेभिरे।
25 तत्काले तस्य ज्येष्ठः पुत्रः क्षेत्र आसीत्। अथ स निवेशनस्य निकटं आगच्छन् नृत्यानां वाद्यानाञ्च शब्दं श्रुत्वा
26 दासानाम् एकम् आहूय पप्रच्छ, किं कारणमस्य?
27 ततः सोवादीत्, तव भ्रातागमत्, तव तातश्च तं सुशरीरं प्राप्य पुष्टं गोवत्सं मारितवान्।
28 ततः स प्रकुप्य निवेशनान्तः प्रवेष्टुं न सम्मेने; ततस्तस्य पिता बहिरागत्य तं साधयामास।
29 ततः स पितरं प्रत्युवाच, पश्य तव काञ्चिदप्याज्ञां न विलंघ्य बहून् वत्सरान् अहं त्वां सेवे तथापि मित्रैः सार्द्धम् उत्सवं कर्त्तुं कदापि छागमेकमपि मह्यं नाददाः;
30 किन्तु तव यः पुत्रो वेश्यागमनादिभिस्तव सम्पत्तिम् अपव्ययितवान् तस्मिन्नागतमात्रे तस्यैव निमित्तं पुष्टं गोवत्सं मारितवान्।
31 तदा तस्य पितावोचत्, हे पुत्र त्वं सर्व्वदा मया सहासि तस्मान् मम यद्यदास्ते तत्सर्व्वं तव।
32 किन्तु तवायं भ्राता मृतः पुनरजीवीद् हारितश्च भूत्वा प्राप्तोभूत्, एतस्मात् कारणाद् उत्सवानन्दौ कर्त्तुम् उचितमस्माकम्।

लूकलिखितः सुसंवादः 16

1 अपरञ्च यीशुः शिष्येभ्योन्यामेकां कथां कथयामास कस्यचिद् धनवतो मनुष्यस्य गृहकार्य्याधीशे सम्पत्तेरपव्ययेऽपवादिते सति
2 तस्य प्रभुस्तम् आहूय जगाद, त्वयि यामिमां कथां शृणोमि सा कीदृशी? त्वं गृहकार्य्याधीशकर्म्मणो गणनां दर्शय गृहकार्य्याधीशपदे त्वं न स्थास्यसि।
3 तदा स गृहकार्य्याधीशो मनसा चिन्तयामास, प्रभु र्यदि मां गृहकार्य्याधीशपदाद् भ्रंशयति तर्हि किं करिष्येऽहं? मृदं खनितुं मम शक्ति र्नास्ति भिक्षितुञ्च लज्जिष्येऽहं।
4 अतएव मयि गृहकार्य्याधीशपदात् च्युते सति यथा लोका मह्यम् आश्रयं दास्यन्ति तदर्थं यत्कर्म्म मया करणीयं तन् निर्णीयते।
5 पश्चात् स स्वप्रभोरेकैकम् अधमर्णम् आहूय प्रथमं पप्रच्छ, त्वत्तो मे प्रभुणा कति प्राप्यम्?
6 ततः स उवाच, एकशताढकतैलानि; तदा गृहकार्य्याधीशः प्रोवाच, तव पत्रमानीय शीघ्रमुपविश्य तत्र पञ्चाशतं लिख।
7 पश्चादन्यमेकं पप्रच्छ, त्वत्तो मे प्रभुणा कति प्राप्यम्? ततः सोवादीद् एकशताढकगोधूमाः; तदा स कथयामास, तव पत्रमानीय अशीतिं लिख।
8 तेनैव प्रभुस्तमयथार्थकृतम् अधीशं तद्बुद्धिनैपुण्यात् प्रशशंस; इत्थं दीप्तिरूपसन्तानेभ्य एतत्संसारस्य सन्ताना वर्त्तमानकालेऽधिकबुद्धिमन्तो भवन्ति।
9 अतो वदामि यूयमप्ययथार्थेन धनेन मित्राणि लभध्वं ततो युष्मासु पदभ्रष्टेष्वपि तानि चिरकालम् आश्रयं दास्यन्ति।
10 यः कश्चित् क्षुद्रे कार्य्ये विश्वास्यो भवति स महति कार्य्येपि विश्वास्यो भवति, किन्तु यः कश्चित् क्षुद्रे कार्य्येऽविश्वास्यो भवति स महति कार्य्येप्यविश्वास्यो भवति।
11 अतएव अयथार्थेन धनेन यदि यूयमविश्वास्या जातास्तर्हि सत्यं धनं युष्माकं करेषु कः समर्पयिष्यति?
12 यदि च परधनेन यूयम् अविश्वास्या भवथ तर्हि युष्माकं स्वकीयधनं युष्मभ्यं को दास्यति?
13 कोपि दास उभौ प्रभू सेवितुं न शक्नोति, यत एकस्मिन् प्रीयमाणोऽन्यस्मिन्नप्रीयते यद्वा एकं जनं समादृत्य तदन्यं तुच्छीकरोति तद्वद् यूयमपि धनेश्वरौ सेवितुं न शक्नुथ।
14 तदैताः सर्व्वाः कथाः श्रुत्वा लोभिफिरूशिनस्तमुपजहसुः।
15 ततः स उवाच, यूयं मनुष्याणां निकटे स्वान् निर्दोषान् दर्शयथ किन्तु युष्माकम् अन्तःकरणानीश्वरो जानाति, यत् मनुष्याणाम् अति प्रशंस्यं तद् ईश्वरस्य घृण्यं।
16 योहन आगमनपर्य्यनतं युष्माकं समीपे व्यवस्थाभविष्यद्वादिनां लेखनानि चासन् ततः प्रभृति ईश्वरराज्यस्य सुसंवादः प्रचरति, एकैको लोकस्तन्मध्यं यत्नेन प्रविशति च।
17 वरं नभसः पृथिव्याश्च लोपो भविष्यति तथापि व्यवस्थाया एकबिन्दोरपि लोपो न भविष्यति।
18 यः कश्चित् स्वीयां भार्य्यां विहाय स्त्रियमन्यां विवहति स परदारान् गच्छति, यश्च ता त्यक्तां नारीं विवहति सोपि परदारान गच्छति।
19 एको धनी मनुष्यः शुक्लानि सूक्ष्माणि वस्त्राणि पर्य्यदधात् प्रतिदिनं परितोषरूपेणाभुंक्तापिवच्च।
20 सर्व्वाङ्गे क्षतयुक्त इलियासरनामा कश्चिद् दरिद्रस्तस्य धनवतो भोजनपात्रात् पतितम् उच्छिष्टं भोक्तुं वाञ्छन् तस्य द्वारे पतित्वातिष्ठत्;
21 अथ श्वान आगत्य तस्य क्षतान्यलिहन्।
22 कियत्कालात्परं स दरिद्रः प्राणान् जहौ; ततः स्वर्गीयदूतास्तं नीत्वा इब्राहीमः क्रोड उपवेशयामासुः।
23 पश्चात् स धनवानपि ममार, तं श्मशाने स्थापयामासुश्च; किन्तु परलोके स वेदनाकुलः सन् ऊर्द्ध्वां निरीक्ष्य बहुदूराद् इब्राहीमं तत्क्रोड इलियासरञ्च विलोक्य रुवन्नुवाच;
24 हे पितर् इब्राहीम् अनुगृह्य अङ्गुल्यग्रभागं जले मज्जयित्वा मम जिह्वां शीतलां कर्त्तुम् इलियासरं प्रेरय, यतो वह्निशिखातोहं व्यथितोस्मि।
25 तदा इब्राहीम् बभाषे, हे पुत्र त्वं जीवन् सम्पदं प्राप्तवान् इलियासरस्तु विपदं प्राप्तवान् एतत् स्मर, किन्तु सम्प्रति तस्य सुखं तव च दुःखं भवति।
26 अपरमपि युष्माकम् अस्माकञ्च स्थानयो र्मध्ये महद्विच्छेदोऽस्ति तत एतत्स्थानस्य लोकास्तत् स्थानं यातुं यद्वा तत्स्थानस्य लोका एतत् स्थानमायातुं न शक्नुवन्ति।
27 तदा स उक्तवान्, हे पितस्तर्हि त्वां निवेदयामि मम पितु र्गेहे ये मम पञ्च भ्रातरः सन्ति
28 ते यथैतद् यातनास्थानं नायास्यन्ति तथा मन्त्रणां दातुं तेषां समीपम् इलियासरं प्रेरय।
29 तत इब्राहीम् उवाच, मूसाभविष्यद्वादिनाञ्च पुस्तकानि तेषां निकटे सन्ति ते तद्वचनानि मन्यन्तां।
30 तदा स निवेदयामास, हे पितर् इब्राहीम् न तथा, किन्तु यदि मृतलोकानां कश्चित् तेषां समीपं याति तर्हि ते मनांसि व्याघोटयिष्यन्ति।
31 तत इब्राहीम् जगाद, ते यदि मूसाभविष्यद्वादिनाञ्च वचनानि न मन्यन्ते तर्हि मृतलोकानां कस्मिंश्चिद् उत्थितेपि ते तस्य मन्त्रणां न मंस्यन्ते।

लूकलिखितः सुसंवादः 17

1 इतः परं यीशुः शिष्यान् उवाच, विघ्नैरवश्यम् आगन्तव्यं किन्तु विघ्ना येन घटिष्यन्ते तस्य दुर्गति र्भविष्यति।
2 एतेषां क्षुद्रप्राणिनाम् एकस्यापि विघ्नजननात् कण्ठबद्धपेषणीकस्य तस्य सागरागाधजले मज्जनं भद्रं।
3 यूयं स्वेषु सावधानास्तिष्ठत; तव भ्राता यदि तव किञ्चिद् अपराध्यति तर्हि तं तर्जय, तेन यदि मनः परिवर्त्तयति तर्हि तं क्षमस्व।
4 पुनरेकदिनमध्ये यदि स तव सप्तकृत्वोऽपराध्यति किन्तु सप्तकृत्व आगत्य मनः परिवर्त्य मयापराद्धम् इति वदति तर्हि तं क्षमस्व।
5 तदा प्रेरिताः प्रभुम् अवदन् अस्माकं विश्वासं वर्द्धय।
6 प्रभुरुवाच, यदि युष्माकं सर्षपैकप्रमाणो विश्वासोस्ति तर्हि त्वं समूलमुत्पाटितो भूत्वा समुद्रे रोपितो भव कथायाम् एतस्याम् एतदुडुम्बराय कथितायां स युष्माकमाज्ञावहो भविष्यति।
7 अपरं स्वदासे हलं वाहयित्वा वा पशून् चारयित्वा क्षेत्राद् आगते सति तं वदति, एहि भोक्तुमुपविश, युष्माकम् एतादृशः कोस्ति?
8 वरञ्च पूर्व्वं मम खाद्यमासाद्य यावद् भुञ्जे पिवामि च तावद् बद्धकटिः परिचर पश्चात् त्वमपि भोक्ष्यसे पास्यसि च कथामीदृशीं किं न वक्ष्यति?
9 तेन दासेन प्रभोराज्ञानुरूपे कर्म्मणि कृते प्रभुः किं तस्मिन् बाधितो जातः? नेत्थं बुध्यते मया।
10 इत्थं निरूपितेषु सर्व्वकर्म्मसु कृतेषु सत्मु यूयमपीदं वाक्यं वदथ, वयम् अनुपकारिणो दासा अस्माभिर्यद्यत्कर्त्तव्यं तन्मात्रमेव कृतं।
11 स यिरूशालमि यात्रां कुर्व्वन् शोमिरोण्गालील्प्रदेशमध्येन गच्छति,
12 एतर्हि कुत्रचिद् ग्रामे प्रवेशमात्रे दशकुष्ठिनस्तं साक्षात् कृत्वा
13 दूरे तिष्ठनत उच्चै र्वक्तुमारेभिरे, हे प्रभो यीशो दयस्वास्मान्।
14 ततः स तान् दृष्ट्वा जगाद, यूयं याजकानां समीपे स्वान् दर्शयत, ततस्ते गच्छन्तो रोगात् परिष्कृताः।
15 तदा तेषामेकः स्वं स्वस्थं दृष्ट्वा प्रोच्चैरीश्वरं धन्यं वदन् व्याघुट्यायातो यीशो र्गुणाननुवदन् तच्चरणाधोभूमौ पपात;
16 स चासीत् शोमिरोणी।
17 तदा यीशुरवदत्, दशजनाः किं न परिष्कृताः? तह्यन्ये नवजनाः कुत्र?
18 ईश्वरं धन्यं वदन्तम् एनं विदेशिनं विना कोप्यन्यो न प्राप्यत।
19 तदा स तमुवाच, त्वमुत्थाय याहि विश्वासस्ते त्वां स्वस्थं कृतवान्।
20 अथ कदेश्वरस्य राजत्वं भविष्यतीति फिरूशिभिः पृष्टे स प्रत्युवाच, ईश्वरस्य राजत्वम् ऐश्वर्य्यदर्शनेन न भविष्यति।
21 अत एतस्मिन् पश्य तस्मिन् वा पश्य, इति वाक्यं लोका वक्तुं न शक्ष्यन्ति, ईश्वरस्य राजत्वं युष्माकम् अन्तरेवास्ते।
22 ततः स शिष्यान् जगाद, यदा युष्माभि र्मनुजसुतस्य दिनमेकं द्रष्टुम् वाञ्छिष्यते किन्तु न दर्शिष्यते, ईदृक्काल आयाति।
23 तदात्र पश्य वा तत्र पश्येति वाक्यं लोका वक्ष्यन्ति, किन्तु तेषां पश्चात् मा यात, मानुगच्छत च।
24 यतस्तडिद् यथाकाशैकदिश्युदिय तदन्यामपि दिशं व्याप्य प्रकाशते तद्वत् निजदिने मनुजसूनुः प्रकाशिष्यते।
25 किन्तु तत्पूर्व्वं तेनानेकानि दुःखानि भोक्तव्यान्येतद्वर्त्तमानलोकैश्च सोऽवज्ञातव्यः।
26 नोहस्य विद्यमानकाले यथाभवत् मनुष्यसूनोः कालेपि तथा भविष्यति।
27 यावत्कालं नोहो महापोतं नारोहद् आप्लाविवार्य्येत्य सर्व्वं नानाशयच्च तावत्कालं यथा लोका अभुञ्जतापिवन् व्यवहन् व्यवाहयंश्च;
28 इत्थं लोटो वर्त्तमानकालेपि यथा लोका भोजनपानक्रयविक्रयरोपणगृहनिर्म्माणकर्म्मसु प्रावर्त्तन्त,
29 किन्तु यदा लोट् सिदोमो निर्जगाम तदा नभसः सगन्धकाग्निवृष्टि र्भूत्वा सर्व्वं व्यनाशयत्
30 तद्वन् मानवपुत्रप्रकाशदिनेपि भविष्यति।
31 तदा यदि कश्चिद् गृहोपरि तिष्ठति तर्हि स गृहमध्यात् किमपि द्रव्यमानेतुम् अवरुह्य नैतु; यश्च क्षेत्रे तिष्ठति सोपि व्याघुट्य नायातु।
32 लोटः पत्नीं स्मरत।
33 यः प्राणान् रक्षितुं चेष्टिष्यते स प्राणान् हारयिष्यति यस्तु प्राणान् हारयिष्यति सएव प्राणान् रक्षिष्यति।
34 युष्मानहं वच्मि तस्यां रात्रौ शय्यैकगतयो र्लोकयोरेको धारिष्यते परस्त्यक्ष्यते।
35 स्त्रियौ युगपत् पेषणीं व्यावर्त्तयिष्यतस्तयोरेका धारिष्यते परात्यक्ष्यते।
36 पुरुषौ क्षेत्रे स्थास्यतस्तयोरेको धारिष्यते परस्त्यक्ष्यते।
37 तदा ते पप्रच्छुः, हे प्रभो कुत्रेत्थं भविष्यति? ततः स उवाच, यत्र शवस्तिष्ठति तत्र गृध्रा मिलन्ति।

लूकलिखितः सुसंवादः 18

1 अपरञ्च लोकैरक्लान्तै र्निरन्तरं प्रार्थयितव्यम् इत्याशयेन यीशुना दृष्टान्त एकः कथितः।
2 कुत्रचिन्नगरे कश्चित् प्राड्विवाक आसीत् स ईश्वरान्नाबिभेत् मानुषांश्च नामन्यत।
3 अथ तत्पुरवासिनी काचिद्विधवा तत्समीपमेत्य विवादिना सह मम विवादं परिष्कुर्व्विति निवेदयामास।
4 ततः स प्राड्विवाकः कियद्दिनानि न तदङ्गीकृतवान् पश्चाच्चित्ते चिन्तयामास, यद्यपीश्वरान्न बिभेमि मनुष्यानपि न मन्ये
5 तथाप्येषा विधवा मां क्लिश्नाति तस्मादस्या विवादं परिष्करिष्यामि नोचेत् सा सदागत्य मां व्यग्रं करिष्यति।
6 पश्चात् प्रभुरवदद् असावन्यायप्राड्विवाको यदाह तत्र मनो निधध्वं।
7 ईश्वरस्य ये ऽभिरुचितलोका दिवानिशं प्रार्थयन्ते स बहुदिनानि विलम्ब्यापि तेषां विवादान् किं न परिष्करिष्यति?
8 युष्मानहं वदामि त्वरया परिष्करिष्यति, किन्तु यदा मनुष्यपुत्र आगमिष्यति तदा पृथिव्यां किमीदृशं विश्वासं प्राप्स्यति?
9 ये स्वान् धार्म्मिकान् ज्ञात्वा परान् तुच्छीकुर्व्वन्ति एतादृग्भ्यः, कियद्भ्य इमं दृष्टान्तं कथयामास।
10 एकः फिरूश्यपरः करसञ्चायी द्वाविमौ प्रार्थयितुं मन्दिरं गतौ।
11 ततोऽसौ फिरूश्येकपार्श्वे तिष्ठन् हे ईश्वर अहमन्यलोकवत् लोठयितान्यायी पारदारिकश्च न भवामि अस्य करसञ्चायिनस्तुल्यश्च न, तस्मात्त्वां धन्यं वदामि।
12 सप्तसु दिनेषु दिनद्वयमुपवसामि सर्व्वसम्पत्ते र्दशमांशं ददामि च, एतत्कथां कथयन् प्रार्थयामास।
13 किन्तु स करसञ्चायि दूरे तिष्ठन् स्वर्गं द्रष्टुं नेच्छन् वक्षसि कराघातं कुर्व्वन् हे ईश्वर पापिष्ठं मां दयस्व, इत्थं प्रार्थयामास।
14 युष्मानहं वदामि, तयोर्द्वयो र्मध्ये केवलः करसञ्चायी पुण्यवत्त्वेन गणितो निजगृहं जगाम, यतो यः कश्चित् स्वमुन्नमयति स नामयिष्यते किन्तु यः कश्चित् स्वं नमयति स उन्नमयिष्यते।
15 अथ शिशूनां गात्रस्पर्शार्थं लोकास्तान् तस्य समीपमानिन्युः शिष्यास्तद् दृष्ट्वानेतृन् तर्जयामासुः,
16 किन्तु यीशुस्तानाहूय जगाद, मन्निकटम् आगन्तुं शिशून् अनुजानीध्वं तांश्च मा वारयत; यत ईश्वरराज्याधिकारिण एषां सदृशाः।
17 अहं युष्मान् यथार्थं वदामि, यो जनः शिशोः सदृशो भूत्वा ईश्वरराज्यं न गृह्लाति स केनापि प्रकारेण तत् प्रवेष्टुं न शक्नोति।
18 अपरम् एकोधिपतिस्तं पप्रच्छ, हे परमगुरो, अनन्तायुषः प्राप्तये मया किं कर्त्तव्यं?
19 यीशुरुवाच, मां कुतः परमं वदसि? ईश्वरं विना कोपि परमो न भवति।
20 परदारान् मा गच्छ, नरं मा जहि, मा चोरय, मिथ्यासाक्ष्यं मा देहि, मातरं पितरञ्च संमन्यस्व, एता या आज्ञाः सन्ति तास्त्वं जानासि।
21 तदा स उवाच, बाल्यकालात् सर्व्वा एता आचरामि।
22 इति कथां श्रुत्वा यीशुस्तमवदत्, तथापि तवैकं कर्म्म न्यूनमास्ते, निजं सर्व्वस्वं विक्रीय दरिद्रेभ्यो वितर, तस्मात् स्वर्गे धनं प्राप्स्यसि; तत आगत्य ममानुगामी भव।
23 किन्त्वेतां कथां श्रुत्वा सोधिपतिः शुशोच, यतस्तस्य बहुधनमासीत्।
24 तदा यीशुस्तमतिशोकान्वितं दृष्ट्वा जगाद, धनवताम् ईश्वरराज्यप्रवेशः कीदृग् दुष्करः।
25 ईश्वरराज्ये धनिनः प्रवेशात् सूचेश्छिद्रेण महाङ्गस्य गमनागमने सुकरे।
26 श्रोतारः पप्रच्छुस्तर्हि केन परित्राणं प्राप्स्यते?
27 स उक्तवान्, यन् मानुषेणाशक्यं तद् ईश्वरेण शक्यं।
28 तदा पितर उवाच, पश्य वयं सर्व्वस्वं परित्यज्य तव पश्चाद्गामिनोऽभवाम।
29 ततः स उवाच, युष्मानहं यथार्थं वदामि, ईश्वरराज्यार्थं गृहं पितरौ भ्रातृगणं जायां सन्तानांश्च त्यक्तवा
30 इह काले ततोऽधिकं परकाले ऽनन्तायुश्च न प्राप्स्यति लोक ईदृशः कोपि नास्ति।
31 अनन्तरं स द्वादशशिष्यानाहूय बभाषे, पश्यत वयं यिरूशालम्नगरं यामः, तस्मात् मनुष्यपुत्रे भविष्यद्वादिभिरुक्तं यदस्ति तदनुरूपं तं प्रति घटिष्यते;
32 वस्तुतस्तु सोऽन्यदेशीयानां हस्तेषु समर्पयिष्यते, ते तमुपहसिष्यन्ति, अन्यायमाचरिष्यन्ति तद्वपुषि निष्ठीवं निक्षेप्स्यन्ति, कशाभिः प्रहृत्य तं हनिष्यन्ति च,
33 किन्तु तृतीयदिने स श्मशानाद् उत्थास्यति।
34 एतस्याः कथाया अभिप्रायं किञ्चिदपि ते बोद्धुं न शेकुः तेषां निकटेऽस्पष्टतवात् तस्यैतासां कथानाम् आशयं ते ज्ञातुं न शेकुश्च।
35 अथ तस्मिन् यिरीहोः पुरस्यान्तिकं प्राप्ते कश्चिदन्धः पथः पार्श्व उपविश्य भिक्षाम् अकरोत्
36 स लोकसमूहस्य गमनशब्दं श्रुत्वा तत्कारणं पृष्टवान्।
37 नासरतीययीशुर्यातीति लोकैरुक्ते स उच्चैर्वक्तुमारेभे,
38 हे दायूदः सन्तान यीशो मां दयस्व।
39 ततोग्रगामिनस्तं मौनी तिष्ठेति तर्जयामासुः किन्तु स पुनारुवन् उवाच, हे दायूदः सन्तान मां दयस्व।
40 तदा यीशुः स्थगितो भूत्वा स्वान्तिके तमानेतुम् आदिदेश।
41 ततः स तस्यान्तिकम् आगमत्, तदा स तं पप्रच्छ, त्वं किमिच्छसि? त्वदर्थमहं किं करिष्यामि? स उक्तवान्, हे प्रभोऽहं द्रष्टुं लभै।
42 तदा यीशुरुवाच, दृष्टिशक्तिं गृहाण तव प्रत्ययस्त्वां स्वस्थं कृतवान्।
43 ततस्तत्क्षणात् तस्य चक्षुषी प्रसन्ने; तस्मात् स ईश्वरं धन्यं वदन् तत्पश्चाद् ययौ, तदालोक्य सर्व्वे लोका ईश्वरं प्रशंसितुम् आरेभिरे।

लूकलिखितः सुसंवादः 19

1 यदा यीशु र्यिरीहोपुरं प्रविश्य तन्मध्येन गच्छंस्तदा
2 सक्केयनामा करसञ्चायिनां प्रधानो धनवानेको
3 यीशुः कीदृगिति द्रष्टुं चेष्टितवान् किन्तु खर्व्वत्वाल्लोकसंघमध्ये तद्दर्शनमप्राप्य
4 येन पथा स यास्यति तत्पथेऽग्रे धावित्वा तं द्रष्टुम् उडुम्बरतरुमारुरोह।
5 पश्चाद् यीशुस्तत्स्थानम् इत्वा ऊर्द्ध्वं विलोक्य तं दृष्ट्वावादीत्, हे सक्केय त्वं शीघ्रमवरोह मयाद्य त्वद्गेहे वस्तव्यं।
6 ततः स शीघ्रमवरुह्य साह्लादं तं जग्राह।
7 तद् दृष्ट्वा सर्व्वे विवदमाना वक्तुमारेभिरे, सोतिथित्वेन दुष्टलोकगृहं गच्छति।
8 किन्तु सक्केयो दण्डायमानो वक्तुमारेभे, हे प्रभो पश्य मम या सम्पत्तिरस्ति तदर्द्धं दरिद्रेभ्यो ददे, अपरम् अन्यायं कृत्वा कस्मादपि यदि कदापि किञ्चित् मया गृहीतं तर्हि तच्चतुर्गुणं ददामि।
9 तदा यीशुस्तमुक्तवान् अयमपि इब्राहीमः सन्तानोऽतः कारणाद् अद्यास्य गृहे त्राणमुपस्थितं।
10 यद् हारितं तत् मृगयितुं रक्षितुञ्च मनुष्यपुत्र आगतवान्।
11 अथ स यिरूशालमः समीप उपातिष्ठद् ईश्वरराजत्वस्यानुष्ठानं तदैव भविष्यतीति लोकैरन्वभूयत, तस्मात् स श्रोतृभ्यः पुनर्दृष्टान्तकथाम् उत्थाप्य कथयामास।
12 कोपि महाल्लोको निजार्थं राजत्वपदं गृहीत्वा पुनरागन्तुं दूरदेशं जगाम।
13 यात्राकाले निजान् दशदासान् आहूय दशस्वर्णमुद्रा दत्त्वा ममागमनपर्य्यन्तं वाणिज्यं कुरुतेत्यादिदेश।
14 किन्तु तस्य प्रजास्तमवज्ञाय मनुष्यमेनम् अस्माकमुपरि राजत्वं न कारयिव्याम इमां वार्त्तां तन्निकटे प्रेरयामासुः।
15 अथ स राजत्वपदं प्राप्यागतवान् एकैको जनो बाणिज्येन किं लब्धवान् इति ज्ञातुं येषु दासेषु मुद्रा अर्पयत् तान् आहूयानेतुम् आदिदेश।
16 तदा प्रथम आगत्य कथितवान्, हे प्रभो तव तयैकया मुद्रया दशमुद्रा लब्धाः।
17 ततः स उवाच त्वमुत्तमो दासः स्वल्पेन विश्वास्यो जात इतः कारणात् त्वं दशनगराणाम् अधिपो भव।
18 द्वितीय आगत्य कथितवान्, हे प्रभो तवैकया मुद्रया पञ्चमुद्रा लब्धाः।
19 ततः स उवाच, त्वं पञ्चानां नगराणामधिपति र्भव।
20 ततोन्य आगत्य कथयामास, हे प्रभो पश्य तव या मुद्रा अहं वस्त्रे बद्ध्वास्थापयं सेयं।
21 त्वं कृपणो यन्नास्थापयस्तदपि गृह्लासि, यन्नावपस्तदेव च छिनत्सि ततोहं त्वत्तो भीतः।
22 तदा स जगाद, रे दुष्टदास तव वाक्येन त्वां दोषिणं करिष्यामि, यदहं नास्थापयं तदेव गृह्लामि, यदहं नावपञ्च तदेव छिनद्मि, एतादृशः कृपणोहमिति यदि त्वं जानासि,
23 तर्हि मम मुद्रा बणिजां निकटे कुतो नास्थापयः? तया कृतेऽहम् आगत्य कुसीदेन सार्द्धं निजमुद्रा अप्राप्स्यम्।
24 पश्चात् स समीपस्थान् जनान् आज्ञापयत् अस्मात् मुद्रा आनीय यस्य दशमुद्राः सन्ति तस्मै दत्त।
25 ते प्रोचुः प्रभोऽस्य दशमुद्राः सन्ति।
26 युष्मानहं वदामि यस्याश्रये वद्धते ऽधिकं तस्मै दायिष्यते, किन्तु यस्याश्रये न वर्द्धते तस्य यद्यदस्ति तदपि तस्मान् नायिष्यते।
27 किन्तु ममाधिपतित्वस्य वशत्वे स्थातुम् असम्मन्यमाना ये मम रिपवस्तानानीय मम समक्षं संहरत।
28 इत्युपदेशकथां कथयित्वा सोग्रगः सन् यिरूशालमपुरं ययौ।
29 ततो बैत्फगीबैथनीयाग्रामयोः समीपे जैतुनाद्रेरन्तिकम् इत्वा शिष्यद्वयम् इत्युक्त्वा प्रेषयामास,
30 युवाममुं सम्मुखस्थग्रामं प्रविश्यैव यं कोपि मानुषः कदापि नारोहत् तं गर्द्दभशावकं बद्धं द्रक्ष्यथस्तं मोचयित्वानयतं।
31 तत्र कुतो मोचयथः? इति चेत् कोपि वक्ष्यति तर्हि वक्ष्यथः प्रभेारत्र प्रयोजनम् आस्ते।
32 तदा तौ प्ररितौ गत्वा तत्कथाानुसारेण सर्व्वं प्राप्तौ।
33 गर्दभशावकमोचनकाले तत्वामिन ऊचुः, गर्दभशावकं कुतो मोचयथः?
34 तावूचतुः प्रभोरत्र प्रयोजनम् आस्ते।
35 पश्चात् तौ तं गर्दभशावकं यीशोरन्तिकमानीय तत्पृष्ठे निजवसनानि पातयित्वा तदुपरि यीशुमारोहयामासतुः।
36 अथ यात्राकाले लोकाः पथि स्ववस्त्राणि पातयितुम् आरेभिरे।
37 अपरं जैतुनाद्रेरुपत्यकाम् इत्वा शिष्यसंघः पूर्व्वदृष्टानि महाकर्म्माणि स्मृत्वा,
38 यो राजा प्रभो र्नाम्नायाति स धन्यः स्वर्गे कुशलं सर्व्वोच्चे जयध्वनि र्भवतु, कथामेतां कथयित्वा सानन्दम् उचैरीश्वरं धन्यं वक्तुमारेभे।
39 तदा लोकारण्यमध्यस्थाः कियन्तः फिरूशिनस्तत् श्रुत्वा यीशुं प्रोचुः, हे उपदेशक स्वशिष्यान् तर्जय।
40 स उवाच, युष्मानहं वदामि यद्यमी नीरवास्तिष्ठन्ति तर्हि पाषाणा उचैः कथाः कथयिष्यन्ति।
41 पश्चात् तत्पुरान्तिकमेत्य तदवलोक्य साश्रुपातं जगाद,
42 हा हा चेत् त्वमग्रेऽज्ञास्यथाः, तवास्मिन्नेव दिने वा यदि स्वमङ्गलम् उपालप्स्यथाः, तर्ह्युत्तमम् अभविष्यत्, किन्तु क्षणेस्मिन् तत्तव दृष्टेरगोचरम् भवति।
43 त्वं स्वत्राणकाले न मनो न्यधत्था इति हेतो र्यत्काले तव रिपवस्त्वां चतुर्दिक्षु प्राचीरेण वेष्टयित्वा रोत्स्यन्ति
44 बालकैः सार्द्धं भूमिसात् करिष्यन्ति च त्वन्मध्ये पाषाणैकोपि पाषाणोपरि न स्थास्यति च, काल ईदृश उपस्थास्यति।
45 अथ मध्येमन्दिरं प्रविश्य तत्रत्यान् क्रयिविक्रयिणो बहिष्कुर्व्वन्
46 अवदत् मद्गृहं प्रार्थनागृहमिति लिपिरास्ते किन्तु यूयं तदेव चैराणां गह्वरं कुरुथ।
47 पश्चात् स प्रत्यहं मध्येमन्दिरम् उपदिदेश; ततः प्रधानयाजका अध्यापकाः प्राचीनाश्च तं नाशयितुं चिचेष्टिरे;
48 किन्तु तदुपदेशे सर्व्वे लोका निविष्टचित्ताः स्थितास्तस्मात् ते तत्कर्त्तुं नावकाशं प्रापुः।

लूकलिखितः सुसंवादः 20

1 अथैकदा यीशु र्मनिदरे सुसंवादं प्रचारयन् लोकानुपदिशति, एतर्हि प्रधानयाजका अध्यापकाः प्राञ्चश्च तन्निकटमागत्य पप्रच्छुः
2 कयाज्ञया त्वं कर्म्माण्येतानि करोषि? को वा त्वामाज्ञापयत्? तदस्मान् वद।
3 स प्रत्युवाच, तर्हि युष्मानपि कथामेकां पृच्छामि तस्योत्तरं वदत।
4 योहनो मज्जनम् ईश्वरस्य मानुषाणां वाज्ञातो जातं?
5 ततस्ते मिथो विविच्य जगदुः, यदीश्वरस्य वदामस्तर्हि तं कुतो न प्रत्यैत स इति वक्ष्यति।
6 यदि मनुष्यस्येति वदामस्तर्हि सर्व्वे लोका अस्मान् पाषाणै र्हनिष्यन्ति यतो योहन् भविष्यद्वादीति सर्व्वे दृढं जानन्ति।
7 अतएव ते प्रत्यूचुः कस्याज्ञया जातम् इति वक्तुं न शक्नुमः।
8 तदा यीशुरवदत् तर्हि कयाज्ञया कर्म्माण्येताति करोमीति च युष्मान् न वक्ष्यामि।
9 अथ लोकानां साक्षात् स इमां दृष्टान्तकथां वक्तुमारेभे, कश्चिद् द्राक्षाक्षेत्रं कृत्वा तत् क्षेत्रं कृषीवलानां हस्तेषु समर्प्य बहुकालार्थं दूरदेशं जगाम।
10 अथ फलकाले फलानि ग्रहीतु कृषीवलानां समीपे दासं प्राहिणोत् किन्तु कृषीवलास्तं प्रहृत्य रिक्तहस्तं विससर्जुः।
11 ततः सोधिपतिः पुनरन्यं दासं प्रेषयामास, ते तमपि प्रहृत्य कुव्यवहृत्य रिक्तहस्तं विससृजुः।
12 ततः स तृतीयवारम् अन्यं प्राहिणोत् ते तमपि क्षताङ्गं कृत्वा बहि र्निचिक्षिपुः।
13 तदा क्षेत्रपति र्विचारयामास, ममेदानीं किं कर्त्तव्यं? मम प्रिये पुत्रे प्रहिते ते तमवश्यं दृष्ट्वा समादरिष्यन्ते।
14 किन्तु कृषीवलास्तं निरीक्ष्य परस्परं विविच्य प्रोचुः, अयमुत्तराधिकारी आगच्छतैनं हन्मस्ततोधिकारोस्माकं भविष्यति।
15 ततस्ते तं क्षेत्राद् बहि र्निपात्य जघ्नुस्तस्मात् स क्षेत्रपतिस्तान् प्रति किं करिष्यति?
16 स आगत्य तान् कृषीवलान् हत्वा परेषां हस्तेषु तत्क्षेत्रं समर्पयिष्यति; इति कथां श्रुत्वा ते ऽवदन् एतादृशी घटना न भवतु।
17 किन्तु यीशुस्तानवलोक्य जगाद, तर्हि, स्थपतयः करिष्यन्ति ग्रावाणं यन्तु तुच्छकं। प्रधानप्रस्तरः कोणे स एव हि भविष्यति। एतस्य शास्त्रीयवचनस्य किं तात्पर्य्यं?
18 अपरं तत्पाषाणोपरि यः पतिष्यति स भंक्ष्यते किन्तु यस्योपरि स पाषाणः पतिष्यति स तेन धूलिवच् चूर्णीभविष्यति।
19 सोस्माकं विरुद्धं दृष्टान्तमिमं कथितवान् इति ज्ञात्वा प्रधानयाजका अध्यापकाश्च तदैव तं धर्तुं ववाञ्छुः किन्तु लोकेभ्यो बिभ्युः।
20 अतएव तं प्रति सतर्काः सन्तः कथं तद्वाक्यदोषं धृत्वा तं देशाधिपस्य साधुवेशधारिणश्चरान् तस्य समीपे प्रेषयामासुः।
21 तदा ते तं पप्रच्छुः, हे उपदेशक भवान् यथार्थं कथयन् उपदिशति, कमप्यनपेक्ष्य सत्यत्वेनैश्वरं मार्गमुपदिशति, वयमेतज्जानीमः।
22 कैसरराजाय करोस्माभि र्देयो न वा?
23 स तेषां वञ्चनं ज्ञात्वावदत् कुतो मां परीक्षध्वे? मां मुद्रामेकं दर्शयत।
24 इह लिखिता मूर्तिरियं नाम च कस्य? तेऽवदन् कैसरस्य।
25 तदा स उवाच, तर्हि कैसरस्य द्रव्यं कैसराय दत्त; ईश्वरस्य तु द्रव्यमीश्वराय दत्त।
26 तस्माल्लोकानां साक्षात् तत्कथायाः कमपि दोषं धर्तुमप्राप्य ते तस्योत्तराद् आश्चर्य्यं मन्यमाना मौनिनस्तस्थुः।
27 अपरञ्च श्मशानादुत्थानानङ्गीकारिणां सिदूकिनां कियन्तो जना आगत्य तं पप्रच्छुः,
28 हे उपदेशक शास्त्रे मूसा अस्मान् प्रतीति लिलेख यस्य भ्राता भार्य्यायां सत्यां निःसन्तानो म्रियते स तज्जायां विवह्य तद्वंशम् उत्पादयिष्यति।
29 तथाच केचित् सप्त भ्रातर आसन् तेषां ज्येष्ठो भ्राता विवह्य निरपत्यः प्राणान् जहौ।
30 अथ द्वितीयस्तस्य जायां विवह्य निरपत्यः सन् ममार। तृतीयश्च तामेव व्युवाह;
31 इत्थं सप्त भ्रातरस्तामेव विवह्य निरपत्याः सन्तो मम्रुः।
32 शेषे सा स्त्री च ममार।
33 अतएव श्मशानादुत्थानकाले तेषां सप्तजनानां कस्य सा भार्य्या भविष्यति? यतः सा तेषां सप्तानामेव भार्य्यासीत्।
34 तदा यीशुः प्रत्युवाच, एतस्य जगतो लोका विवहन्ति वाग्दत्ताश्च भवन्ति
35 किन्तु ये तज्जगत्प्राप्तियोग्यत्वेन गणितां भविष्यन्ति श्मशानाच्चोत्थास्यन्ति ते न विवहन्ति वाग्दत्ताश्च न भवन्ति,
36 ते पुन र्न म्रियन्ते किन्तु श्मशानादुत्थापिताः सन्त ईश्वरस्य सन्तानाः स्वर्गीयदूतानां सदृशाश्च भवन्ति।
37 अधिकन्तु मूसाः स्तम्बोपाख्याने परमेश्वर ईब्राहीम ईश्वर इस्हाक ईश्वरो याकूबश्चेश्वर इत्युक्त्वा मृतानां श्मशानाद् उत्थानस्य प्रमाणं लिलेख।
38 अतएव य ईश्वरः स मृतानां प्रभु र्न किन्तु जीवतामेव प्रभुः, तन्निकटे सर्व्वे जीवन्तः सन्ति।
39 इति श्रुत्वा कियन्तोध्यापका ऊचुः, हे उपदेशक भवान् भद्रं प्रत्युक्तवान्।
40 इतः परं तं किमपि प्रष्टं तेषां प्रगल्भता नाभूत्।
41 पश्चात् स तान् उवाच, यः ख्रीष्टः स दायूदः सन्तान एतां कथां लोकाः कथं कथयन्ति?
42 यतः मम प्रभुमिदं वाक्यमवदत् परमेश्वरः। तव शत्रूनहं यावत् पादपीठं करोमि न। तावत् कालं मदीये त्वं दक्षपार्श्व उपाविश।
43 इति कथां दायूद् स्वयं गीतग्रन्थेऽवदत्।
44 अतएव यदि दायूद् तं प्रभुं वदति, तर्हि स कथं तस्य सन्तानो भवति?
45 पश्चाद् यीशुः सर्व्वजनानां कर्णगोचरे शिष्यानुवाच,
46 येऽध्यापका दीर्घपरिच्छदं परिधाय भ्रमन्ति, हट्टापणयो र्नमस्कारे भजनगेहस्य प्रोच्चासने भोजनगृहस्य प्रधानस्थाने च प्रीयन्ते
47 विधवानां सर्व्वस्वं ग्रसित्वा छलेन दीर्घकालं प्रार्थयन्ते च तेषु सावधाना भवत, तेषामुग्रदण्डो भविष्यति।

लूकलिखितः सुसंवादः 21

1 अथ धनिलोका भाण्डागारे धनं निक्षिपन्ति स तदेव पश्यति,
2 एतर्हि काचिद्दीना विधवा पणद्वयं निक्षिपति तद् ददर्श।
3 ततो यीशुरुवाच युष्मानहं यथार्थं वदामि, दरिद्रेयं विधवा सर्व्वेभ्योधिकं न्यक्षेप्सीत्,
4 यतोन्ये स्वप्राज्यधनेभ्य ईश्वराय किञ्चित् न्यक्षेप्सुः, किन्तु दरिद्रेयं विधवा दिनयापनार्थं स्वस्य यत् किञ्चित् स्थितं तत् सर्व्वं न्यक्षेप्सीत्।
5 अपरञ्च उत्तमप्रस्तरैरुत्सृष्टव्यैश्च मन्दिरं सुशोभतेतरां कैश्चिदित्युक्ते स प्रत्युवाच
6 यूयं यदिदं निचयनं पश्यथ, अस्य पाषाणैकोप्यन्यपाषाणोपरि न स्थास्यति, सर्व्वे भूसाद्भविष्यन्ति कालोयमायाति।
7 तदा ते पप्रच्छुः, हे गुरो घटनेदृशी कदा भविष्यति? घटनाया एतस्यसश्चिह्नं वा किं भविष्यति?
8 तदा स जगाद, सावधाना भवत यथा युष्माकं भ्रमं कोपि न जनयति, खीष्टोहमित्युक्त्वा मम नाम्रा बहव उपस्थास्यन्ति स कालः प्रायेणोपस्थितः, तेषां पश्चान्मा गच्छत।
9 युद्धस्योपप्लवस्य च वार्त्तां श्रुत्वा मा शङ्कध्वं, यतः प्रथमम् एता घटना अवश्यं भविष्यन्ति किन्तु नापाते युगान्तो भविष्यति।
10 अपरञ्च कथयामास, तदा देशस्य विपक्षत्वेन देशो राज्यस्य विपक्षत्वेन राज्यम् उत्थास्यति,
11 नानास्थानेषु महाभूकम्पो दुर्भिक्षं मारी च भविष्यन्ति, तथा व्योममण्डलस्य भयङ्करदर्शनान्यश्चर्य्यलक्षणानि च प्रकाशयिष्यन्ते।
12 किन्तु सर्व्वासामेतासां घटनानां पूर्व्वं लोका युष्मान् धृत्वा ताडयिष्यन्ति, भजनालये कारायाञ्च समर्पयिष्यन्ति मम नामकारणाद् युष्मान् भूपानां शासकानाञ्च सम्मुखं नेष्यन्ति च।
13 साक्ष्यार्थम् एतानि युष्मान् प्रति घटिष्यन्ते।
14 तदा किमुत्तरं वक्तव्यम् एतत् न चिन्तयिष्याम इति मनःसु निश्चितनुत।
15 विपक्षा यस्मात् किमप्युत्तरम् आपत्तिञ्च कर्त्तुं न शक्ष्यन्ति तादृशं वाक्पटुत्वं ज्ञानञ्च युष्मभ्यं दास्यामि।
16 किञ्च यूयं पित्रा मात्रा भ्रात्रा बन्धुना ज्ञात्या कुटुम्बेन च परकरेषु समर्पयिष्यध्वे; ततस्ते युष्माकं कञ्चन कञ्चन घातयिष्यन्ति।
17 मम नाम्नः कारणात् सर्व्वै र्मनुष्यै र्यूयम् ऋतीयिष्यध्वे।
18 किन्तु युष्माकं शिरःकेशैकोपि न विनंक्ष्यति,
19 तस्मादेव धैर्य्यमवलम्ब्य स्वस्वप्राणान् रक्षत।
20 अपरञ्च यिरूशालम्पुरं सैन्यवेष्टितं विलोक्य तस्योच्छिन्नतायाः समयः समीप इत्यवगमिष्यथ।
21 तदा यिहूदादेशस्था लोकाः पर्व्वतं पलायन्तां, ये च नगरे तिष्ठन्ति ते देशान्तरं पलायन्ता, ये च ग्रामे तिष्ठन्ति ते नगरं न प्रविशन्तु,
22 यतस्तदा समुचितदण्डनाय धर्म्मपुस्तके यानि सर्व्वाणि लिखितानि तानि सफलानि भविष्यन्ति।
23 किन्तु या यास्तदा गर्भवत्यः स्तन्यदाव्यश्च तामां दुर्गति र्भविष्यति, यत एताल्लोकान् प्रति कोपो देशे च विषमदुर्गति र्घटिष्यते।
24 वस्तुतस्तु ते खङ्गधारपरिव्वङ्गं लप्स्यन्ते बद्धाः सन्तः सर्व्वदेशेषु नायिष्यन्ते च किञ्चान्यदेशीयानां समयोपस्थितिपर्य्यन्तं यिरूशालम्पुरं तैः पदतलै र्दलयिष्यते।
25 सूर्य्यचन्द्रनक्षत्रेषु लक्षणादि भविष्यन्ति, भुवि सर्व्वदेशीयानां दुःखं चिन्ता च सिन्धौ वीचीनां तर्जनं गर्जनञ्च भविष्यन्ति।
26 भूभौ भाविघटनां चिन्तयित्वा मनुजा भियामृतकल्पा भविष्यन्ति, यतो व्योममण्डले तेजस्विनो दोलायमाना भविष्यन्ति।
27 तदा पराक्रमेणा महातेजसा च मेघारूढं मनुष्यपुत्रम् आयान्तं द्रक्ष्यन्ति।
28 किन्त्वेतासां घटनानामारम्भे सति यूयं मस्तकान्युत्तोल्य ऊर्दध्वं द्रक्ष्यथ, यतो युष्माकं मुक्तेः कालः सविधो भविष्यति।
29 ततस्तेनैतदृष्टान्तकथा कथिता, पश्यत उडुम्बरादिवृक्षाणां
30 नवीनपत्राणि जातानीति दृष्ट्वा निदावकाल उपस्थित इति यथा यूयं ज्ञातुं शक्नुथ,
31 तथा सर्व्वासामासां घटनानाम् आरम्भे दृष्टे सतीश्वरस्य राजत्वं निकटम् इत्यपि ज्ञास्यथ।
32 युष्मानहं यथार्थं वदामि, विद्यमानलोकानामेषां गमनात् पूर्व्वम् एतानि घटिष्यन्ते।
33 नभोभुवोर्लोपो भविष्यति मम वाक् तु कदापि लुप्ता न भविष्यति।
34 अतएव विषमाशनेन पानेन च सांमारिकचिन्ताभिश्च युष्माकं चित्तेषु मत्तेषु तद्दिनम् अकस्माद् युष्मान् प्रति यथा नोपतिष्ठति तदर्थं स्वेषु सावधानास्तिष्ठत।
35 पृथिवीस्थसर्व्वलोकान् प्रति तद्दिनम् उन्माथ इव उपस्थास्यति।
36 यथा यूयम् एतद्भाविघटना उत्तर्त्तुं मनुजसुतस्य सम्मुखे संस्थातुञ्च योग्या भवथ कारणादस्मात् सावधानाः सन्तो निरन्तरं प्रार्थयध्वं।
37 अपरञ्च स दिवा मन्दिर उपदिश्य राचै जैतुनाद्रिं गत्वातिष्ठत्।
38 ततः प्रत्यूषे लाकास्तत्कथां श्रोतुं मन्दिरे तदन्तिकम् आगच्छन्।

लूकलिखितः सुसंवादः 22

1 अपरञ्च किण्वशून्यपूपोत्सवस्य काल उपस्थिते
2 प्रधानयाजका अध्यायकाश्च यथा तं हन्तुं शक्नुवन्ति तथोपायाम् अचेष्टन्त किन्तु लोकेभ्यो बिभ्युः।
3 एतस्तिन् समये द्वादशशिष्येषु गणित ईष्करियोतीयरूढिमान् यो यिहूदास्तस्यान्तःकरणं शैतानाश्रितत्वात्
4 स गत्वा यथा यीशुं तेषां करेषु समर्पयितुं शक्नोति तथा मन्त्रणां प्रधानयाजकैः सेनापतिभिश्च सह चकार।
5 तेन ते तुष्टास्तस्मै मुद्रां दातुं पणं चक्रुः।
6 ततः सोङ्गीकृत्य यथा लोकानामगोचरे तं परकरेषु समर्पयितुं शक्नोति तथावकाशं चेष्टितुमारेभे।
7 अथ किण्वशून्यपूपोत्मवदिने, अर्थात् यस्मिन् दिने निस्तारोत्सवस्य मेषो हन्तव्यस्तस्मिन् दिने
8 यीशुः पितरं योहनञ्चाहूय जगाद, युवां गत्वास्माकं भोजनार्थं निस्तारोत्सवस्य द्रव्याण्यासादयतं।
9 तदा तौ पप्रच्छतुः कुचासादयावो भवतः केच्छा?
10 तदा सोवादीत्, नगरे प्रविष्टे कश्चिज्जलकुम्भमादाय युवां साक्षात् करिष्यति स यन्निवेशनं प्रविशति युवामपि तन्निवेशनं तत्पश्चादित्वा निवेशनपतिम् इति वाक्यं वदतं,
11 यत्राहं निस्तारोत्सवस्य भोज्यं शिष्यैः सार्द्धं भोक्तुं शक्नोमि सातिथिशालाा कुत्र? कथामिमां प्रभुस्त्वां पृच्छति।
12 ततः स जनो द्वितीयप्रकोष्ठीयम् एकं शस्तं कोष्ठं दर्शयिष्यति तत्र भोज्यमासादयतं।
13 ततस्तौ गत्वा तद्वाक्यानुसारेण सर्व्वं दृष्द्वा तत्र निस्तारोत्सवीयं भोज्यमासादयामासतुः।
14 अथ काल उपस्थिते यीशु र्द्वादशभिः प्रेरितैः सह भोक्तुमुपविश्य कथितवान्
15 मम दुःखभोगात् पूर्व्वं युभाभिः सह निस्तारोत्सवस्यैतस्य भोज्यं भोक्तुं मयातिवाञ्छा कृता।
16 युष्मान् वदामि, यावत्कालम् ईश्वरराज्ये भोजनं न करिष्ये तावत्कालम् इदं न भोक्ष्ये।
17 तदा स पानपात्रमादाय ईश्वरस्य गुणान् कीर्त्तयित्वा तेभ्यो दत्वावदत्, इदं गृह्लीत यूयं विभज्य पिवत।
18 युष्मान् वदामि यावत्कालम् ईश्वरराजत्वस्य संस्थापनं न भवति तावद् द्राक्षाफलरसं न पास्यामि।
19 ततः पूपं गृहीत्वा ईश्वरगुणान् कीर्त्तयित्वा भङ्क्ता तेभ्यो दत्वावदत्, युष्मदर्थं समर्पितं यन्मम वपुस्तदिदं, एतत् कर्म्म मम स्मरणार्थं कुरुध्वं।
20 अथ भोजनान्ते तादृशं पात्रं गृहीत्वावदत्, युष्मत्कृते पातितं यन्मम रक्तं तेन निर्णीतनवनियमरूपं पानपात्रमिदं।
21 पश्यत यो मां परकरेषु समर्पयिष्यति स मया सह भोजनासन उपविशति।
22 यथा निरूपितमास्ते तदनुसारेणा मनुष्यपुुत्रस्य गति र्भविष्यति किन्तु यस्तं परकरेषु समर्पयिष्यति तस्य सन्तापो भविष्यति।
23 तदा तेषां को जन एतत् कर्म्म करिष्यति तत् ते परस्परं प्रष्टुमारेभिरे।
24 अपरं तेषां को जनः श्रेष्ठत्वेन गणयिष्यते, अत्रार्थे तेषां विवादोभवत्।
25 अस्मात् कारणात् सोवदत्, अन्यदेशीयानां राजानः प्रजानामुपरि प्रभुत्वं कुर्व्वन्ति दारुणशासनं कृत्वापि ते भूपतित्वेन विख्याता भवन्ति च।
26 किन्तु युष्माकं तथा न भविष्यति, यो युष्माकं श्रेष्ठो भविष्यति स कनिष्ठवद् भवतु, यश्च मुख्यो भविष्यति स सेवकवद्भवतु।
27 भोजनोपविष्टपरिचारकयोः कः श्रेष्ठः? यो भोजनायोपविशति स किं श्रेष्ठो न भवति? किन्तु युष्माकं मध्येऽहं परिचारकइवास्मि।
28 अपरञ्च युयं मम परीक्षाकाले प्रथममारभ्य मया सह स्थिता
29 एतत्कारणात् पित्रा यथा मदर्थं राज्यमेकं निरूपितं तथाहमपि युष्मदर्थं राज्यं निरूपयामि।
30 तस्मान् मम राज्ये भोजनासने च भोजनपाने करिष्यध्वे सिंहासनेषूपविश्य चेस्रायेलीयानां द्वादशवंशानां विचारं करिष्यध्वे।
31 अपरं प्रभुरुवाच, हे शिमोन् पश्य तितउना धान्यानीव युष्मान् शैतान् चालयितुम् ऐच्छत्,
32 किन्तु तव विश्वासस्य लोपो यथा न भवति एतत् त्वदर्थं प्रार्थितं मया, त्वन्मनसि परिवर्त्तिते च भ्रातृणां मनांसि स्थिरीकुरु।
33 तदा सोवदत्, हे प्रभोहं त्वया सार्द्धं कारां मृतिञ्च यातुं मज्जितोस्मि।
34 ततः स उवाच, हे पितर त्वां वदामि, अद्य कुक्कुटरवात् पूर्व्वं त्वं मत्परिचयं वारत्रयम् अपह्वोष्यसे।
35 अपरं स पप्रच्छ, यदा मुद्रासम्पुटं खाद्यपात्रं पादुकाञ्च विना युष्मान् प्राहिणवं तदा युष्माकं कस्यापि न्यूनतासीत्? ते प्रोचुः कस्यापि न।
36 तदा सोवदत् किन्त्विदानीं मुद्रासम्पुटं खाद्यपात्रं वा यस्यास्ति तेन तद्ग्रहीतव्यं, यस्य च कृपाणोे नास्ति तेन स्ववस्त्रं विक्रीय स क्रेतव्यः।
37 यतो युष्मानहं वदामि, अपराधिजनैः सार्द्धं गणितः स भविष्यति। इदं यच्छास्त्रीयं वचनं लिखितमस्ति तन्मयि फलिष्यति यतो मम सम्बन्धीयं सर्व्वं सेत्स्यति।
38 तदा ते प्रोचुः प्रभो पश्य इमौ कृपाणौ। ततः सोवदद् एतौ यथेष्टौ।
39 अथ स तस्माद्वहि र्गत्वा स्वाचारानुसारेण जैतुननामाद्रिं जगाम शिष्याश्च तत्पश्चाद् ययुः।
40 तत्रोपस्थाय स तानुवाच, यथा परीक्षायां न पतथ तदर्थं प्रार्थयध्वं।
41 पश्चात् स तस्माद् एकशरक्षेपाद् बहि र्गत्वा जानुनी पातयित्वा एतत् प्रार्थयाञ्चक्रे,
42 हे पित र्यदि भवान् सम्मन्यते तर्हि कंसमेनं ममान्तिकाद् दूरय किन्तु मदिच्छानुरूपं न त्वदिच्छानुरूपं भवतु।
43 तदा तस्मै शक्तिं दातुं स्वर्गीयदूतो दर्शनं ददौ।
44 पश्चात् सोत्यन्तं यातनया व्याकुलो भूत्वा पुनर्दृढं प्रार्थयाञ्चक्रे, तस्माद् बृहच्छोणितबिन्दव इव तस्य स्वेदबिन्दवः पृथिव्यां पतितुमारेभिरे।
45 अथ प्रार्थनात उत्थाय शिष्याणां समीपमेत्य तान् मनोदुःखिनो निद्रितान् दृष्ट्वावदत्
46 कुतो निद्राथ? परीक्षायाम् अपतनार्थं प्रर्थयध्वं।
47 एतत्कथायाः कथनकाले द्वादशशिष्याणां मध्ये गणितो यिहूदानामा जनतासहितस्तेषाम् अग्रे चलित्वा यीशोश्चुम्बनार्थं तदन्तिकम् आययौ।
48 तदा यीशुरुवाच, हे यिहूदा किं चुम्बनेन मनुष्यपुत्रं परकरेषु समर्पयसि?
49 तदा यद्यद् घटिष्यते तदनुमाय सङ्गिभिरुक्तं, हे प्रभो वयं कि खङ्गेन घातयिष्यामः?
50 तत एकः करवालेनाहत्य प्रधानयाजकस्य दासस्य दक्षिणं कर्णं चिच्छेद।
51 अधूना निवर्त्तस्व इत्युक्त्वा यीशुस्तस्य श्रुतिं स्पृष्ट्वा स्वस्यं चकार।
52 पश्चाद् यीशुः समीपस्थान् प्रधानयाजकान् मन्दिरस्य सेनापतीन् प्राचीनांश्च जगाद, यूयं कृपाणान् यष्टींश्च गृहीत्वा मां किं चोरं धर्त्तुमायाताः?
53 यदाहं युष्माभिः सह प्रतिदिनं मन्दिरेऽतिष्ठं तदा मां धर्त्तं न प्रवृत्ताः, किन्त्विदानीं युष्माकं समयोन्धकारस्य चाधिपत्यमस्ति।
54 अथ ते तं धृत्वा महायाजकस्य निवेशनं निन्युः। ततः पितरो दूरे दूरे पश्चादित्वा
55 बृहत्कोष्ठस्य मध्ये यत्राग्निं ज्वालयित्वा लोकाः समेत्योपविष्टास्तत्र तैः सार्द्धम् उपविवेश।
56 अथ वह्निसन्निधौ समुपवेशकाले काचिद्दासी मनो निविश्य तं निरीक्ष्यावदत् पुमानयं तस्य सङ्गेऽस्थात्।
57 किन्तु स तद् अपह्नुत्यावादीत् हे नारि तमहं न परिचिनोमि।
58 क्षणान्तरेऽन्यजनस्तं दृष्ट्वाब्रवीत् त्वमपि तेषां निकरस्यैकजनोसि। पितरः प्रत्युवाच हे नर नाहमस्मि।
59 ततः सार्द्धदण्डद्वयात् परं पुनरन्यो जनो निश्चित्य बभाषे, एष तस्य सङ्गीति सत्यं यतोयं गालीलीयो लोकः।
60 तदा पितर उवाच हे नर त्वं यद् वदमि तदहं बोद्धुं न शक्नोमि, इति वाक्ये कथितमात्रे कुक्कुटो रुराव।
61 तदा प्रभुणा व्याधुट्य पितरे निरीक्षिते कृकवाकुरवात् पूर्व्वं मां त्रिरपह्नोष्यसे इति पूर्व्वोक्तं तस्य वाक्यं पितरः स्मृत्वा
62 बहिर्गत्वा महाखेदेन चक्रन्द।
63 तदा यै र्यीशुर्धृतस्ते तमुपहस्य प्रहर्त्तुमारेभिरे।
64 वस्त्रेण तस्य दृशौ बद्ध्वा कपोले चपेटाघातं कृत्वा पप्रच्छुः, कस्ते कपोले चपेटाघातं कृतवान? गणयित्वा तद् वद।
65 तदन्यत् तद्विरुद्धं बहुनिन्दावाक्यं वक्तुमारेभिरे।
66 अथ प्रभाते सति लोकप्राञ्चः प्रधानयाजका अध्यापकाश्च सभां कृत्वा मध्येसभं यीशुमानीय पप्रच्छुः, त्वम् अभिषिकतोसि न वास्मान् वद।
67 स प्रत्युवाच, मया तस्मिन्नुक्तेऽपि यूयं न विश्वसिष्यथ।
68 कस्मिंश्चिद्वाक्ये युष्मान् पृष्टेऽपि मां न तदुत्तरं वक्ष्यथ न मां त्यक्ष्यथ च।
69 किन्त्वितः परं मनुजसुतः सर्व्वशक्तिमत ईश्वरस्य दक्षिणे पार्श्वे समुपवेक्ष्यति।
70 ततस्ते पप्रच्छुः, र्तिह त्वमीश्वरस्य पुत्रः? स कथयामास, यूयं यथार्थं वदथ स एवाहं।
71 तदा ते सर्व्वे कथयामासुः, र्तिह साक्ष्येऽन्सस्मिन् अस्माकं किं प्रयोजनं? अस्य स्वमुखादेव साक्ष्यं प्राप्तम्।

लूकलिखितः सुसंवादः 23

1 ततः सभास्थाः सर्व्वलोका उत्थाय तं पीलातसम्मुखं नीत्वाप्रोद्य वक्तुमारेभिरे,
2 स्वमभिषिक्तं राजानं वदन्तं कैमरराजाय करदानं निषेधन्तं राज्यविपर्य्ययं कुर्त्तुं प्रवर्त्तमानम् एन प्राप्ता वयं।
3 तदा पीलातस्तं पृष्टवान् त्वं किं यिहूदीयानां राजा? स प्रत्युवाच त्वं सत्यमुक्तवान्।
4 तदा पीलातः प्रधानयाजकादिलोकान् जगाद्, अहमेतस्य कमप्यपराधं नाप्तवान्।
5 ततस्ते पुनः साहमिनो भूत्वावदन्, एष गालील एतत्स्थानपर्य्यन्ते सर्व्वस्मिन् यिहूदादेशे सर्व्वाल्लोकानुपदिश्य कुप्रवृत्तिं ग्राहीतवान्।
6 तदा पीलातो गालीलप्रदेशस्य नाम श्रुत्वा पप्रच्छ, किमयं गालीलीयो लोकः?
7 ततः स गालील्प्रदेशीयहेरोद्राजस्य तदा स्थितेस्तस्य समीपे यीशुं प्रेषयामास।
8 तदा हेरोद् यीशुं विलोक्य सन्तुतोष, यतः स तस्य बहुवृत्तान्तश्रवणात् तस्य किञि्चदाश्चर्य्यकर्म्म पश्यति इत्याशां कृत्वा बहुकालमारभ्य तं द्रष्टुं प्रयासं कृतवान्।
9 तस्मात् तं बहुकथाः पप्रच्छ किन्तु स तस्य कस्यापि वाक्यस्य प्रत्युत्तरं नोवाच।
10 अथ प्रधानयाजका अध्यापकाश्च प्रोत्तिष्ठन्तः साहसेन तमपवदितुं प्रारेभिरे।
11 हेरोद् तस्य सेनागणश्च तमवज्ञाय उपहासत्वेन राजवस्त्रं परिधाप्य पुनः पीलातं प्रति तं प्राहिणोत्।
12 पूर्व्वं हेरोद्पीलातयोः परस्परं वैरभाव आसीत् किन्तु तद्दिने द्वयो र्मेलनं जातम्।
13 पश्चात् पीलातः प्रधानयाजकान् शासकान् लोकांश्च युगपदाहूय बभाषे,
14 राज्यविपर्य्ययकारकोयम् इत्युक्त्वा मनुष्यमेनं मम निकटमानैष्ट किन्तु पश्यत युष्माकं समक्षम् अस्य विचारं कृत्वापि प्रोक्तापवादानुरूपेणास्य कोप्यपराधः सप्रमाणो न जातः,
15 यूयञ्च हेरोदः सन्निधौ प्रेषिता मया तत्रास्य कोप्यपराधस्तेनापि न प्राप्तः। पश्यतानेन वधहेेतुकं किमपि नापराद्धं।
16 तस्मादेनं ताडयित्वा विहास्यामि।
17 तत्रोत्सवे तेषामेको मोचयितव्यः।
18 इति हेतोस्ते प्रोच्चैरेकदा प्रोचुः, एनं दूरीकृत्य बरब्बानामानं मोचय।
19 स बरब्बा नगर उपप्लववधापराधाभ्यां कारायां बद्ध आसीत्।
20 किन्तु पीलातो यीशुं मोचयितुं वाञ्छन् पुनस्तानुवाच।
21 तथाप्येनं क्रुशे व्यध क्रुशे व्यधेति वदन्तस्ते रुरुवुः।
22 ततः स तृतीयवारं जगाद कुतः? स किं कर्म्म कृतवान्? नाहमस्य कमपि वधापराधं प्राप्तः केवलं ताडयित्वामुं त्यजामि।
23 तथापि ते पुनरेनं क्रुशे व्यध इत्युक्त्वा प्रोच्चैर्दृढं प्रार्थयाञ्चक्रिरे;
24 ततः प्रधानयाजकादीनां कलरवे प्रबले सति तेषां प्रार्थनारूपं कर्त्तुं पीलात आदिदेश।
25 राजद्रोहवधयोरपराधेन कारास्थं यं जनं ते ययाचिरे तं मोचयित्वा यीशुं तेषामिच्छायां समार्पयत्।
26 अथ ते यीशुं गृहीत्वा यान्ति, एतर्हि ग्रामादागतं शिमोननामानं कुरीणीयं जनं धृत्वा यीशोः पश्चान्नेतुं तस्य स्कन्धे क्रुशमर्पयामासुः।
27 ततो लोाकारण्यमध्ये बहुस्त्रियो रुदत्यो विलपन्त्यश्च यीशोः पश्चाद् ययुः।
28 किन्तु स व्याघुट्य ता उवाच, हे यिरूशालमो नार्य्यो युयं मदर्थं न रुदित्वा स्वार्थं स्वापत्यार्थञ्च रुदिति;
29 पश्यत यः कदापि गर्भवत्यो नाभवन् स्तन्यञ्च नापाययन् तादृशी र्वन्ध्या यदा धन्या वक्ष्यन्ति स काल आयाति।
30 तदा हे शैला अस्माकमुपरि पतत, हे उपशैला अस्मानाच्छादयत कथामीदृशीं लोका वक्ष्यन्ति।
31 यतः सतेजसि शाखिनि चेदेतद् घटते तर्हि शुष्कशाखिनि किं न घटिष्यते?
32 तदा ते हन्तुं द्वावपराधिनौ तेन सार्द्धं निन्युः।
33 अपरं शिरःकपालनामकस्थानं प्राप्य तं क्रुशे विविधुः; तद्द्वयोरपराधिनोरेकं तस्य दक्षिणो तदन्यं वामे क्रुशे विविधुः।
34 तदा यीशुरकथयत्, हे पितरेतान् क्षमस्व यत एते यत् कर्म्म कुर्व्वन्ति तन् न विदुः; पश्चात्ते गुटिकापातं कृत्वा तस्य वस्त्राणि विभज्य जगृहुः।
35 तत्र लोकसंघस्तिष्ठन् ददर्श; ते तेषां शासकाश्च तमुपहस्य जगदुः, एष इतरान् रक्षितवान् यदीश्वरेणाभिरुचितो ऽभिषिक्तस्त्राता भवति तर्हि स्वमधुना रक्षतु।
36 तदन्यः सेनागणा एत्य तस्मै अम्लरसं दत्वा परिहस्य प्रोवाच,
37 चेत्त्वं यिहूदीयानां राजासि तर्हि स्वं रक्ष।
38 यिहूदीयानां राजेति वाक्यं यूनानीयरोमीयेब्रीयाक्षरै र्लिखितं तच्छिरस ऊर्द्ध्वेऽस्थाप्यत।
39 तदोभयपार्श्वयो र्विद्धौ यावपराधिनौ तयोरेकस्तं विनिन्द्य बभाषे, चेत्त्वम् अभिषिक्तोसि तर्हि स्वमावाञ्च रक्ष।
40 किन्त्वन्यस्तं तर्जयित्वावदत्, ईश्वरात्तव किञ्चिदपि भयं नास्ति किं? त्वमपि समानदण्डोसि,
41 योग्यपात्रे आवां स्वस्वकर्म्मणां समुचितफलं प्राप्नुवः किन्त्वनेन किमपि नापराद्धं।
42 अथ स यीशुं जगाद हे प्रभे भवान् स्वराज्यप्रवेशकाले मां स्मरतु।
43 तदा यीशुः कथितवान् त्वां यथार्थं वदामि त्वमद्यैव मया सार्द्धं परलोकस्य सुखस्थानं प्राप्स्यसि।
44 अपरञ्च द्वितीययामात् तृतीययामपर्य्यन्तं रवेस्तेजसोन्तर्हितत्वात् सर्व्वदेशोऽन्धकारेणावृतो
45 मन्दिरस्य यवनिका च छिद्यमाना द्विधा बभूव।
46 ततो यीशुरुच्चैरुवाच, हे पित र्ममात्मानं तव करे समर्पये, इत्युक्त्वा स प्राणान् जहौ।
47 तदैता घटना दृष्ट्वा शतसेनापतिरीश्वरं धन्यमुक्त्वा कथितवान् अयं नितान्तं साधुमनुष्य आसीत्।
48 अथ यावन्तो लोका द्रष्टुम् आगतास्ते ता घटना दृष्ट्वा वक्षःसु कराघातं कृत्वा व्याचुट्य गताः।
49 यीशो र्ज्ञातयो या या योषितश्च गालीलस्तेन सार्द्धमायातास्ता अपि दूरे स्थित्वा तत् सर्व्वं ददृशुः।
50 तदा यिहूदीयानां मन्त्रणां क्रियाञ्चासम्मन्यमान ईश्वरस्य राजत्वम् अपेक्षमाणो
51 यिहूदिदेशीयो ऽरिमथीयनगरीयो यूषफ्नामा मन्त्री भद्रो धार्म्मिकश्च पुमान्
52 पीलातान्तिकं गत्वा यीशो र्देहं ययाचे।
53 पश्चाद् वपुरवरोह्य वाससा संवेष्ट्य यत्र कोपि मानुषो नास्थाप्यत तस्मिन् शैले स्वाते श्मशाने तदस्थापयत्।
54 तद्दिनमायोजनीयं दिनं विश्रामवारश्च समीपः।
55 अपरं यीशुना सार्द्धं गालील आगता योषितः पश्चादित्वा श्मशाने तत्र यथा वपुः स्थापितं तच्च दृष्ट्वा
56 व्याघुट्य सुगन्धिद्रव्यतैलानि कृत्वा विधिवद् विश्रामवारे विश्रामं चक्रुः।

लूकलिखितः सुसंवादः 24

1 अथ सप्ताहप्रथमदिनेऽतिप्रत्यूषे ता योषितः सम्पादितं सुगन्धिद्रव्यं गृहीत्वा तदन्याभिः कियतीभिः स्त्रीभिः सह श्मशानं ययुः।
2 किन्तु श्मशानद्वारात् पाषाणमपसारितं दृष्ट्वा
3 ताः प्रविश्य प्रभो र्देहमप्राप्य
4 व्याकुला भवन्ति एतर्हि तेजोमयवस्त्रान्वितौ द्वौ पुरुषौ तासां समीपे समुपस्थितौ
5 तस्मात्ताः शङ्कायुक्ता भूमावधोमुख्यस्यस्थुः। तदा तौ ता ऊचतु र्मृतानां मध्ये जीवन्तं कुतो मृगयथ?
6 सोत्र नास्ति स उदस्थात्।
7 पापिनां करेषु समर्पितेन क्रुशे हतेन च मनुष्यपुत्रेण तृतीयदिवसे श्मशानादुत्थातव्यम् इति कथां स गलीलि तिष्ठन् युष्मभ्यं कथितवान् तां स्मरत।
8 तदा तस्य सा कथा तासां मनःसु जाता।
9 अनन्तरं श्मशानाद् गत्वा ता एकादशशिष्यादिभ्यः सर्व्वेभ्यस्तां वार्त्तां कथयामासुः।
10 मग्दलीनीमरियम्, योहना, याकूबो माता मरियम् तदन्याः सङ्गिन्यो योषितश्च प्रेरितेभ्य एताः सर्व्वा वार्त्ताः कथयामासुः
11 किन्तु तासां कथाम् अनर्थकाख्यानमात्रं बुद्ध्वा कोपि न प्रत्यैत्।
12 तदा पितर उत्थाय श्मशानान्तिकं दधाव, तत्र च प्रह्वो भूत्वा पार्श्वैकस्थापितं केवलं वस्त्रं ददर्श; तस्मादाश्चर्य्यं मन्यमानो यदघटत तन्मनसि विचारयन् प्रतस्थे।
13 तस्मिन्नेव दिने द्वौ शिय्यौ यिरूशालमश्चतुष्क्रोशान्तरितम् इम्मायुग्रामं गच्छन्तौ
14 तासां घटनानां कथामकथयतां
15 तयोरालापविचारयोः काले यीशुरागत्य ताभ्यां सह जगाम
16 किन्तु यथा तौ तं न परिचिनुतस्तदर्थं तयो र्दृष्टिः संरुद्धा।
17 स तौ पृष्टवान् युवां विषण्णौ किं विचारयन्तौ गच्छथः?
18 ततस्तयोः क्लियपानामा प्रत्युवाच यिरूशालमपुरेऽधुना यान्यघटन्त त्वं केवलविदेशी किं तद्वृत्तान्तं न जानासि?
19 स पप्रच्छ का घटनाः? तदा तौ वक्तुमारेभाते यीशुनामा यो नासरतीयो भविष्यद्वादी ईश्वरस्य मानुषाणाञ्च साक्षात् वाक्ये कर्म्मणि च शक्तिमानासीत्
20 तम् अस्माकं प्रधानयाजका विचारकाश्च केनापि प्रकारेण क्रुशे विद्ध्वा तस्य प्राणाननाशयन् तदीया घटनाः;
21 किन्तु य इस्रायेलीयलोकान् उद्धारयिष्यति स एवायम् इत्याशास्माभिः कृता। तद्यथा तथास्तु तस्या घटनाया अद्य दिनत्रयं गतं।
22 अधिकन्त्वस्माकं सङ्गिनीनां कियत्स्त्रीणां मुखेभ्योऽसम्भववाक्यमिदं श्रुतं;
23 ताः प्रत्यूषे श्मशानं गत्वा तत्र तस्य देहम् अप्राप्य व्याघुट्येत्वा प्रोक्तवत्यः स्वर्गीसदूतौ दृष्टावस्माभिस्तौ चावादिष्टां स जीवितवान्।
24 ततोस्माकं कैश्चित् श्मशानमगम्यत तेऽपि स्त्रीणां वाक्यानुरूपं दृष्टवन्तः किन्तु तं नापश्यन्।
25 तदा स तावुवाच, हे अबोधौ हे भविष्यद्वादिभिरुक्तवाक्यं प्रत्येतुं विलम्बमानौ;
26 एतत्सर्व्वदुःखं भुक्त्वा स्वभूतिप्राप्तिः किं ख्रीष्टस्य न न्याय्या?
27 ततः स मूसाग्रन्थमारभ्य सर्व्वभविष्यद्वादिनां सर्व्वशास्त्रे स्वस्मिन् लिखिताख्यानाभिप्रायं बोधयामास।
28 अथ गम्यग्रामाभ्यर्णं प्राप्य तेनाग्रे गमनलक्षणे दर्शिते
29 तौ साधयित्वावदतां सहावाभ्यां तिष्ठ दिने गते सति रात्रिरभूत्; ततः स ताभ्यां सार्द्धं स्थातुं गृहं ययौ।
30 पश्चाद्भोजनोपवेशकाले स पूपं गृहीत्वा ईश्वरगुणान् जगाद तञ्च भंक्त्वा ताभ्यां ददौ।
31 तदा तयो र्दृष्टौ प्रसन्नायां तं प्रत्यभिज्ञतुः किन्तु स तयोः साक्षादन्तर्दधे।
32 ततस्तौ मिथोभिधातुम् आरब्धवन्तौ गमनकाले यदा कथामकथयत् शास्त्रार्थञ्चबोधयत् तदावयो र्बुद्धिः किं न प्राज्वलत्?
33 तौ तत्क्षणादुत्थाय यिरूशालमपुरं प्रत्याययतुः, तत्स्थाने शिष्याणाम् एकादशानां सङ्गिनाञ्च दर्शनं जातं।
34 ते प्रोचुः प्रभुरुदतिष्ठद् इति सत्यं शिमोने दर्शनमदाच्च।
35 ततः पथः सर्व्वघटनायाः पूपभञ्जनेन तत्परिचयस्य च सर्व्ववृत्तान्तं तौ वक्तुमारेभाते।
36 इत्थं ते परस्परं वदन्ति तत्काले यीशुः स्वयं तेषां मध्य प्रोत्थय युष्माकं कल्याणं भूयाद् इत्युवाच,
37 किन्तु भूतं पश्याम इत्यनुमाय ते समुद्विविजिरे त्रेषुश्च।
38 स उवाच, कुतो दुःखिता भवथ? युष्माकं मनःसु सन्देह उदेति च कुतः?
39 एषोहं, मम करौ पश्यत वरं स्पृष्ट्वा पश्यत, मम यादृशानि पश्यथ तादृशानि भूतस्य मांसास्थीनि न सन्ति।
40 इत्युक्त्वा स हस्तपादान् दर्शयामास।
41 तेऽसम्भवं ज्ञात्वा सानन्दा न प्रत्ययन्। ततः स तान् पप्रच्छ, अत्र युष्माकं समीपे खाद्यं किञ्चिदस्ति?
42 ततस्ते कियद्दग्धमत्स्यं मधु च ददुः
43 स तदादाय तेषां साक्षाद् बुभुजे
44 कथयामास च मूसाव्यवस्थायां भविष्यद्वादिनां ग्रन्थेषु गीतपुस्तके च मयि यानि सर्व्वाणि वचनानि लिखितानि तदनुरूपाणि घटिष्यन्ते युष्माभिः सार्द्धं स्थित्वाहं यदेतद्वाक्यम् अवदं तदिदानीं प्रत्यक्षमभूत्।
45 अथ तेभ्यः शास्त्रबोधाधिकारं दत्वावदत्,
46 ख्रीष्टेनेत्थं मृतियातना भोक्तव्या तृतीयदिने च श्मशानादुत्थातव्यञ्चेति लिपिरस्ति;
47 तन्नाम्ना यिरूशालममारभ्य सर्व्वदेशे मनःपरावर्त्तनस्य पापमोचनस्य च सुसंवादः प्रचारयितव्यः,
48 एषु सर्व्वेषु यूयं साक्षिणः।
49 अपरञ्च पश्यत पित्रा यत् प्रतिज्ञातं तत् प्रेषयिष्यामि, अतएव यावत्कालं यूयं स्वर्गीयां शक्तिं न प्राप्स्यथ तावत्कालं यिरूशालम्नगरे तिष्ठत।
50 अथ स तान् बैथनीयापर्य्यन्तं नीत्वा हस्तावुत्तोल्य आशिष वक्तुमारेभे
51 आशिषं वदन्नेव च तेभ्यः पृथग् भूत्वा स्वर्गाय नीतोऽभवत्।
52 तदा ते तं भजमाना महानन्देन यिरूशालमं प्रत्याजग्मुः।
53 ततो निरन्तरं मन्दिरे तिष्ठन्त ईश्वरस्य प्रशंसां धन्यवादञ्च कर्त्तम् आरेभिरे। इति॥

॥ इति लूकलिखितः सुसंवादः समाप्तं ॥


योहनलिखितः सुसंवादः
01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21


योहनलिखितः सुसंवादः 01

1 आदौ वाद आसीत् स च वाद ईश्वरेण सार्धमासीत् स वादः स्वयमीश्वर एव।
2 स आदावीश्वरेण सहासीत्।
3 तेन सर्व्वं वस्तु ससृजे सर्व्वेषु सृष्टवस्तुषु किमपि वस्तु तेनासृष्टं नास्ति।
4 स जीवनस्याकारः, तच्च जीवनं मनुष्याणां ज्योतिः
5 तज्ज्योतिरन्धकारे प्रचकाशे किन्त्वन्धकारस्तन्न जग्राह।
6 योहन् नामक एको मनुज ईश्वरेण प्रेषयाञ्चक्रे।
7 तद्वारा यथा सर्व्वे विश्वसन्ति तदर्थं स तज्ज्योतिषि प्रमाणं दातुं साक्षिस्वरूपो भूत्वागमत्,
8 स स्वयं तज्ज्योति र्न किन्तु तज्ज्योतिषि प्रमाणं दातुमागमत्।
9 जगत्यागत्य यः सर्व्वमनुजेभ्यो दीप्तिं ददाति तदेव सत्यज्योतिः।
10 स यज्जगदसृजत् तन्मद्य एव स आसीत् किन्तु जगतो लोकास्तं नाजानन्।
11 निजाधिकारं स आगच्छत् किन्तु प्रजास्तं नागृह्लन्।
12 तथापि ये ये तमगृह्लन् अर्थात् तस्य नाम्नि व्यश्वसन् तेभ्य ईश्वरस्य पुत्रा भवितुम् अधिकारम् अददात्।
13 तेषां जनिः शोणितान्न शारीरिकाभिलाषान्न मानवानामिच्छातो न किन्त्वीश्वरादभवत्।
14 स वादो मनुष्यरूपेणावतीर्य्य सत्यतानुग्रहाभ्यां परिपूर्णः सन् सार्धम् अस्माभि र्न्यवसत् ततः पितुरद्वितीयपुत्रस्य योग्यो यो महिमा तं महिमानं तस्यापश्याम।
15 ततो योहनपि प्रचार्य्य साक्ष्यमिदं दत्तवान् यो मम पश्चाद् आगमिष्यति स मत्तो गुरुतरः; यतो मत्पूर्व्वं स विद्यमान आसीत्; यदर्थम् अहं साक्ष्यमिदम् अदां स एषः।
16 अपरञ्च तस्य पूर्णताया वयं सर्व्वे क्रमशः क्रमशोनुग्रहं प्राप्ताः।
17 मूसाद्वारा व्यवस्था दत्ता किन्त्वनुग्रहः सत्यत्वञ्च यीशुख्रीष्टद्वारा समुपातिष्ठतां।
18 कोपि मनुज ईश्वरं कदापि नापश्यत् किन्तु पितुः क्रोडस्थोऽद्वितीयः पुत्रस्तं प्रकाशयत्।
19 त्वं कः? इति वाक्यं प्रेष्टुं यदा यिहूदीयलोका याजकान् लेविलोकांश्च यिरूशालमो योहनः समीपे प्रेषयामासुः,
20 तदा स स्वीकृतवान् नापह्नूतवान् नाहम् अभिषिक्त इत्यङ्गीकृतवान्।
21 तदा तेऽपृच्छन् तर्हि को भवान्? किं एलियः? सोवदत् न; ततस्तेऽपृच्छन् तर्हि भवान् स भविष्यद्वादी? सोवदत् नाहं सः।
22 तदा तेऽपृच्छन् तर्हि भवान् कः? वयं गत्वा प्रेरकान् त्वयि किं वक्ष्यामः? स्वस्मिन् किं वदसि?
23 तदा सोवदत्। परमेशस्य पन्थानं परिष्कुरुत सर्व्वतः। इतीदं प्रान्तरे वाक्यं वदतः कस्यचिद्रवः। कथामिमां यस्मिन् यिशयियो भविष्यद्वादी लिखितवान् सोहम्।
24 ये प्रेषितास्ते फिरूशिलोकाः।
25 तदा तेऽपृच्छन् यदि नाभिषिक्तोसि एलियोसि न स भविष्यद्वाद्यपि नासि च, तर्हि लोकान् मज्जयसि कुतः?
26 ततो योहन् प्रत्यवोचत्, तोयेऽहं मज्जयामीति सत्यं किन्तु यं यूयं न जानीथ तादृश एको जनो युष्माकं मध्य उपतिष्ठति।
27 स मत्पश्चाद् आगतोपि मत्पूर्व्वं वर्त्तमान आसीत् तस्य पादुकाबन्धनं मोचयितुमपि नाहं योग्योस्मि।
28 यर्द्दननद्याः पारस्थबैथबारायां यस्मिन्स्थाने योहनमज्जयत् तस्मिन स्थाने सर्व्वमेतद् अघटत।
29 परेऽहनि योहन् स्वनिकटमागच्छन्तं यिशुं विलोक्य प्रावोचत् जगतः पापमोचकम् ईश्वरस्य मेषशावकं पश्यत।
30 यो मम पश्चादागमिष्यति स मत्तो गुरुतरः, यतो हेतोर्मत्पूर्व्वं सोऽवर्त्तत यस्मिन्नहं कथामिमां कथितवान् स एवायं।
31 अपरं नाहमेनं प्रत्यभिज्ञातवान् किन्तु इस्रायेल्लोका एनं यथा परिचिन्वन्ति तदभिप्रायेणाहं जले मज्जयितुमागच्छम्।
32 पुनश्च योहनपरमेकं प्रमाणं दत्वा कथितवान् विहायसः कपोतवद् अवतरन्तमात्मानम् अस्योपर्य्यवतिष्ठन्तं च दृष्टवानहम्।
33 नाहमेनं प्रत्यभिज्ञातवान् इति सत्यं किन्तु यो जले मज्जयितुं मां प्रैरयत् स एवेमां कथामकथयत् यस्योपर्य्यात्मानम् अवतरन्तम् अवतिष्ठन्तञ्च द्रक्षयसि सएव पवित्रे आत्मनि मज्जयिष्यति।
34 अवस्तन्निरीक्ष्यायम् ईश्वरस्य तनय इति प्रमाणं ददामि।
35 परेऽहनि योहन् द्वाभ्यां शिष्याभ्यां सार्द्धें तिष्ठन्
36 यिशुं गच्छन्तं विलोक्य गदितवान्, ईश्वरस्य मेषशावकं पश्यतं।
37 इमां कथां श्रुत्वा द्वौ शिष्यौ यीशोः पश्चाद् ईयतुः।
38 ततो यीशुः परावृत्य तौ पश्चाद् आगच्छन्तौ दृष्ट्वा पृष्टवान् युवां किं गवेशयथः? तावपृच्छतां हे रब्बि अर्थात् हे गुरो भवान् कुत्र तिष्ठति?
39 ततः सोवादित् एत्य पश्यतं। ततो दिवसस्य तृतीयप्रहरस्य गतत्वात् तौ तद्दिनं तस्य सङ्गेऽस्थातां।
40 यौ द्वौ योहनो वाक्यं श्रुत्वा यिशोः पश्चाद् आगमतां तयोः शिमोन्पितरस्य भ्राता आन्द्रियः
41 स इत्वा प्रथमं निजसोदरं शिमोनं साक्षात्प्राप्य कथितवान् वयं ख्रीष्टम् अर्थात् अभिषिक्तपुरुषं साक्षात्कृतवन्तः।
42 पश्चात् स तं यिशोः समीपम् आनयत्। तदा यीशुस्तं दृष्ट्वावदत् त्वं यूनसः पुत्रः शिमोन् किन्तु त्वन्नामधेयं कैफाः वा पितरः अर्थात् प्रस्तरो भविष्यति।
43 परेऽहनि यीशौ गालीलं गन्तुं निश्चितचेतसि सति फिलिपनामानं जनं साक्षात्प्राप्यावोचत् मम पश्चाद् आगच्छ।
44 बैत्सैदानाम्नि यस्मिन् ग्रामे पितरान्द्रिययोर्वास आसीत् तस्मिन् ग्रामे तस्य फिलिपस्य वसतिरासीत्।
45 पश्चात् फिलिपो निथनेलं साक्षात्प्राप्यावदत् मूसा व्यवस्था ग्रन्थे भविष्यद्वादिनां ग्रन्थेषु च यस्याख्यानं लिखितमास्ते तं यूषफः पुत्रं नासरतीयं यीशुं साक्षाद् अकार्ष्म वयं।
46 तदा निथनेल् कथितवान् नासरन्नगरात किं कश्चिदुत्तम उत्पन्तुं शक्नोति? ततः फिलिपो ऽवोचत् एत्य पश्य।
47 अपरञ्च यीशुः स्वस्य समीपं तम् आगच्छन्तं दृष्ट्वा व्याहृतवान्, पश्यायं निष्कपटः सत्य इस्रायेल्लोकः।
48 ततः सोवदद्, भवान् मां कथं प्रत्यभिजानाति? यीशुरवादीत् फिलिपस्य आह्वानात् पूर्व्वं यदा त्वमुडुम्बरस्य तरोर्मूलेऽस्थास्तदा त्वामदर्शम्।
49 निथनेल् अचकथत्, हे गुरो भवान् नितान्तम् ईश्वरस्य पुत्रोसि, भवान् इस्रायेल्वंशस्य राजा।
50 ततो यीशु र्व्याहरत्, त्वामुडुम्बरस्य पादपस्य मूले दृष्टवानाहं ममैतस्माद्वाक्यात् किं त्वं व्यश्वसीः? एतस्मादप्याश्चर्य्याणि कार्य्याणि द्रक्ष्यसि।
51 अन्यच्चावादीद् युष्मानहं यथार्थं वदामि, इतः परं मोचिते मेघद्वारे तस्मान्मनुजसूनुना ईश्वरस्य दूतगणम् अवरोहन्तमारोहन्तञ्च द्रक्ष्यथ।

योहनलिखितः सुसंवादः 02

1 अनन्तरं त्रुतीयदिवसे गालील् प्रदेशिये कान्नानाम्नि नगरे विवाह आसीत् तत्र च यीशोर्माता तिष्ठत्।
2 तस्मै विवाहाय यीशुस्तस्य शिष्याश्च निमन्त्रिता आसन्।
3 तदनन्तरं द्राक्षारसस्य न्यूनत्वाद् यीशोर्माता तमवदत् एतेषां द्राक्षारसो नास्ति।
4 तदा स तामवोचत् हे नारि मया सह तव किं कार्य्यं? मम समय इदानीं नोपतिष्ठति।
5 ततस्तस्य माता दासानवोचद् अयं यद् वदति तदेव कुरुत।
6 तस्मिन् स्थाने यिहूदीयानां शुचित्वकरणव्यवहारानुसारेणाढकैकजलधराणि पाषाणमयानि षड्वृहत्पात्राणिआसन्।
7 तदा यीशुस्तान् सर्व्वकलशान् जलैः पूरयितुं तानाज्ञापयत्, ततस्ते सर्व्वान् कुम्भानाकर्णं जलैः पर्य्यपूरयन्।
8 अथ तेभ्यः किञ्चिदुत्तार्य्य भोज्याधिपातेःसमीपं नेतुं स तानादिशत्, ते तदनयन्।
9 अपरञ्च तज्जलं कथं द्राक्षारसोऽभवत् तज्जलवाहकादासा ज्ञातुं शक्ताः किन्तु तद्भोज्याधिपो ज्ञातुं नाशक्नोत् तदवलिह्य वरं संम्बोद्यावदत,
10 लोकाः प्रथमं उत्तमद्राक्षारसं ददति तषु यथेष्टं पितवत्सु तस्मा किञ्चिदनुत्तमञ्च ददति किन्तु त्वमिदानीं यावत् उत्तमद्राक्षारसं स्थापयसि।
11 इत्थं यीशुर्गालीलप्रदेशे आश्चर्य्यकार्म्म प्रारम्भ निजमहिमानं प्राकाशयत् ततः शिष्यास्तस्मिन् व्यश्वसन्।
12 ततः परम् स निजमात्रुभ्रात्रुस्शिष्यैः सार्द्ध्ं कफर्नाहूमम् आगमत् किन्तु तत्र बहूदिनानि आतिष्ठत्।
13 तदनन्तरं यिहूदियानां निस्तारोत्सवे निकटमागते यीशु र्यिरूशालम् नगरम् आगच्छत्।
14 ततो मन्दिरस्य मध्ये गोमेषपारावतविक्रयिणो वाणिजक्ष्चोपविष्टान् विलोक्य
15 रज्जुभिः कशां निर्म्माय सर्व्वगोमेषादिभिः सार्द्धं तान् मन्दिराद् दूरीकृतवान्।
16 वणिजां मुद्रादि विकीर्य्य आसनानि न्यूब्जीकृत्य पारावतविक्रयिभ्योऽकथयद् अस्मात् स्थानात् सर्वाण्येतानि नयत, मम पितुगृहं वाणिज्यगृहं मा कार्ष्ट।
17 तस्मात् तन्मन्दिरार्थ उद्योगो यस्तु स ग्रसतीव माम्। इमां शास्त्रीयलिपिं शिष्याःसमस्मरन्।
18 ततः परम् यिहूदीयलोका यीषिमवदन् तवमिदृशकर्म्मकरणात् किं चिह्नमस्मान् दर्शयसि?
19 ततो यीशुस्तानवोचद् युष्माभिरे तस्मिन् मन्दिरे नाशिते दिनत्रयमध्येऽहं तद् उत्थापयिष्यामि।
20 तदा यिहूदिया व्याहार्षुः, एतस्य मन्दिरस निर्म्माणेन षट्चत्वारिंशद् वत्सरा गताः, त्वं किं दिनत्रयमध्ये तद् उत्थापयिष्यसि?
21 किन्तु स निजदेहरूपमन्दिरे कथामिमां कथितवान्।
22 स यदेतादृशं गदितवान् तच्छिष्याः श्मशानात् तदीयोत्थाने सति स्मृत्वा धर्म्मग्रन्थे यीशुनोक्तकथायां च व्यश्वसिषुः।
23 अनन्तरं निस्तारोत्सवस्य भोज्यसमये यिरूशालम् नगरे तत्क्रुताश्चर्य्यकर्म्माणि विलोक्य बहुभिस्तस्य नामनि विश्वसितं।
24 किन्तु स तेषां करेषु स्वं न समर्पयत्, यतः स सर्व्वानवैत्।
25 स मानवेषु कस्यचित् प्रमाणं नापेक्षत यतो मनुजानां मध्ये यद्यदस्ति तत्तत् सोजानात्।

योहनलिखितः सुसंवादः 03

1 निकदिमनामा यिहूदीयानाम् अधिपतिः फिरूशी क्षणदायां
2 यीशौरभ्यर्णम् आव्रज्य व्याहार्षीत्, हे गुरो भवान् ईश्वराद् आगत् एक उपदेष्टा, एतद् अस्माभिर्ज्ञायते; यतो भवता यान्याश्चर्य्यकर्म्माणि क्रियन्ते परमेश्वरस्य साहाय्यं विना केनापि तत्तत्कर्म्माणि कर्त्तुं न शक्यन्ते।
3 तदा यीशुरुत्तरं दत्तवान् तवाहं यथार्थतरं व्याहरामि पुनर्जन्मनि न सति कोपि मानव ईश्वरस्य राज्यं द्रष्टुं न शक्नोति।
4 ततो निकदीमः प्रत्यवोचत् मनुजो वृद्धो भूत्वा कथं जनिष्यते? स किं पुन र्मातृर्जठरं प्रविश्य जनितुं शक्नोति?
5 यीशुरवादीद् यथार्थतरम् अहं कथयामि मनुजे तोयात्मभ्यां पुन र्न जाते स ईश्वरस्य राज्यं प्रवेष्टुं न शक्नोति।
6 मांसाद् यत् जायते तन् मांसमेव तथात्मनो यो जायते स आत्मैव।
7 युष्माभिः पुन र्जनितव्यं ममैतस्यां कथायाम् आश्चर्यं मा मंस्थाः।
8 सदागतिर्यां दिशमिच्छति तस्यामेव दिशि वाति, त्वं तस्य स्वनं शुणोषि किन्तु स कुत आयाति कुत्र याति वा किमपि न जानासि तद्वाद् आत्मनः सकाशात् सर्व्वेषां मनुजानां जन्म भवति।
9 तदा निकदीमः पृष्टवान् एतत् कथं भवितुं शक्नोति?
10 यीशुः प्रत्यक्तवान् त्वमिस्रायेलो गुरुर्भूत्वापि किमेतां कथां न वेत्सि?
11 तुभ्यं यथार्थं कथयामि, वयं यद् विद्मस्तद् वच्मः यंच्च पश्यामस्तस्यैव साक्ष्यं दद्मः किन्तु युष्माभिरस्माकं साक्षित्वं न गृह्यते।
12 एतस्य संसारस्य कथायां कथितायां यदि यूयं न विश्वसिथ तर्हि स्वर्गीयायां कथायां कथं विश्वसिष्यथ?
13 यः स्वर्गेऽस्ति यं च स्वर्गाद् अवारोहत् तं मानवतनयं विना कोपि स्वर्गं नारोहत्।
14 अपरञ्च मूसा यथा प्रान्तरे सर्पं प्रोत्थापितवान् मनुष्यपुत्रोऽपि तथैवोत्थापितव्यः;
15 तस्माद् यः कश्चित् तस्मिन् विश्वसिष्यति सोऽविनाश्यः सन् अनन्तायुः प्राप्स्यति।
16 ईश्वर इत्थं जगददयत यत् स्वमद्वितीयं तनयं प्राददात् ततो यः कश्चित् तस्मिन् विश्वसिष्यति सोऽविनाश्यः सन् अनन्तायुः प्राप्स्यति।
17 ईश्वरो जगतो लोकान् दण्डयितुं स्वपुत्रं न प्रेष्य तान् परित्रातुं प्रेषितवान्।
18 अतएव यः कश्चित् तस्मिन् विश्वसिति स दण्डार्हो न भवति किन्तु यः कश्चित् तस्मिन् न विश्वसिति स इदानीमेव दण्डार्हो भवति,यतः स ईश्वरस्याद्वितीयपुत्रस्य नामनि प्रत्ययं न करोति।
19 जगतो मध्ये ज्योतिः प्राकाशत किन्तु मनुष्याणां कर्म्मणां दृष्टत्वात् ते ज्योतिषोपि तिमिरे प्रीयन्ते एतदेव दण्डस्य कारणां भवति।
20 यः कुकर्म्म करोति तस्याचारस्य दृष्टत्वात् स ज्योतिरॄतीयित्वा तन्निकटं नायाति;
21 किन्तु यः सत्कर्म्म करोति तस्य सर्व्वाणि कर्म्माणीश्वरेण कृतानीति सथा प्रकाशते तदभिप्रायेण स ज्योतिषः सन्निधिम् आयाति।
22 ततः परम् यीशुः शिष्यैः सार्द्धं यिहूदीयदेशं गत्वा तत्र स्थित्वा मज्जयितुम् आरभत।
23 तदा शालम् नगरस्य समीपस्थायिनि ऐनन् ग्रामे बहुतरतोयस्थितेस्तत्र योहन् अमज्जयत् तथा च लोका आगत्य तेन मज्जिता अभवन्।
24 तदा योहन् कारायां न बद्धः।
25 अपरञ्च शाचकर्म्मणि योहानः शिष्यैः सह यिहूदीयलोकानां विवादे जाते, ते योहनः संन्निधिं गत्वाकथयन्,
26 हे गुरो यर्द्दननद्याः पारे भवता सार्द्धं य आसीत् यस्मिंश्च भवान् साक्ष्यं प्रददात् पश्यतु सोपि मज्जयति सर्व्वे तस्य समीपं यान्ति च।
27 तदा योहन् प्रत्यवोचद् ईश्वरेण न दत्ते कोपि मनुजः किमपि प्राप्तुं न शक्नोति।
28 अहं अभिषिक्तो न भवामि किन्तु तदग्रे प्रेषितोस्मि यामिमां कथां कथितवानाहं तत्र यूयं सर्व्वे साक्षिणः स्थ।
29 यो जनः कन्यां लभते स एव वरः किन्तु वरस्य सन्निधौ दण्डायमानं तस्य यन्मित्रं तेन वरस्य शब्दे श्रुतेऽतीवाह्लाद्यते ममापि तद्वद् आनन्दसिद्धिर्जाता।
30 तेन क्रमशो वर्द्धितव्यं किन्तु मया ह्सितव्यं।
31 य ऊर्ध्वादागच्छत् स सर्व्वेषां मुख्यो यश्च संसाराद् उदपद्यत स सांसारिकः संसारीयां कथाञ्च कथयति यस्तु स्वर्गादागच्छत् स सर्व्वेषां मुख्यः।
32 स यदपश्यदशृणोच्च तस्मिन्नेव साक्ष्यं ददाति तथापि प्रायशः कश्चित् तस्य साक्ष्यं न गृह्लाति;
33 किन्तु यो गृह्लाति स ईश्वरस्य सत्यवादित्वं मुद्राङ्गितं करोति।
34 ईश्वरेण यः प्रेरितः सएव ईश्वरीयकथां कथयति यत ईश्वर आत्मानं तस्मै अपरिमितम् अददात्।
35 पिता पुत्रे स्नेहं कृत्वा तस्य हस्ते सर्व्वाणि समर्पितवान्।
36 यः कश्चित् पुत्रे विश्वसिति स एवानन्तम् परमायुः प्राप्नोति किन्तु यः कश्चित् पुत्रे न विश्वसिति स परमायुषो दर्शनं न प्राप्नोति किन्त्वीश्वरस्य कोपभाजनं भूत्वा तिष्ठति।

योहनलिखितः सुसंवादः 04

1 यीशुः स्वयं नामज्जयत् केवलं तस्य शिष्या अमज्जयत् किन्तु योहनोऽधिकशिष्यान् स करोति मज्जयति च,
2 फिरूशिन इमां वार्त्तामशृण्वन् इति प्रभुरवगत्य
3 यिहूदीयदेशं विहाय पुन र्गालीलम् आगत्।
4 ततः शोमिरोणप्रदेशस्य मद्येन तेन गन्तव्ये सति
5 याकूब् निजपुत्राय यूषफे यां भूमिम् अददात् तत्समीपस्थायि शोमिरोणप्रदेशस्य सुखार् नाम्ना विख्यातस्य नगरस्य सन्निधावुपास्थात्।
6 तत्र याकूबः प्रहिरासीत्; तदा द्वितीययामवेलायां जातायां स मार्गे श्रमापन्नस्तस्य प्रहेः पार्श्वे उपाविशत्।
7 एतर्हि काचित् शोमिरोणीया योषित् तोयोत्तोलनार्थम् तत्रागमत्
8 तदा शिष्याः खाद्यद्रव्याणि क्रेतुं नगरम् अगच्छन्।
9 यीशुः शोमिरोणीयां तां योषितम् व्याहार्षीत् मह्यं किञ्चित् पानीयं पातुं देहि। किन्तु शोमिरोणीयैः साकं यिहूदीयलोका न व्यवाहरन् तस्माद्धेतोः साकथयत् शोमिरोणीया योषितदहं त्वं यिहूदीयोसि कथं मत्तः पानीयं पातुम् इच्छसि?
10 ततो यीशुरवदद् ईश्वरस्य यद्दानं तत्कीदृक् पानीयं पातुं मह्यं देहि य इत्थं त्वां याचते स वा क इति चेदज्ञास्यथास्तर्हि तमयाचिष्यथाः स च तुभ्यममृतं तोयमदास्यत्।
11 तदा सा सीमन्तिनी भाषितवति, हे महेच्छ प्रहिर्गम्भीरो भवतो नीरोत्तोलनपात्रं नास्ती च तस्मात् तदमृतं कीलालं कुतः प्राप्स्यसि?
12 योस्मभ्यम् इममन्धूं ददौ, यस्य च परिजना गोमेषादयश्च सर्व्वेऽस्य प्रहेः पानीयं पपुरेतादृशो योस्माकं पूर्व्वपुरुषो याकूब् तस्मादपि भवान् महान् किं?
13 ततो यीशुरकथयद् इदं पानीयं सः पिवति स पुनस्तृषार्त्तो भविष्यति,
14 किन्तु मया दत्तं पानीयं यः पिवति स पुनः कदापि तृषार्त्तो न भविष्यति। मया दत्तम् इदं तोयं तस्यान्तः प्रस्रवणरूपं भूत्वा अनन्तायुर्यावत् स्रोष्यति।
15 तदा सा वनिताकथयत् हे महेच्छ तर्हि मम पुनः पीपासा यथा न जायते तोयोत्तोलनाय यथात्रागमनं न भवति च तदर्थं मह्यं तत्तोयं देही।
16 ततो यीशूरवदद्याहि तव पतिमाहूय स्थानेऽत्रागच्छ।
17 सा वामावदत् मम पतिर्नास्ति। यीशुरवदत् मम पतिर्नास्तीति वाक्यं भद्रमवोचः।
18 यतस्तव पञ्च पतयोभवन् अधुना तु त्वया सार्द्धं यस्तिष्ठति स तव भर्त्ता न वाक्यमिदं सत्यमवादिः।
19 तदा सा महिला गदितवति हे महेच्छ भवान् एको भविष्यद्वादीति बुद्धं मया।
20 अस्माकं पितृलोका एतस्मिन् शिलोच्चयेऽभजन्त, किन्तु भवद्भिरुच्यते यिरूशालम् नगरे भजनयोग्यं स्थानमास्ते।
21 यीशुरवोचत् हे योषित् मम वाक्ये विश्वसिहि यदा यूयं केवलशैलेऽस्मिन् वा यिरूशालम् नगरे पितुर्भजनं न करिष्यध्वे काल एतादृश आयाति।
22 यूयं यं भजध्वे तं न जानीथ, किन्तु वयं यं भजामहे तं जानीमहे, यतो यिहूदीयलोकानां मध्यात् परित्राणं जायते।
23 किन्तु यदा सत्यभक्ता आत्मना सत्यरूपेण च पितुर्भजनं करिष्यन्ते समय एतादृश आयाति, वरम् इदानीमपि विद्यते ; यत एतादृशो भत्कान् पिता चेष्टते।
24 ईश्वर आत्मा; ततस्तस्य ये भक्तास्तैः स आत्मना सत्यरूपेण च भजनीयः।
25 तदा सा महिलावादीत् ख्रीष्टनाम्ना विख्यातोऽभिषिक्तः पुरुष आगमिष्यतीति जानामि स च सर्व्वाः कथा अस्मान् ज्ञापयिष्यति।
26 ततो यीशुरवदत् त्वया सार्द्धं कथनं करोमि योऽहम् अहमेव स पुरुषः।
27 एतस्मिन् समये शिष्या आगत्य तथा स्त्रिया सार्द्धं तस्य कथोपकथने महाश्चर्य्यम् अमन्यन्त तथापि भवान् किमिच्छति? यद्वा किमर्थम् एतया सार्द्धं कथां कथयति? इति कोपि नापृच्छत्।
28 ततः परं सा नारी कलशं स्थापयित्वा नगरमध्यं गत्वा लोकेभ्योकथायद्
29 अहं यद्यत् कर्म्माकरवं तत्सर्व्वं मह्यमकथयद् एतादृशं मानवमेकम् आगत्य पश्यत रु किम् अभिषिक्तो न भवति ?
30 ततस्ते नगराद् बहिरागत्य तातस्य समीपम् आयन्।
31 एतर्हि शिष्याः साधयित्वा तं व्याहार्षुः हे गुरो भवान् किञ्चिद् भूक्तां।
32 ततः सोवदद् युष्माभिर्यन्न ज्ञायते तादृशं भक्ष्यं ममास्ते।
33 तदा शिष्याः परस्परं प्रष्टुम् आरम्भन्त, किमस्मै कोपि किमपि भक्ष्यमानीय दत्तवान्?
34 यीशुरवोचत् मत्प्रेरकस्याभिमतानुरूपकरणं तस्यैव कर्म्मसिद्धिकारणञ्च मम भक्ष्यं।
35 मासचतुष्टये जाते शस्यकर्त्तनसमयो भविष्यतीति वाक्यं युष्माभिः किं नोद्यते? किन्त्वहं वदामि, शिर उत्तोल्य क्षेत्राणि प्रति निरीक्ष्य पश्यत, इदानीं कर्त्तनयोग्यानि शुक्लवर्णान्यभवन्।
36 यश्छिनत्ति स वेतनं लभते अनन्तायुःस्वरूपं शस्यं स गृह्लाति च, तेनैव वप्ता छेत्ता च युगपद् आनन्दतः।
37 इत्थं सति वपत्येकश्छिनत्यन्य इति वचनं सिद्ध्यति।
38 यत्र यूयं न पर्य्यश्राम्यत तादृशं शस्यं छेत्तुं युष्मान् प्रैरयम् अन्ये जनाःपर्य्यश्राम्यन् यूयं तेषां श्रगस्य फलम् अलभध्वम्।
39 यस्मिन् काले यद्यत् कर्म्माकार्षं तत्सर्व्वं स मह्यम् अकथयत् तस्या वनिताया इदं साक्ष्यवाक्यं श्रुत्वा तन्नगरनिवासिनो बहवः शोमिरोणीयलोका व्यश्वसन्।
40 तथा च तस्यान्तिके समुपस्थाय स्वेषां सन्निधौ कतिचिद् दिनानि स्थातुं तस्मिन् विनयम् अकुर्व्वान तस्मात् स दिनद्वयं तत्स्थाने न्यवष्टत्
41 ततस्तस्योपदेशेन बहवोऽपरे विश्वस्य
42 तां योषामवदन् केवलं तव वाक्येन प्रतीम इति न, किन्तु स जगतोऽभिषिक्तस्त्रातेति तस्य कथां श्रुत्वा वयं स्वयमेवाज्ञासमहि।
43 स्वदेशे भविष्यद्वक्तुः सत्कारो नास्तीति यद्यपि यीशुः प्रमाणं दत्वाकथयत्
44 तथापि दिवसद्वयात् परं स तस्मात् स्थानाद् गालीलं गतवान्।
45 अनन्तरं ये गालीली लियलोका उत्सवे गता उत्सवसमये यिरूशलम् नगरे तस्य सर्व्वाः क्रिया अपश्यन् ते गालीलम् आगतं तम् आगृह्लन्।
46 ततः परम् यीशु र्यस्मिन् कान्नानगरे जलं द्राक्षारसम् आकरोत् तत् स्थानं पुनरगात्। तस्मिन्नेव समये कस्यचिद् राजसभास्तारस्य पुत्रः कफर्नाहूमपुरी रोगग्रस्त आसीत्।
47 स येहूदीयदेशाद् यीशो र्गालीलागमनवार्त्तां निशम्य तस्य समीपं गत्वा प्रार्थ्य व्याहृतवान् मम पुत्रस्य प्रायेण काल आसन्नः भवान् आगत्य तं स्वस्थं करोतु।
48 तदा यीशुरकथयद् आश्चर्य्यं कर्म्म चित्रं चिह्नं च न दृष्टा यूयं न प्रत्येष्यथ।
49 ततः स सभासदवदत् हे महेच्छ मम पुत्रे न मृते भवानागच्छतु।
50 यीशुस्तमवदद् गच्छ तव पुत्रोऽजीवीत् तदा यीशुनोक्तवाक्ये स विश्वस्य गतवान्।
51 गमनकाले मार्गमध्ये दासास्तं साक्षात्प्राप्यावदन् भवतः पुत्रोऽजीवीत्।
52 ततः कं कालमारभ्य रोगप्रतीकारारम्भो जाता इति पृष्टे तैरुक्तं ह्यः सार्द्धदण्डद्वयाधिकद्वितीययामे तस्य ज्वरत्यागोऽभवत्।
53 तदा यीशुस्तस्मिन् क्षणे प्रोक्तवान् तव पुत्रोऽजीवीत् पिता तद्बुद्ध्वा सपरिवारो व्यश्वसीत्।
54 यिहूदीयदेशाद् आगत्य गालीलि यीशुरेतद् द्वितीयम् आश्चर्य्यकर्म्माकरोत्।

योहनलिखितः सुसंवादः 05

1 ततः परं यिहूदीयानाम् उत्सव उपस्थिते यीशु र्यिरूशालमं गतवान्।
2 तस्मिन्नगरे मेषनाम्नो द्वारस्य समीपे इब्रीयभाषया बैथेस्दा नाम्ना पिष्करिणी पञ्चघट्टयुक्तासीत्।
3 तस्यास्तेषु घट्टेषु किलालकम्पनम् अपेक्ष्य अन्धखञ्चशुष्काङ्गादयो बहवो रोगिणः पतन्तस्तिष्ठन्ति स्म।
4 यतो विशेषकाले तस्य सरसो वारि स्वर्गीयदूत एत्याकम्पयत् तत्कीलालकम्पनात् परं यः कश्चिद् रोगी प्रथमं पानीयमवारोहत् स एव तत्क्षणाद् रोगमुक्तोऽभवत्।
5 तदाष्टात्रिंशद्वर्षाणि यावद् रोगग्रस्त एकजनस्तस्मिन् स्थाने स्थितवान्।
6 यीशुस्तं शयितं दृष्ट्वा बहुकालिकरोगीति ज्ञात्वा व्याहृतवान् त्वं किं स्वस्थो बुभूषसि?
7 ततो रोगी कथितवान् हे महेच्छ यदा कीलालं कम्पते तदा मां पुष्करिणीम् अवरोहयितुं मम कोपि नास्ति, तस्मान् मम गमनकाले कश्चिदन्योऽग्रो गत्वा अवरोहति।
8 तदा यीशुरकथयद् उत्तिष्ठ, तव शय्यामुत्तोल्य गृहीत्वा याहि।
9 स तत्क्षणात् स्वस्थो भूत्वा शय्यामुत्तोल्यादाय गतवान् किन्तु तद्दिनं विश्रामवारः।
10 तस्माद् यिहूदीयाः स्वस्थं नरं व्याहरन् अद्य विश्रामवारे शयनीयमादाय न यातव्यम्।
11 ततः स प्रत्यवोचद् यो मां स्वस्थम् अकार्षीत् शयनीयम् उत्तोल्यादाय यातुं मां स एवादिशत्।
12 तदा तेऽपृच्छन् शयनीयम् उत्तोल्यादाय यातुं य आज्ञापयत् स कः?
13 किन्तु स क इति स्वस्थीभूतो नाजानाद् यतस्तस्मिन् स्थाने जनतासत्त्वाद् यीशुः स्थानान्तरम् आगमत्।
14 ततः परं येशु र्मन्दिरे तं नरं साक्षात्प्राप्याकथयत् पश्येदानीम् अनामयो जातोसि यथाधिका दुर्दशा न घटते तद्धेतोः पापं कर्म्म पुनर्माकार्षीः।
15 ततः स गत्वा यिहूदीयान् अवदद् यीशु र्माम् अरोगिणम् अकार्षीत्।
16 ततो यीशु र्विश्रामवारे कर्म्मेदृशं कृतवान् इति हेतो र्यिहूदीयास्तं ताडयित्वा हन्तुम् अचेष्टन्त।
17 यीशुस्तानाख्यत् मम पिता यत् कार्य्यं करोति तदनुरूपम् अहमपि करोति।
18 ततो यिहूदीयास्तं हन्तुं पुनरयतन्त यतो विश्रामवारं नामन्यत तदेव केवलं न अधिकन्तु ईश्वरं स्वपितरं प्रोच्य स्वमपीश्वरतुल्यं कृतवान्।
19 पश्चाद् यीशुरवदद् युष्मानहं यथार्थतरं वदामि पुत्रः पितरं यद्यत् कर्म्म कुर्व्वन्तं पश्यति तदतिरिक्तं स्वेच्छातः किमपि कर्म्म कर्त्तुं न शक्नोति। पिता यत् करोति पुत्रोपि तदेव करोति।
20 पिता पुत्रे स्नेहं करोति तस्मात् स्वयं यद्यत् कर्म्म करोति तत्सर्व्वं पुत्रं दर्शयति ; यथा च युष्माकं आश्चर्य्यज्ञानं जनिष्यते तदर्थम् इतोपि महाकर्म्म तं दर्शयिष्यति।
21 वस्तुतस्तु पिता यथा प्रमितान् उत्थाप्य सजिवान् करोति तद्वत् पुत्रोपि यं यं इच्छति तं तं सजीवं करोति।
22 सर्व्वे पितरं यथा सत्कुर्व्वन्ति तथा पुत्रमपि सत्कारयितुं पिता स्वयं कस्यापि विचारमकृत्वा सर्व्वविचाराणां भारं पुत्रे समर्पितवान्।
23 यः पुत्रं सत् करोति स तस्य प्रेरकमपि सत् करोति।
24 युष्मानाहं यथार्थतरं वदामि यो जनो मम वाक्यं श्रुत्वा मत्प्रेरके विश्वसिति सोनन्तायुः प्राप्नोति कदापि दण्डबाजनं न भवति निधनादुत्थाय परमायुः प्राप्नोति।
25 अहं युष्मानतियथार्थं वदामि यदा मृता ईश्वरपुत्रस्य निनादं श्रोष्यन्ति ये च श्रोष्यन्ति ते सजीवा भविष्यन्ति समय एतादृश आयाति वरम् इदानीमप्युपतिष्ठति।
26 पिता यथा स्वयञ्जीवी तथा पुत्राय स्वयञ्जीवित्वाधिकारं दत्तवान्।
27 स मनुष्यपुत्रः एतस्मात् कारणात् पिता दण्डकरणाधिकारमपि तस्मिन् समर्पितवान्।
28 एतदर्थे यूयम् आश्चर्य्यं न मन्यध्वं यतो यस्मिन् समये तस्य निनादं श्रुत्वा श्मशानस्थाः सर्व्वे बहिरागमिष्यन्ति समय एतादृश उपस्थास्यति।
29 तस्माद् ये सत्कर्म्माणि कृतवन्तस्त उत्थाय आयुः प्राप्स्यन्ति ये च कुकर्माणि कृतवन्तस्त उत्थाय दण्डं प्राप्स्यन्ति।
30 अहं स्वयं किमपि कर्त्तुं न शक्नोमि यथा शुणोमि तथा विचारयामि मम विचारञ्च न्याय्यः यतोहं स्वीयाभीष्टं नेहित्वा मत्प्रेरयितुः पितुरिष्टम् ईहे।
31 यदि स्वस्मिन् स्वयं साक्ष्यं ददामि तर्हि तत्साक्ष्यम् आग्राह्यं भवति ;
32 किन्तु मदर्थेऽपरो जनः साक्ष्यं ददाति मदर्थे तस्य यत् साक्ष्यं तत् सत्यम् एतदप्यहं जानामि।
33 युष्माभि र्योहनं प्रति लोकेषु प्रेरितेषु स सत्यकथायां साक्ष्यमददात्।
34 मानुषादहं साक्ष्यं नोपेक्षे तथापि यूयं यथा परित्रयध्वे तदर्थम् इदं वाक्यं वदामि।
35 योहन् देदीप्यमानो दीप इव तेजस्वी स्थितवान् यूयम् अल्पकालं तस्य दीप्त्यानन्दितुं सममन्यध्वं।
36 किन्तु तत्प्रमाणादपि मम गुरुतरं प्रमाणं विद्यते पिता मां प्रेष्य यद्यत् कर्म्म समापयितुं शक्त्तिमददात् मया कृतं तत्तत् कर्म्म मदर्थे प्रमाणं ददाति।
37 यः पिता मां प्रेरितवान् मोपि मदर्थे प्रमाणं ददाति। तस्य वाक्यं युष्माभिः कदापि न श्रुतं तस्य रूपञ्च न दृष्टं
38 तस्य वाक्यञ्च युष्माकम् अन्तः कदापि स्थानं नाप्नोति यतः स यं प्रेषितवान् यूयं तस्मिन् न विश्वसिथ।
39 धर्म्मपुस्तकानि यूयम् आलोचयध्वं तै र्वाक्यैरनन्तायुः प्राप्स्याम इति यूयं बुध्यध्वे तद्धर्म्मपुस्तकानि मदर्थे प्रमाणं ददति।
40 तथापि यूयं परमायुःप्राप्तये मम संनिधिम् न जिगमिषथ।
41 अहं मानुषेभ्यः सत्कारं न गृह्लामि।
42 अहं युष्मान् जानामि; युष्माकमन्तर ईश्वरप्रेम नास्ति।
43 अहं निजपितु र्नाम्नागतोस्मि तथापि मां न गृह्लीथ किन्तु कश्चिद् यदि स्वनाम्ना समागमिष्यति तर्हि तं ग्रहीष्यथ।
44 यूयम् ईश्वरात् सत्कारं न चिष्टत्वा केवलं परस्परं सत्कारम् चेद् आदध्व्वे तर्हि कथं विश्वसितुं शक्नुथ?
45 पुतुः समीपेऽहं युष्मान् अपवदिष्यामीति मा चिन्तयत यस्मिन् , यस्मिन् युष्माकं विश्वसः सएव मूसा युष्मान् अपवदति।
46 यदि यूयं तस्मिन् व्यश्वसिष्यत तर्हि मय्यपि व्यश्वसिष्यत, यत् स मयि लिखितवान्।
47 ततो यदि तेन लिखितवानि न प्रतिथ तर्हि मम वाक्यानि कथं प्रत्येष्यथ?

योहनलिखितः सुसंवादः 06

1 ततः परं यीशु र्गालील् प्रदेशीयस्य तिविरियानाम्नः सिन्धोः पारं गतवान्।
2 ततो व्याधिमल्लोकस्वास्थ्यकरणरूपाणि तस्याश्चर्य्याणि कर्म्माणि दृष्ट्वा बहवो जनास्तत्पश्चाद् अगच्छन्।
3 ततो यीशुः पर्व्वतमारुह्य तत्र शिष्यैः साकम्।
4 तस्मिन् समय निस्तारोत्सवनाम्नि यिहूदीयानाम उत्सव उपस्थिते
5 यीशु र्नेत्रे उत्तोल्य बहुलोकान् स्वसमीपागतान् विलोक्य फिलिपं पृष्टवान् एतेषां भोजनाय भोजद्रव्याणि वयं कुत्र क्रेतुं शक्रुमः?
6 वाक्यमिदं तस्य परीक्षार्थम् अवादीत् किन्तु यत् करिष्यति तत् स्वयम् अजानात्।
7 फिलिपः प्रत्यवोचत् एतेषाम् एकैको यद्यल्पम् अल्पं प्राप्नोति तर्हि मुद्रापादद्विशतेन क्रीतपूपा अपि न्यूना भविष्यन्ति।
8 शिमोन् पितरस्य भ्राता आन्द्रियाख्यः शिष्याणामेको व्याहृतवान्
9 अत्र कस्यचिद् बालकस्य समीपे पञ्च यावपूपाः क्षुद्रमत्स्यद्वयञ्च सन्ति किन्तु लोकानां एतावातां मध्ये तैः किं भविष्यति?
10 पश्चाद् यीशुरवदत् लोकानुपवेशयत तत्र बहुयवससत्त्वात् पञ्चसहस्त्रेभ्यो न्यूना अधिका वा पुरुषा भूम्याम् उपाविशन्।
11 ततो यीशुस्तान् पूपानादाय ईश्वरस्य गुणान् कीर्त्तयित्वा शिष्येषु समार्पयत् ततस्ते तेभ्य उपविष्टलोकेभ्यः पूपान् यथेष्टमत्स्यञ्च प्रादुः।
12 तेषु तृप्तेषु स तानवोचद् एतेषां किञ्चिदपि यथा नापचीयते तथा सर्व्वाण्यवशिष्टानि संगृह्लीत।
13 ततः सर्व्वेषां भोजनात् परं ते तेषां पञ्चानां यावपूपानां अवशिष्टान्यखिलानि संगृह्य द्वादशडल्लकान् अपूरयन्।
14 अपरं यीशोरेतादृशीम् आश्चर्य्यक्रियां दृष्ट्वा लोका मिथो वक्तुमारेभिरे जगति यस्यागमनं भविष्यति स एवायम् अवश्यं भविष्यद्वक्त्ता।
15 अतएव लोका आगत्य तमाक्रम्य राजानं करिष्यन्ति यीशुस्तेषाम् ईदृशं मानसं विज्ञाय पुनश्च पर्व्वतम् एकाकी गतवान्।
16 सायंकाल उपस्थिते शिष्या जलधितटं व्रजित्वा नावमारुह्य नगरदिशि सिन्धौ वाहयित्वागमन्।
17 तस्मिन् समये तिमिर उपातिष्ठत् किन्तु यीषुस्तेषां समीपं नागच्छत्।
18 तदा प्रबलपवनवहनात् सागरे महातरङ्गो भवितुम् आरेभे।
19 ततस्ते वाहयित्वा द्वित्रान् क्रोशान् गताः पश्चाद् यीशुं जलधेरुपरि पद्भ्यां व्रजन्तं नौकान्तिकम् आगच्छन्तं विलोक्य त्रासयुक्ता अभवन्
20 किन्तु स तानुक्त्तवान् अयमहं मा भैष्ट।
21 तदा ते तं स्वैरं नावि गृहीतवन्तः तदा तत्क्षणाद् उद्दिष्टस्थाने नौरुपास्थात्।
22 यया नावा शिष्या अगच्छन् तदन्या कापि नौका तस्मिन् स्थाने नासीत् ततो यीशुः शिष्यैः साकं नागमत् केवलाः शिष्या अगमन् एतत् पारस्था लोका ज्ञातवन्तः।
23 किन्तु ततः परं प्रभु र्यत्र ईश्वरस्य गुणान् अनुकीर्त्त्य लोकान् पूपान् अभोजयत् तत्स्थानस्य समीपस्थतिविरियाया अपरास्तरणय आगमन्।
24 यीशुस्तत्र नास्ति शिष्या अपि तत्र ना सन्ति लोका इति विज्ञाय यीशुं गवेषयितुं तरणिभिः कफर्नाहूम् पुरं गताः।
25 ततस्ते सरित्पतेः पारे तं साक्षात् प्राप्य प्रावोचन् हे गुरो भवान् अत्र स्थाने कदागमत्?
26 तदा यीशुस्तान् प्रत्यवादीद् युष्मानहं यथार्थतरं वदामि आश्चर्य्यकर्म्मदर्शनाद्धेतो र्न किन्तु पूपभोजनात् तेन तृप्तत्वाञ्च मां गवेषयथ।
27 क्षयणीयभक्ष्यार्थं मा श्रामिष्ट किन्त्वन्तायुर्भक्ष्यार्थं श्राम्यत, तस्मात् तादृशं भक्ष्यं मनुजपुत्रो युष्माभ्यं दास्यति; तस्मिन् तात ईश्वरः प्रमाणं प्रादात्।
28 तदा तेऽपृच्छन् ईश्वराभिमतं कर्म्म कर्त्तुम् अस्माभिः किं कर्त्तव्यं?
29 ततो यीशुरवदद् ईश्वरो यं प्रैरयत् तस्मिन् विश्वसनम् ईश्वराभिमतं कर्म्म।
30 तदा ते व्याहरन् भवता किं लक्षणं दर्शितं यद्दृष्ट्वा भवति विश्वसिष्यामः? त्वया किं कर्म्म कृतं?
31 अस्माकं पूर्व्वपुरुषा महाप्रान्तरे मान्नां भोक्त्तुं प्रापुः यथा लिपिरास्ते। स्वर्गीयाणि तु भक्ष्याणि प्रददौ परमेश्वरः।
32 तदा यीशुरवदद् अहं युष्मानतियथार्थं वदामि मूसा युष्माभ्यं स्वर्गीयं भक्ष्यं नादात् किन्तु मम पिता युष्माभ्यं स्वर्गीयं परमं भक्ष्यं ददाति।
33 यः स्वर्गादवरुह्य जगते जीवनं ददाति स ईश्वरदत्तभक्ष्यरूपः।
34 तदा ते प्रावोचन् हे प्रभो भक्ष्यमिदं नित्यमस्मभ्यं ददातु।
35 यीशुरवदद् अहमेव जीवनरूपं भक्ष्यं यो जनो मम सन्निधिम् आगच्छति स जातु क्षुधार्त्तो न भविष्यति, तथा यो जनो मां प्रत्येति स जातु तृषार्त्तो न भविष्यति।
36 मां दृष्ट्वापि यूयं न विश्वसिथ युष्मानहम् इत्यवोचं।
37 पिता मह्यं यावतो लोकानददात् ते सर्व्व एव ममान्तिकम् आगमिष्यन्ति यः कश्चिच्च मम सन्निधिम् आयास्यति तं केनापि प्रकारेण न दूरीकरिष्यामि।
38 निजाभिमतं साधयितुं न हि किन्तु प्रेरयितुरभिमतं साधयितुं स्वर्गाद् आगतोस्मि।
39 स यान् यान् लोकान् मह्यमददात् तेषामेकमपि न हारयित्वा शेषदिने सर्व्वानहम् उत्थापयामि इदं मत्प्रेरयितुः पितुरभिमतं।
40 यः कश्चिन् मानवसुतं विलोक्य विश्वसिति स शेषदिने मयोत्थापितः सन् अनन्तायुः प्राप्स्यति इति मत्प्रेरकस्याभिमतं।
41 तदा स्वर्गाद् यद् भक्ष्यम् अवारोहत् तद् भक्ष्यम् अहमेव यिहूदीयलोकास्तस्यैतद् वाक्ये विवदमाना वक्त्तुमारेभिरे
42 यूषफः पुत्रो यीशु र्यस्य मातापितरौ वयं जानीम एष किं सएव न? तर्हि स्वर्गाद् अवारोहम् इति वाक्यं कथं वक्त्ति?
43 तदा यीशुस्तान् प्रत्यवदत् परस्परं मा विवदध्वं
44 मत्प्रेरकेण पित्रा नाकृष्टः कोपि जनो ममान्तिकम् आयातुं न शक्नोति किन्त्वागतं जनं चरमेऽह्नि प्रोत्थापयिष्यामि।
45 ते सर्व्व ईश्वरेण शिक्षिता भविष्यन्ति भविष्यद्वादिनां ग्रन्थेषु लिपिरित्थमास्ते अतो यः कश्चित् पितुः सकाशात् श्रुत्वा शिक्षते स एव मम समीपम् आगमिष्यति।
46 य ईश्वराद् अजायत तं विना कोपि मनुष्यो जनकं नादर्शत् केवलः सएव तातम् अद्राक्षीत्।
47 अहं युष्मान् यथार्थतरं वदामि यो जनो मयि विश्वासं करोति सोनन्तायुः प्राप्नोति।
48 अहमेव तज्जीवनभक्ष्यं।
49 युष्माकं पूर्व्वपुरुषा महाप्रान्तरे मन्नाभक्ष्यं भूक्त्तापि मृताः
50 किन्तु यद्भक्ष्यं स्वर्गादागच्छत् तद् यदि कश्चिद् भुङ्क्त्ते तर्हि स न म्रियते।
51 यज्जीवनभक्ष्यं स्वर्गादागच्छत् सोहमेव इदं भक्ष्यं यो जनो भुङ्क्त्ते स नित्यजीवी भविष्यति। पुनश्च जगतो जीवनार्थमहं यत् स्वकीयपिशितं दास्यामि तदेव मया वितरितं भक्ष्यम्।
52 तस्माद् यिहूदीयाः परस्परं विवदमाना वक्त्तुमारेभिरे एष भोजनार्थं स्वीयं पललं कथम् अस्मभ्यं दास्यति?
53 तदा यीशुस्तान् आवोचद् युष्मानहं यथार्थतरं वदामि मनुष्यपुत्रस्यामिषे युष्माभि र्न भुक्त्ते तस्य रुधिरे च न पीते जीवनेन सार्द्धं युष्माकं सम्बन्धो नास्ति।
54 यो ममामिषं स्वादति मम सुधिरञ्च पिवति सोनन्तायुः प्राप्नोति ततः शेषेऽह्नि तमहम् उत्थापयिष्यामि।
55 यतो मदीयमामिषं परमं भक्ष्यं तथा मदीयं शोणितं परमं पेयं।
56 यो जनो मदीयं पललं स्वादति मदीयं रुधिरञ्च पिवति स मयि वसति तस्मिन्नहञ्च वसामि।
57 मत्प्रेरयित्रा जीवता तातेन यथाहं जीवामि तद्वद् यः कश्चिन् मामत्ति सोपि मया जीविष्यति।
58 यद्भक्ष्यं स्वर्गादागच्छत् तदिदं यन्मान्नां स्वादित्वा युष्माकं पितरोऽम्रियन्त तादृशम् इदं भक्ष्यं न भवति इदं भक्ष्यं यो भक्षति स नित्यं जीविष्यति।
59 यदा कफर्नाहूम् पुर्य्यां भजनगेहे उपादिशत् तदा कथा एता अकथयत्।
60 तदेत्थं श्रुत्वा तस्य शिष्याणाम् अनेके परस्परम् अकथयन् इदं गाढं वाक्यं वाक्यमीदृशं कः श्रोतुं शक्रुयात्?
61 किन्तु यीशुः शिष्याणाम् इत्थं विवादं स्वचित्ते विज्ञाय कथितवान् इदं वाक्यं किं युष्माकं विघ्नं जनयति?
62 यदि मनुजसुतं पूर्व्ववासस्थानम् ऊर्द्व्वं गच्छन्तं पश्यथ तर्हि किं भविष्यति?
63 आत्मैव जीवनदायकः वपु र्निष्फलं युष्मभ्यमहं यानि वचांसि कथयामि तान्यात्मा जीवनञ्च।
64 किन्तु युष्माकं मध्ये केचन अविश्वासिनः सन्ति के के न विश्वसन्ति को वा तं परकरेषु समर्पयिष्यति तान् यीशुराप्रथमाद् वेत्ति।
65 अपरमपि कथितवान् अस्मात् कारणाद् अकथयं पितुः सकाशात् शक्त्तिमप्राप्य कोपि ममान्तिकम् आगन्तुं न शक्नोति।
66 तत्कालेऽनेके शिष्या व्याघुट्य तेन सार्द्धं पुन र्नागच्छन्।
67 तदा यीशु र्द्वादशशिष्यान् उक्त्तवान् यूयमपि किं यास्यथ?
68 ततः शिमोन् पितरः प्रत्यवोचत् हे प्रभो कस्याभ्यर्णं गमिष्यामः?
69 अनन्तजीवनदायिन्यो याः कथास्तास्तवैव। भवान् अमरेश्वरस्याभिषिक्त्तपुत्र इति विश्वस्य निश्चितं जानीमः।
70 तदा यीशुरवदत् किमहं युष्माकं द्वादशजनान् मनोनीतान् न कृतवान्? किन्तु युष्माकं मध्येपि कश्चिदेको विघ्नकारी विद्यते।
71 इमां कथं स शिमोनः पुत्रम् ईष्करीयोतीयं यिहूदाम् उद्दिश्य कथितवान् यतो द्वादशानां मध्ये गणितः स तं परकरेषु समर्पयिष्यति।

योहनलिखितः सुसंवादः 07

1 ततः परं यिहूदीयलोकास्तं हन्तुं समैहन्त तस्माद् यीशु र्यिहूदाप्रदेशे पर्य्यटितुं नेच्छन् गालील् प्रदेशे पर्य्यटितुं प्रारभत।
2 किन्तु तस्मिन् समये यिहूदीयानां दूष्यवासनामोत्सव उपस्थिते
3 तस्य भ्रातरस्तम् अवदन् यानि कर्म्माणि त्वया क्रियन्ते तानि यथा तव शिष्याः पश्यन्ति तदर्थं त्वमितः स्थानाद् यिहूदीयदेशं व्रज।
4 यः कश्चित् स्वयं प्रचिकाशिषति स कदापि गुप्तं कर्म्म न करोति यदीदृशं कर्म्म करोषि तर्हि जगति निजं परिचायय।
5 यतस्तस्य भ्रातरोपि तं न विश्वसन्ति।
6 तदा यीशुस्तान् अवोचत् मम समय इदानीं नोपतिष्ठति किन्तु युष्माकं समयः सततम् उपतिष्ठति।
7 जगतो लोका युष्मान् ऋतीयितुं न शक्रुवन्ति किन्तु मामेव ऋतीयन्ते यतस्तेषां कर्माणि दुष्टानि तत्र साक्ष्यमिदम् अहं ददामि।
8 अतएव यूयम् उत्सवेऽस्मिन् यात नाहम् इदानीम् अस्मिन्नुत्सवे यामि यतो मम समय इदानीं न सम्पूर्णः।
9 इति वाक्यम् उक्त्त्वा स गालीलि स्थितवान्
10 किन्तु तस्य भ्रातृषु तत्र प्रस्थितेषु सत्सु सोऽप्रकट उत्सवम् अगच्छत्।
11 अनन्तरम् उत्सवम् उपस्थिता यिहूदीयास्तं मृगयित्वापृच्छन् स कुत्र?
12 ततो लोकानां मध्ये तस्मिन् नानाविधा विवादा भवितुम् आरब्धवन्तः। केचिद् अवोचन् स उत्तमः पुरुषः केचिद् अवोचन् न तथा वरं लोकानां भ्रमं जनयति।
13 किन्तु यिहूदीयानां भयात् कोपि तस्य पक्षे स्पष्टं नाकथयत्।
14 ततः परम् उत्सवस्य मध्यसमये यीशु र्मन्दिरं गत्वा समुपदिशति स्म।
15 ततो यिहूदीया लोका आश्चर्य्यं ज्ञात्वाकथयन् एषा मानुषो नाधीत्या कथम् एतादृशो विद्वानभूत्?
16 तदा यीशुः प्रत्यवोचद् उपदेशोयं न मम किन्तु यो मां प्रेषितवान् तस्य।
17 यो जनो निदेशं तस्य ग्रहीष्यति ममोपदेशो मत्तो भवति किम् ईश्वराद् भवति स गनस्तज्ज्ञातुं शक्ष्यति।
18 यो जनः स्वतः कथयति स स्वीयं गौरवम् ईहते किन्तु यः प्रेरयितु र्गौरवम् ईहते स सत्यवादी तस्मिन् कोप्यधर्म्मो नास्ति।
19 मूसा युष्मभ्यं व्यवस्थाग्रन्थं किं नाददात्? किन्तु युष्माकं कोपि तां व्यवस्थां न समाचरति। मां हन्तुं कुतो यतध्वे?
20 तदा लोका अवदन् त्वं भूतग्रस्तस्त्वां हन्तुं को यतते?
21 ततो यीशुरवोचद् एकं कर्म्म मयाकारि तस्माद् यूयं सर्व्व महाश्चर्य्यं मन्यध्वे।
22 मूसा युष्मभ्यं त्वक्छेदविधिं प्रददौ स मूसातो न जातः किन्तु पितृपुरुषेभ्यो जातः तेन विश्रामवारेऽपि मानुषाणां त्वक्छेदं कुरुथ।
23 अतएव विश्रामवारे मनुष्याणां त्वक्छेदे कृते यदि मूसाव्यवस्थामङ्गनं न भवति तर्हि मया विश्रामवारे मानुषः सम्पूर्णरूपेण स्वस्थोऽकारि तत्कारणाद् यूयं किं मह्यं कुप्यथ?
24 सपक्षपातं विचारमकृत्वा न्याय्यं विचारं कुरुत।
25 तदा यिरूशालम् निवासिनः कतिपयजना अकथयन् इमे यं हन्तुं चेष्टन्ते स एवायं किं न?
26 किन्तु पश्यत निर्भयः सन् कथां कथयति तथापि किमपि अ वदन्त्येते अयमेवाभिषिक्त्तो भवतीति निश्चितं किमधिपतयो जानन्ति?
27 मनुजोयं कस्मादागमद् इति वयं जानोमः किन्त्वभिषिक्त्त आगते स कस्मादागतवान् इति कोपि ज्ञातुं न शक्ष्यति।
28 तदा यीशु र्मध्येमन्दिरम् उपदिशन् उच्चैःकारम् उक्त्तवान् यूयं किं मां जानीथ? कस्माच्चागतोस्मि तदपि किं जानीथ? नाहं स्वत आगतोस्मि किन्तु यः सत्यवादी सएव मां प्रेषितवान् यूयं तं न जानीथ।
29 तमहं जाने तेनाहं प्रेरित अगतोस्मि।
30 तस्माद् यिहूदीयास्तं धर्त्तुम् उद्यतास्तथापि कोपि तस्य गात्रे हस्तं नार्पयद् यतो हेतोस्तदा तस्य समयो नोपतिष्ठति।
31 किन्तु बहवो लोकास्तस्मिन् विश्वस्य कथितवान्तोऽभिषिक्त्तपुरुष आगत्य मानुषस्यास्य क्रियाभ्यः किम् अधिका आश्चर्य्याः क्रियाः करिष्यति?
32 ततः परं लोकास्तस्मिन् इत्थं विवदन्ते फिरूशिनः प्रधानयाजकाञ्चेति श्रुतवन्तस्तं धृत्वा नेतुं पदातिगणं प्रेषयामासुः।
33 ततो यीशुरवदद् अहम् अल्पदिनानि युष्माभिः सार्द्धं स्थित्वा मत्प्रेरयितुः समीपं यास्यामि।
34 मां मृगयिष्यध्वे किन्तूद्देशं न लप्स्यध्वे रत्र स्थास्यामि तत्र यूयं गन्तुं न शक्ष्यथ।
35 तदा यिहूदीयाः परस्परं वक्त्तुमारेभिरे अस्योद्देशं न प्राप्स्याम एतादृशं किं स्थानं यास्यति? भिन्नदेशे विकीर्णानां यिहूदीयानां सन्निधिम् एष गत्वा तान् उपदेक्ष्यति किं?
36 नो चेत् मां गवेषयिष्यथ किन्तूद्देशं न प्राप्स्यथ एष कोदृशं वाक्यमिदं वदति?
37 अनन्तरम् उत्सवस्य चरमेऽहनि अर्थात् प्रधानदिने यीशुरुत्तिष्ठन् उच्चैःकारम् आह्वयन् उदितवान् यदि कश्चित् तृषार्त्तो भवति तर्हि ममान्तिकम् आगत्य पिवतु।
38 यः कश्चिन्मयि विश्वसिति धर्म्मग्रन्थस्य वचनानुसारेण तस्याभ्यन्तरतोऽमृततोयस्य स्रोतांसि निर्गमिष्यन्ति।
39 ये तस्मिन् विश्वसन्ति त आत्मानं प्राप्स्यन्तीत्यर्थे स इदं वाक्यं व्याहृतवान् एतत्कालं यावद् यीशु र्विभवं न प्राप्तस्तस्मात् पवित्र आत्मा नादीयत।
40 एतां वाणीं श्रुत्वा बहवो लोका अवदन् अयमेव निश्चितं स भविष्यद्वादी।
41 केचिद् अकथयन् एषएव सोभिषिक्त्तः किन्तु केचिद् अवदन् सोभिषिक्त्तः किं गालील् प्रदेशे जनिष्यते?
42 सोभिषिक्त्तो दायूदो वंशे दायूदो जन्मस्थाने बैत्लेहमि पत्तने जनिष्यते धर्म्मग्रन्थे किमित्थं लिखितं नास्ति?
43 इत्थं तस्मिन् लोकानां भिन्नवाक्यता जाता।
44 कतिपयलोकास्तं धर्त्तुम् ऐच्छन् तथापि तद्वपुषि कोपि हस्तं नार्पयत्।
45 अनन्तरं पादातिगणे प्रधानयाजकानां फिरूशिनाञ्च समीपमागतवति ते तान् अपृच्छन् कुतो हेतोस्तं नानयत?
46 तदा पदातयः प्रत्यवदन् स मानव इव कोपि कदापि नोपादिशत्।
47 ततः फिरूशिनः प्रावोचन् यूयमपि किमभ्रामिष्ट?
48 अधिपतीनां फिरूशिनाञ्च कोपि किं तस्मिन् व्यश्वसीत्?
49 ये शास्त्रं न जानन्ति त इमेऽधमलोकाएव शापग्रस्ताः।
50 तदा निकदीमनामा तेषामेको यः क्षणदायां यीशोः सन्निधिम् अगात् स उक्त्तवान्
51 तस्य वाक्ये न श्रुते कर्म्मणि च न विदिते ऽस्माकं व्यवस्था किं कञ्चन मनुजं दोषीकरोति?
52 ततस्ते व्याहरन् त्वमपि किं गालीलीयलोकः? विविच्य पश्य गलीलि कोपि भविष्यद्वादी नोत्पद्यते।
53 ततः परं सर्व्वे स्वं स्वं गृहं गताः किन्तु यीशु र्जैतुननामानं शिलोच्चयं गतवान्।

योहनलिखितः सुसंवादः 08

1 प्रत्यूषे यीशुः पनर्मन्दिरम् आगच्छत्
2 ततः सर्व्वेषु लोकेषु तस्य समीप आगतेषु स उपविश्य तान् उपदेष्टुम् आरभत।
3 तदा अध्यापकाः फिरूशिनञ्च व्यभिचारकर्म्मणि धृतं स्त्रियमेकाम् आनिय सर्व्वेषां मध्ये स्थापयित्वा व्याहरन्
4 हे गुरो योषितम् इमां व्यभिचारकर्म्म कुर्व्वाणां लोका धृतवन्तः।
5 एतादृशलोकाः पाषाणाघातेन हन्तव्या इति विधिर्मूसाव्यवस्थाग्रन्थे लिखितोस्ति किन्तु भवान् किमादिशति?
6 ते तमपवदितुं परीक्षाभिप्रायेण वाक्यमिदम् अपृच्छन् किन्तु स प्रह्वीभूय भूमावङ्गल्या लेखितुम् आरभत।
7 ततस्तैः पुनः पुनः पृष्ट उत्थाय कथितवान् युष्माकं मध्ये यो जनो निरपराधी सएव प्रथमम् एनां पाषाणेनाहन्तु।
8 पश्चात् स पुनश्च प्रह्वीभूय भूमौ लेखितुम् आरभत।
9 तां कथं श्रुत्वा ते स्वस्वमनसि प्रबोधं प्राप्य ज्येष्ठानुक्रमं एकैकशः सर्व्वे बहिरगच्छन् ततो यीशुरेकाकी तयक्त्तोभवत् मध्यस्थाने दण्डायमाना सा योषा च स्थिता।
10 तत्पश्चाद् यीशुरुत्थाय तां वनितां विना कमप्यपरं न विलोक्य पृष्टवान् हे वामे तवापवादकाः कुत्र? कोपि त्वां किं न दण्डयति?
11 सावदत् हे महेच्छ कोपि न तदा यीशुरवोचत् नाहमपि दण्डयामि याहि पुनः पापं माकार्षीः।
12 ततो यीशुः पुनरपि लोकेभ्य इत्थं कथयितुम् आरभत जगतोहं ज्योतिःस्वरूपो यः कश्चिन् मत्पश्चाद गच्छति स तिमिरे न भ्रमित्वा जीवनरूपां दीप्तिं प्राप्स्यति।
13 ततः फिरूशिनोऽवादिषुस्त्वं स्वार्थे स्वयं साक्ष्यं ददासि तस्मात् तव साक्ष्यं ग्राह्यं न भवति।
14 तदा यीशुः प्रत्युदितवान् यद्यपि स्वार्थेऽहं स्वयं साक्ष्यं ददामि तथापि मत् साक्ष्यं ग्राह्यं यस्माद् अहं कुत आगतोस्मि क्व यामि च तदहं जानामि किन्तु कुत आगतोस्मि कुत्र गच्छामि च तद् यूयं न जानीथ।
15 यूयं लौकिकं विचारयथ नाहं किमपि विचारयामि।
16 किन्तु यदि विचारयामि तर्हि मम विचारो ग्रहीतव्यो यतोहम् एकाकी नास्मि प्रेरयिता पिता मया सह विद्यते।
17 द्वयो र्जनयोः साक्ष्यं ग्रहणीयं भवतीति युष्माकं व्यवस्थाग्रन्थे लिखितमस्ति।
18 अहं स्वार्थे स्वयं साक्षित्वं ददामि यश्च मम तातो मां प्रेरितवान् सोपि मदर्थे साक्ष्यं ददाति।
19 तदा तेऽपृच्छन् तव तातः कुत्र? ततो यीशुः प्रत्यवादीद् यूयं मां न जानीथ मत्पितरञ्च न जानीथ यदि माम् अक्षास्यत तर्हि मम तातमप्यक्षास्यत।
20 यीशु र्मन्दिर उपदिश्य भण्डागारे कथा एता अकथयत् तथापि तं प्रति कोपि करं नोदतोलयत्।
21 ततः परं यीशुः पुनरुदितवान् अधुनाहं गच्छामि यूयं मां गवेषयिष्यथ किन्तु निजैः पापै र्मरिष्यथ यत् स्थानम् अहं यास्यामि तत् स्थानम् यूयं यातुं न शक्ष्यथ।
22 तदा यिहूदीयाः प्रावोचन् किमयम् आत्मघातं करिष्यति? यतो यत् स्थानम् अहं यास्यामि तत् स्थानम् यूयं यातुं न शक्ष्यथ इति वाक्यं ब्रवीति।
23 ततो यीशुस्तेभ्यः कथितवान् यूयम् अधःस्थानीया लोका अहम् ऊर्द्व्वस्थानीयः यूयम् एतज्जगत्सम्बन्धीया अहम् एतज्जगत्सम्बन्धीयो न।
24 तस्मात् कथितवान् यूयं निजैः पापै र्मरिष्यथ यतोहं स पुमान् इति यदि न विश्वसिथ तर्हि निजैः पापै र्मरिष्यथ।
25 तदा ते ऽपृच्छन् कस्त्वं? ततो यीशुः कथितवान् युष्माकं सन्निधौ यस्य प्रस्तावम् आ प्रथमात् करोमि सएव पुरुषोहं।
26 युष्मासु मया बहुवाक्यं वक्त्तव्यं विचारयितव्यञ्च किन्तु मत्प्रेरयिता सत्यवादी तस्य समीपे यदहं श्रुतवान् तदेव जगते कथयामि।
27 किन्तु स जनके वाक्यमिदं प्रोक्त्तवान् इति ते नाबुध्यन्त।
28 ततो यीशुरकथयद् यदा मनुष्यपुत्रम् ऊर्द्व्व उत्थापयिष्यथ तदाहं स पुमान् केवलः स्वयं किमपि कर्म्म न करोमि किन्तु तातो यथा शिक्षयति तदनुसारेण वाक्यमिदं वदामीति च यूयं ज्ञातुं शक्ष्यथ।
29 मत्प्रेरयिता पिता माम् एकाकिनं न त्यजति स मया सार्द्धं तिष्ठति यतोहं तदभिमतं कर्म्म सदा करोमि।
30 तदा तस्यैतानि वाक्यानि श्रुत्वा बहुवस्तास्मिन् व्यश्वसन्।
31 ये यिहूदीया व्यश्वसन् यीशुस्तेभ्योऽकथयत्
32 मम वाक्ये यदि यूयम् आस्थां कुरुथ तर्हि मम शिष्या भूत्वा सत्यत्वं ज्ञास्यथ ततः सत्यतया युष्माकं मोक्षो भविष्यति।
33 तदा ते प्रत्यवादिषुः वयम् इब्राहीमो वंशः कदापि कस्यापि दासा न जातास्तर्हि युष्माकं मुक्त्ति र्भविष्यतीति वाक्यं कथं ब्रवीषि?
34 तदा यीशुः प्रत्यवदद् युष्मानहं यथार्थतरं वदामि यः पापं करोति स पापस्य दासः।
35 दासश्च निरन्तरं निवेशने न तिष्ठति किन्तु पुत्रो निरन्तरं तिष्ठति।
36 अतः पुत्रो यदि युष्मान् मोचयति तर्हि नितान्तमेव मुक्त्ता भविष्यथ।
37 युयम् इब्राहीमो वंश इत्यहं जानामि किन्तु मम कथा युष्माकम् अन्तःकरणेषु स्थानं न प्राप्नुवन्ति तस्माद्धेतो र्मां हन्तुम् ईहध्वे।
38 अहं स्वपितुः समीपे यदपश्यं तदेव कथयामि तथा यूयमपि स्वपितुः समीपे यदपश्यत तदेव कुरुध्वे।
39 तदा ते प्रत्यवोचन् इब्राहीम् अस्माकं पिता ततो यीशुरकथयद् यदि यूयम् इब्राहीमः सन्ताना अभविष्यत तर्हि इब्राहीम आचारणवद् आचरिष्यत।
40 ईश्वरस्य मुखात् सत्यं वाक्यं श्रुत्वा युष्मान् ज्ञापयामि योहं तं मां हन्तुं चेष्टध्वे इब्राहीम् एतादृशं कर्म्म न चकार।
41 यूयं स्वस्वपितुः कर्म्माणि कुरुथ तदा तैरुक्त्तं न वयं जारजाता अस्माकम् एकएव पितास्ति स एवेश्वरः
42 ततो यीशुना कथितम् ईश्वरो यदि युष्माकं तातोभविष्यत् तर्हि यूयं मयि प्रेमाकरिष्यत यतोहम् ईश्वरान्निर्गत्यागतोस्मि स्वतो नागतोहं स मां प्राहिणोत्।
43 यूयं मम वाक्यमिदं न बुध्यध्वे कुतः? यतो यूयं ममोपदेशं सोढुं न शक्नुथ।
44 यूयं शैतान् पितुः सन्ताना एतस्माद् युष्माकं पितुरभिलाषं पूरयथ स आ प्रथमात् नरघाती तदन्तः सत्यत्वस्य लेशोपि नास्ति कारणादतः स सत्यतायां नातिष्ठत् स यदा मृषा कथयति तदा निजस्वभावानुसारेणैव कथयति यतो स मृषाभाषी मृषोत्पादकश्च।
45 अहं तथ्यवाक्यं वदामि कारणादस्माद् यूयं मां न प्रतीथ।
46 मयि पापमस्तीति प्रमाणं युष्माकं को दातुं शक्नोति? यद्यहं तथ्यवाक्यं वदामि तर्हि कुतो मां न प्रतिथ?
47 यः कश्चन ईश्वरीयो लोकः स ईश्वरीयकथायां मनो निधत्ते यूयम् ईश्वरीयलोका न भवथ तन्निदानात् तत्र न मनांसि निधद्वे।
48 तदा यिहूदीयाः प्रत्यवादिषुः त्वमेकः शोमिरोणीयो भूतग्रस्तश्च वयं किमिदं भद्रं नावादिष्म?
49 ततो यीशुः प्रत्यवादीत् नाहं भूतग्रस्तः किन्तु निजतातं सम्मन्ये तस्माद् यूयं माम् अपमन्यध्वे।
50 अहं स्वसुख्यातिं न चेष्टे किन्तु चेष्टिता विचारयिता चापर एक आस्ते।
51 अहं युष्मभ्यम् अतीव यथार्थं कथयामि यो नरो मदीयं वाचं मन्यते स कदाचन निधनं न द्रक्ष्यति।
52 यिहूदीयास्तमवदन् त्वं भूतग्रस्त इतीदानीम् अवैष्म। इब्राहीम् भविष्यद्वादिनञ्च सर्व्वे मृताः किन्तु त्वं भाषसे यो नरो मम भारतीं गृह्लाति स जातु निधानास्वादं न लप्स्यते।
53 तर्हि त्वं किम् अस्माकं पूर्व्वपुरुषाद् इब्राहीमोपि महान्? यस्मात् सोपि मृतः भविष्यद्वादिनोपि मृताः त्वं स्वं कं पुमांसं मनुषे?
54 यीशुः प्रत्यवोचद् यद्यहं स्वं स्वयं सम्मन्ये तर्हि मम तत् सम्मननं किमपि न किन्तु मम तातो यं यूयं स्वीयम् ईश्वरं भाषध्वे सएव मां सम्मनुते।
55 यूयं तं नावगच्छथ किन्त्वहं तमवगच्छामि तं नावगच्छामीति वाक्यं यदि वदामि तर्हि यूयमिव मृषाभाषी भवामि किन्त्वहं तमवगच्छामि तदाक्षामपि गृह्लामि।
56 युष्माकं पूर्व्वपुरुष इब्राहीम् मम समयं द्रष्टुम् अतीवावाञ्छत् तन्निरीक्ष्यानन्दच्च।
57 तदा यिहूदीया अपृच्छन् तव वयः पञ्चाशद्वत्सरा न त्वं किम् इब्राहीमम् अद्राक्षीः?
58 यीशुः प्रत्यवादीद् युष्मानहं यथार्थतरं वदामि इब्राहीमो जन्मनः पूर्व्वकालमारभ्याहं विद्ये।
59 तदा ते पाषाणान् उत्तोल्य तमाहन्तुम् उदयच्छन् किन्तु यीशु र्गुप्तो मन्तिराद् बहिर्गत्य तेषां मध्येन प्रस्थितवान्।

योहनलिखितः सुसंवादः 09

1 ततः परं यीशुर्गच्छन् मार्गमध्ये जन्मान्धं नरम् अपश्यत्।
2 ततः शिष्यास्तम् अपृच्छन् हे गुरो नरोयं स्वपापेन वा स्वपित्राः पापेनान्धोऽजायत?
3 ततः स प्रत्युदितवान् एतस्य वास्य पित्रोः पापाद् एतादृशोभूद इति नहि किन्त्वनेन यथेश्वरस्य कर्म्म प्रकाश्यते तद्धेतोरेव।
4 दिने तिष्ठति मत्प्रेरयितुः कर्म्म मया कर्त्तव्यं यदा किमपि कर्म्म न क्रियते तादृशी निशागच्छति।
5 अहं यावत्कालं जगति तिष्ठामि तावत्कालं जगतो ज्योतिःस्वरूपोस्मि।
6 इत्युक्त्ता भूमौ निष्ठीवं निक्षिप्य तेन पङ्कं कृतवान्
7 पश्चात् तत्पङ्केन तस्यान्धस्य नेत्रे प्रलिप्य तमित्यादिशत् गत्वा शिलोहे ऽर्थात् प्रेरितनाम्नि सरसि स्नाहि। ततोन्धो गत्वा तत्रास्नात् ततः प्रन्नचक्षु र्भूत्वा व्याघुट्यागात्।
8 अपरञ्च समीपवासिनो लोका ये च तं पूर्व्वमन्धम् अपश्यन् ते बक्त्तुम् आरभन्त योन्धलोको वर्त्मन्युपविश्याभिक्षत स एवायं जनः किं न भवति?
9 केचिदवदन् स एव केचिदवोचन् तादृशो भवति किन्तु स स्वयमब्रवीत् स एवाहं भवामि।
10 अतएव ते ऽपृच्छन् त्वं कथं दृष्टिं पाप्तवान्?
11 ततः सोवदद् यीशनामक एको जनो मम नयने पङ्केन प्रलिप्य इत्याज्ञापयत् शिलोहकासारं गत्वा तत्र स्नाहि। ततस्तत्र गत्वा मयि स्नाते दृष्टिमहं लब्धवान्।
12 तदा ते ऽवदन् स पुमान् कुत्र? तेनोक्त्तं नाहं जानामि।
13 अपरं तस्मिन् पूर्व्वान्धे जने फिरूशिनां निकटम् आनीते सति फिरूशिनोपि तमपृच्छन् कथं दृष्टिं प्राप्तोसि?
14 ततः स कथितवान् स पङ्केन मम नेत्रे ऽलिम्पत् पश्चाद् स्नात्वा दृष्टिमलभे।
15 किन्तु यीशु र्विश्रामवारे कर्द्दमं कृत्वा तस्य नयने प्रसन्नेऽकरोद् इतिकारणात् कतिपयफिरूशिनोऽवदन्
16 स पुमान् ईश्वरान्न यतः स विश्रामवारं न मन्यते। ततोन्ये केचित् प्रत्यवदन् पापी पुमान् किम् एतादृशम् आश्चर्य्यं कर्म्म कर्त्तुं शक्नोति?
17 इत्थं तेषां परस्परं भिन्नवाक्यत्वम् अभवत्। पश्चात् ते पुनरपि तं पूर्व्वान्धं मानुषम् अप्राक्षुः यो जनस्तव चक्षुषी प्रसन्ने कृतवान् तस्मिन् त्वं किं वदसि? स उक्त्तवान् स भविशद्वादी।
18 स दृष्टिम् आप्तवान् इति यिहूदीयास्तस्य दृष्टिं प्राप्तस्य जनस्य पित्रो र्मुखाद् अश्रुत्वा न प्रत्ययन्।
19 अतएव ते तावपृच्छन् युवयो र्यं पुत्रं जन्मान्धं वदथः स किमयं? तर्हीदानीं कथं द्रष्टुं शक्नोति?
20 ततस्तस्य पितरौ प्रत्यवोचताम् अयम् आवयोः पुत्र आ जनेरन्धश्च तदप्यावां जानीवः
21 किन्त्वधुना कथं दृष्टिं प्राप्तवान् तदावां न् जानीवः कोस्य चक्षुषी प्रसन्ने कृतवान् तदपि न जानीव एष वयःप्राप्त एनं पृच्छत स्वकथां स्वयं वक्ष्यति।
22 यिहूदीयानां भयात् तस्य पितरौ वाक्यमिदम् अवदतां यतः कोपि मनुष्यो यदि यीशुम् अभिषिक्तं वदति तर्हि स भजनगृहाद् दूरीकारिष्यते यिहूदीया इति मन्त्रणाम् अकुर्व्वन्
23 अतस्तस्य पितरौ व्याहरताम् एष वयःप्राप्त एनं पृच्छत।
24 तदा ते पुनश्च तं पूर्व्वान्धम् आहूय व्याहरन् ईश्वरस्य गुणान् वद एष मनुष्यः पापीति वयं जानीमः।
25 तदा स उक्त्तवान् स पापी न वेति नाहं जाने पूर्वामन्ध आसमहम् अधुना पश्यामीति मात्रं जानामि।
26 ते पुनरपृच्छन् स त्वां प्रति किमकरोत्? कथं नेत्रे प्रसन्ने ऽकरोत्?
27 ततः सोवादीद् एककृत्वोकथयं यूयं न शृणुथ तर्हि कुतः पुनः श्रोतुम् इच्छथ? यूयमपि किं तस्य शिष्या भवितुम् इच्छथ?
28 तदा ते तं तिरस्कृत्य व्याहरन् त्वं तस्य शिष्यो वयं मूसाः शिष्याः।
29 मूसावक्त्रेणेश्वरो जगाद तज्जानीमः किन्त्वेष कुत्रत्यलोक इति न जानीमः।
30 सोवदद् एष मम लोचने प्रसन्ने ऽकरोत् तथापि कुत्रत्यलोक इति यूयं न जानीथ एतद् आश्चर्य्यं भवति।
31 ईश्वरः पापिनां कथां न शृणोति किन्तु यो जनस्तस्मिन् भक्तिं कृत्वा तदिष्टक्रियां करोति तस्यैव कथां शृणोति एतद् वयं जानीमः।
32 कोपि मनुष्यो जन्मान्धाय चक्षुषी अददात् जगदारम्भाद् एतादृशीं कथां कोपि कदापि नाशृणोत्।
33 अस्माद् एष मनुष्यो यदीश्वरान्नाजायत तर्हि किञ्चिदपीदृशं कर्म्म कर्त्तुं नाशक्नोत्।
34 ते व्याहरन् त्वं पापाद् अजायथाः किमस्मान् त्वं शिक्षयसि? पश्चात्ते तं बहिरकुर्व्वन्।
35 तदनन्तरं यिहूदीयैः स बहिरक्रियत यीशुरिति वार्त्तां श्रुत्वा तं साक्षात् प्राप्य पृष्टवान् ईश्वरस्य पुत्रे त्वं विश्वसिषि?
36 तदा स प्रत्यवोचत् हे प्रभो स को यत् तस्मिन्नहं विश्वसिमि?
37 ततो यीशुः कथितवान् त्वं तं दृष्टवान् त्वया साकं यः कथं कथयति सएव सः।
38 तदा हे प्रभो विश्वसिमीत्युक्त्वा स तं प्रणामत्।
39 पश्चाद् यीशुः कथितवान् नयनहीना नयनानि प्राप्नुवन्ति नयनवन्तश्चान्धा भवन्तीत्यभिप्रायेण जगदाहम् आगच्छम्।
40 एतत् श्रुत्वा निकटस्थाः कतिपयाः फिरूशिनो व्याहरन् वयमपि किमन्धाः?
41 तदा यीशुरवादीद् यद्यन्धा अभवत तर्हि पापानि नातिष्ठन् किन्तु पश्यामीति वाक्यवदनाद् युष्माकं पापानि तिष्ठन्ति।

योहनलिखितः सुसंवादः 10

1 अहं युष्मानतियथार्थं वदामि, यो जनो द्वारेण न प्रविश्य केनाप्यन्येन मेषगृहं प्रविशति स एव स्तेनो दस्युश्च।
2 यो द्वारेण प्रविशति स एव मेषपालकः।
3 दौवारिकस्तस्मै द्वारं मोचयति मेषगणश्च तस्य वाक्यं शृणोति स निजान् मेषान् स्वस्वनाम्नाहूय बहिः कृत्वा नयति।
4 तथा निजान् मेषान् बहिः कृत्वा स्वयं तेषाम् अग्रे गच्छति, ततो मेषास्तस्य शब्दं बुध्यन्ते, तस्मात् तस्य पश्चाद् व्रजन्ति।
5 किन्तु परस्य शब्दं न बुध्यन्ते तस्मात् तस्य पश्चाद् व्रजिष्यन्ति वरं तस्य समीपात् पलायिष्यन्ते।
6 यीशुस्तेभ्य इमां दृष्टान्तकथाम् अकथयत् किन्तु तेन कथितकथायास्तात्पर्य्यं ते नाबुध्यन्त।
7 अतो यीशुः पुनरकथयत्, युष्मानाहं यथार्थतरं व्याहरामि, मेषगृहस्य द्वारम् अहमेव।
8 मया न प्रविश्य य आगच्छन् ते स्तेना दस्यवश्च किन्तु मेषास्तेषां कथा नाशृण्वन्।
9 अहमेव द्वारस्वरूपः, मया यः कश्चित प्रविशति स रक्षां प्राप्स्यति तथा बहिरन्तश्च गमनागमने कृत्वा चरणस्थानं प्राप्स्यति।
10 यो जनस्तेनः स केवलं स्तैन्यबधविनाशान् कर्त्तुमेव समायाति किन्त्वहम् आयु र्दातुम् अर्थात् बाहूल्येन तदेव दातुम् आगच्छम्।
11 अहमेव सत्यमेषपालको यस्तु सत्यो मेषपालकः स मेषार्थं प्राणत्यागं करोति;
12 किन्तु यो जनो मेषपालको न, अर्थाद् यस्य मेषा निजा न भवन्ति, य एतादृशो वैतनिकः स वृकम् आगच्छन्तं दृष्ट्वा मेजव्रजं विहाय पलायते, तस्माद् वृकस्तं व्रजं धृत्वा विकिरति।
13 वैतनिकः पलायते यतः स वेतनार्थी मेषार्थं न चिन्तयति।
14 अहमेव सत्यो मेषपालकः, पिता मां यथा जानाति, अहञ्च यथा पितरं जानामि,
15 तथा निजान् मेषानपि जानामि, मेषाश्च मां जानान्ति, अहञ्च मेषार्थं प्राणत्यागं करोमि।
16 अपरञ्च एतद् गृहीय मेषेभ्यो भिन्ना अपि मेषा मम सन्ति ते सकला आनयितव्याः; ते मम शब्दं श्रोष्यन्ति तत एको व्रज एको रक्षको भविष्यति।
17 प्राणानहं त्यक्त्वा पुनः प्राणान् ग्रहीष्यामि, तस्मात् पिता मयि स्नेहं करोति।
18 कश्चिज्जनो मम प्राणान् हन्तुं न शक्नोति किन्तु स्वयं तान् समर्पयामि तान् समर्पयितुं पुनर्ग्रहीतुञ्च मम शक्तिरास्ते भारमिमं स्वपितुः सकाशात् प्राप्तोहम्।
19 अस्मादुपदेशात् पुनश्च यिहूदीयानां मध्ये भिन्नवाक्यता जाता।
20 ततो बहवो व्याहरन् एष भूतग्रस्त उन्मत्तश्च, कुत एतस्य कथां शृणुथ?
21 केचिद् अवदन् एतस्य कथा भूतग्रस्तस्य कथावन्न भवन्ति, भूतः किम् अन्धाय चक्षुषी दातुं शक्नोति?
22 शीतकाले यिरूशालमि मन्दिरोत्सर्गपर्व्वण्युपस्थिते
23 यीशुः सुलेमानो निःसारेण गमनागमने करोति,
24 एतस्मिन् समये यिहूदीयास्तं वेष्टयित्वा व्याहरन् कति कालान् अस्माकं विचिकित्सां स्थापयिष्यामि? यद्यभिषिक्तो भवति तर्हि तत् स्पष्टं वद।
25 तदा यीशुः प्रत्यवदद् अहम् अचकथं किन्तु यूयं न प्रतीथ, निजपितु र्नाम्ना यां यां क्रियां करोमि सा क्रियैव मम साक्षिस्वरूपा।
26 किन्त्वहं पूर्व्वमकथयं यूयं मम मेषा न भवथ, कारणादस्मान् न विश्वसिथ।
27 मम मेषा मम शब्दं शृण्वन्ति तानहं जानामि ते च मम पश्चाद् गच्छन्ति।
28 अहं तेभ्योऽनन्तायु र्ददामि, ते कदापि न नंक्ष्यन्ति कोपि मम करात् तान् हर्त्तुं न शक्ष्यति।
29 यो मम पिता तान् मह्यं दत्तवान् स सर्व्वस्मात् महान्, कोपि मम पितुः करात् तान् हर्त्तुं न शक्ष्यति।
30 अहं पिता च द्वयोरेकत्वम्।
31 ततो यिहूदीयाः पुनरपि तं हन्तुं पाषाणान् उदतोलयन्।
32 यीशुः कथितवान् पितुः सकाशाद् बहून्युत्तमकर्म्माणि युष्माकं प्राकाशयं तेषां कस्य कर्म्मणः कारणान् मां पाषाणैराहन्तुम् उद्यताः स्थ?
33 यिहूदीयाः प्रत्यवदन् प्रशस्तकर्म्महेतो र्न किन्तु त्वं मानुषः स्वमीश्वरम् उक्त्वेश्वरं निन्दसि कारणादस्मात् त्वां पाषाणैर्हन्मः।
34 तदा यीशुः प्रत्युक्तवान् मया कथितं यूयम् ईश्वरा एतद्वचनं युष्माकं शास्त्रे लिखितं नास्ति किं?
35 तस्माद् येषाम् उद्देशे ईश्वरस्य कथा कथिता ते यदीश्वरगणा उच्यन्ते धर्म्मग्रन्थस्याप्यन्यथा भवितुं न शक्यं,
36 तर्ह्याहम् ईश्वरस्य पुत्र इति वाक्यस्य कथनात् यूयं पित्राभिषिक्तं जगति प्रेरितञ्च पुमांसं कथम् ईश्वरनिन्दकं वादय?
37 यद्यहं पितुः कर्म्म न करोमि तर्हि मां न प्रतीत;
38 किन्तु यदि करोमि तर्हि मयि युष्माभिः प्रत्यये न कृतेऽपि कार्य्ये प्रत्ययः क्रियतां, ततो मयि पितास्तीति पितर्य्यहम् अस्मीति च क्षात्वा विश्वसिष्यथ।
39 तदा ते पुनरपि तं धर्त्तुम् अचेष्टन्त किन्तु स तेषां करेभ्यो निस्तीर्य्य
40 पुन र्यर्द्दन् अद्यास्तटे यत्र पुर्व्वं योहन् अमज्जयत् तत्रागत्य न्यवसत्।
41 ततो बहवो लोकास्तत्समीपम् आगत्य व्याहरन् योहन् किमप्याश्चर्य्यं कर्म्म नाकरोत् किन्त्वस्मिन् मनुष्ये या यः कथा अकथयत् ताः सर्व्वाः सत्याः;
42 तत्र च बहवो लोकास्तस्मिन् व्यश्वसन्।

योहनलिखितः सुसंवादः 11

1 अनन्तरं मरियम् तस्या भगिनी मर्था च यस्मिन् वैथनीयाग्रामे वसतस्तस्मिन् ग्रामे इलियासर् नामा पीडित एक आसीत्।
2 या मरियम् प्रभुं सुगन्धितेलैन मर्द्दयित्वा स्वकेशैस्तस्य चरणौ सममार्जत् तस्या भ्राता स इलियासर् रोगी।
3 अपरञ्च हे प्रभो भवान् यस्मिन् प्रीयते स एव पीडितोस्तीति कथां कथयित्वा तस्य भगिन्यौ प्रेषितवत्यौ।
4 तदा यीशुरिमां वार्त्तां श्रुत्वाकथयत पीडेयं मरणार्थं न किन्त्वीश्वरस्य महिमार्थम् ईश्वरपुत्रस्य महिमप्रकाशार्थञ्च जाता।
5 यीशु र्यद्यपिमर्थायां तद्भगिन्याम् इलियासरि चाप्रीयत,
6 तथापि इलियासरः पीडायाः कथं श्रुत्वा यत्र आसीत् तत्रैव दिनद्वयमतिष्ठत्।
7 ततः परम् स शिष्यानकथयद् वयं पुन र्यिहूदीयप्रदेशं यामः।
8 ततस्ते प्रत्यवदन्, हे गुरो स्वल्पदिनानि गतानि यिहूदीयास्त्वां पाषाणै र्हन्तुम् उद्यतास्तथापि किं पुनस्तत्र यास्यसि?
9 यीशुः प्रत्यवदत्, एकस्मिन् दिने किं द्वादशघटिका न भवन्ति? कोपि दिवा गच्छन् न स्खलति यतः स एतज्जगतो दीप्तिं प्राप्नोति।
10 किन्तु रात्रौ गच्छन् स्खलति यतो हेतोस्तत्र दीप्ति र्नास्ति।
11 इमां कथां कथयित्वा स तानवदद्, अस्माकं बन्धुः इलियासर् निद्रितोभूद् इदानीं तं निद्रातो जागरयितुं गच्छामि।
12 यीशु र्मृतौ कथामिमां कथितवान् किन्तु विश्रामार्थं निद्रायां कथितवान् इति ज्ञात्वा शिष्या अकथयन्,
13 हे गुरो स यदि निद्राति तर्हि भद्रमेव।
14 तदा यीशुः स्पष्टं तान् व्याहरत्, इलियासर् अम्रियत;
15 किन्तु यूयं यथा प्रतीथ तदर्थमहं तत्र न स्थितवान् इत्यस्माद् युष्मन्निमित्तम् आह्लादितोहं, तथापि तस्य समीपे याम।
16 तदा थोमा यं दिदुमं वदन्ति स सङ्गिनः शिष्यान् अवदद् वयमपि गत्वा तेन सार्द्धं म्रियामहै।
17 यीशुस्तत्रोपस्थाय इलियासरः श्मशाने स्थापनात् चत्वारि दिनानि गतानीति वार्त्तां श्रुतवान्।
18 वैथनीया यिरूशालमः समीपस्था क्रोशैकमात्रान्तरिता;
19 तस्माद् बहवो यिहूदीया मर्थां मरियमञ्च भ्यातृशोकापन्नां सान्त्वयितुं तयोः समीपम् आगच्छन्।
20 मर्था यीशोरागमनवार्तां श्रुत्वैव तं साक्षाद् अकरोत् किन्तु मरियम् गेह उपविश्य स्थिता।
21 तदा मर्था यीशुमवादत्, हे प्रभो यदि भवान् अत्रास्थास्यत् तर्हि मम भ्राता नामरिष्यत्।
22 किन्त्विदानीमपि यद् ईश्वरे प्रार्थयिष्यते ईश्वरस्तद् दास्यतीति जानेऽहं।
23 यीशुरवादीत् तव भ्राता समुत्थास्यति।
24 मर्था व्याहरत् शेषदिवसे स उत्थानसमये प्रोत्थास्यतीति जानेऽहं।
25 तदा यीशुः कथितवान् अहमेव उत्थापयिता जीवयिता च यः कश्चन मयि विश्वसिति स मृत्वापि जीविष्यति;
26 यः कश्चन च जीवन् मयि विश्वसिति स कदापि न मरिष्यति, अस्यां कथायां किं विश्वसिषि?
27 सावदत् प्रभो यस्यावतरणापेक्षास्ति भवान् सएवाभिषिक्त्त ईश्वरपुत्र इति विश्वसिमि।
28 इति कथां कथयित्वा सा गत्वा स्वां भगिनीं मरियमं गुप्तमाहूय व्याहरत् गुरुरुपतिष्ठति त्वामाहूयति च।
29 कथामिमां श्रुत्वा सा तूर्णम् उत्थाय तस्य समीपम् अगच्छत्।
30 यीशु र्ग्राममध्यं न प्रविश्य यत्र मर्था तं साक्षाद् अकरोत् तत्र स्थितवान्।
31 ये यिहूदीया मरियमा साकं गृहे तिष्ठन्तस्ताम् असान्त्वयन ते तां क्षिप्रम् उत्थाय गच्छन्तिं विलोक्य व्याहरन्, स श्मशाने रोदितुं याति, इत्युक्त्वा ते तस्याः पश्चाद् अगच्छन्।
32 यत्र यीशुरतिष्ठत् तत्र मरियम् उपस्थाय तं दृष्ट्वा तस्य चरणयोः पतित्वा व्याहरत् हे प्रभो यदि भवान् अत्रास्थास्यत् तर्हि मम भ्राता नामरिष्यत्।
33 यीशुस्तां तस्याः सङ्गिनो यिहूदीयांश्च रुदतो विलोक्य शोकार्त्तः सन् दीर्घं निश्वस्य कथितवान् तं कुत्रास्थापयत?
34 ते व्याहरन्, हे प्रभो भवान् आगत्य पश्यतु।
35 यीशुना क्रन्दितं।
36 अतएव यिहूदीया अवदन्, पश्यतायं तस्मिन् किदृग् अप्रियत।
37 तेषां केचिद् अवदन् योन्धाय चक्षुषी दत्तवान् स किम् अस्य मृत्युं निवारयितुं नाशक्नोत्?
38 ततो यीशुः पुनरन्तर्दीर्घं निश्वस्य श्मशानान्तिकम् अगच्छत्। तत् श्मशानम् एकं गह्वरं तन्मुखे पाषाण एक आसीत्।
39 तदा यीशुरवदद् एनं पाषाणम् अपसारयत, ततः प्रमीतस्य भगिनी मर्थावदत् प्रभो, अधुना तत्र दुर्गन्धो जातः, यतोद्य चत्वारि दिनानि श्मशाने स तिष्ठति।
40 तदा यीशुरवादीत्, यदि विश्वसिषि तर्हीश्वरस्य महिमप्रकाशं द्रक्ष्यसि कथामिमां किं तुभ्यं नाकथयं?
41 तदा मृतस्य श्मशानात् पाषाणोऽपसारिते यीशुरूर्द्व्वं पश्यन् अकथयत्, हे पित र्मम नेवेसनम् अशृणोः कारणादस्मात् त्वां धन्यं वदामि।
42 त्वं सततं शृणोषि तदप्यहं जानामि, किन्तु त्वं मां यत् प्रैरयस्तद् यथास्मिन् स्थाने स्थिता लोका विश्वसन्ति तदर्थम् इदं वाक्यं वदामि।
43 इमां कथां कथयित्वा स प्रोच्चैराह्वयत्, हे इलियासर् बहिरागच्छ।
44 ततः स प्रमीतः श्मशानवस्त्रै र्बद्धहस्तपादो गात्रमार्जनवाससा बद्धमुखश्च बहिरागच्छत्। यीशुरुदितवान् बन्धनानि मोचयित्वा त्यजतैनं।
45 मरियमः समीपम् आगता ये यिहूदीयलोकास्तदा यीशोरेतत् कर्म्मापश्यन् तेषां बहवो व्यश्वसन्,
46 किन्तु केचिदन्ये फिरूशिनां समीपं गत्वा यीशोरेतस्य कर्म्मणो वार्त्ताम् अवदन्।
47 ततः परं प्रधानयाजकाः फिरूशिनाश्च सभां कृत्वा व्याहरन् वयं किं कुर्म्मः? एष मानवो बहून्याश्चर्य्यकर्म्माणि करोति।
48 यदीदृशं कर्म्म कर्त्तुं न वारयामस्तर्हि सर्व्वे लोकास्तस्मिन् विश्वसिष्यन्ति रोमिलोकाश्चागत्यास्माकम् अनया राजधान्या सार्द्धं राज्यम् आछेत्स्यन्ति।
49 तदा तेषां कियफानामा यस्तस्मिन् वत्सरे महायाजकपदे न्ययुज्यत स प्रत्यवदद् यूयं किमपि न जानीथ;
50 समग्रदेशस्य विनाशतोपि सर्व्वलोकार्थम् एकस्य जनस्य मरणम् अस्माकं मङ्गलहेतुकम् एतस्य विवेचनामपि न कुरुथ।
51 एतां कथां स निजबुद्ध्या व्याहरद् इति न,
52 किन्तु यीशूस्तद्देशीयानां कारणात् प्राणान् त्यक्ष्यति, दिशि दिशि विकीर्णान् ईश्वरस्य सन्तानान् संगृह्यैकजातिं करिष्यति च, तस्मिन् वत्सरे कियफा महायाजकत्वपदे नियुक्तः सन् इदं भविष्यद्वाक्यं कथितवान्।
53 तद्दिनमारभ्य ते कथं तं हन्तुं शक्नुवन्तीति मन्त्रणां कर्त्तुं प्रारेभिरे।
54 अतएव यिहूदीयानां मध्ये यीशुः सप्रकाशं गमनागमने अकृत्वा तस्माद् गत्वा प्रान्तरस्य समीपस्थायिप्रदेशस्येफ्रायिम् नाम्नि नगरे शिष्यैः साकं कालं यापयितुं प्रारेभे।
55 अनन्तरं यिहूदीयानां निस्तारोत्सवे निकटवर्त्तिनि सति तदुत्सवात् पूर्व्वं स्वान् शुचीन् कर्त्तुं बहवो जना ग्रामेभ्यो यिरूशालम् नगरम् आगच्छन्,
56 यीशोरन्वेषणं कृत्वा मन्दिरे दण्डायमानाः सन्तः परस्परं व्याहरन्, युष्माकं कीदृशो बोधो जायते? स किम् उत्सवेऽस्मिन् अत्रागमिष्यति?
57 स च कुत्रास्ति यद्येतत् कश्चिद् वेत्ति तर्हि दर्शयतु प्रधानयाजकाः फिरूशिनश्च तं धर्त्तुं पूर्व्वम् इमाम् आज्ञां प्राचारयन्।

योहनलिखितः सुसंवादः 12

1 निस्तारोत्सवात् पूर्व्वं दिनषट्के स्थिते यीशु र्यं प्रमीतम् इलियासरं श्मशानाद् उदस्थापरत् तस्य निवासस्थानं बैथनियाग्रामम् आगच्छत्।
2 तत्र तदर्थं रजन्यां भोज्ये कृते मर्था पर्य्यवेषयद् इलियासर् च तस्य सङ्गिभिः सार्द्धं भोजनासन उपाविशत्।
3 तदा मरियम् अर्द्धसेटकं बहुमूल्यं जटामांसीयं तैलम् आनीय यीशोश्चरणयो र्मर्द्दयित्वा निजकेश र्मार्ष्टुम् आरभत; तदा तैलस्य परिमलेन गृहम् आमोदितम् अभवत्।
4 यः शिमोनः पुत्र रिष्करियोतीयो यिहूदानामा यीशुं परकरेषु समर्पयिष्यति स शिष्यस्तदा कथितवान्,
5 एतत्तैलं त्रिभिः शतै र्मुद्रापदै र्विक्रीतं सद् दरिद्रेभ्यः कुतो नादीयत?
6 स दरिद्रलोकार्थम् अचिन्तयद् इति न, किन्तु स चौर एवं तन्निकटे मुद्रासम्पुटकस्थित्या तन्मध्ये यदतिष्ठत् तदपाहरत् तस्मात् कारणाद् इमां कथामकथयत्।
7 तदा यीशुरकथयद् एनां मा वारय सा मम श्मशानस्थापनदिनार्थं तदरक्षयत्।
8 दरिद्रा युष्माकं सन्निधौ सर्व्वदा तिष्ठन्ति किन्त्वहं सर्व्वदा युष्माकं सन्निधौ न तिष्ठामि।
9 ततः परं यीशुस्तत्रास्तीति वार्त्तां श्रुत्वा बहवो यिहूदीयास्तं श्मशानादुत्थापितम् इलियासरञ्च द्रष्टुं तत् स्थानम् आगच्छन।
10 तदा प्रधानयाजकास्तम् इलियासरमपि संहर्त्तुम् अमन्त्रयन् ;
11 यतस्तेन बहवो यिहूदीया गत्वा यीशौ व्यश्वसन्।
12 अनन्तरं यीशु र्यिरूशालम् नगरम् आगच्छतीति वार्त्तां श्रुत्वा परेऽहनि उत्सवागता बहवो लोकाः
13 खर्ज्जूरपत्राद्यानीय तं साक्षात् कर्त्तुं बहिरागत्य जय जयेति वाचं प्रोच्चै र्वक्तुम् आरभन्त, इस्रायेलो यो राजा परमेश्वरस्य नाम्नागच्छति स धन्यः।
14 तदा "हे सियोनः कन्ये मा भैषीः पश्यायं तव राजा गर्द्दभशावकम् आरुह्यागच्छति"
15 इति शास्त्रीयवचनानुसारेण यीशुरेकं युवगर्द्दभं प्राप्य तदुपर्य्यारोहत्।
16 अस्याः घटनायास्तात्पर्य्यं शिष्याः प्रथमं नाबुध्यन्त, किन्तु यीशौ महिमानं प्राप्ते सति वाक्यमिदं तस्मिन अकथ्यत लोकाश्च तम्प्रतीत्थम् अकुर्व्वन् इति ते स्मृतवन्तः।
17 स इलियासरं श्मशानाद् आगन्तुम् आह्वतवान् श्मशानाञ्च उदस्थापयद् ये ये लोकास्तत्कर्म्य साक्षाद् अपश्यन् ते प्रमाणं दातुम् आरभन्त।
18 स एतादृशम् अद्भुतं कर्म्मकरोत् तस्य जनश्रुते र्लोकास्तं साक्षात् कर्त्तुम् आगच्छन्।
19 ततः फिरूशिनः परस्परं वक्तुम् आरभन्त युष्माकं सर्व्वाश्चेष्टा वृथा जाताः, इति किं यूयं न बुध्यध्वे? पश्यत सर्व्वे लोकास्तस्य पश्चाद्वर्त्तिनोभवन्।
20 भजनं कर्त्तुम् उत्सवागतानां लोकानां कतिपया जना अन्यदेशीया आसन् ,
21 ते गालीलीयबैत्सैदानिवासिनः फिलिपस्य समीपम् आगत्य व्याहरन् हे महेच्छ वयं यीशुं द्रष्टुम् इच्छामः।
22 ततः फिलिपो गत्वा आन्द्रियम् अवदत् पश्चाद् आन्द्रियफिलिपौ यीशवे वार्त्ताम् अकथयतां।
23 तदा यीशुः प्रत्युदितवान् मानवसुतस्य महिमप्राप्तिसमय उपस्थितः।
24 अहं युष्मानतियथार्थं वदामि, धान्यबीजं मृत्तिकायां पतित्वा यदि न मृयते तर्ह्येकाकी तिष्ठति किन्तु यदि मृयते तर्हि बहुगुणं फलं फलति।
25 यो जनेा निजप्राणान् प्रियान् जानाति स तान् हारयिष्यति किन्तु येा जन इहलोके निजप्राणान् अप्रियान् जानाति सेानन्तायुः प्राप्तुं तान् रक्षिष्यति।
26 कश्चिद् यदि मम सेवको भवितुं वाञ्छति तर्हि स मम पश्चाद्गामी भवतु, तस्माद् अहं यत्र तिष्ठामि मम सेवकेापि तत्र स्थास्यति; यो जनो मां सेवते मम पितापि तं सम्मंस्यते।
27 साम्प्रतं मम प्राणा व्याकुला भवन्ति, तस्माद् हे पितर एतस्मात् समयान् मां रक्ष, इत्यहं किं प्रार्थयिष्ये? किन्त्वहम् एतत्समयार्थम् अवतीर्णवान्।
28 हे पित: स्वनाम्नो महिमानं प्रकाशय; तनैव स्वनाम्नो महिमानम् अहं प्राकाशयं पुनरपि प्रकाशयिष्यामि, एषा गगणीया वाणी तस्मिन् समयेऽजायत।
29 तच्श्रुत्वा समीपस्थलोकानां केचिद् अवदन् मेघोऽगर्जीत्, केचिद् अवदन् स्वर्गीयदूतोऽनेन सह कथामचकथत्।
30 तदा यीशुः प्रत्यवादीत्, मदर्थं शब्दोयं नाभूत् युष्मदर्थमेवाभूत्।
31 अधुना जगतोस्य विचार: सम्पत्स्यते, अधुनास्य जगत: पती राज्यात् च्योष्यति।
32 यद्यई पृथिव्या ऊर्द्व्वे प्रोत्थापितोस्मि तर्हि सर्व्वान् मानवान् स्वसमीपम् आकर्षिष्यामि।
33 कथं तस्य मृति र्भविष्यति, एतद् बोधयितुं स इमां कथाम् अकथयत्।
34 तदा लोका अकथयन् सोभिषिक्तः सर्व्वदा तिष्ठतीति व्यवस्थाग्रन्थे श्रुतम् अस्माभिः, तर्हि मनुष्यपुत्रः प्रोत्थापितो भविष्यतीति वाक्यं कथं वदसि? मनुष्यपुत्रोयं कः?
35 तदा यीशुरकथायद् युष्माभिः सार्द्धम् अल्पदिनानि ज्योतिरास्ते, यथा युष्मान् अन्धकारो नाच्छादयति तदर्थं यावत्कालं युष्माभिः सार्द्धं ज्योतिस्तिष्ठति तावत्कालं गच्छत; यो जनोऽन्धकारे गच्छति स कुत्र यातीति न जानाति।
36 अतएव यावत्कालं युष्माकं निकटे ज्योतिरास्ते तावत्कालं ज्योतीरूपसन्ताना भवितुं ज्योतिषि विश्वसित; इमां कथां कथयित्वा यीशुः प्रस्थाय तेभ्यः स्वं गुप्तवान्।
37 यद्यपि यीशुस्तेषां समक्षम् एतावदाश्चर्य्यकर्म्माणि कृतवान् तथापि ते तस्मिन् न व्यश्वसन्।
38 अतएव कः प्रत्येति सुसंवादं परेशास्मत् प्रचारितं? प्रकाशते परेशस्य हस्तः कस्य च सन्निधौ? यिशयियभविष्यद्वादिना यदेतद् वाक्यमुक्तं तत् सफलम् अभवत्।
39 ते प्रत्येतुं नाशन्कुवन् तस्मिन् यिशयियभविष्यद्वादि पुनरवादीद्,
40 यदा, "ते नयनै र्न पश्यन्ति बुद्धिभिश्च न बुध्यन्ते तै र्मनःसु परिवर्त्तितेषु च तानहं यथा स्वस्थान् न करोमि तथा स तेषां लोचनान्यन्धानि कृत्वा तेषामन्तःकरणानि गाढानि करिष्यति। "
41 यिशयियो यदा यीशो र्महिमानं विलोक्य तस्मिन् कथामकथयत् तदा भविष्यद्वाक्यम् ईदृशं प्रकाशयत्।
42 तथाप्यधिपतिनां बहवस्तस्मिन् प्रत्यायन्। किन्तु फिरूशिनस्तान् भजनगृहाद् दूरीकुर्व्वन्तीति भयात् ते तं न स्वीकृतवन्तः।
43 यत ईश्वरस्य प्रशंसातो मानवानां प्रशंसायां तेऽप्रियन्त।
44 तदा यीशुरुच्चैःकारम् अकथयद् यो जनो मयि विश्वसिति स केवले मयि विश्वसितीति न, स मत्प्रेरकेऽपि विश्वसिति।
45 यो जनो मां पश्यति स मत्प्रेरकमपि पश्यति।
46 यो जनो मां प्रत्येति स यथान्धकारे न तिष्ठति तदर्थम् अहं ज्योतिःस्वरूपो भूत्वा जगत्यस्मिन् अवतीर्णवान्।
47 मम कथां श्रुत्वा यदि कश्चिन् न विश्वसिति तर्हि तमहं दोषिणं न करोमि, यतो हेतो र्जगतो जनानां दोषान् निश्चितान् कर्त्तुं नागत्य तान् परिचातुम् आगतोस्मि।
48 यः कश्चिन् मां न श्रद्धाय मम कथं न गृह्लाति, अन्यस्तं दोषिणं करिष्यति वस्तुतस्तु यां कथामहम् अचकथं सा कथा चरमेऽन्हि तं दोषिणं करिष्यति।
49 यतो हेतोरहं स्वतः किमपि न कथयामि, किं किं मया कथयितव्यं किं समुपदेष्टव्यञ्च इति मत्प्रेरयिता पिता मामाज्ञापयत्।
50 तस्य साज्ञा अनन्तायुरित्यहं जानामि, अतएवाहं यत् कथयामि तत् पिता यथाज्ञापयत् तथैव कथयाम्यहम्।

योहनलिखितः सुसंवादः 13

1 निस्तारोत्सवस्य किञ्चित्कालात् पूर्व्वं पृथिव्याः पितुः समीपगमनस्य समयः सन्निकर्षोभूद् इति ज्ञात्वा यीशुराप्रथमाद् येषु जगत्प्रवासिष्वात्मीयलोकेष प्रेम करोति स्म तेषु शेषं यावत् प्रेम कृतवान्।
2 पिता तस्य हस्ते सर्व्वं समर्पितवान् स्वयम् ईश्वरस्य समीपाद् आगच्छद् ईश्वरस्य समीपं यास्यति च, सर्व्वाण्येतानि ज्ञात्वा रजन्यां भोजने सम्पूर्णे सति,
3 यदा शैतान् तं परहस्तेषु समर्पयितुं शिमोनः पुत्रस्य ईष्कारियोतियस्य यिहूदा अन्तःकरणे कुप्रवृत्तिं समार्पयत्,
4 तदा यीशु र्भोजनासनाद् उत्थाय गात्रवस्त्रं मोचयित्वा गात्रमार्जनवस्त्रं गृहीत्वा तेन स्वकटिम् अबध्नात्,
5 पश्चाद् एकपात्रे जलम् अभिषिच्य शिष्याणां पादान् प्रक्षाल्य तेन कटिबद्धगात्रमार्जनवाससा मार्ष्टुं प्रारभत।
6 ततः शिमोन्पितरस्य समीपमागते स उक्तवान् हे प्रभो भवान् किं मम पादौ प्रक्षालयिष्यति?
7 यीशुरुदितवान् अहं यत् करोमि तत् सम्प्रति न जानासि किन्तु पश्चाज् ज्ञास्यसि।
8 ततः पितरः कथितवान् भवान् कदापि मम पादौ न प्रक्षालयिष्यति। यीशुरकथयद् यदि त्वां न प्रक्षालये तर्हि मयि तव कोप्यंशो नास्ति।
9 तदा शिमोन्पितरः कथितवान् हे प्रभो तर्हि केवलपादौ न, मम हस्तौ शिरश्च प्रक्षालयतु।
10 ततो यीशुरवदद् यो जनो धौतस्तस्य सर्व्वाङ्गपरिष्कृतत्वात् पादौ विनान्याङ्गस्य प्रक्षालनापेक्षा नास्ति। यूयं परिष्कृता इति सत्यं किन्तु न सर्व्वे,
11 यतो यो जनस्तं परकरेषु समर्पयिष्यति तं स ज्ञातवान; अतएव यूयं सर्व्वे न परिष्कृता इमां कथां कथितवान्।
12 इत्थं यीशुस्तेषां पादान् प्रक्षाल्य वस्त्रं परिधायासने समुपविश्य कथितवान् अहं युष्मान् प्रति किं कर्म्माकार्षं जानीथ?
13 यूयं मां गुरुं प्रभुञ्च वदथ तत् सत्यमेव वदथ यतोहं सएव भवामि।
14 यद्यहं प्रभु र्गुरुश्च सन् युष्माकं पादान् प्रक्षालितवान् तर्हि युष्माकमपि परस्परं पादप्रक्षालनम् उचितम्।
15 अहं युष्मान् प्रति यथा व्यवाहरं युष्मान् तथा व्यवहर्त्तुम् एकं पन्थानं दर्शितवान्।
16 अहं युष्मानतियथार्थं वदामि, प्रभो र्दासो न महान् प्रेरकाच्च प्रेरितो न महान्।
17 इमां कथां विदित्वा यदि तदनुसारतः कर्म्माणि कुरुथ तर्हि यूयं धन्या भविष्यथ।
18 सर्व्वेषु युष्मासु कथामिमां कथयामि इति न, ये मम मनोनीतास्तानहं जानामि, किन्तु मम भक्ष्याणि यो भुङ्क्ते मत्प्राणप्रातिकूल्यतः। उत्थापयति पादस्य मूलं स एष मानवः। यदेतद् धर्म्मपुस्तकस्य वचनं तदनुसारेणावश्यं घटिष्यते।
19 अहं स जन इत्यत्र यथा युष्माकं विश्वासो जायते तदर्थं एतादृशघटनात् पूर्व्वम् अहमिदानीं युष्मभ्यमकथयम्।
20 अहं युष्मानतीव यथार्थं वदामि, मया प्रेरितं जनं यो गृह्लाति स मामेव गृह्लाति यश्च मां गृह्लाति स मत्प्रेरकं गृह्लाति।
21 एतां कथां कथयित्वा यीशु र्दुःखी सन् प्रमाणं दत्त्वा कथितवान् अहं युष्मानतियथार्थं वदामि युष्माकम् एको जनो मां परकरेषु समर्पयिष्यति।
22 ततः स कमुद्दिश्य कथामेतां कथितवान् इत्यत्र सन्दिग्धाः शिष्याः परस्परं मुखमालोकयितुं प्रारभन्त।
23 तस्मिन् समये यीशु र्यस्मिन् अप्रीयत स शिष्यस्तस्य वक्षःस्थलम् अवालम्बत।
24 शिमोन्पितरस्तं सङ्केतेनावदत्, अयं कमुद्दिश्य कथामेताम् कथयतीति पृच्छ।
25 तदा स यीशो र्वक्षःस्थलम् अवलम्ब्य पृष्ठवान्, हे प्रभो स जनः कः?
26 ततो यीशुः प्रत्यवदद् एकखण्डं पूपं मज्जयित्वा यस्मै दास्यामि सएव सः; पश्चात् पूपखण्डमेकं मज्जयित्वा शिमोनः पुत्राय ईष्करियोतीयाय यिहूदै दत्तवान्।
27 तस्मिन् दत्ते सति शैतान् तमाश्रयत्; तदा यीशुस्तम् अवदत् त्वं यत् करिष्यसि तत् क्षिप्रं कुरु।
28 किन्तु स येनाशयेन तां कथामकथायत् तम् उपविष्टलोकानां कोपि नाबुध्यत;
29 किन्तु यिहूदाः समीपे मुद्रासम्पुटकस्थितेः केचिद् इत्थम् अबुध्यन्त पार्व्वणासादनार्थं किमपि द्रव्यं क्रेतुं वा दरिद्रेभ्यः किञ्चिद् वितरितुं कथितवान्।
30 तदा पूपखण्डग्रहणात् परं स तूर्णं बहिरगच्छत्; रात्रिश्च समुपस्यिता।
31 यिहूदे बहिर्गते यीशुरकथयद् इदानीं मानवसुतस्य महिमा प्रकाशते तेनेश्वरस्यापि महिमा प्रकाशते।
32 यदि तेनेश्वरस्य महिमा प्रकाशते तर्हीश्वरोपि स्वेन तस्य महिमानं प्रकाशयिष्यति तूर्णमेव प्रकाशयिष्यति।
33 हे वत्सा अहं युष्माभिः सार्द्धं किञ्चित्कालमात्रम् आसे, ततः परं मां मृगयिष्यध्वे किन्त्वहं यत्स्थानं यामि तत्स्थानं यूयं गन्तुं न शक्ष्यथ, यामिमां कथां यिहूदीयेभ्यः कथितवान् तथाधुना युष्मभ्यमपि कथयामि।
34 यूयं परस्परं प्रीयध्वम् अहं युष्मासु यथा प्रीये यूयमपि परस्परम् तथैव प्रीयध्वं, युष्मान् इमां नवीनाम् आज्ञाम् आदिशामि।
35 तेनैव यदि परस्परं प्रीयध्वे तर्हि लक्षणेनानेन यूयं मम शिष्या इति सर्व्वे ज्ञातुं शक्ष्यन्ति।
36 शिमोनपितरः पृष्ठवान् हे प्रभो भवान् कुत्र यास्यति? ततो यीशुः प्रत्यवदत्, अहं यत्स्थानं यामि तत्स्थानं साम्प्रतं मम पश्चाद् गन्तुं न शक्नोषि किन्तु पश्चाद् गमिष्यसि।
37 तदा पितरः प्रत्युदितवान्, हे प्रभो साम्प्रतं कुतो हेतोस्तव पश्चाद् गन्तुं न शक्नोमि? त्वदर्थं प्राणान् दातुं शक्नोमि।
38 ततो यीशुः प्रत्युक्तवान् मन्निमित्तं किं प्राणान् दातुं शक्नोषि? त्वामहं यथार्थं वदामि, कुक्कुटरवणात् पूर्व्वं त्वं त्रि र्माम् अपह्नोष्यसे।

योहनलिखितः सुसंवादः 14

1 मनोदुःखिनो मा भूत; ईश्वरे विश्वसित मयि च विश्वसित।
2 मम पितु गृहे बहूनि वासस्थानि सन्ति नो चेत् पूर्व्वं युष्मान् अज्ञापयिष्यं युष्मदर्थं स्थानं सज्जयितुं गच्छामि।
3 यदि गत्वाहं युष्मन्निमित्तं स्थानं सज्जयामि तर्हि पनरागत्य युष्मान् स्वसमीपं नेष्यामि, ततो यत्राहं तिष्ठामि तत्र यूयमपि स्थास्यथ।
4 अहं यत्स्थानं ब्रजामि तत्स्थानं यूयं जानीथ तस्य पन्थानमपि जानीथ।
5 तदा थोमा अवदत्, हे प्रभो भवान् कुत्र याति तद्वयं न जानीमः, तर्हि कथं पन्थानं ज्ञातुं शक्नुमः?
6 यीशुरकथयद् अहमेव सत्यजीवनरूपपथो मया न गन्ता कोपि पितुः समीपं गन्तुं न शक्नोति।
7 यदि माम् अज्ञास्यत तर्हि मम पितरमप्यज्ञास्यत किन्त्वधुनातस्तं जानीथ पश्यथ च।
8 तदा फिलिपः कथितवान्, हे प्रभो पितरं दर्शय तस्मादस्माकं यथेष्टं भविष्यति।
9 ततो यीशुः प्रत्यावादीत्, हे फिलिप युष्माभिः सार्द्धम् एतावद्दिनानि स्थितमपि मां किं न प्रत्यभिजानासि? यो जनो माम् अपश्यत् स पितरमप्यपश्यत् तर्हि पितरम् अस्मान् दर्शयेति कथां कथं कथयसि?
10 अहं पितरि तिष्ठामि पिता मयि तिष्ठतीति किं त्वं न प्रत्यषि? अहं यद्वाक्यं वदामि तत् स्वतो न वदामि किन्तु यः पिता मयि विराजते स एव सर्व्वकर्म्माणि कराति।
11 अतएव पितर्य्यहं तिष्ठामि पिता च मयि तिष्ठति ममास्यां कथायां प्रत्ययं कुरुत, नो चेत् कर्म्महेतोः प्रत्ययं कुरुत।
12 अहं युष्मानतियथार्थं वदामि, यो जनो मयि विश्वसिति सोहमिव कर्म्माणि करिष्यति वरं ततोपि महाकर्म्माणि करिष्यति यतो हेतोरहं पितुः समीपं गच्छामि।
13 यथा पुत्रेण पितु र्महिमा प्रकाशते तदर्थं मम नाम प्रोच्य यत् प्रार्थयिष्यध्वे तत् सफलं करिष्यामि।
14 यदि मम नाम्ना यत् किञ्चिद् याचध्वे तर्हि तदहं साधयिष्यामि।
15 यदि मयि प्रीयध्वे तर्हि ममाज्ञाः समाचरत।
16 ततो मया पितुः समीपे प्रार्थिते पिता निरन्तरं युष्माभिः सार्द्धं स्थातुम् इतरमेकं सहायम् अर्थात् सत्यमयम् आत्मानं युष्माकं निकटं प्रेषयिष्यति।
17 एतज्जगतो लोकास्तं ग्रहीतुं न शक्नुवन्ति यतस्ते तं नापश्यन् नाजनंश्च किन्तु यूयं जानीथ यतो हेतोः स युष्माकमन्त र्निवसति युष्माकं मध्ये स्थास्यति च।
18 अहं युष्मान् अनाथान् कृत्वा न यास्यामि पुनरपि युष्माकं समीपम् आगमिष्यामि।
19 कियत्कालरत् परम् अस्य जगतो लोका मां पुन र्न द्रक्ष्यन्ति किन्तु यूयं द्रक्ष्यथ;अहं जीविष्यामि तस्मात् कारणाद् यूयमपि जीविष्यथ।
20 पितर्य्यहमस्मि मयि च यूयं स्थ, तथाहं युष्मास्वस्मि तदपि तदा ज्ञास्यथ।
21 यो जनो ममाज्ञा गृहीत्वा ता आचरति सएव मयि प्रीयते; यो जनश्च मयि प्रीयते सएव मम पितुः प्रियपात्रं भविष्यति, तथाहमपि तस्मिन् प्रीत्वा तस्मै स्वं प्रकाशयिष्यामि।
22 तदा ईष्करियोतीयाद् अन्यो यिहूदास्तमवदत्, हे प्रभो भवान् जगतो लोकानां सन्निधौ प्रकाशितो न भूत्वास्माकं सन्निधौ कुतः प्रकाशितो भविष्यति?
23 ततो यीशुः प्रत्युदितवान्, यो जनो मयि प्रीयते स ममाज्ञा अपि गृह्लाति, तेन मम पितापि तस्मिन् प्रेष्यते, आवाञ्च तन्निकटमागत्य तेन सह निवत्स्यावः।
24 यो जनो मयि न प्रीयते स मम कथा अपि न गृह्लाति पुनश्च यामिमां कथां यूयं शृणुथ सा कथा केवलस्य मम न किन्तु मम प्रेरको यः पिता तस्यापि कथा।
25 इदानीं युष्माकं निकटे विद्यमानोहम् एताः सकलाः कथाः कथयामि।
26 किन्त्वितः परं पित्रा यः सहायोऽर्थात् पवित्र आत्मा मम नाम्नि प्रेरयिष्यति स सर्व्वं शिक्षयित्वा मयोक्ताः समस्ताः कथा युष्मान् स्मारयिष्यति।
27 अहं युष्माकं निकटे शान्तिं स्थापयित्वा यामि, निजां शान्तिं युष्मभ्यं ददामि, जगतो लोका यथा ददाति तथाहं न ददामि; युष्माकम् अन्तःकरणानि दुःखितानि भीतानि च न भवन्तु।
28 अहं गत्वा पुनरपि युष्माकं समीपम् आगमिष्यामि मयोक्तं वाक्यमिदं यूयम् अश्रौष्ट; यदि मय्यप्रेष्यध्वं तर्ह्यहं पितुः समीपं गच्छामि ममास्यां कथायां यूयम् अह्लादिष्यध्वं यतो मम पिता मत्तोपि महान्।
29 तस्या घटनायाः समये यथा युष्माकं श्रद्धा जायते तदर्थम् अहं तस्या घटनायाः पूर्व्वम् इदानीं युष्मान् एतां वार्त्तां वदामि।
30 इतः परं युष्माभिः सह मम बहव आलापा न भविष्यन्ति यतः कारणाद् एतस्य जगतः पतिरागच्छति किन्तु मया सह तस्य कोपि सम्बन्धो नास्ति।
31 अहं पितरि प्रेम करोमि तथा पितु र्विधिवत् कर्म्माणि करोमीति येन जगतो लोका जानन्ति तदर्थम् उत्तिष्ठत वयं स्थानादस्माद् गच्छाम।

योहनलिखितः सुसंवादः 15

1 अहं सत्यद्राक्षालतास्वरूपो मम पिता तूद्यानपरिचारकस्वरूपञ्च।
2 मम यासु शाखासु फलानि न भवन्ति ताः स छिनत्ति तथा फलवत्यः शाखा यथाधिकफलानि फलन्ति तदर्थं ताः परिष्करोति।
3 इदानीं मयोक्तोपदेशेन यूयं परिष्कृताः।
4 अतः कारणात् मयि तिष्ठत तेनाहमपि युष्मासु तिष्ठामि, यतो हेतो र्द्राक्षालतायाम् असंलग्ना शाखा यथा फलवती भवितुं न शक्नोति तथा यूयमपि मय्यतिष्ठन्तः फलवन्तो भवितुं न शक्नुथ।
5 अहं द्राक्षालतास्वरूपो यूयञ्च शाखास्वरूपोः; यो जनो मयि तिष्ठति यत्र चाहं तिष्ठामि, स प्रचूरफलैः फलवान् भवति, किन्तु मां विना यूयं किमपि कर्त्तुं न शक्नुथ।
6 यः कश्चिन् मयि न तिष्ठति स शुष्कशाखेव बहि र्निक्षिप्यते लोकाश्च ता आहृत्य वह्नौ निक्षिप्य दाहयन्ति।
7 यदि यूयं मयि तिष्ठथ मम कथा च युष्मासु तिष्ठति तर्हि यद् वाञ्छित्वा याचिष्यध्वे युष्माकं तदेव सफलं भविष्यति।
8 यदि यूयं प्रचूरफलवन्तो भवथ तर्हि तद्वारा मम पितु र्महिमा प्रकाशिष्यते तथा यूयं मम शिष्या इति परिक्षायिष्यध्वे।
9 पिता यथा मयि प्रीतवान् अहमपि युष्मासु तथा प्रीतवान् अतो हेतो र्यूयं निरन्तरं मम प्रेमपात्राणि भूत्वा तिष्ठत।
10 अहं यथा पितुराज्ञा गृहीत्वा तस्य प्रेमभाजनं तिष्ठामि तथैव यूयमपि यदि ममाज्ञा गुह्लीथ तर्हि मम प्रेमभाजनानि स्थास्यथ।
11 युष्मन्निमित्तं मम य आह्लादः स यथा चिरं तिष्ठति युष्माकम् आनन्दश्च यथा पूर्य्यते तदर्थं युष्मभ्यम् एताः कथा अत्रकथम्।
12 अहं युष्मासु यथा प्रीये यूयमपि परस्परं तथा प्रीयध्वम् एषा ममाज्ञा।
13 मित्राणां कारणात् स्वप्राणदानपर्य्यन्तं यत् प्रेम तस्मान् महाप्रेम कस्यापि नास्ति।
14 अहं यद्यद् आदिशामि तत्तदेव यदि यूयम् आचरत तर्हि यूयमेव मम मित्राणि।
15 अद्यारभ्य युष्मान् दासान् न वदिष्यामि यत् प्रभु र्यत् करोति दासस्तद् न जानाति; किन्तु पितुः समीपे यद्यद् अशृणवं तत् सर्व्वं यूष्मान् अज्ञापयम् तत्कारणाद् युष्मान् मित्राणि प्रोक्तवान्।
16 यूयं मां रोचितवन्त इति न, किन्त्वहमेव युष्मान् रोचितवान् यूयं गत्वा यथा फलान्युत्पादयथ तानि फलानि चाक्षयाणि भवन्ति, तदर्थं युष्मान् न्यजुनजं तस्मान् मम नाम प्रोच्य पितरं यत् किञ्चिद् याचिष्यध्वे तदेव स युष्मभ्यं दास्यति।
17 यूयं परस्परं प्रीयध्वम् अहम् इत्याज्ञापयामि।
18 जगतो लोकै र्युष्मासु ऋतीयितेषु ते पूर्व्वं मामेवार्त्तीयन्त इति यूयं जानीथ।
19 यदि यूयं जगतो लोका अभविष्यत तर्हि जगतो लोका युष्मान् आत्मीयान् बुद्ध्वाप्रेष्यन्त; किन्तु यूयं जगतो लोका न भवथ, अहं युष्मान् अस्माज्जगतोऽरोचयम् एतस्मात् कारणाज्जगतो लोका युष्मान् ऋतीयन्ते।
20 दासः प्रभो र्महान् न भवति ममैतत् पूर्व्वीयं वाक्यं स्मरत; ते यदि मामेवाताडयन् तर्हि युष्मानपि ताडयिष्यन्ति, यदि मम वाक्यं गृह्लन्ति तर्हि युष्माकमपि वाक्यं ग्रहीष्यन्ति।
21 किन्तु ते मम नामकारणाद् युष्मान् प्रति तादृशं व्यवहरिष्यन्ति यतो यो मां प्रेरितवान् तं ते न जानन्ति।
22 तेषां सन्निधिम् आगत्य यद्यहं नाकथयिष्यं तर्हि तेषां पापं नाभविष्यत् किन्त्वधुना तेषां पापमाच्छादयितुम् उपायो नास्ति।
23 यो जनो माम् ऋतीयते स मम पितरमपि ऋतीयते।
24 यादृशानि कर्म्माणि केनापि कदापि नाक्रियन्त तादृशानि कर्म्माणि यदि तेषां साक्षाद् अहं नाकरिष्यं तर्हि तेषां पापं नाभविष्यत् किन्त्वधुना ते दृष्ट्वापि मां मम पितरञ्चार्त्तीयन्त।
25 तस्मात् तेऽकारणं माम् ऋतीयन्ते यदेतद् वचनं तेषां शास्त्रे लिखितमास्ते तत् सफलम् अभवत्।
26 किन्तु पितु र्निर्गतं यं सहायमर्थात् सत्यमयम् आत्मानं पितुः समीपाद् युष्माकं समीपे प्रेषयिष्यामि स आगत्य मयि प्रमाणं दास्यति।
27 यूयं प्रथममारभ्य मया सार्द्धं तिष्ठथ तस्माद्धेतो र्यूयमपि प्रमाणं दास्यथ।

योहनलिखितः सुसंवादः 16

1 युष्माकं यथा वाधा न जायते तदर्थं युष्मान् एतानि सर्व्ववाक्यानि व्याहरं।
2 लोका युष्मान् भजनगृहेभ्यो दूरीकरिष्यन्ति तथा यस्मिन् समये युष्मान् हत्वा ईश्वरस्य तुष्टि जनकं कर्म्माकुर्म्म इति मंस्यन्ते स समय आगच्छन्ति।
3 ते पितरं माञ्च न जानन्ति, तस्माद् युष्मान् प्रतीदृशम् आचरिष्यन्ति।
4 अतो हेताः समये समुपस्थिते यथा मम कथा युष्माकं मनःसुः समुपतिष्ठति तदर्थं युष्माभ्यम् एतां कथां कथयामि युष्माभिः सार्द्धम् अहं तिष्ठन् प्रथमं तां युष्मभ्यं नाकथयं।
5 साम्प्रतं स्वस्य प्रेरयितुः समीपं गच्छामि तथापि त्वं क्क गच्छसि कथामेतां युष्माकं कोपि मां न पृच्छति।
6 किन्तु मयोक्ताभिराभिः कथाभि र्यूष्माकम् अन्तःकरणानि दुःखेन पूर्णान्यभवन्।
7 तथाप्यहं यथार्थं कथयामि मम गमनं युष्माकं हितार्थमेव, यतो हेतो र्गमने न कृते सहायो युष्माकं समीपं नागमिष्यति किन्तु यदि गच्छामि तर्हि युष्माकं समीपे तं प्रेषयिष्यामि।
8 ततः स आगत्य पापपुण्यदण्डेषु जगतो लोकानां प्रबोधं जनयिष्यति।
9 ते मयि न विश्वसन्ति तस्माद्धेतोः पापप्रबोधं जनयिष्यति।
10 युष्माकम् अदृश्यः सन्नहं पितुः समीपं गच्छामि तस्माद् पुण्ये प्रबोधं जनयिष्यति।
11 एतज्जगतोऽधिपति र्दण्डाज्ञां प्राप्नोति तस्माद् दण्डे प्रबोधं जनयिष्यति।
12 युष्मभ्यं कथयितुं ममानेकाः कथा आसते, ताः कथा इदानीं यूयं सोढुं न शक्नुथ;
13 किन्तु सत्यमय आत्मा यदा समागमिष्यति तदा सर्व्वं सत्यं युष्मान् नेष्यति, स स्वतः किमपि न वदिष्यति किन्तु यच्छ्रोष्यति तदेव कथयित्वा भाविकार्य्यं युष्मान् ज्ञापयिष्यति।
14 मम महिमानं प्रकाशयिष्यति यतो मदीयां कथां गृहीत्वा युष्मान् बोधयिष्यति।
15 पितु र्यद्यद् आस्ते तत् सर्व्वं मम तस्माद् कारणाद् अवादिषं स मदीयां कथां गृहीत्वा युष्मान् बोधयिष्यति।
16 कियत्कालात् परं यूयं मां द्रष्टुं न लप्स्यध्वे किन्तु कियत्कालात् परं पुन र्द्रष्टुं लप्स्यध्वे यतोहं पितुः समीपं गच्छामि।
17 ततः शिष्याणां कियन्तो जनाः परस्परं वदितुम् आरभन्त, कियत्कालात् परं मां द्रष्टुं न लप्स्यध्वे किन्तु कियत्कालात् परं पुन र्द्रष्टुं लप्स्यध्वे यतोहं पितुः समीपं गच्छामि, इति यद् वाक्यम् अयं वदति तत् किं?
18 ततः कियत्कालात् परम् इति तस्य वाक्यं किं? तस्य वाक्यस्याभिप्रायं वयं बोद्धुं न शक्नुमस्तैरिति
19 निगदिते यीशुस्तेषां प्रश्नेच्छां ज्ञात्वा तेभ्योऽकथयत् कियत्कालात् परं मां द्रष्टुं न लप्स्यध्वे, किन्तु कियत्कालात् परं पून र्द्रष्टुं लप्स्यध्वे, यामिमां कथामकथयं तस्या अभिप्रायं किं यूयं परस्परं मृगयध्वे?
20 युष्मानहम् अतियथार्थं वदामि यूयं क्रन्दिष्यथ विलपिष्यथ च, किन्तु जगतो लोका आनन्दिष्यन्ति; यूयं शोकाकुला भविष्यथ किन्तु शोकात् परं आनन्दयुक्ता भविष्यथ।
21 प्रसवकाल उपस्थिते नारी यथा प्रसववेदनया व्याकुला भवति किन्तु पुत्रे भूमिष्ठे सति मनुष्यैको जन्मना नरलोके प्रविष्ट इत्यानन्दात् तस्यास्तत्सर्व्वं दुःखं मनसि न तिष्ठति,
22 तथा यूयमपि साम्प्रतं शोकाकुला भवथ किन्तु पुनरपि युष्मभ्यं दर्शनं दास्यामि तेन युष्माकम् अन्तःकरणानि सानन्दानि भविष्यन्ति, युष्माकं तम् आनन्दञ्च कोपि हर्त्तुं न शक्ष्यति।
23 तस्मिन् दिवसे कामपि कथां मां न प्रक्ष्यथ। युष्मानहम् अतियथार्थं वदामि, मम नाम्ना यत् किञ्चिद् पितरं याचिष्यध्वे तदेव स दास्यति।
24 पूर्व्वे मम नाम्ना किमपि नायाचध्वं, याचध्वं ततः प्राप्स्यथ तस्माद् युष्माकं सम्पूर्णानन्दो जनिष्यते।
25 उपमाकथाभिः सर्व्वाण्येतानि युष्मान् ज्ञापितवान् किन्तु यस्मिन् समये उपमया नोक्त्वा पितुः कथां स्पष्टं ज्ञापयिष्यामि समय एतादृश आगच्छति।
26 तदा मम नाम्ना प्रार्थयिष्यध्वे ऽहं युष्मन्निमित्तं पितरं विनेष्ये कथामिमां न वदामि;
27 यतो यूयं मयि प्रेम कुरुथ, तथाहम् ईश्वरस्य समीपाद् आगतवान् इत्यपि प्रतीथ, तस्माद् कारणात् कारणात् पिता स्वयं युष्मासु प्रीयते।
28 पितुः समीपाज्जजद् आगतोस्मि जगत् परित्यज्य च पुनरपि पितुः समीपं गच्छामि।
29 तदा शिष्या अवदन्, हे प्रभो भवान् उपमया नोक्त्वाधुना स्पष्टं वदति।
30 भवान् सर्व्वज्ञः केनचित् पृष्टो भवितुमपि भवतः प्रयोजनं नास्तीत्यधुनास्माकं स्थिरज्ञानं जातं तस्माद् भवान् ईश्वरस्य समीपाद् आगतवान् इत्यत्र वयं विश्वसिमः।
31 ततो यीशुः प्रत्यवादीद् इदानीं किं यूयं विश्वसिथ?
32 पश्यत सर्व्वे यूयं विकीर्णाः सन्तो माम् एकाकिनं पीरत्यज्य स्वं स्वं स्थानं गमिष्यथ, एतादृशः समय आगच्छति वरं प्रायेणोपस्थितवान्; तथाप्यहं नैकाकी भवामि यतः पिता मया सार्द्धम् आस्ते।
33 यथा मया युष्माकं शान्ति र्जायते तदर्थम् एताः कथा युष्मभ्यम् अचकथं; अस्मिन् जगति युष्माकं क्लेशो घटिष्यते किन्त्वक्षोभा भवत यतो मया जगज्जितं।

योहनलिखितः सुसंवादः 17

1 ततः परं यीशुरेताः कथाः कथयित्वा स्वर्गं विलोक्यैतत् प्रार्थयत्, हे पितः समय उपस्थितवान्; यथा तव पुत्रस्तव महिमानं प्रकाशयति तदर्थं त्वं निजपुत्रस्य महिमानं प्रकाशय।
2 त्वं योल्लोकान् तस्य हस्ते समर्पितवान् स यथा तेभ्योऽनन्तायु र्ददाति तदर्थं त्वं प्राणिमात्राणाम् अधिपतित्वभारं तस्मै दत्तवान्।
3 यस्त्वम् अद्वितीयः सत्य ईश्वरस्त्वया प्रेरितश्च यीशुः ख्रीष्ट एतयोरुभयोः परिचये प्राप्तेऽनन्तायु र्भवति।
4 त्वं यस्य कर्म्मणो भारं मह्यं दत्तवान्, तत् सम्पन्नं कृत्वा जगत्यस्मिन् तव महिमानं प्राकाशयं।
5 अतएव हे पित र्जगत्यविद्यमाने त्वया सह तिष्ठतो मम यो महिमासीत् सम्प्रति तव समीपे मां तं महिमानं प्रापय।
6 अन्यच्च त्वम् एतज्जगतो याल्लोकान् मह्यम् अददा अहं तेभ्यस्तव नाम्नस्तत्त्वज्ञानम् अददां, ते तवैवासन्, त्वं तान् मह्यमददाः, तस्मात्ते तवोपदेशम् अगृह्लन्।
7 त्वं मह्यं यत् किञ्चिद् अददास्तत्सर्व्वं त्वत्तो जायते इत्यधुनाजानन्।
8 मह्यं यमुपदेशम् अददा अहमपि तेभ्यस्तमुपदेशम् अददां तेपि तमगृह्लन् त्वत्तोहं निर्गत्य त्वया प्रेरितोभवम् अत्र च व्यश्वसन्।
9 तेषामेव निमित्तं प्रार्थयेऽहं जगतो लोकनिमित्तं न प्रार्थये किन्तु याल्लोकान् मह्यम् अददास्तेषामेव निमित्तं प्रार्थयेऽहं यतस्ते तवैवासते।
10 ये मम ते तव ये च तव ते मम तथा तै र्मम महिमा प्रकाश्यते।
11 साम्प्रतम् अस्मिन् जगति ममावस्थितेः शेषम् अभवत् अहं तव समीपं गच्छामि किन्तु ते जगति स्थास्यन्ति; हे पवित्र पितरावयो र्यथैकत्वमास्ते तथा तेषामप्येकत्वं भवति तदर्थं याल्लोकान् मह्यम् अददास्तान् स्वनाम्ना रक्ष।
12 यावन्ति दिनानि जगत्यस्मिन् तैः सहाहमासं तावन्ति दिनानि तान् तव नाम्नाहं रक्षितवान्; याल्लोकान् मह्यम् अददास्तान् सर्व्वान् अहमरक्षं, तेषां मध्ये केवलं विनाशपात्रं हारितं तेन धर्म्मपुस्तकस्य वचनं प्रत्यक्षं भवति।
13 किन्त्वधुना तव सन्निधिं गच्छामि मया यथा तेषां सम्पूर्णानन्दो भवति तदर्थमहं जगति तिष्ठन् एताः कथा अकथयम्।
14 तवोपदेशं तेभ्योऽददां जगता सह यथा मम सम्बन्धो नास्ति तथा जजता सह तेषामपि सम्बन्धाभावाज् जगतो लोकास्तान् ऋतीयन्ते।
15 त्वं जगतस्तान् गृहाणेति न प्रार्थये किन्त्वशुभाद् रक्षेति प्रार्थयेहम्।
16 अहं यथा जगत्सम्बन्धीयो न भवामि तथा तेपि जगत्सम्बन्धीया न भवन्ति।
17 तव सत्यकथया तान् पवित्रीकुरु तव वाक्यमेव सत्यं।
18 त्वं यथा मां जगति प्रैरयस्तथाहमपि तान् जगति प्रैरयं।
19 तेषां हितार्थं यथाहं स्वं पवित्रीकरोमि तथा सत्यकथया तेपि पवित्रीभवन्तु।
20 केवलं एतेषामर्थे प्रार्थयेऽहम् इति न किन्त्वेतेषामुपदेशेन ये ज